SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् | अध्यात्मदर्शना 0000204040 33333333333999999999 जगत्त्रयवर्तितत्तदर्थसार्थानां चित्तैकप्रसूतत्वात्, तन्निमित्तभावात्, अत एव तस्मिन् क्षीणे सति जगत् अपि तत्कार्य क्षीणं भवति, नाकारणं भवेत्कार्यमितिनीत्या / नन्वेवमेकस्य मुक्तौ जगन्मुक्तिप्रसङ्ग इति चेत् ? न, अभिप्रायापरिज्ञानात्, यच्चित्तक्षयस्तम्प्रतीत्य जगत्क्षयस्याभिप्रेतत्वात्, तथा च चित्ते क्षीणे सति तत्सम्बन्धितया विश्वविश्वपदार्थसार्थपर्यायक्षयात् क्षीणमेव तम्प्रतीत्य जगदिति / यत एवम्, अतः प्रयत्नतः - निरन्तरं वीतरागवचनपरिशीलनाभ्यासाभियोगाऽऽदरतः, तत् - सर्वरोगावहभवज्वरैकहेतुतयोपचारतस्तत्पदव्यपदिष्टं चित्तम्, चिकित्स्यम् - अपास्ततद्धेतुभावतयाऽऽपाद्यम्, निर्मली-कार्यमिति यावत्, अन्वाह - चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् - इति (शाट्यायनीयोपनिषदि) / मनोविकारविशेषमेवाधिकृत्याह यां यामहं मुनिश्रेष्ठ !, संश्रयामि गुणश्रियम् / तां तां कृन्तति मे तृष्णा, तन्त्रीमिव कुमूषिका // 3-22 // पदं करोत्यलयेऽपि, तृप्ता विफलमीहते / चिरं तिष्ठति नैकत्र, तृष्णा चपलमर्कटी // 3-23 // 11033000
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy