Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - त्रयोदशः सर्गः
२२५
wwmanoranAmAnanamannanAnnnnnnnnnnnnnnnnnnnnnnnnn
२२४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वं मां हितां मन्यसे, तर्हि स्वर्गा-ऽपवर्गयोः कारणं दृष्टिवादं पठ" । इत्यार्यरक्षितो व्यचिन्तयत्-मयेदं किमधीतम् ? यन्मम मातुः प्रमोदाय न जायते । तदुद्भवेन धनेनाऽपि किम् ?" एवं विचार्याऽऽर्यधीरार्यरक्षितो मातरमवोचत्-“हे मातरहं दृष्टिवादं पठिष्यामि, तद्गुरुं त्वं कथय" ।
रुद्रसोमाऽवदत्-“हे वत्स ! त्वं श्रमणोपासको भव, दृष्टिवादस्य गुरवः श्रमणा एव सन्ति, अन्ये न सन्ति" । दृष्टिवादो हि दर्शनविचार इति सुन्दरमस्य नामाऽपि हृद्यार्यरक्षितः श्रद्दधौ उवाच च-"मातुरादेशः प्रमाणम्" । ते गुरवः क्व दर्शनीयाः ? यथाऽहं तत्पार्श्वे दृष्टिवादं पठामि । रुद्रसोमाऽपि पुत्रविनयोच्छसिता सती प्रसन्ना स्वाञ्चलं भ्रमयन्ती तमुवाच-“हे पुत्र ! त्वया पुत्रेणाऽहमधुना न लज्जे यद् मदाज्ञां कर्तुं मन्मनोरथमकार्षीः । हे आर्यरक्षित तोसलिपुत्रनामान आचार्या इतो ममैवेक्षुवाटे स्वीकृतावासाः सन्ति, तच्चरणकमलोपासनहंसो भव । हे पुत्र ! ते त्वां दृष्टिवादं पाठयिष्यन्ति" । आर्यरक्षित एवं प्रातः करिष्यामीत्युक्त्वा दृष्टिवादनाम स्मरन् रात्रावपि न शिश्ये । प्रात:काले मातरं पृष्ट्वाऽऽर्यरक्षितागस्तिर्दृष्टिवादसमुद्रं गण्डूषलीलया प्रज्ञया पातुं स्वगृहाच्चचाल ।
इत आर्यरक्षितस्य पितृमित्रं महाद्विजः पुरसमीपे ग्रामे पितेवाऽत्यन्तवत्सल आसीत् ? स दध्यौ-"मया ह्य आर्यरक्षितो न व्यलोकि, तदद्याऽप्यायुष्मन्तं तं मित्रपुत्रं पश्यामि" । इति विमृश्य स ब्राह्मणः सकलान् नवेक्षुदण्डान् तत्खण्डमेकं च गृहीत्वाऽऽर्यरक्षितगृहं ययौ । एष श्रेष्ठं सोमदेवपुत्रं गृहाद् निर्गच्छन्तं ददर्श । परं च विभातत्वात् तं नाऽलक्षयत् । स आर्यरक्षितमुच्चैः पप्रच्छ
"को नाम त्वमसि ?" तत आर्यरक्षित उवाच-"अहमेष आर्यरक्षितनामाऽस्मि" ।
द्विज उवाच-“हे भ्रातृपुत्र ! ह्यस्तने दिने कुटुम्बकृत्यकरणप्रमादाद् मया त्वं न दृष्टोऽसि । एकेनाऽपि व्यतीतेन दिनेनाऽहं दिनशतं व्यतीतं मन्ये, यत्र हृदयकुमुदचन्द्रं त्वां नाऽहमपश्यम्" । इति स ब्राह्मण आर्यरक्षितं प्रेम्णाऽऽलिड्ग्योवाच-“हे वत्स ! मया त्वदर्थमेत इक्षव आनीयन्त" ।
सोमपुत्र उवाच-“हे तात ! इथून् मन्मातुस्त्वं दद्याः, यतः सम्प्रत्यहं शरीरचिन्तार्थं बाह्यभूमि गच्छामि । त्वं मम मातरं प्रतीदं कथयेर्यदार्यरक्षितो मामिक्षुहस्तमपश्यदधुना" । आर्यरक्षितेनेत्युक्तो ब्राह्मणस्तथाऽकरोत् । चतुराऽऽर्यरक्षितमातैवं दध्यौ-"मम पुत्रस्येदं श्रेष्ठतरं शकुनमभूत्, अतः सुधी: सोऽवश्यं नव पूर्वाणि खण्डं च ग्रहीष्यति"।
सोमपुत्रो मार्गे गच्छन्निति दध्यौ-अहं दृष्टिवादस्य नव पूर्वाण्यध्ययनानि वा दशमं खण्डं च पठिष्यामि" । स्थिरबुद्धिरार्यरक्षित इक्षुगृहद्वारे गत्वा व्यचारयत्-"अहमपरिज्ञातोऽन्तः कथं प्रविशामि? यतो राज्ञामिव गुरूणां सन्निधाने परिचितोऽपि यतस्ततो नोपगच्छेत्, अहं तु परिचितोऽपि नाऽस्मि । तस्मादहमत्रैव क्षणं स्थित्वा प्रातर्वन्दनार्थमागतश्रावकैः सह वसतिमध्ये प्रविशामि" । इत्यार्यरक्षितो द्वारेऽपि द्वारपाल इव तस्थौ । यतो विदुषां रभसाऽऽरम्भे विवेकोऽर्गलायते । स साधूनां मालवकौशिकीप्रभृतिरागवता स्वाध्यायेनाऽपि मृग इव लीनतां प्राप ।
ततः प्रभाते ढड्डरनामा श्रमणोपासको हर्षेण विकसितनेत्रो महर्षीन् वन्दितुं तत्राऽऽगात् । स नैषेधिकीं त्रिः कुर्वन् प्रतिश्रयं

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128