________________ महोपनिषद् अध्यात्मदर्शना संसार एव रात्रिः संसाररात्रिः, अज्ञानान्धकारश्यामिकादिसाधर्म्यात्, तस्यां दु:स्वप्नमिव दुःस्वप्नम्, सर्वानिष्टनिलयत्वात्, तस्मिन् शून्ये, स्वप्नरूपतयैव वस्तुतो रिक्ते, देहमये भ्रमे - सर्वभ्रान्त्येकमूलतया भ्रमत्वेन व्यपदिष्टे शरीरे, एतदेवाह संसृतेः- नारकादिसमस्तसंसारस्य विभ्रमो यस्मात् तत् - संसृतिविभ्रमम्, भ्रान्त्युत्थितस्य कथञ्चिदनुभूयमानत्वेऽपि परमार्थतो विभ्रमत्वानतिक्रमात्, तत् सर्वमेवापवित्रं दृष्टम्, भ्रमस्यैव वस्तुतोऽमेध्यतमत्वेन तद्विकारस्य सुतरां तादृशत्वात् / इतोऽप्यत्र पावित्र्याभावः, द्वादशनवबिलावधिसन्ततनिर्गच्छन्मलत्वात्, उक्तञ्च - द्वादशनवरन्ध्राणि | निकामं, गलदशुचीनि न यान्ति विरामम् / यत्र वपुषि तत् कलयसि पूतं मन्ये तव नूतनमाकूतम् - इति (शान्तसुधारसे)। किञ्च 1933333333333333333 अज्ञानोपहतो बाल्ये, यौवने वनिताहतः।। शेषे कलत्रचिन्तार्तः किं करोति नराधमः ? // 6-23 // आत्महितानुगुणाभियोगावकाशस्यैवाभावान्न किञ्चित्तत् करोति किम्पुरुष इत्याशयः / अपि च सतोऽसत्ता स्थिता मूलि, रम्याणां मूर्ध्यरम्यता / सुखानां मूनि दुःखानि, किमेकं संश्रयाम्यहम् ? // 6-24 // 114