Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 109
________________ परिशिष्टपर्व - द्वादशः सर्गः २०५ २०४ त्रिषष्टिशलाकापुरुषचरितम्-गद्या चरितम-गद्यात्मकसारोद्धारः क्रतुरिति च जगदतुः-आदौ कः पुत्रमाह्वातुमर्हति ?" स्त्रीपक्षावलम्बिनः पुरवासिन ऊचुः-"व्रतिनामेवाऽयं शिशुश्चिरसंघटितस्नेहस्तद्वचनं नोल्लङ्घयति, दुष्करकारिणीयं मातैव प्रथममाह्वयतु; यत इयं नार्यतोऽनूकम्पनीयाऽस्ति, अन्यथा न" । ततः सुनन्दा बहूनि बालकक्रीडनकानि नानाविधानि भक्ष्याणि च दर्शयन्त्येवमुवाच-“हे बालक ! तव क्रीडार्थममी हस्तिनोऽमी अश्वा, अमी रथा मयाऽऽनीतास्तस्मात् तान् गृहाण, तद्ग्रहणार्थं त्वमागच्छ । हे दारक ! मोदका मण्डका द्राक्षाः शर्करा अन्यच्चाऽदो वस्तु, यदिच्छसि तदस्ति त्वमागच्छ, गृहाण । हे आयुष्मन् ! तव जनने मम सर्वाङ्गं कृशमभूत्, त्वं चिरं जीव, चिरं नन्द, मां सुनन्दां मोदय । त्वं मम देवोऽसि, मम त्वमेव पुत्र आत्मा जीवनं चाऽसि, अतो मां दीनां परिष्वङ्गेण जीवय । हे वत्स ! त्वं पश्यतो लोकस्य मध्ये मां विलक्षां न कुरु, अन्यथाऽस्य लोकस्य समक्षं मे हृदयं पक्ववालुङ्कवद् द्विधा भविष्यति । हे हंसगमन ! वत्स ! त्वं मम क्रोडमागच्छ भूषय च । मम किमियानपि कुक्षिनिवासावक्रयो न लभ्यः ?" एवं क्रीडनकैर्भक्ष्यप्रकारैरपि वज्रः सुनन्दासमीपं मनागपि नाऽऽगच्छत् ।। मातुरुपकाराणां कोऽपि पुरुषोऽनृणो न स्यादिति जाननपि सुधीर्वज्र एवं विचारयामास-"यद्यहं मातरि कृपां कृत्वा सङ्घमुपेक्षिष्ये तदा ममाऽतिदीर्घतरः संसारो भवेत् खलु । इयं मे माता धन्याऽल्पकर्मा प्रव्रजिष्यति, अतोऽस्या इदमापातमात्रजं दुःखमप्युपेक्षणीयम्" । दीर्घदर्शी वज्रदृढाशयो वज्रः प्रतिमास्थ इव स्वस्थानाद् मनागपि नाऽचलत् । ततो राजोवाच-"हे सुनन्दे ! त्वमपसर, असावाहूयमानो बालस्त्वां मातरमजानन्निव नाऽऽगच्छत् । ततो राजाऽवसरं प्राप्य धनगिरिं प्रत्युवाच "हे भगवन् ! अथ त्वमेतं बालमाह्वय" । ततोऽसौ रजोहरणमुत्थाप्यैवं मिताक्षरमुवाच-“हे अनघ ! यदि तव व्रते व्यवसाय:, यदि च त्वं तत्त्वज्ञोऽसि, तदा धर्मध्वजं रजोहरणं गृहाण" । ततो वज्रस्तदैवोत्क्षिप्तकरो हस्तिशिशुरिव प्रक्वणत्पादनूपुरो धनगिर्यभिमुखं शीघ्रमधावत् । गत्वा पितुः क्रोडमारुह्य लीलाकमलवत् तद्रजोहरणमग्रहीत् । वज्रेण करकमलाभ्यामुद्धृतं रजोहरणं प्रवचनलक्ष्म्याश्चमर इव शुशुभे । स शोभमानकुन्दकलिकोपमदशनकान्तिस्मितो रजोहरणादन्यत्र दृष्टि स्वल्पमपि न ददौ । सुनन्दा दिनावसाने कमलिनीव सद्यो ग्लानि प्राप्ता हस्तविन्यस्तचिबुकैवं चिन्तयामास-"मम भ्राता प्रव्रजितः,भर्ता च प्रावाजीत्, पुत्रोऽपि प्रव्रजिष्यति । अतोऽहमपि प्रव्रजिष्यामि । सुनन्दा स्वयमेवेति निश्चित्य गृहं जगाम । ते मुनयोऽपि वज्रमादाय वसति जग्मुः । वज्रस्तद्वयस्कोऽपि व्रताभिलाषी स्तन्यं नाऽपिबत्' इत्याचार्यास्तं परिव्राज्य पुनः साध्वीनां समर्पयामासुः । सुनन्दाऽप्युद्यद्भाग्यविशेषेण भृशं वैराग्यभृत् तद्गच्छाचार्यपाइँ प्राव्राजीत् । धीनिधिर्भगवान् वज्रः पदानुसारी पठदार्यामुखादेकादशाऽप्यङ्गानि पपाठ । वज्र आर्योपाश्रये यावदष्टवर्षोऽभूत्, ततो हृष्टा महर्षयस्तं स्ववसतिमानैषुः । अन्यदा वज्रगुरवोऽवन्तरीनगरी प्रति प्रययुः । मार्गमध्ये मेघोऽखण्डधारं ववर्ष । ते वज्रगुरव आचार्याः सपरिवारा यक्षमण्डपिकोपमेऽस्रवज्जले क्वचित् स्थाने तस्थुः । तदा वज्रस्य पूर्वजन्म

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128