Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः
क्रमायुष्को वज्रेण सहैकामपि रात्रिं वसेत् सोऽवश्यं तमनुम्रियते, अत्र न सन्देहोऽस्ति । आर्यरक्षित एवं करिष्यामीत्यङ्गीकृत्य तेषां निर्यामणां विधाय वज्रस्वामिभूषितां नगरीं ययौ । आर्यरक्षितस्तां रात्रिं नगर्या बहिरेव तस्थौ ।
२२८
वज्रस्वामी रात्र्यवसानेऽमुं स्वप्नं ददर्श यदद्य पयसा पूर्णोऽ स्मत्पतद्ग्रहः केनाऽप्यागन्तुना भूर्यपायि किञ्चिन्मात्रं चाऽस्थात् । प्रातःकाले वज्रस्वामी महर्षीणामग्रे स्वप्नार्थं प्राकाशयत्- "कोऽपि बहुश्रुतग्राही ममाऽतिथिरागमिष्यति, स सुधीरस्मत्तो बहु पूर्वश्रुतं ग्रहीष्यति, पूर्वश्रुतावशेषं तु मत्पार्श्वेऽपि स्थास्यती" ति ।
आर्यरक्षितमुनिर्वज्रमुनिसमीपमाययौ तं गुरुं च द्वादशावर्तवन्दनेनाऽवन्दत । वज्रर्षिस्तमपृच्छत् - " त्वं कुत आगम: ?" स चोवाच - "तोसलिपुत्राचार्याणां पादमूलादिहाऽऽगमम्" । वज्रस्वाम्यपृच्छत्-“किं त्वं नाम्नाऽऽर्यरक्षितोऽसि ?" स पुनर्वन्दनपूर्वकमेवमित्युवाच ।
वज्रस्वाम्यपि तं प्रसन्नं ज्ञात्वोवाच- "तव स्वागतमस्तु" त्वं कस्मिन् प्रतिश्रये न्यवात्सीः ?" बहिरावासितोऽस्मीति तेनोक्ते स्वामीदमुवाच - "हे महात्मन् ! त्वं न जानासि किम् ? बहिस्थः कथं पठिष्यसि ?" सोमपुत्र उवाच - "हे स्वामिन् ! भिन्ने प्रतिश्रय आर्यभद्रगुप्तनिदेशादुदतरम्" । वज्रर्षिरुपयोगेनेदं ज्ञात्वोवाच" एतदुचितं, ते स्थविरा: पूज्या अन्यथा न वदन्ति" ।
अथ वज्रर्षिः पृथगावासस्थितमार्यरक्षितं प्रतिदिनं पूर्वाणि पाठयितुमारेभे । अपूर्वप्रतिभः सोमपुत्रो मुनिरल्पकालेनैवाऽनायासेन नव पूर्वाणि पपाठ । गुरुर्दशमं पूर्वं पठितुं प्रवृत्तमार्यरक्षितं दशम
परिशिष्टपर्व त्रयोदशः सर्गः
२२९
पूर्वयमकानि पठेत्यादिदेश । तत आर्यरक्षितर्षिर्दशमपूर्वस्य बहूनि विषमाणि यमकानि पठितुमारेभे ।
इतश्च पितरावार्यरक्षितं सन्दिदिशतु :- " किमद्याऽपि नाऽऽगच्छसि ? किमस्मान् व्यस्मार्षीः ?” त्वमस्माकमुद्योतं करिष्यसीति वयमाशास्महि, तवाऽनागमने सर्वं तमोमयं पश्यामः” । तयोरेवं सन्देशवचनैराहूयमानोऽप्यार्यरक्षितोऽध्ययनासक्तो न पराववृते, तावत् तमाह्वातुमनोभ्यां ताभ्यां परमप्रियस्तदनुजः फल्गुरक्षित: बोधयित्वा प्रैषि । स च द्रुतं गत्वा तमार्यरक्षितं नत्वा च जगाद - "त्वमेवं कठिनोऽभूः, यत्कुटुम्बकेऽनुत्कण्ठितोऽसि । यद्यपि त्वया वैराग्यकुठारेण प्रेमबन्धनं छिन्नं, तथाऽपि तव कल्याणनिमित्तं कारुण्यमस्ति । सम्प्रति बन्धुवर्गः शोकपङ्कनिमग्नोऽस्ति; तस्मात्तत्राऽऽगत्य तमुद्धर्तुं तवोचितम् । तेनाऽनुजेनेत्युक्त आर्यरक्षितस्तत्र गन्तुं श्रीवज्रस्वामिनं स्वच्छेन मनसा नत्वाऽपृच्छत् ।
ततस्तेन पठेत्युक्तः स पुनरधीयानः फल्गुरक्षितेन किं ते विस्मृतोऽस्मीत्यजल्प्यत । बान्धवाश्च परिव्रज्यामनोरथरथारूढास्त्वां सारथिनं विना कुत्राऽपि न प्रवर्तन्ते, तस्मात् त्वमागच्छ, स्वगोत्रिणां जगत्पूजनीयां प्रव्रज्यां देहि । श्रेयस्यपि सकर्णोऽपि त्वमद्याऽपि किं प्रमाद्यसि ?
अथाऽऽर्यरक्षित उवाच-" यदीदं सत्यमस्ति तर्हि हे वत्स ! त्वं तावत् प्राणिहितं व्रतं गृहाण । ततस्तेनैवमुक्तः स श्रद्धानिधतचित्त उवाच-“हे भगवन् ! मह्यं व्रतं देहि, यतः को मूढः पीयूषपानात् पराङ्मुखः स्यात् ?” अथाऽऽर्यरक्षितः प्रसन्नः सन्नमृतवर्षिण्या वाण्या दीक्षया शिक्षयाऽपि च तमनुजमन्वग्रहीत् ।

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128