Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 77
________________ परिशिष्टपर्व - सप्तमः सर्गः १४१ १४० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मरिष्यथ । तस्मात् स एवैकः समस्तं कोद्रवौदनं भुक्तां, यो भ्रष्टमन्त्रिणो वैरशोधनाय समर्थो भवेत्" । कुटुम्बो मिलित्वोवाच"त्वं भुड्क्ष्व, तव क्षेममस्तु । हे पितः ! अस्मासु वैरनिर्यातनं कर्तुं कोऽपि समर्थो नाऽस्ति" । ततः कल्पकस्तदन्नं प्रतिदिनमभुक्त । अन्ये त्वनशनं कृत्वा स्वर्गं ययुः ।। ततो ज्ञातकल्पकमरणाः सामन्तनृपा नन्दोन्मूलनेच्छया पाटलिपुत्रं रुरुधुः । प्रतिदिनं रुद्धद्वारे पाटलिपुत्रनगरे भीतानां पौराणां भाण्डेन भाण्डं पुस्फोट । तेषां शत्रूणां शासनेऽशक्तो नन्दो दाहज्वरात इवाऽऽसने शयनेऽपि वा निर्वृति न लेभे । सोऽचिन्तयत्"यावद् मम मन्त्री कल्पक आसीत् तावत् सिंहगुहेव पुरं केनचिदपि नाऽऽक्रान्तमभूत् । कल्पकं विना नगरस्येदृशी दशाऽभूत्, यतो विना रक्षकमुपवनं पथिकैरप्युपजीव्यते । स जीवति यदि तदा तेनैव पुरं नष्टवेष्टनं क्रियते, यतो हस्तिभारो हस्तिभिरेव प्रायेण कृष्यते"। राज्ञा काराधिकारिणः पृष्टा एवं विज्ञापयामासुः-"कोऽप्यन्धकूपस्थितोऽद्याऽपि कोद्रवान् गृह्णाति" । नन्दः कूपे मञ्चिकां क्षिप्त्वा तत्र कल्पकमारोप्य तदैव स्वनिधिमिव तमाकर्षयत् । पक्वतरुपत्रसदृशमपि तं शिबिकायामारोप्य पुरदेवतामिव वप्रस्योपरि नन्दोऽभ्रमयत् । वैरिणस्तं दृष्ट्वाऽचिन्तयन्-"नन्दः प्रायेणाऽबलोऽभूत्, यत एष कल्पितकल्पकं सम्प्रत्यस्मान् दर्शयन् भीषयते । ततस्ते शत्रवोऽनुत्पन्नभया यन्त्र-प्रतियन्त्रादिकल्पनैनन्दमत्यन्तमुपद्रोतुं प्रावृतन् । तत: कल्पको दूतं प्रेष्य ताञ्छत्रूनेवं प्रोवाच-"युष्माकं कोऽप्यभिमतो गङ्गामध्ये नौकास्थ आगच्छतु, यथाऽहमपि नौयानस्तेन धीमता सह वार्ता कृत्वा कथयित्वा सन्धि करोमि, यद्वा यदन्यदभिलषितं तत् करोमि" । तेषां शत्रूणां सान्धिविग्रहिक: कल्पकश्च द्वौ नौस्थितावाभिमुख्येन वक्रा-ऽवक्रग्रहाविव मिलितौ । तत्र कल्पको मन्त्री कस्यचिदेकस्य करस्थितमिक्षुपुजं दृष्ट्वाऽङ्गुलिचेष्टया तमुवाच-"यद्यस्येक्षुभारस्य मूलं प्रान्तश्च कर्त्यते तदैतन्मध्यप्रदेशस्य किं तिष्ठति ? अथ विद्वानपि सुधीरपि स सान्धिविग्रहिकस्तदाशयं नाऽज्ञासीत् । तदाशय ईदृशो हि-इक्षुयष्टिर्यथा मूलेन प्रान्तेन च विवर्धते, क्षत्रियसन्ततिस्तथा द्वाभ्यां सन्धिभ्यां विवर्धते । तत्रैक: सत्यसन्धिर्यत्रोक्तमन्यथा न भवेत् । द्वितीयश्च प्रपञ्चसन्धिः, यो मायया प्रतन्यते । नन्देऽविश्वासेन युष्माकं सत्यसन्धेविषयो नाऽस्ति । प्रपञ्चसन्धिर्युष्माकं कथंभावी तद्विदि मयि । तस्माद् यूयं निःसन्धिबन्धा नन्दभूपतेनिकृत्तमूलप्रान्तेक्षुदण्डवदुपजीव्या भविष्यथ । पुनश्च कल्पको हस्तचेष्टया तत्प्रदेशस्थगोपालिकामूर्धनि दण्डाहतां दधिस्थाली दर्शयामास । स राजपुरुषः प्राग्वत् तद्भावार्थं नाऽज्ञासीत् । पुनः कल्पकमन्त्रिहृदयभावार्थोऽयमासीत्, तथाहि-"यदि त्वत्पक्षसंहतिस्थाली मद्दोर्दण्डहता भवेत्, तदा वो बलं दधिवज्जारपुरुषरूपकाकयोग्यं विकीर्णं भवेत्" । पुन: कल्पकः स्वनावा तदीयनावं त्रिः प्रदक्षिणां चकार । तत्राऽपि स तदभिप्रायं नाऽज्ञासीत् । तद्भावार्थोऽयमासीत्-"यथा मन्नावा त्वन्नौरावृता, तथाऽस्मत्तेजसा भवतां तेज आवरिष्यते" । स कल्पकस्य संज्ञात्रयेऽपि भावार्थमजानान ऊहापोहपरः काकपोतवद् व्यात्तमुखस्तस्थौ ।

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128