Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 122
________________ परिशिष्टपर्व - त्रयोदशः सर्गः २३१ धर्म श्रोतुमिच्छां ज्ञात्वा मेघगम्भीरया गिरा देशनामकार्षीत् । विस्मिता: सन्तस्ते राजादयो जना: श्रवणपुटपीतदेशनातिविमलजलैर्मनोमलं तत्कालं क्षालयाञ्चक्रुः । अथ राजाऽऽर्यरक्षितपार्वे सम्यक्त्वं जग्राह । तत: सपौरस्तं नत्वा स्वगृहं ययौ । रुद्रसोमाऽपि सोमेन बहुभिर्बन्धुभिश्च सह संसारनारकावासविरक्ता सती व्रतमग्रहीत् । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अन्यदा फल्गुरक्षितेन गन्तुमुक्त आर्यरक्षितोऽधीताशेषयमकः पुनर्गुरुं व्यजिज्ञपत् । गुरुणा प्राग्वद् निवारितः स खेदादित्यचिन्तयत्-"हा ! स्वजनापन-गुर्वाज्ञासङ्कटेऽहं पतितोऽस्मि" । पुनरधीयानः प्राग्वद् यमकेन पराजित आर्यरक्षितः कृताञ्जलिपुटो गुरून् नत्वोवाच-"दशमस्याऽस्य पूर्वस्य मया कियदधीतं कियच्चाऽवशिष्टमिति हे प्रभो ! त्वं सप्रसादं कथय" । स्मितविकसिताधरो गुरुरेवमुवाच- "हे वत्स ! त्वया बिन्दुमात्रमधीतम् । इदानीं समुद्रतुल्यमवशिष्टमस्ति" । इति गुरुवचनमाकाऽऽर्यरक्षितो जगाद-"हे प्रभो ! अहमध्येतुं परिश्रान्तोऽतः परमध्येतुं न समर्थोऽस्मि" । शेषमपि श्रुतं त्वमचिरेणाऽप्यागमयसि; हे धीमन् ! त्वं धीरोऽप्यनवसरे किं विषीदसि ? करुणापरायणेन तेन गुरुणैवमाश्वासित आर्यरक्षितो भग्नोत्साहोऽपि भक्तिभाक् पुनरध्येतुं प्रावृतत् । ___आर्यरक्षितोऽन्येधुर्मूर्तिमद्वन्धुवाचिकं फल्गुरक्षितं दर्शयन् गन्तुमुत्कण्ठितो वज्रस्वामिनं पुनर्जगाद । ___ तदा "हन्त ! अयमुत्साह्यमानोऽपि कथं गन्तुमना अस्ति ?" एवं विचिन्तयन् वज्रस्वाम्युपयोगमकरोत् । अथ स इत्यमन्यत"इतो गृहं गतोऽयं पुनर्नाऽऽगमिष्यत्येव, ममाऽऽयुरल्पमस्ति, दशमं पूर्वं मय्येव स्थास्यति । तेनाऽऽर्यरक्षितो गमनायाऽनुज्ञातः सन् फल्गुरक्षितसहितो दशपुरं नाम पुरं शीघ्रं ययौ । सपौरो राजा तत्राऽऽगतं तं ज्ञात्वा तथा रुद्रसोमायुतः सोमश्च भक्त्या वन्दितुमागमत् । ते प्रहर्षाश्रुजलपूर्णनयनास्तं मुनि मूर्त धर्ममिव प्रणम्य यथास्थानमुपविविशुः । कारुण्यसागरः सोऽपि तेषां इतश्च क्षोणितले क्रमाद् विहरन् वज्रस्वामी संयमक्रमचारी दक्षिणापथं ययौ । आनन्दमहाकन्दकन्दलप्ररोहमेघं तं दृष्ट्वा दाक्षिणात्यो लोको मयूर इवाऽहष्यत् । तत्रत्या जनास्तद्वीक्षणानन्दनिमग्ना एवं जगदुः, तथाहि-वस्तुतत्त्वानि प्रकाशयन्नयं मुनिः किं सूर्योऽस्ति ? अथवा किं चकोरचक्षुः प्रीणयंश्चन्द्रमा अस्ति ? अथवा किमस्मत्कर्मप्रभवाद् दत्तदर्शनो धर्मोऽस्ति ?" इति । अन्येधुर्वज्रस्वामिनो भृशं श्लेष्मबाधाऽभूत् । ततः कञ्चन साधुं शुण्ठी समानेतुमादिशत् । स्वच्छमनसा साधुनाऽऽनीय दत्ता किन्तु भोजनान्ते स्वाध्यायध्यानासक्तचित्ततया तां विसस्मार । शुण्ठी भोजनान्तरमेनां भोक्ष्य इति स कर्णे स्थापयामास । तत: प्रदोषे तस्य प्रतिक्रमणकर्मणि मुखवस्त्रिकया कायं प्रत्यपेक्षयत: कर्णस्था शुण्ठी पपात । खाट्कृत्य पतितां तां वज्रः सस्मार | "हा हा धिग्धिक ममाऽयं प्रमाद" इति स्वं निनिन्द च । प्रमादे संयमः कथञ्चन निष्कलङ्को न स्यात्, तं विना मानुषं जन्म जीवितं च निरर्थकं स्यात् । ततो वज्रस्वामी दध्यौ-"वयं शरीरं त्यजामः" । तदा समन्ताद् द्वादशाब्दकं दुर्भिक्षमभूत् । “यस्मिन् दिने त्वं

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128