SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ महोपनिषद् अध्यात्मदर्शना 萬萬萬萬萬萬葛葛葛葛魯魯灣萬萬萬萬萬 एकग्रहेऽप्यन्यग्रहस्याशक्यपरिहारतया सदादिनाऽप्यलं मम, आत्मतृप्तेरेव मदिष्टसाधकत्वादिति हृदयम् / किञ्च सर्वमपि दृश्यमानं सुखमवश्यं तु हातव्यमेव मरणकाले दुर्निवारं च तदित्यभिप्रायेणाह येषां निमेषणोन्मेषौ, जगतः प्रलयोदयौ / तादृशाः पुरुषा यान्ति, मादृशां गणनैव का ? // कीटकल्पत्वान्मादृशानां न काऽपि गणनैवेत्यर्थः, उक्तञ्च - ये षट्खण्डमहीमहीनतरसा निर्जित्य बभ्राजिरे, ये च स्वर्गभुजो भुजोर्जितमदा मेदुर्मुदा मेदुराः / तेऽपि क्रूरकृतान्तवक्त्ररदनैर्निर्दल्यमाना हठा-दत्राणा शरणाय हा दश दिश: प्रेक्षन्त दीनाननाः - इति (शान्तसुधारसे) / एवञ्च संसार एव दुःखानां, सीमान्त इति कथ्यते / तन्मध्ये पतिते देहे, सुखमासाद्यते कथम् ? // सागरपतितस्यानार्द्रभावासादनासम्भववदस्याप्यसम्भव एवेति तात्पर्यम्, यदाह - संसारवर्त्यपि समुद्विजते विपद्भ्यो, यो नाम मूढमनसां प्रथमः स नूनम् / अम्भोनिधौ निपतितेन शरीरभाजा, संसृज्यतां किमपरं सलिलं विहाय ? - इति / यत एवम्, अतः
SR No.600450
Book TitleMahopnishad
Original Sutra AuthorN/A
AuthorVijaykalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages142
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy