________________ तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः। कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बह्वशेन निवारितः खकरखौ-ष्ठे पिण्डवाडापुरे // 6 // (वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानसुतपोनिधिरुग्रशीलः / न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-मतिमच्छरण्यः // 7 // तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु-तेजास्तपः श्रुतसमर्पणतेजसा सः / पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः // 8 // सर्वाधिक श्रमणसार्थपतिर्मतीशः पाता च पञ्चशतसाधुगणस्य शस्यः / गच्छाधिनाथपदभृज्जयघोषसूरिः 'सिद्धान्तसूर्य'-यशसा जयतीह चोच्चैः // 9 // सद्बुद्धिनीरधिविबोधनबद्धकक्षः, वैराग्यदेशनविधौ परिपूर्णदक्षः / सीमन्धरप्रभुकृपापरपात्रमस्तु, श्रीहेमचन्द्रभगवान् सततं प्रसन्नः // 10 // कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव-श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासन-आराधना-ट्रस्ट-विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः // aaaaa3萬萬萬萬萬萬萬萬萬萬萬萬萬萬遂 134