Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२
त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धार: ताते'ति मुहुर्मुहुर्भणति । इति श्रुत्वा रथिनं तत्प्रियाऽवोचत्"कीदृश्यस्योपचारधीः ?"
रथिकोऽवदत्-'स्त्रीरहितवने निवसन्नयं बालः स्त्री-पुंसयोर्भेदं न जानातीति हे प्रिये ! त्वामपि पुरुषमेव मन्यमानस्तातेति संबोधयति । वाह्यमानानश्वान् दृष्ट्वोवाच- हे महर्षे! इमे मृगा रथे कथं वाह्यन्ते ? मुनिगणस्य मृगवाहना नोचिता" । रथिको हसन् वल्कलचीरिणमुवाच - "हंहो मृगाणामिदमेव कर्मेति तद्वाहनायां न दोषः " । ततो रथिको वल्कलचीरिणे स्वादुमोदकान् ददौ । स चाऽऽस्वादयन् मोदकं तत्सुस्वादेन सानन्दमुवाच - " ईदृशानि पोतनाश्रमवासिम - हर्षिदत्तानि फलान्यहं प्रागप्यखादिषम्" । स कुमारो मोदकभक्षणात् पोतनं गन्तुमुदकण्ठत, कषायरूक्षैर्बिल्वा ऽऽमलकादिफलैरनटत् ।
अथ मार्गमध्ये रथिन एकेन बलिना चौरेण सह युद्धमभूत् । तत्र रथी गाढप्रहारेण चौरमवधीत् । ततश्चौरोऽप्युवाच - "वैरिणोऽपि घातः प्रशस्यते, यतस्त्वयाऽहं जितस्तेन तुष्टोऽस्मि, मम पुष्फलं धनमस्ति तत्त्वं गृहाण । ततो रथी तत्प्रिया कुमारश्चैते त्रयस्तद् द्रव्यं रथे स्थापयामासुः । क्रमेण पोतनं प्राप्तो रथी वल्कलचीरिणमुवाच- 'हे कुमार ! यस्ते पोतनाश्रमोऽभिप्सितः स एष वर्तते । ततः किञ्चिद् द्रविणं कुमाराय दत्त्वा स्मयमानो रथी जगाद - "अस्मिन्नाश्रमपदे द्रव्यं विनाऽऽश्रयो न मिलत्यतः कस्मैचिदवक्रय आश्रमार्थी त्वं द्रव्यं दद्या: । कुत्र यामि कुत्र नेति समस्तपुर उत्प्रेक्षमाणः कुमारोऽभ्राम्यत् । मुनिबुद्ध्या पुरुषाणां स्त्रीणां चाऽभिवादनवातूलो नागरैरुपाहास्यत मुनिपुत्रः ।
अथ पुरे भ्रमन्नेकस्या वेश्याया गृहे प्रविवेश । स कुमारो वेश्यागृहं मुन्याश्रमं मेने वेश्यां च मुनिम् । पुनस्तामपि हे तात !
परिशिष्टपर्व प्रथमः सर्गः
त्वामभिवादय इत्युवाच । हे महर्षे ! मम कुटीरं समर्पय, तदवक्रयेऽदो द्रव्यं गृहाण च । सा वेश्या त्वदीय एष उटजोऽस्ति तस्माद् गृह्यतामित्युक्त्वा नापितं कुमाराङ्गं संस्कर्तुं समाह्वयत् । परं स कुमारो निजाङ्गसंस्कारं नैच्छत्, तथाऽपि वेश्याज्ञया शूर्पसहशांस्तस्य पादनखान् क्लेशेन नापित उदतारयत् । सा वेश्या कुमाराङ्गाद् वल्कलचीरमपनीय तं स्त्रपयितुं सुन्दरवस्त्रं पर्यधापयत् । हे महामुने ! मम आजन्ममुनिवेषं त्वं मा दूरीकुर्विति वल्कलचीरापनयनसमये स बाल इवाऽरटत् ।
१३
ततो वेश्योवाच - "हे कुमार ! अस्मिन्नाश्रमे महर्षीणामतिथीनामिदमुपचारं त्वं स्वीकरोषि न वा ? यदि न स्वीकरोषि तदेह वस्तुं कुटीरं न लप्स्यसे" । ततोऽसौ कुमारस्तस्मिन् निवासेच्छयाऽ निच्छन्नपि वेश्यानुरोधाद् मन्त्रवशीकृतः सर्प इव वेश्योक्तं स्वीचकार । ततो वेश्या स्वयं कुमारकेशपाशं जटिलमुर्णापिण्डमिव तैलेनाऽभ्यज्य कङ्कतैर्विवरीतुं प्रभे ।
ततः सोमेन्दुभूरभ्यज्य मृज्यमानाङ्गः कण्डूय्यमानो गौरिव सुखनिद्राणनयनोऽजनि । गणिका चाऽथ मन्दोष्णैर्गन्धजलैस्तं स्नपयित्वा सुवस्त्राण्याभूषणानि च समार्पयत् । तत एकस्याः पुत्र्याः पाणिग्रहणं चाऽकारयत् । कुमारकरगृहीता वेश्यापुत्री साक्षाद् गार्हस्थ्यलक्ष्मीरिव बभौ । सर्वा वेश्या वधू-वरावुपलक्ष्य सुस्वरगानं चक्रुः । तच्छ्रुत्वा मुनिकुमारो मनसि दध्यौ - "ऋषय इमे किं पठन्ति ?” वेश्या माङ्गल्यान्यातोद्यान्यवीवदत् तदा किमिति विस्मितो मुनितनयः कर्णौ पिदधौ ।
मुनिवेषधारिण्यो वेश्याः कुमारमानेतुं यथाऽगमंस्तथैवाऽऽगत्य प्रसन्नचन्द्रनृपं व्यजिज्ञपन्- "राजन् ! बहुभिः प्रकारैर्वनवासी स

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128