Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Catalog link: https://jainqq.org/explore/009897/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अहम् ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्य गद्यात्मकसारोद्धारः परिशिष्टपर्व कर्ता - आ. श्रीविजयशुभङ्करसूरिः सम्पादकः - मुनिधर्मकीर्तिविजयः : प्रकाशक: कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यनवमजन्मशताब्दीस्मृति-शिक्षणसंस्कारनिधिः अमदावाद Page #2 -------------------------------------------------------------------------- ________________ समर्पणम् कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यविरचितस्य त्रिषष्टिशलाकापुरुषचरितस्य गद्यात्मकसारोद्धारः ७ (परिशिष्टपर्व) Trishashti-Shalakaa-Purusha-Charitam © सर्वेऽधिकाराः स्वायत्ताः कर्ता : आ. श्रीविजयशुभङ्करसूरिः सम्पादक : मुनिधर्मकीर्तिविजयः प्रकाशकम् : कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्यनवमजन्मशताब्दी स्मृति-शिक्षणसंस्कारनिधिः - अमदावाद द्वितीय संस्करणम् : वि.सं. २०६८ ई०सं० २०१२ प्रतयः ५०० मूल्यम् : रु. १२५-०० पृष्ठानि : १० + २४२ = २५२ प्राप्तिस्थानम् १ श्रीविजयनेमिसूरीश्वरजी जैन स्वाध्याय मन्दिर १२, भगतबाग, आणन्दजी कल्याणजीनी पेढी समीपे, नवा शारदामन्दिर रोड, पालडी, अमदावाद - ३८०००७. फोन : २६६२२४६५ दूरभाष : ०९८०८६३७७१४ सरस्वती पुस्तक भण्डार ११२, हाथीखाना, रतनपोल, अमदावाद-३८०००१. फोन : २५३५६६९२ बालानामिव माता च सरितामिव सागरः । दुर्बलानामनाथानां कृते चैकाश्रयास्पद ! ॥ १ ॥ निगूढमन्त्र-तवज्ञ ! ज्योतिर्विज्ञानकोविद ! । मुनिसंमेलनस्तम्भ ! शासनोद्योततत्पर ! ॥ २ ॥ प्रबलसत्त्वसंपन्न ! शिष्योत्थाने कृतोद्यम ! । लब्धनन्दनसूर्याशीः ! प्रवचनकलाधर ! ॥ ३ ॥ शुद्धचारित्रसंनिष्ठ ! सर्वसूरिशिरोमणे ! । तथा वात्सल्यपाथोधे ! निर्मलब्रापालक ! ॥ ४ ॥ सूर्यसदृशतेजस्विन् ! मृगेशोपमनिर्भय ! । चन्द्रसंकाशसंदीप्त ! रत्नाकरगभीर ! च ॥ ५ ॥ सदाग्रह्मपि सत्ये हि सदा निराग्रहिन् ! मुदा ।। स्व-परमोहदुर्भेद-ग्रन्थिविच्छेदकृत् ! खलु ॥ ६ ॥ नेमि- विज्ञान- कस्तूर- यशोभद्र- शुभङ्कराः ।। सूरीशा गुरवो यस्य प्रबलमहिमान्चिताः ॥ ७ ॥ पठन-पाठनप्राण ! सेवातत्पर ! साधुराट् ! । औदार्यादिगुणोपेत ! सूर्योदयगुरो ! अहो ॥ ८ ॥ ज्ञानादिकं मयाऽवाप्तं प्रभावेण प्रभो ! तव । सर्वं पुण्यस्मृतौ तत्ते त्वदीयं तुभ्यमर्पये ॥ ९ ॥ मुद्रणम् : किरीट ग्राफीक्स ४१६, वृन्दावन शोपींग सेन्टर, रतनपोळ, अमदावाद. दूरभाष : ०९८९८४९००९१ - धर्मकीर्तिविजयः Page #3 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन किञ्चित् प्रास्ताविकम् । कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी जन्मशताब्दी (वि.सं. ११४५-२०४५)ना मंगल अवसरे पूज्य आचार्य श्रीविजयसूर्योदयसूरीश्वरजी तथा पूज्य आचार्यश्रीविजयशीलचन्द्रसूरीश्वरजीनी शुभप्रेरणाथी अमारा आ ट्रस्टनी स्थापना थई हती. प्राचीन ग्रन्थोनुं संशोधन-सम्पादनपूर्वक प्रकाशन, अनेक विद्वज्जनोनुं सन्मान, 'अनुसंधान'नामनी शोधपत्रिकानुं प्रकाशन-इत्यादि साहित्यिक प्रवृत्तिओ आ ट्रस्टनो मुख्य उद्देश छे. ते अनुसार कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यनी नवमी सूरिपद शताब्दी (वि.सं. ११६६-२०६६)ना उपलक्ष्यमां तेओना द्वारा विरचित त्रिषष्टिशलाकापुरुषचरितनो पूज्य आ.श्रीविजयशुभंकरसूरिजी रचित गद्यात्मकसारोद्धार प्रगट करतां अमो आनन्द अनुभवीए छीए. आ गद्यात्मकसारोद्धारनी रचना पूज्य आ.श्रीविजयशुभंकरसूरिजीए पूर्वे वि.सं. २०१६ना वर्षे करी हती. आजे ५० वर्ष पछी पूज्यश्री विजयसूर्योदयसूरीश्वरजीना शिष्य मुनिश्रीधर्मकीर्तिविजयजी द्वारा पुनः सम्पादित-संशोधित करेल आ ग्रन्थना प्रकाशननो लाभ अमारा ट्रस्टने मल्यो, ते बदल अमो तेओना ऋणी छीए. सुविदितमेवेदं विदुषां यत् कलिकालसर्वज्ञेतिबिरुदधारिणा परमविदुषा जैनाचार्येण श्रीमता हेमचन्द्राचार्येण भगवता गूर्जरनरेशद्वयं सिद्धराजजयसिंहकुमारपालचौलुक्येति संज्ञं प्रतिबोधितं; गूर्जरराष्ट्रे सुविशालेऽमारिः प्रवर्तिता; अनेकशतसङ्ख्या जिनालया निर्मापिताः; सोमनाथमहादेवाभिधशिवतीर्थस्योद्धारकार्ये राजा प्रेरितस्तत्तीर्थपुनःस्थापनावसरे स्वयमुपस्थितं च। युगप्रभावकेनाऽनेन सूरिपादेन सर्वजनताया हितकराणि मूक-पशूनामभयदानि जैनधर्मस्योद्योतकारीणि च नैकानि महान्ति कार्याणि यथा कृतानि, तथैव तेन भगवता नानाविधशास्त्रनिर्माणकार्यमपि विद्वश्चेतश्चमत्कृतिकारकं विहितमेव । तद्विरचितेषु ग्रन्थेषु सिद्धहेमचन्द्राभिधं शब्दानुशासनं, काव्यानुशासनं, छन्दोनुशासनं, लिङ्गानुशासनं, वादानुशासनं, शब्दकोषद्वयं, संस्कृतव्याश्रयमहाकाव्यं प्राकृतव्याश्रयकाव्यं, स्तुतिकाव्यानि, योगशास्त्रम्-इत्यादयो ग्रन्थाः प्रमुखाः प्रसिद्धाश्च विद्याक्षेत्रे । तद्विरचित एको महान् ग्रन्थोऽयमप्यस्ति-त्रिषष्टिशलाकापुरुषचरितमहाकाव्यम् । प्रायः ३६०००श्लोकमितो ग्रन्थोऽयं जैनपुराणप्रबन्धसन्निभो महाकाव्यलक्षणोपेतश्च । ग्रन्थेऽत्र जैनधर्मस्वीकृततीर्थङ्कर-चक्रवर्ति-वासुदेवबलदेव-नारदादीनां शलाकापुरुषाणां चरितवर्णनं विशदं विहितमस्ति । जैनसंघे एतदध्ययनाध्यापनप्रचारोऽविरतं बहुशतवर्षेभ्यः प्रचलति । संस्कृताध्ययनकर्तृणां विद्यार्थिनां बोधवैशद्यार्थमेतस्य काव्यग्रन्थस्याऽध्ययनं नितरामावश्यकम् । जैनसिद्धान्तानां सुखबोधार्थ जैनेतिहासस्य च ज्ञानार्थमप्येतदध्ययनमतीवोपयोगि । परन्तु महाकाव्यस्याऽस्याऽध्ययने सर्वे जना न समर्था भवेयुः । मन्दबोधानां सारल्योत्सुकानां चाऽभ्यासिनामेतस्याऽध्ययनं बहुधा दुरूहमपि स्यादेव । एतादृग्जनान् मनसि निधाय आचार्यपादश्रीविजयशुभङ्करसूरिवर्येण ग्रन्थस्यैतस्य सरलीकरणाय तदर्थं चाऽस्य वि. सं. २०६७ लि. कलिकालसर्वज्ञ-श्रीहेमचन्द्राचार्य नवमजन्मशताब्दीस्मृतिशिक्षणसंस्कारनिधिः अमदावाद, Page #4 -------------------------------------------------------------------------- ________________ पद्यात्मकं महाकाव्यप्रौढिसमलङ्कृतं च स्वरूपं गद्यात्मकं वर्णनादिबाहुल्यमुक्तं च निर्मितं कृपापरीतचेतसाऽस्मत्प्रगुरुवरेण । ग्रन्थोऽयं पञ्चाशद्वर्षेभ्यः पूर्वं मुद्रित आसीत् । परमस्य न सजातस्तादृक् प्रचारो येन सर्वेऽभ्यासोत्सुका जना लाभान्विताः स्युः । सम्प्रति चाऽप्राप्योऽयं ग्रन्थः । अत: श्रीहेमचन्द्राचार्यपादानां सूरिपदनवमशताब्द्या वर्ष वि.सं. २०६६तमं यदाऽऽगतं तदा तेषां स्मरणाञ्जलिरूपेण ग्रन्थोऽयं पुनः सम्पादनविषयीकृत्य मुद्रापणीय इति सङ्कल्प उदितोऽस्मश्चित्ते । साधव: प्रेरिता एतदर्थम् । पूज्यपादश्रीगुरुभगवद्भिः श्रीविजयसूर्योदयसूरिभिरपि सानन्दमनुज्ञातमेतदर्थे । ततो मुनिश्रीधर्मकीर्तिविजयेन सम्भालितमेतत्कार्यम् । तस्य भक्तिभावितमानसस्य परिश्रम इदानीं फलान्यावहतीति महानानन्दविषयः । ग्रन्थोऽयं संस्कृताभ्यासिनां यथोपकारकः, तथैव जैनधर्मविषयकं सम्यग् ज्ञानं प्राप्तुमिच्छुकानां जिनादिमहापुरुषचरितानां जिज्ञासूनां च कृतेऽपि नितान्तमुपयोगी स्यादेवेति निश्चप्रचम्। ग्रन्थसम्पादनकार्ये यदि काऽपि स्खलनाऽस्ति तदर्थमस्माकं प्रमाद एवोपालम्भार्हः । श्रीहेमचन्द्राचार्यभगवतां गद्यात्मकसारोद्धारकर्तृणां चाऽऽशयतो विपरीतं चेत् किमप्यागतं स्यादत्र, तदर्थं मिथ्यादुष्कृतं दत्त्वा क्षमाप्रार्थिनो वयमिति शम्। विषयानुक्रमः परिशिष्टपर्व प्रथमः सर्गः विषयः श्रीश्रेणिकवृत्तान्तः प्रसन्नचन्द्रराजर्षिकथा वल्कलचीरिकथा श्रीजम्बूस्वामिपूर्वभवकथा ........ भवदत्त-भवदेवकथा.. सागरदत्तकथा .............................................................. शिवकुमारकथा ......... द्वितीयः सर्गः श्रीजम्बूस्वामिकथा ......... प्रभवचोरवृत्तान्तः ..... मधुबिन्दुपुरुषकथा... कुबेरदत्तकथा महेश्वरदत्तकथा. कृषीवलकथा .... सं. २०६७ आश्विन शुदि-१, सुरेन्द्रनगरे - शीलचन्द्रविजयः काककथा. Page #5 -------------------------------------------------------------------------- ________________ विषयः विषयः षष्ठः सर्गः ........... वानरकथा अङ्गारकारककथा नूपुरपण्डिताकथा. विद्युन्मालिकथा. शङ्खधमककथा . शैलेयवानरकथा ................. ........... तृतीयः सर्गः श्रीयशोभद्रादिसूरिवराणां वृत्तान्तः ............... अन्निकापुत्रचरित्रम् ...... पाटलिपुत्रवृत्तान्त: ... नन्दस्य राज्याभिषेक: सप्तमः सर्गः कल्पकवृत्तान्तः ..... अष्टमः सर्गः शकटालमन्त्रिणः श्रीस्थूलभद्रस्य च वृत्तान्तः .... चाणक्य-चन्द्रगुप्तयोवृत्तान्तः .. नवमः सर्गः अशोकश्री-कुणाल-सम्प्रतीनां वृत्तान्तः ....... ................. दशमः सर्गः स्थविराकथा.. जात्याश्वकथा ........... ग्रामकूटसुतकथा सोल्लककथा.... मासाहसपक्षिकथा. मित्रत्रयकथा .. नागश्रीकथा. ................. ललिताङ्गकथा ...... .................... चतुर्थः सर्गः सुधर्मस्वामिगणधरस्य चम्पायामागमनम् .. कूणिकनृपस्य वन्दनार्थं गमनम् जम्बूस्वामिनः केवलज्ञानं निर्वाणं च .......... पञ्चमः सर्गः श्रीशय्यंभवसूरिवृत्तान्तः स्थूलभद्र-धनदेवयोवृत्तान्तः ......... एकादशः सर्गः आर्यमहागिर्यार्यसुहस्तिनोर्वृत्तान्तः अवन्तिसुकुमालवृत्तान्त: ..... द्वादशः सर्गः धनगिरिवृत्तान्तः ... वज्रस्वामिवृत्तान्त: .... ....... Page #6 -------------------------------------------------------------------------- ________________ विषयः आर्यशमिततापसार्यावृत्तान्त:. राजपरिषदि वज्रविषयकविवादोद्धारः. वज्रदीक्षा वज्रस्य दशपूर्वाध्ययन-गुरुसिंहगिरिस्वर्गगमनविहाराः वज्र-रुक्मिण्योर्वृत्तान्त:. रुक्मिणीदीक्षा- वज्रविहारौ वज्रप्रभावो बौद्धजैनस्पर्धा च वज्रकृतशासनप्रभावना 10 आर्यरक्षितवृत्तान्तः वज्रस्वामिविहारः वज्रस्वामिस्वर्गगमनम् वज्रसेनविहार: प्रशस्तिः कठिनशब्दार्थः . त्रयोदशः सर्गः ... पृ. २०१ २०३ २०५ २०५ २१२ . २१६ २१८ २१९ . २२२ २३१ २३३ २३३ २३६ २३८ Page #7 -------------------------------------------------------------------------- ________________ ॥ अर्हम || ॥ श्रीनेमि - विज्ञान- कस्तूर- यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः परिशिष्टपर्व प्रथमः सर्गः वन्दे महावीरजिनं वरेण्यं स्वर्गापवर्गद्रुमराजकन्दम् । सुरासुरैः पूजितपादपद्मं वचोऽमृतांशूद्भूतहृत्तमस्कम् ॥ १ ॥ यद् हैमचन्द्रं परिशिष्टपर्व श्रीनेमिविज्ञानपदाब्जभृङ्गः । शुभङ्करोऽहं विदधे तदेव गद्यानुबद्धं सुखबोधहेतोः ॥ २ ॥ अस्यैव जम्बूद्वीपस्य दक्षिणे भरतार्द्ध भूमिमुखमण्डनं मगधनामा देशोऽस्ति । तस्मिन् मगधदेशे गोष्ठा ग्रामसदृशाः, ग्रामाश्च पुरसदृशाः, पुराणि चाऽद्भुतलक्ष्म्या खेचरनगरसदृशानि तत्र कृषीवलैरेकवारमुप्तानि धान्यानि पुनः पुनर्दूर्वावत् प्ररोहन्ति, प्रजास्तु सुषमाकालभवा इव नीरोगा निर्भयाः सन्तुष्टा दीर्घायुषस्तत्र वसन्ति । गावस्तत्र सदा प्रसवशालिन्यः कुण्डोध्न्यः सुव्रता अहर्निशं कामधेनव इव कामदोह्याः। भूमिश्च सर्वत्रोर्वरैव । समये मेघो वर्षति । तस्मिन् धर्मैकगेहे मगधदेशे सर्वो लोको धर्मकर्मपरायणः । Page #8 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - प्रथमः सर्गः mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्र देशे दक्षिणभरतार्द्धस्य सर्वस्वनिधिभूमिरिव लक्ष्मीक्रीडागृहं राजगृहं नाम नगरमस्ति । तत्र सौवर्णध्वजकुम्भमरीचयो वर्षाषु विद्यमानमेघानां विद्युत्सपत्नीत्वं गच्छन्ति । तत्र चन्द्रकान्तमणिनिर्मितवासगृहसंक्रान्तचन्द्रो रात्रौ कस्तूरीपूर्णमुक्तराजतपात्रायते । तत्र सुन्दराकृतिः सौवर्णः प्राकारोऽर्हत्समवसरणात् सुरैरेकः कृत इव शोभते । तत्र वापीजलं द्वयोः पार्श्वयोर्मिलगी रत्नसोपानकिरणैर्बद्धसेतुवत् प्रद्योतते, तत्र हर्येषु कन्याः क्रीडाशुकानपि जिनस्तवनानि नित्यं पाठयन्ति । तत्र रात्रिषु जिनमन्दिरशिखरचुम्बीनि स्वर्णकुम्भप्रतिबिम्बितानि नक्षत्राणि प्रकाशन्ते । तत्र प्राकारो रजत-सुवर्णकृतैः कपिशीर्षकैश्चन्द्र-सूर्यबिम्बैः सुमेरुगिरिरिव भासते । तत्र वासगेहे दग्धधूपगन्धाधिवासित: पवनः खेचरीणामङ्गे श्लिष्यन् प्रियतम इव हर्षाय जायते । तत्र चतुरो नेतेव गुणैः पृथ्वी लक्ष्मी चाऽऽवर्जयन्नुपचितयशाः श्रेणिको राजाऽभूत् । तस्य मनसि प्रसरता सम्यक्त्वरत्नप्रकाशेन मिथ्यात्वान्धकारस्याऽल्पोऽप्यवकाशो नाऽभूत् । तस्य कीर्तिः सुधर्माभ्यन्तरेऽप्सरोभिः कर्णपुटपेया विलक्षणा सुधेव देवानां हर्षं ददती सत्यगीयत । तस्मिन् केन्द्रे दुष्टग्रहवत् प्रतिकूले सति तस्य शत्रव आपदं प्रापुः । अखण्डशासने शक्रतुल्ये तस्मिन् राज्ञि पृथ्व्येकचन्द्रा द्यौरिवैकच्छत्राऽभूत् । तस्य जन्मारभ्य सामुद्रलक्षणवत् औदार्य-धैर्य-गाम्भीर्यशौर्यादयो गुणा अजायन्त । महापराक्रमस्य तस्यैकच्छवां पृथिवीं कुर्वत: पुरन्दरवज्रमिवाऽऽज्ञां कोऽपि नोल्ललङ्घ । एकदा तस्य राज्ञः पुरासन्ने गुणशिलनामकोद्याने सुरा-ऽसुरपरिवारसहितो भगवान् श्रीमहावीरस्वामी समवासरत् । तदा देवा गुणशिलोद्याने त्रिभी रूप्य-स्वर्ण-मणिमयैः प्राकारैरलकृतं समवसरणं चक्रुः । तत्र व्यन्तरसुराः पवनान्दोलितपल्लवैभव्यजनानाह्वयन्तमिवाऽशोकवृक्षं विचक्रुः । तस्मिन् समवसरणे पुरुषाकृतिः सुमेरुरिव जात्यसुवर्णवर्णो भगवान् श्रीमहावीरप्रभुः पूर्वद्वारेण प्राविशत् । श्रीमहावीरस्वाम्यशोकवृक्षाध:स्थितदेवच्छन्दे राजहंसः कमलमिव सिंहासनं यथाविध्यलञ्चकार । तत्र चतुर्विधः सङ्घो यथास्थानमुपविवेश। श्रीमहावीरप्रभुरमृतवर्षासदृशीं धर्मदेशनां प्रारेभे । तद्देशवासिनो जनाः शीघ्रं प्लवमाना मृगा इव समवसृतं श्रीमहावीरस्वामिनं राजान्तिकमुपेत्य राजानं व्यज्ञपयन् । तदा वीरस्वामिसमवसरणसमाचारामृतं श्रवणपुटेन पीतवतस्तस्य शरीरं पनसफलमिव हर्षेणोद्गतकण्टकं बभूव । ततः श्रेणिको राजा सिंहासनं पादुके च त्यक्त्वा श्रीमहावीरप्रभुं मनसिकृत्य भून्यस्तमस्तकः प्रणनाम । राजा स्वाम्यागमनसूचकेभ्यो जनेभ्यः पारितोषिके दैन्यदूरीकरणकारणं बहु सुवर्णं ददौ । अथ श्रेणिकनृपो जिनवन्दनयोग्ये सदृशे श्वेतवस्त्रे क्षीरोदलहरीव्यूते इव पर्यधात् । तदा राजगृहपतिर्मुक्तैर्बहुभिर्मुकुटादिभी रत्नभूषणैः कल्पतरुरिव शुशुभे । तदा तस्य बन्धवस्तदाज्ञया हस्त्यश्वादियानानि सज्जीकृतानि राजद्वारे शीघ्रमुपास्थापयन् । अथ राजशिरोमणिः श्रेणिकस्तेजस्वी सूर्य उदयाचलमिव कल्याणकारणं भद्रकुञ्जरमारुरोह । राजा सन्ध्यामेघसदृशैरनेकैर्न Page #9 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वसिन्दूरारुणकुम्भैर्गजैः परिवव्रे । ततोऽप्युत्सुको नृपो गजघण्टाटणत्कारैराकाशं पूरयन्निव श्रीमहावीरतीर्थपतिं प्रति चचाल । गजेन्द्रगर्जितैरश्वहेषितैश्च मिलद्भिराकाशतले शब्द आकाशगुणोऽभूत् । प्रसन्नचन्द्रराजर्षिकथा ४ ततः श्रेणिकस्य द्वौ प्रधानसैनिकावेकमेकाग्रचित्तमेकपादेनैक मूलं वृक्षमिव स्थितं सिद्धिक्षेत्रमाक्रष्टुमिवोर्श्वीकृतभुजयुगं दर्पण व सूर्येऽपि निश्चलन्यस्तनेत्रं सूर्यतापात् स्वेदबिन्दुभिरुत्पन्नस्फोटकमिव मूर्तमिव शान्तरसं शान्तं मुनिवरं ददृशतुः । तयोर्मुख्यसैनिकयोरेकतरोऽवोचदहो ! मुनिवर एवं तपस्तप्यते, सोऽयं मुनिशिरोमणिमहात्मा वन्द्योऽस्ति, एतदन्यः क एकपादेन तिष्ठेत् ? को वा सूर्यमण्डलं मुहूर्तमप्येवं पश्येत् ? अहो ! अहो ! अस्य दुष्करकारित्वम् । अस्य महात्मनः स्वर्गे वा मोक्षो वा न दूरे, महता तपसा किं किमसाध्यं न साध्यते ? तत्र द्वितीयसैनिक उवाच- हे मित्र ! त्वं किं न जानासि ? अयं प्रसन्नचन्द्रो राजाऽस्ति । अस्य धर्मो नाऽस्ति । अस्य तपो वृथाऽस्ति । अयं बालं पुत्रं स्वराज्येऽस्थापयत् । स मन्त्रिभिर्वृक्षादपक्वफलमिव राज्यादपनेष्यते । अनेन मार्जाराणां दुग्धमिव दुरात्मनां तेषां मन्त्रिणां रक्षणाय राज्यं समर्पितं, तस्मिन् बाले पुत्रे नाशितेऽस्य वंशोऽप्युच्छेदितः स्यात् । अतो निजपूर्वपुरुषाणां नामनाशनादयं पातकी स्यात् । प्रव्रज्यां जिघृक्षुणाऽनेन या राज्ञ्यस्त्यक्तास्तासां पतिरहितानां का गतिर्भविष्यतीति न जाने ? कर्णकोटरप्रविष्टेन तद्वचनप्रचण्डवातेन प्रसन्नचन्द्रराजर्षेः समाधितरुर्भग्नोऽजनि । तत एवं स व्यचारयद्- "अहो ! तेषां परिशिष्टपर्व प्रथमः सर्गः दुराशयानां मन्त्रिणां यन्मया सत्कारो व्यधायि तद् ध्रुवं भस्मनिहुतम् । मम पुत्रस्य स्तनन्धयस्य तै: कुमतिभिः पापकर्मभिर्यद् राज्यं विनाशयितुमारेभे ततस्तान् विश्वस्तघातकान् धिक् । यद्यहं तत्र राज्येऽभविष्यं तदा तेषां दुरात्मनां नवनवैर्निग्रहैरनुशासनमकरिष्यम् । अहो ! ममाऽनेन जीवितेन किम् ? किं वा भूयसा तपसा ? यत् स्वपुत्रस्य पराभवः श्रवणपथमगात्" । एवं स राजर्षिर्दुर्ध्यानमत्यन्तं कुर्वाणो निजसाधुत्वं व्यस्मार्षीत् । सिंहावलोकनन्यायेन क्षत्रतेजसाऽऽलीढः स प्रत्यक्षानिव पुत्रद्वेषिणस्तानमात्यानद्राक्षीत् । प्राग्वद् रणरङ्गैकसूत्रधारः खड्गधारया रणे तान् सूरणानिव खण्डशो मनसा चकार । अपि च छेदनं भेदनं दारुणतरमन्यदपि दुष्कर्म क्रोधान्धः सन् स राजर्षिर्मन्त्रिणां किं किं नाऽकार्षीत् ? तत्र प्रदेशे जिनधार्मिकः श्रेणिको राजगृहाधिप आजगाम । तं मुनिमवलोक्य स राजकुञ्जरः कुञ्जरादुत्ततार, भून्यस्तमस्तको मुनिवरं प्रणनाम च । ततो राजोर्ध्वबाहुमेकपादस्थं तपस्यालीनं तं मुनिमवलोक्याऽतिप्रमुदितोऽन्वमोदिष्ट । प्रसन्नचन्द्रराजर्षेरद्भुतं तपःसामर्थ्यं विचारयन् श्रेणिको भूपो जगद्गुरुजिनसमीपमापत् । राजा पञ्चाङ्गस्पृष्टभूपृष्ठः स्वामिनं वन्दित्वा कमलमुकुलितपाणिर्यथास्थानमुपाविशत् । अवसरमासाद्य राजशिरोमणिर्जगद्गुरुं वस्त्राञ्चलाच्छादितमुखद्वार एवमप्राक्षीत् । "यस्मिन् समये ध्यानावस्थितो राजर्षिः प्रसन्नचन्द्रो मया निरैक्षि तादृश एव स कालधर्मं कुर्यात् तदा कां गतिमवाप्नुयात् ?" एतन्निशम्य स्वाम्याह - "यदि स नरेन्द्रस्तदा विपद्येत तदा सप्तमीं नरकभूमि गच्छेत्" । सरलमती राजा श्रमणाराधकः प्रभु Page #10 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्या साकाषचरितम्-गद्यात्मकसारोद्वारः वचनेन चिन्ताकुलितो व्यचारयत्-"अहो ! अत्युग्रतपसोऽस्य कथं दारुणा नरकावनिः स्यात् ?" ततो भूपतिर्भूयः स्वामिनं पप्रच्छ"हे प्रभो ! अस्मिन् समये स यदि कालं कुर्वीत तदा कां गति प्राप्नुयात् ?" प्रभुरुदतरत्-“हे राजशिरोमणे ! अधुना स राजर्षिः परमतपाः सर्वार्थसिद्धनामविमानारोहणयोग्यो विद्यते" । राजा सविस्मयमाह-"भगवन् ! द्विविधा किमियं भवतां वाणी? सर्वज्ञवाक् कदाऽपि मिथ्या न भवति, अतोऽज्ञस्य मम रहस्यं कथय। एतदाकर्ण्य स्वामी प्राह-"राजन् ! यदा त्वयाऽसौ वन्दितस्तदा स रौद्रध्यानपर आसीत्, साम्प्रतं तु शुक्लध्यानपरायण इति । तदा रौद्रध्यानाद् नरकाहः शुक्लध्यानाच्चाऽधुना स सर्वार्थसिद्धयोग्यः" । श्रेणिको भूपः पुनः स्वामिनं पप्रच्छ-"भगवन् ! स कथं रौद्रध्यानी कथं च शुक्लध्यानपरोऽभूत्" । स्वामी प्राह-राजन् ! त्वदग्रे सैनिकवचनेन स्वपुत्रस्य स्वमन्त्रिवर्गादभिभवमसावौषीत्, तेन सुतममतापिशाचिनीसमाविष्टमना विस्मृतसाधुव्रतो मनसा दुरात्ममन्त्रिभिरसिना योद्धमारेभे । प्रत्यक्षैरिव तैर्दुरात्मभिरमात्यैः सहाऽत्यन्तं संग्रामयन्निष्ठितास्रः प्रसन्नचन्द्रो राजर्षिः क्रुधाऽप्रसन्नमना अभूत् । स्वं निरस्त्रमपि गृहीतास्त्रं सन्नद्धमज्ञासीत्, क्रोधावेशेनाऽचिन्तयच्च स्वमन्त्रिवर्गमेतं मुकुटेन हन्मीति । ततो मुकुटजिघृक्षया यदा शिरः करेणाऽस्पृशत्, तदा लुञ्चितं स्वं मूर्धानं स्पृशन्नात्मानं गृहीतव्रतं समस्मार्षीत् । तदा व्यचिन्तयत्-"अहो ! धिग् धिग् रौद्रध्यानानुबन्धिनं मां, निर्ममस्य मम तेन पुत्रेण मन्त्रिवर्गेण च किम्?" इति चिन्तयतो परिशिष्टपर्व - प्रथमः सर्गः राजर्षेर्मोहदुर्दिने नष्टे भूयोऽपि विवेकदिवाकरोऽतिभास्वर उदगात् । ततः स पुरतः स्थितानिवाऽस्मांस्तत्रैव वन्दित्वाऽऽलोच्य प्रतिक्रम्य च शुक्लध्यानमकार्षीत्, तेन प्रसन्नचन्द्रराजर्षिर्घानवनसंभवं कर्मकक्षं शुक्लध्यानाग्निना शीघ्रं भस्मसादकार्षीत् । तस्य राजर्षेश्चरितसुगन्धवासितो धर्मवीरः श्रेणिकः श्रीमहावीरस्वामिनं व्यजिज्ञपत्-"भगवन् ! प्रसन्नचन्द्रराजर्षिर्बालं पुत्रं राज्ये संस्थाप्य कथं मुनिव्रतमग्रहीत् ? तदा वीरप्रभुरब्रवीत्-"राजन् ! पोतनाख्ये नगरे सौम्यत्वेन चन्द्रः सोमचन्द्रो नाम राजाऽभूत् । तस्य शीलालङ्कारा धर्मधारिणी धारिणी नाम सधर्मचारिणी विवेक वारिवापिका बभूव । सा चैकदा गवाक्षासीनस्य निजनाथस्य केशकलापं पाणिपङ्केरुहाभ्यां विवरीतुं प्रारेभे । तदा सा राजशिरसि पलितमवलोक्य राजानमुवाच-"स्वामिन् ! अयं दूत आगतः" । राजा दिशोऽवलोक्योवाच-"अत्र स दूतः किं न दृश्यते ? " तदा राज्या पलितं दर्शितमूचे च कृतान्तस्य दूती जरा कर्णमूले, समागत्य वक्तीति लोकाः शृणुध्वम् । परस्त्री-परद्रव्यवाञ्छां त्यजध्वं, जिनेशस्य पादारविन्दं भजध्वम् ॥१॥ इत्यादि प्रियावचनं श्रुत्वा राजा यौवनवनघातकं शस्त्रमिव तं पलितं दृष्ट्वा दुरमनायत । ततो धारिणीदेवी सहासं साहसं विदधाना राजानमुवाच-"एकं पलितं दृष्ट्वा यदि दुर्मनायसे तर्हि पटहध्वनिनोद्घोषय-कोऽपि भवतो वृद्धत्वं लोके न प्रकाशयेत्" इति राज्ञीवचः श्रुत्वा राजोवाच-"देवि ! नाऽहं पलितदर्शनेन जिहेमि किन्तु मदीयपूर्वपुरुषा अदृष्टपलिता एव प्राव्रजन् । अहं तु Page #11 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - प्रथमः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दृष्टपलितोऽपि विषयविषधरैदश्यमानोऽस्मीति लज्जे । अहमेवं स्थितेऽपि शीघ्रं प्रव्रजामि किन्तु स्तनन्धये तनये कथं राज्यभारो निवेश्यते ? अथवा हे मतिमति ! परिविव्रजिषोर्मे कि राज्यसुताभ्याम् ? त्वं निजमात्मजं परिपालय, अहं श्रामण्यं ग्रहीष्यामि । धारिण्युवाच-"नाथ ! त्वां विनाऽहं कथं स्थातुं समर्था ? यत: सत्यो नित्यं यदा कदा च पतिमनुगच्छन्ति, वनावनीरुह इव स्वकर्मभिरेव बालोऽप्ययं वर्धतां, किं तेन मम? तत: सोमचन्द्रो राजा बाले प्रसन्नचन्द्रे पुत्र राज्यमारोप्य धारिण्या धात्र्या च सह दिक्प्रोषितस्तापसोऽभूत् । स किञ्चिच्छून्यमाश्रमपदमध्यवात्सीत् । नीरसपत्रादिकं भुञ्जानो दुष्करं तपस्तेपे । स पलाशपत्राण्यादाय हरिणानां पान्थानां च शीतच्छायां सुधाप्रपामकार्षीत् । धारिणी प्रेमवशीभूतः स स्वादुस्वादूनि जलानि फलानि च पत्न्यर्थमानैषीत् । वनेऽपि सा धारिणी पतिव्रतपरायणा कोमलतरतृणैः पत्ये तल्पं कल्पयामास । सा पक्वेगुदफलानि दिने पिष्ट्वा ततस्तैलं निष्काश्य निशि दीपकानकार्षीत् । वन्यागोमयैर्वासस्थानचत्वरभूमि पतिसुखोपवेशनार्थमनेकवारं मार्जयामास । तत्र गोमयलिप्ताङ्गणे वनाश्रमे हरिणशिशून् प्रेम्णा लालयन्तौ दम्पती तप:श्रममविद्वांसौ कञ्चित् कालं व्यतीयतुः । वल्कलचीरिकथा अथ धारिणीराज्या: पूर्वसंभवो गर्भोऽनुक्रमेण ववृधे । अन्यदा सूतिकागृहमध्ये कान्त्याऽतैलपूरो दीप इव सुतो धारिण्या जनयाञ्चक्रे। पित्रा चाऽऽश्रमे वल्कलान्येवेति वल्कलैः सोऽवेष्ट्यताऽतो वल्कलचीरीति तस्य नाम चक्रे । धारिणी सूतिरोगेण कालधर्म मगात् । ततो निरक्षरः पुरुष इव स बालोऽदृष्टमातृकोऽजनि । ततः सोमर्षिस्तं बालं महिषीदुग्धं पायं पायं धात्र्याः समार्पयत् । दैवात् साऽपि धात्री धारिणीमनुजिगमिषुरिव कियता कालेन पञ्चत्वमगमत् । ततः सोमचन्द्रर्षिः स्वयमेव महिषीक्षीरं तं बालमपाययत् । गच्छंस्तिष्ठन् शयानो वा स निजाङ्के शिशुमधारयत् । अथ स बाल: क्रमात् पादचक्रमणसमर्थोऽभूत् । वनमृगशिशुभिः सह प्रतिदिनं धूलिक्रीडां चकार च । पुनः स्वयमानीतैरिन्धनैर्नीवारैश्च रसवतीं कृत्वा स सोमर्षि लमबूभुजत् । वन्यफलैस्तं पोषं पोषं दुष्करतपसि स्वसदृशं तं व्यधात् । अथ वल्कलचीर्यपि यौवनोन्मुखः सर्वथा स्वजनकसेवाकुशलोऽभूत् । एवं च फलाद्याहरणैर्नित्यमङ्गसंवाहनेन च सकलव्रतगरिष्ठां शुश्रूषां तातस्य चक्रे । स्त्रीजनरहितवने निवसन् स आजन्मब्रह्मचार्येव व्रती स्त्रीनामाऽपि न जज्ञौ । अथ प्रसन्नचन्द्र एकदा वनस्थस्य पितुर्धारिणीकुक्षिजातं सुतं स्वसोदर्य शुश्राव । ततः कीदृशः स मे भ्राता ? कथं वा मिलिष्यतीति मनसि परमं कौतुकमजनि तस्य । ततः प्रसन्नचन्द्रश्चित्रकरानेवमजिज्ञपत्-"मम तातपादानां पादकमलालङ्कृतं तपोवनं गच्छत, तातपादपङ्कजमरालस्य मदनुजस्य वननिवासिन: शीघ्रं रूपं लिखित्वाऽऽनयत" । ततः श्रीमतामादेश: प्रमाणमित्युक्त्वा चित्रकरास्त्वरितमेव वल्कलचीरिपवित्रितवनमगुः । तेऽपरविश्वकर्माणोऽनुपमकौशला दर्पणप्रतिबिम्बमिव यथावस्थं तं लिखित्वाऽऽनीय वल्कलचीरिणो दृशोः सुधावर्तिसदृशं रूपं प्रसन्नचन्द्रं दर्शयाञ्चक्रुः । प्रसन्नचन्द्रो. Page #12 -------------------------------------------------------------------------- ________________ १० mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmHAMARAHASMAmmanmaamanna परिशिष्टपर्व - प्रथमः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ऽनुजरूपमालोक्य मदीयजनकसदृशोऽयमनुज इति ध्यात्वाऽऽत्मा वै जायते पुत्र इति श्रुति सत्यापयति स्म । हे सोदर ! त्वं भाग्येन नयनगोचरतामाप इत्यभिधाय तं शिरसि चुचुम्ब, न च निजोत्सङ्गादुदतारयत् । स च वल्कलचीरिणं वल्कलाम्बरं निरीक्ष्य गिरिरिव सनिर्झरः शीघ्रं स्यन्दमाननयनजलधारोऽभूत् अवदच्च-"वर्षीयान् मम तात उचितं व्रतमाचरतु किन्तु बालस्याऽस्य मदनुजस्य वननिवासोऽपि न योग्योऽस्ति । अहं राज्यसुखहूदे मराल इव रमे, मदनुजन्मा तु भिल्ल इव वनवृत्त्याऽनुजीवति । स वनजातो जीव इव ग्रामे दुरानेयोऽस्ति । तस्मिन् राज्यभागाविधायिनि मम राज्येऽपि कष्टम् । एवं निजानुजस्य वनवासदुःखमनुशोचन् प्रसन्नचन्द्रश्चातुरीचणां वेश्यामेवमादिशत्"मुनिवेषेण यूयं वनं गत्वाऽङ्गस्पर्शेर्नवनववचनैः खाण्डैः फलैश्च ममाऽनुजं प्रलोभ्याऽत्राऽऽनयत" इति राजनिदेशमक्लेशं शिरसि निदधाना मुनिवेषं दधाना वेश्या: शीघ्रं सोमचन्द्राञ्चितं तदाश्रमपदमगमन् । ततस्तत्र बिल्वादिफलान्यादाय वल्कलवसनं वसानं कुटीराभिमुखमागच्छन्तमृषिसुतं तं वेश्या ददृशुः । सोऽपि सरलमतिर्मुनिवेषधारिवेश्यानां मुनिबुद्ध्याऽभिवादनं विधायाऽपृच्छत्-"के यूयं ? को वा भवतामाश्रमः ?" ता ऊचुः-"वयं पोतनाश्रमवासिन ऋषयः स्मः, तवाऽतिथय इहाऽऽगताः स्मः, त्वमस्माकं किमातिथ्यं करिष्यसि ?" वल्कलचीरी प्रोवाच-"मया वनाद् मधुराणि पक्वानि फलान्यानीतानि, हे महर्षयो ! यूयं भुग्ध्वम्" । ततो वेश्या अवोचन्-"अस्माकमाश्रमे नेदृशानि नीरसानि फलानि कश्चिद् भुङ्क्ते, अस्मदाश्रमतरूणां फलवर्णिकां पश्य" इत्युक्त्वा वृक्षमूले ता वेश्या उपाविशन्, तं च तत्रोपावीविशन् । अविफलाशयास्तं खण्डफलान्यभोजयन् । वल्कलचीर्यपि तत्क्षणादेव तदास्वादाद् बिल्वादिफलत उदविजिष्ट । पुनरेकस्थानस्थितं तं स्वाङ्गमस्पर्शयन्, तत्करं च निजपीनस्तनकुम्भोरसि न्यधुः । सोऽवोचत्-"भो महर्षयः ! श्रीमतामिदमङ्गं किं कोमलम् ? किमेते वक्षःस्थले उन्नते स्त: ?" वेश्यास्तं कोमलपाणिपल्लवैः स्पृशन्त्य ऊचुः-"अस्मदीयवनफलभोजनेनैतादृशमङ्गं कोमलं भवति । अस्माकं महारसवनफलभक्षणेनाऽत्यन्तवृद्ध्या वक्षस्येते स्थले उत्पद्यते । तदिममाश्रममसाराणि फलानि च त्यज; अस्माकमाश्रममागत्य त्वमपि सरसफलभोजनेनाऽस्मादृशो भव । ___ अथ खण्डफलास्वादलुब्धो मुग्धो वल्कलचीर्यपि वेश्याभिः सह जिगमिषुः सङ्केतमग्रहीत् । ततस्तापसभाण्डं संस्थाप्य वल्कलचीरी यथोपदिष्टं सङ्केतस्थानमगमत् । तदा वृक्षाधिरूढा गुप्तचरनरा आगच्छन्तं सोमचन्द्रर्षि दृष्ट्वा वेश्यानां न्यवेदयन्, वेश्याश्च मुनिशापभीता व्याधाद् मृग्य इव परस्परं वियुक्ताः शीघ्रशीघ्रमनेशन् । स्वपितरि स्थानं गते स वेश्यां नष्टधनो धनमिवाऽन्वेष्टुं प्रारेभे । वने मृग इव धावन्नेकं रथिनं दृष्ट्वा तमप्यृषि मन्यमानो 'भवन्तमभिवादय' इत्यवदत् । रथिना पृष्टो बाल:-"त्वं क्व गमिष्यसि ?" कुमार उवाच"हे महर्षे ! पोतनाभिधमाश्रमपदं गमिष्यामि" । रथिकेनोक्तम्"अहमपि पोतनाश्रमं जिगमिषामि । ततोऽग्रेसरमिव तं रथिनं वल्कलचीर्यप्यन्वगमत् । पथि स मुग्धो बालो रथिकप्रियां 'हे Page #13 -------------------------------------------------------------------------- ________________ १२ त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धार: ताते'ति मुहुर्मुहुर्भणति । इति श्रुत्वा रथिनं तत्प्रियाऽवोचत्"कीदृश्यस्योपचारधीः ?" रथिकोऽवदत्-'स्त्रीरहितवने निवसन्नयं बालः स्त्री-पुंसयोर्भेदं न जानातीति हे प्रिये ! त्वामपि पुरुषमेव मन्यमानस्तातेति संबोधयति । वाह्यमानानश्वान् दृष्ट्वोवाच- हे महर्षे! इमे मृगा रथे कथं वाह्यन्ते ? मुनिगणस्य मृगवाहना नोचिता" । रथिको हसन् वल्कलचीरिणमुवाच - "हंहो मृगाणामिदमेव कर्मेति तद्वाहनायां न दोषः " । ततो रथिको वल्कलचीरिणे स्वादुमोदकान् ददौ । स चाऽऽस्वादयन् मोदकं तत्सुस्वादेन सानन्दमुवाच - " ईदृशानि पोतनाश्रमवासिम - हर्षिदत्तानि फलान्यहं प्रागप्यखादिषम्" । स कुमारो मोदकभक्षणात् पोतनं गन्तुमुदकण्ठत, कषायरूक्षैर्बिल्वा ऽऽमलकादिफलैरनटत् । अथ मार्गमध्ये रथिन एकेन बलिना चौरेण सह युद्धमभूत् । तत्र रथी गाढप्रहारेण चौरमवधीत् । ततश्चौरोऽप्युवाच - "वैरिणोऽपि घातः प्रशस्यते, यतस्त्वयाऽहं जितस्तेन तुष्टोऽस्मि, मम पुष्फलं धनमस्ति तत्त्वं गृहाण । ततो रथी तत्प्रिया कुमारश्चैते त्रयस्तद् द्रव्यं रथे स्थापयामासुः । क्रमेण पोतनं प्राप्तो रथी वल्कलचीरिणमुवाच- 'हे कुमार ! यस्ते पोतनाश्रमोऽभिप्सितः स एष वर्तते । ततः किञ्चिद् द्रविणं कुमाराय दत्त्वा स्मयमानो रथी जगाद - "अस्मिन्नाश्रमपदे द्रव्यं विनाऽऽश्रयो न मिलत्यतः कस्मैचिदवक्रय आश्रमार्थी त्वं द्रव्यं दद्या: । कुत्र यामि कुत्र नेति समस्तपुर उत्प्रेक्षमाणः कुमारोऽभ्राम्यत् । मुनिबुद्ध्या पुरुषाणां स्त्रीणां चाऽभिवादनवातूलो नागरैरुपाहास्यत मुनिपुत्रः । अथ पुरे भ्रमन्नेकस्या वेश्याया गृहे प्रविवेश । स कुमारो वेश्यागृहं मुन्याश्रमं मेने वेश्यां च मुनिम् । पुनस्तामपि हे तात ! परिशिष्टपर्व प्रथमः सर्गः त्वामभिवादय इत्युवाच । हे महर्षे ! मम कुटीरं समर्पय, तदवक्रयेऽदो द्रव्यं गृहाण च । सा वेश्या त्वदीय एष उटजोऽस्ति तस्माद् गृह्यतामित्युक्त्वा नापितं कुमाराङ्गं संस्कर्तुं समाह्वयत् । परं स कुमारो निजाङ्गसंस्कारं नैच्छत्, तथाऽपि वेश्याज्ञया शूर्पसहशांस्तस्य पादनखान् क्लेशेन नापित उदतारयत् । सा वेश्या कुमाराङ्गाद् वल्कलचीरमपनीय तं स्त्रपयितुं सुन्दरवस्त्रं पर्यधापयत् । हे महामुने ! मम आजन्ममुनिवेषं त्वं मा दूरीकुर्विति वल्कलचीरापनयनसमये स बाल इवाऽरटत् । १३ ततो वेश्योवाच - "हे कुमार ! अस्मिन्नाश्रमे महर्षीणामतिथीनामिदमुपचारं त्वं स्वीकरोषि न वा ? यदि न स्वीकरोषि तदेह वस्तुं कुटीरं न लप्स्यसे" । ततोऽसौ कुमारस्तस्मिन् निवासेच्छयाऽ निच्छन्नपि वेश्यानुरोधाद् मन्त्रवशीकृतः सर्प इव वेश्योक्तं स्वीचकार । ततो वेश्या स्वयं कुमारकेशपाशं जटिलमुर्णापिण्डमिव तैलेनाऽभ्यज्य कङ्कतैर्विवरीतुं प्रभे । ततः सोमेन्दुभूरभ्यज्य मृज्यमानाङ्गः कण्डूय्यमानो गौरिव सुखनिद्राणनयनोऽजनि । गणिका चाऽथ मन्दोष्णैर्गन्धजलैस्तं स्नपयित्वा सुवस्त्राण्याभूषणानि च समार्पयत् । तत एकस्याः पुत्र्याः पाणिग्रहणं चाऽकारयत् । कुमारकरगृहीता वेश्यापुत्री साक्षाद् गार्हस्थ्यलक्ष्मीरिव बभौ । सर्वा वेश्या वधू-वरावुपलक्ष्य सुस्वरगानं चक्रुः । तच्छ्रुत्वा मुनिकुमारो मनसि दध्यौ - "ऋषय इमे किं पठन्ति ?” वेश्या माङ्गल्यान्यातोद्यान्यवीवदत् तदा किमिति विस्मितो मुनितनयः कर्णौ पिदधौ । मुनिवेषधारिण्यो वेश्याः कुमारमानेतुं यथाऽगमंस्तथैवाऽऽगत्य प्रसन्नचन्द्रनृपं व्यजिज्ञपन्- "राजन् ! बहुभिः प्रकारैर्वनवासी स Page #14 -------------------------------------------------------------------------- ________________ १४ परिशिष्टपर्व - प्रथमः सर्गः MARRIAnnnnnnnnnnnnnnnnAAAAAMANARAN त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुमारोऽस्माभिरिहाऽऽगन्तुं प्रालोभि । ततः सोऽस्माभिः समं सङ्केतमग्रहीत् । दूरे कुमारपितरमायान्तं दृष्ट्वा तच्छापभयात् स्त्रीस्वभावतः कातरा वयमनेशाम । सोऽस्मान् गवेषयन् नः प्रलोभाधीनो वनाद् वनं भ्रमन् पित्राश्रमं न जगाम, अस्मत्सङ्गमपि न प्राप्तः । एतदाकर्ण्य किमकार्षम् ? पिता-पुत्रौ वियोजितावनुजश्च न प्राप्तः, पितृपार्थात् परिभ्रष्टः स कथं जीविष्यति ? मत्स्यो जलाद् बहिष्कृतो हि कियन्तं कालं जीवति ? इति नृपः पश्चात्तापमकरोत्, एवं राजाऽल्पजले मीन इवोद्वेल्लञ्छयने रतिमलभमानोऽस्थात् । तदा राज्ञः कर्णयोस्तद्वेश्याभवने प्रवर्तमानमुरजध्वनिरविशत् । तच्छ्रुत्वा सम्प्रति मद्दुःखेन समग्रं नगरं दुःखितमस्ति, कोऽयमेतादृग् लोकोत्तरसुखी यस्य गृहे मुरजध्वनिः प्रवर्तते ? अथवा सर्वो हि स्वार्थपरायणो भवति, एष मृदङ्गध्वनिः कस्याऽपि मुदे भवति, मम कृते मुद्गरप्रहारसोदरो न हर्षाय जायते । इति राज्ञः शोकवचनं जनश्रुत्या वेश्या विज्ञाय शीघ्रमेव कृताञ्जलि: प्रसन्नचन्द्रं भूपं विज्ञपयामास-"राजन् ! पुरा कश्चिद् दैवज्ञ एवमचकथत्-'तव गृह ऋषिवेषो युवाऽऽगमिष्यति तस्मै स्वकन्यां दद्या' इति । स एव गौरिव व्यवहारानभिज्ञ ऋषिवेषो युवा मद्गृहे समागात् । तस्मै स्वकन्या वधूत्वेन समर्पिता मया । तद्विवाहमहे देव ! मद्गृहे गीतवाद्यादि प्रवर्तते । त्वां दुःखितं न जानामि । यदि ममाऽपराधस्तहि तं क्षमस्व" ।। ___अथ राजा कुमारं प्राग् दृष्टवतो नरानादिशत्-यूयं वेश्यालयं गत्वा तं पश्यत । ततस्ते गत्वा तं दृष्ट्वोपालक्षयंस्तत आगम्य राजानं ते न्यवेदयन् । राजाऽपि दृष्टसुस्वप्न इवाऽत्यन्तममोदिष्ट । ततश्च स वध्वा सह वल्कलचीरिणं हस्तिनीमधिरोप्य स्वभवनमानाययत् । राज्ञा स कुमारः क्रमेण सकलव्यवहारकुशलो व्यधायि । नियुक्तैः पशवोऽपि हि शिक्ष्यन्ते किं पुनर्मनुजः? राजा तस्मै राज्यार्द्ध दत्त्वा स्वं कृतार्थं मेने । स्वर्गाङ्गनासदृशी राजकन्यास्तेनोदवाहयत् । स च वल्कलचीरी ताभिर्वधूभिः करेणुभिः कुञ्जर इव विपुलं रेमे। एकदाऽस्य वल्कलचीरिणो मार्गसुहृद्रथिकश्चौरदत्तं स्वर्णादि विक्रीणानः पुरेऽभ्राम्यत् । ततो यस्य यस्य धनं चौरापहृतमासीत् स स स्वं स्वं धनमुपलक्ष्योत्थापितबाहुरारक्षकानकथयत् । आरक्षकाश्च चौरं मत्वा राजद्वारमनयन् । राजानुजो वल्कलचीरी जीवानुकम्पया दृशा तमद्राक्षीत् । मार्गोपकारिणं तमुपलक्ष्याऽमोचयच्च । यतः "नहि कृतमुपकारं साधवो विस्मरन्ति" । ___इतश्च सोमचन्द्रः स्वं सुतमपश्यन् वने वृक्षाद् वृक्षमश्रुभिः सिञ्चन्निवाऽभ्रमत् । प्रसन्नचन्द्रप्रेषितजनैर्वल्कलचीरिवार्ताकथनानन्तरं स प्रफुल्लनयनोऽजनि । परं च तस्य पुत्रवियोगेनाऽतिरोदनवशाद् दिनेऽपि रात्राविवाऽन्धत्वमभूत् । स वृद्धतापसोऽन्यैस्तपस्विभिस्तपोऽन्ते फलादिभिरपार्यत । ___ अथ द्वादशसु वर्षेषु पूर्णेषु रजन्यां प्रबुद्धो वल्कलचीर्येक दैवमचिन्तयत्-"मम मन्दभाग्यस्योत्पन्नमात्रस्य माता व्यपद्यत । मत्तातो वने वसन्नपि मत्परिचर्यामकरोत् । रात्रिन्दिवं कटिस्थोऽहं तपःकष्टादप्यधिकं कष्टं स्वपितुरजीजनम् । यौवने यावदहं तत्प्रत्युपकारसमर्थोऽभूवं तावद् दैवादजितेन्द्रिय-पापोऽत्राऽऽगमम्" । इत्येवं निशीथे चिन्तयन् स गत्वा राजानमवोचत्-"अग्रज ! अहं Page #15 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - प्रथमः सर्गः mnnnnnnnnnnnnnnnnnn त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तातपादानत्यन्तं दिदृक्षे" । राजोवाच-"हे अनुज ! आवयोः पिता समान एवाऽस्ति, तवेव ममाऽपि दिदृक्षाऽस्ति तातचरणानाम्" । ततस्तौ सपरिवारौ तातपादालङ्कृतमाश्रमपदं जग्मतुः, द्वावपि यानादुदतरताम् । वल्कलचीरीत्यवदत्-"अग्रज ! एतत् तपोवनं दृष्ट्वा राजलक्ष्मीस्तृणायते मम । यत्र सरसि हंस इवाऽरंसि तानीमानि सरोवराणि । येषां तरूणां फलानि कपिरिवाऽखादं त एते तरवः । यैर्मृगशिशुभिरक्रीडं त इमे मृगार्भकाः । यासां महिषीनां क्षीरमपां ता मातृकल्पा इमाः । हे स्वामिन् ! एतद्वनसुखं कि वर्णयामि ? एकं तातसेवनसुखं राज्यकोटिसुखं तिरस्करोति । ततस्तौ भ्रातरौ तातपादाश्रमं प्रविश्य नयनकमलदिवाकरं तातमग्रे निरीक्षाञ्चक्राते । तातं प्रति राजोवाच-“तव पुत्रः प्रसन्नचन्द्रस्त्वामभिवादयते", तमभिवादयन्तं पाणिना सोऽस्पृशत् । तेन पुलकितगात्रो राजोत्कोरककदम्बवदभूत्, राजानुजोऽपि सोमचन्द्रर्षि निजतातं प्रणमन्निदमुवाच-"एष वल्कलचीरी भवच्चरणकमलमिलिन्दतां प्राप्तः" । ततः सोमचन्द्रर्षिः शिर आघ्रायाऽमोदत, गिरिमिव वारिदस्तं सर्वाङ्गमालिलिङ्ग। सोमचन्द्रपेस्तदा नयनयुगलात् कवोष्णो बाष्पो निरगलत् । अश्रुपतनमेव तस्याऽन्धताप्रध्वंसपरमभैषज्यमभूत् । पुनरावृत्तगार्हस्थ्यस्नेहबन्धनो मुनिस्तत्कालमालोकवद्भ्यां नेत्राभ्यां स्वपुत्रौ तौ निरीक्ष्याऽपृच्छत्-“हे वत्सौ ! सुखं कालोऽतिगमित: ?" तावुदतरतां-'तात ! कल्याणतरुदोहदात् त्वत्प्रसादात्' । ततो वल्कलचीरी तापसभाण्डमदृश्यमानं कीदृशमभूदिति कुटीरमध्यं शीघ्रं प्रविवेश । तद्भाण्डवृन्दं निजवस्त्राञ्चलेन प्राड्म मत्वमनुबध्नन् प्रतिलेखितुं प्रारभत । तत्प्रतिलेखनवेलायां तस्यैवं चिन्ताऽभूत्-"मुनीनां पात्राणि किमहं प्राक् पात्रकेसरिकया प्रत्यलिखम् ?" इति चिन्तयतस्तस्य जातिस्मरणमजनि । ह्योविहितवत् स्वदेव-मनुष्यभवानस्मरत् । अथ स प्राग्भवपालितं श्रमणत्वं स्मरन् मोक्षलक्ष्मीमित्रं परमं वैराग्यं प्रापत् । धर्मध्यानं कृत्वा शुक्लध्याने स्थितो वल्कलचीरी परमोज्ज्वलं केवलज्ञानं लेभे । तत्क्षणलब्धकेवलज्ञान: सोऽमृताभां धर्मदेशनां तातमग्रजं च प्रति चकार । ततः प्राप्तबोधौ सोमचन्द्रप्रसन्नचन्द्रौ देवसमर्पितयतिलिङ्गं वल्कलचीरिणं प्राणमताम् । हे श्रेणिक ! अहमेकदा विहरन् पोतनसमीपे मनोरमोद्याने समवासरं, 'तदा प्रत्येकबुद्धो वल्कलचीर्यपि स्वपितरं मह्यं समाऽन्यत्र व्यहरत् । राजा प्रसन्नचन्द्रोऽपि पोतनपुरं प्रायासीत् । तत्र गत्वा स वल्कलचीरिवचनैः सुदृढवैराग्योऽवसत् । तदा प्रसन्नचन्द्रो बालमपि स्वं पुत्रं स्वराज्ये संस्थाप्य विरक्तमना मम पार्श्वे प्राव्राजीत् । श्रीमहावीरस्वामिन्येवमुक्त्वा विरते श्रेणिक आकाशे देवसम्पातमपश्यत् । ततो जगदीश्वरं प्रणम्याऽपृच्छत्-"स्वामिन् ! किमेष प्रकाशिताकाशो देवसम्पातो दृश्यते ? तच्छ्रुत्वा स्वाम्युवाच"राजन् ! प्रसन्नचन्द्रपेरिह केवलज्ञानमुदपद्यत । तन्महिमानं विधातुमिमे देवाः सम्पतन्ति" । जम्बूस्वामिपूर्वभवकथा श्रेणिको भगवन्तं श्रीवीरं पुनर्व्यजिज्ञपत्-"नाथ ! केवलज्ञानं कस्मिन् व्युच्छेदं गमिष्यति ?" भगवानुवाच-"राजन् ! पश्यैष Page #16 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - प्रथमः सर्गः १९ mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm त्रिषष्टिालाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ब्रह्मेन्द्रस्य सामानिको विद्युन्माली सुरश्चतुर्देवीयुतोऽस्माद् दिनात् सप्तमदिवसे तव पुर ऋषभदत्तश्रेष्ठिनो जम्बूनामा पुत्रोऽन्तिमकेवली भविष्यति" । पुना राजाऽपृच्छत्-"स्वामिन् ! एष देव आसन्नच्युतिश्चेत् तर्हि कथं नाऽस्य तेजः क्षीणमस्ति ?" भगवानुवाच-"राजन् ! एकावताराणां देवानामन्तकालेऽपि तेजःक्षयादिच्यवनचिह्नानि न प्रादुर्भवन्ति" । तदाऽनादृतनामा जम्बूद्वीपपतिरेको देवो हर्षेणोच्चैरेवमुवाच-"अहो ! मे कुलं धन्यमस्ति" । तदा श्रेणिकः कृताञ्जलिभगवन्तमप्राक्षीत्-"भगवन् ! देवोऽयं कस्माद्धेतोः स्वकुलं प्रशंसति ?" इति श्रुत्वा सर्वज्ञो भगवानुवाच-"राजन् ! अस्मिन्नेव पुरे गुप्तमतिनामा श्रेष्ठी जगत्प्रसिद्धोऽभूत् । तस्य क्रमाद् द्वौ पुत्रावजनिषाताम् । ज्येष्ठ ऋषभदत्ताख्यः कनिष्ठो जिनदासनामा च । तत्र ज्यायान् पुत्रोऽतिसदाचारः, कनीयान् द्यूतादिव्यसनीति कृतयुगकलियुगयोः प्रत्यक्षे इव शरीरे । लघुः पुत्रो दुराचार इति सकलजनसमक्षे बुद्धिमता श्रेष्ठिना परित्यक्तः । ज्येष्ठश्चाऽहं भ्रातृरहितोऽस्मीति वदन् शुन इव कनिष्ठस्य गृहे प्रवेशमपि नाऽदात् । एकदा जिनदासोऽन्येन द्यूतकारिणा द्यूतक्रीडां कुर्वन् सञ्जातद्यूतकलहे तेन सद्योऽस्त्रेण निहत: । द्यूतविषवृक्षस्याऽस्त्राघातपीडनं फलमनुभवन् जिनदासो रङ्क इव भूतलेऽलुठत् । स्वजना ऋषभदत्तमेवं न्यवेदयन्-“भो परमार्हत ! प्राणिमात्रसाधारणदयया स्वानुजं जीवय" । यत: पात्रं कीर्तेविशुद्धायाः स बन्धुः स च नायकः । यो बन्धुं सेवकं चाऽभ्युद्धरते व्यसनावटात् ॥ एवं स्वजनप्रेरित ऋषभदत्तोऽनुजमुपागात्, तमाश्वासयच्च"हे वत्स ! समाश्वसिहि त्वामौषधादिभी रक्षिष्यामि" । ततो जिनदास उवाच-"जीविताशारहितस्य मे पारलौकिकं कार्यं कुर्याः मम दुर्नयांश्च क्षमस्व । हे आर्य ! अधुना परलोकपान्थस्य मे धर्मोपदेशपाथेयमनशनपूर्वकं देहि" । तत ऋषभदत्तोऽनुजमुपादिशत्"वत्स ! निर्ममो भव, शुद्धमनाः पञ्चपरमेष्ठिनमस्कारं जप" । एवमाद्यनुशिष्य लघुभ्रातरमनशनयुतां भगवदाराधनामचीकरत् । तत्प्रभावाज्जिनदासोऽपि पण्डितमरणेन पञ्चत्वं गत्वा जम्बूद्वीपपतिः परमद्धिको देवोऽजनि । स चाऽयं देवो "राजगृहनगर ऋषभदत्तस्य पुत्रो जम्बूनामा चरमः केवली भावी"-इति स्वपूर्वकुले भ्रातृगृहे केवलिजन्म श्रुत्वा प्रमोदाद् निजकुलं पावनं मन्यमानः प्रशंसति । भवदत्त-भवदेवकथा राजा पुन: प्रभुमप्राक्षीत्-"भगवन् ! एष विद्युन्माली देवो ग्रहेषु सूर्य इव कथं तेजस्वी प्रतिभाति ?" प्रभुरुदतरत्-राजन् ! अस्य जम्बूद्वीपस्य मगधदेशे सुग्रामग्रामे आर्यवान् राष्ट्रकूटोऽभूत्। तस्य रेवतीनाम्नी पत्नी, तयोर्भवदत्त-भवदेवनामानौ पुत्रावभूताम् । तत्र भवदत्तो यौवनेऽपि श्रीसुस्थिताचार्यपार्श्वे भवाम्भोनिधेरुत्तारणतरी दीक्षामग्रहीत् । सोऽसिधारोग्रं व्रतं परिपालयन् शास्त्रपारगो गुरोद्वितीयतनुरिवाऽऽचार्येण सह विजहार । एकदा तस्मिन् गच्छे कश्चिदेकः साधुराचार्यं प्रत्यजिज्ञपत्"गुरो ! यत्र मे बन्धुजनोऽस्ति तत्र जिगमिषु मां गन्तुमादिश, यतस्तत्र ममाऽनुजोऽतिस्नेही मयि विद्यते । स पूर्वतो भद्रप्रकृतिमा दृष्ट्वा प्रव्रजिष्यति । ततः शास्त्रज्ञसाधुयुतं तं तत्र गन्तुमादिशत् तदीयाचार्यवर्यः, यतः-"परोद्धारपरायणे शिष्ये गुरुः प्रसीदति" । Page #17 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ गुरुनिर्दिष्टः स स्वीयपितृसदनमुपेत्य भ्रातुः कामतरुवर्धकं विवाहं तत्राऽऽरब्धमपश्यत् । तदा विवाहकौतुकव्यग्रो मुनिलघुभ्राता विस्मृतेतरकार्यो हषोत्कर्षव्यग्रोऽभूत् । विवाहसमये प्राप्तं स्वानुजमुनिमजानान इव स्वागतमपि न चकार, व्रतग्रहणकथा तु दूरे बभूव । ततो विषण्णमनाः स मुनिस्ततः परावृत्य निजाचार्यसकाशमागमत् । गुरुचरणान् प्रति निजानुजस्य सकलां कथामकथयत् । ततस्तच्छ्रुत्वा भवदत्तो मुनिरेवमवोचत् - अहो ! अनुजस्य नैष्टुर्यमेतत् यद् गृहेऽभ्यागतं ज्यायांसमृषिमवाज्ञासीत्, किं गुरुभक्तितोऽपि विवाहकौतुकं श्रेयो यत् तत् परित्यज्य सानन्दः स ज्येष्ठं नाऽनुगतवान् । २० तदा साधुः कश्चिदेवमुवाच- "हे भवदत्त ! यदि त्वं चतुरोऽसि तदा निजमनुजं प्रव्रज्यां ग्राहय" । एतच्छ्रुत्वा भवदत्तमुनिरुवाच"हंहो यदि गुरुचरणा मगधदेशे विहरिष्यन्ति तदाऽदः कौतुकं प्रदर्शयिष्यामि " । अन्यदाऽऽचार्या विहरन्तो मगधानेव जग्मुः यत: पवनवत् साधवो नैकत्र तिष्ठन्ति । ततो भवदत्तमुनिर्गुरुचरणान् वन्दित्वैवं व्यजिज्ञपत्-“गुरुचरणाः ! इतः सन्निहितान् स्वजनान् दिदृक्षेऽतो भवन्तस्तत्र गन्तुमाज्ञापयन्तु" । ततो गुरुरेकाकिनमपि भवदत्तमुनिं तत्र गन्तुमाज्ञापयाञ्चकार । यतो वशिन एकाकिनोऽपि विहार: कल्पते । ततो गुरुनिर्दिष्टः स स्वसंसारिबन्धुगृहमनुजं दीक्षां ग्राहयितुमनुकम्पाकलितहृदयो जगाम । तदा भवदेवो नागदत्तस्य वासुकी - गर्भसंभूतां पुत्रीं पर्यणैषीत् । कृतविवाहमहाः सर्वे बन्धुजना भवदत्तमुन्यागमनं महोपरिमहं मन्यमानास्तं हर्षेणाऽभिजग्मुः । ते बध परिशिष्टपर्व - प्रथमः सर्गः भवदत्तमुनिचरणौ प्रासुकोदकेन प्रक्षाल्य तीर्थजलादप्यधिकं तत्पादोदकं मत्वा ववन्दिरे । यतः गङ्गा पापं शशी तापं दैन्यं कल्पतरुर्हरेत् । पापं तापं च दैन्यं च हरेत् साधुसमागमः ॥ १ ॥ साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलते तीर्थं सद्यः साधुसमागमः ॥ २ ॥ जाड्यं धियो हरति सिञ्चति वाचि सत्यं । मानोन्नतिं दिशति पापमपाकरोति । २१ कीर्ति च दिक्षु विमलां वितनोति लक्ष्मी । सत्सङ्गतिः कथय किं न करोति पुंसाम् ? ॥ ३ ॥ भवसागरनिमज्जनभयादिवाऽवलम्बनमिच्छन्तः सर्वे बन्धवस्तदीयचरणकमलयोर्लगित्वा तं प्रणेमुः । भवदत्तमुनिरप्यवोचद् बन्धून्- “भो ! यूयं विवाहोत्सवव्याकुलाः स्थ, अतोऽन्यत्र वयं गच्छामः । युष्माकं धर्मलाभोऽस्तु, सर्वे बन्धव एषणीयकल्पनीयभक्त - पानादिभिस्तं मुनिं प्रत्यलम्भयन् । तदानीं भवदेवोऽपि स्वकुलाचारं प्रपालयन् सखीभिः सेव्यमानां नवोढां मण्डयन् चन्द्रमण्डलादाकृष्टेन चन्द्रातपरसेनेव श्रीखण्डचन्दनरसेनाऽङ्गरागं चकार । नवोढाशिरसि ग्रस्तचन्द्रराहुश्रीचोरकं सुमनोमाल्यगर्भितं धम्मिल्लं बबन्ध । तत्कपोल-फलकयोः कस्तूरीरसेन कामदेवस्य जयप्रशस्तिमिव पत्रवल्लरीमलिखत् । यावत् स तत्कुचमण्डलयोर्मण्डनं प्रारेभे तावता भवदत्तमहामुनेरागमनवार्तां शुश्राव । भ्रातृदर्शनोत्सुकः स जयवान् द्यूतकार इवाऽर्द्धभूषितामपि प्रियां त्यक्त्वा शीघ्रमुत्तस्थौ । तदा प्रियसखीभिरर्द्धमण्डनपरित्यागनिषेधानौचित्यादिकथ्यमानमपि बधिर इव नाऽ श्रौषीत्, Page #18 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - प्रथमः सर्गः २३ २२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः साग्रहं वारयन्तीनां तत्सखीनां भवदेव इदमुत्तरमदात्-“हे बालिकाः ! अहं गुरुं वन्दित्वा पुनरागमिष्यामि" । ततो भवदेवः स्वस्थानात् कपिरिव प्लवमानो भवदत्तमुनि तत्रोपस्थितं समभ्येत्य ववन्दे । वन्दित्वोत्थितमात्रस्याऽनुजस्याऽनगारशिरोमणिः मुनिः प्रव्रज्यादानार्थं सत्यङ्कारमिव घृतभाजनमर्पयाञ्चक्रे, ततो भ्रातरि दत्तनेत्रोऽगाराद् निर्जगाम । भवदेवोऽपि तत्सर्पिर्भाजनं स्वपाणौ वहन् मुनिपदारविन्दमकरन्दमिलिन्दो भवदत्तमुनिमन्वगात् । अपरेऽपि जना प्रमोदान्वितहृदया नार्यश्च भवदत्तमुनिमन्वीयुः । स च मुनिः कमपि स्वमनुगच्छन्तं न व्यसृजत् । अदो हि मुनीनामुचितम् । मुनिनाऽविसृष्टा विशिष्टानुरागास्ते जना न पराववृतिरे । कियद्दूरं गत्वा विषण्णहृदयास्ते मुनि वन्दित्वा स्वयमेव परावृतन् । ततो भद्रहृदयो भवदेवो व्यचिन्तयत्-"एते विसृष्टा अपि परावर्तन्ते यत एते सोदरा न सन्ति, अहं त्वस्य मुनेः सोदरोऽस्मि; आवां मिथ: स्नेहिनौ स्वः । तस्मादमुनाऽविसृष्टस्य मम परावर्तनं नोचितम् । भक्त-पानादिभारभरेणाऽऽक्रान्तोऽयं मदग्रजः, अत एव प्रसीदन् घृतभाजनं वोढुं ममाऽर्पयत् । चिरकालादभ्यागतं श्रान्तं ज्येष्ठभ्रातरं मुनिममुं स्थानेऽमुक्त्वा निवर्तितुं न शक्नोमि" । ततो भवदत्तमुनिः मदनुजोऽयं मार्गे न श्राम्यत्विति गार्हस्थ्यवातां प्रारेभे । यथा-“हे भ्रातः ! एते ते ग्रामपर्यन्तवृक्षा मार्गमण्डपाः सन्ति, येषु पूर्वमावां कपिवत् सानन्दमक्रीडाव । तान्येतानि सरोवराणि येषु बाल्ये वयस्यावां कमलिनीनालैनिजनिजकण्ठयोः परस्परं हारमका@ । ता एता ग्रामपर्यन्तभूमयः सन्ति, यासु वालुकाभिश्चैत्य क्रीडां वर्षर्तावावामकार्व" । एवमध्वनि स्वानुजं वार्तयन् भवदत्तो निजाचार्यचरणकमलपूतं ग्राममगमत् ।। "तत: क्षुल्लका भवदत्तमुनि निजानुजसहितं वसतिद्वारमागतं दृष्ट्वा परस्परं विहितवक्रोष्ठिका अवोच-"अनेन मुनिना दिव्यवेषधरोऽनुजः प्रव्रज्यार्थमानीतस्तेन मन्यामहेऽयं स्ववचः सत्यापयिष्यति" । तदा सूरिरुवाच-"भवदत्त ! त्वया सह कोऽयं युवाऽऽगतोऽस्ति ?" भवदत्त उवाच-"असौ ममाऽनुजो दीक्षां जिघृक्षुरिहाऽऽगमत्" । ततः सूरिर्भवदेवमप्राक्षीत्-वत्स ! त्वं किं व्रतमादातुमिच्छसि ? ततो भवदेवो मदग्रजो मुनिमिथ्यावादी मा भूदिति भगवन्नेवमिति दीक्षास्वीकारवचोऽवोचत्, तदैव सूरिर्भवदेवमदीक्षयत् । साधुभ्यां सहाऽन्यत्र विहर्तुमयुजच्च । ततो भवदेवपरिजनास्तदनागमनचिन्तया पृष्ठतोऽभ्युपगम्य भवदत्तमुनिमूचुः-"भगवन् ! अर्धमण्डितां प्रियां मुक्त्वा भवतोऽनुगतो भवदेवोऽद्याऽपि गृहं न प्राप्तः । तस्मिन्ननागते वयं जीवन्तोऽपि मृता एव स्मः । तद्वधूश्चक्रवाकीव तद्विरहविधुरा, सिराम्बुवत् तस्या नयनाम्बु न विश्राम्यति । भवदेवोऽस्माननापृच्छय स्वप्नेऽप्येकाकी न क्वचिद् व्रजन्नासीत् । किं स क्वचिद् गतः ? भवदेवमपश्यतो नष्टधनानिव ग्रहिलानस्मान् हे ऋषे ! स्वानुजवार्ताकथनेनाऽनुगृहाण" । ततो धर्मोद:च्छुर्भवदत्तोऽनुजस्य कृते मिथ्याऽप्यवोचत्"आगतमात्रोऽपि स क्वचिज्जगाम, वयं न जानीमहे । कि केन पथा क्व गतः स इति जल्पन्तो दीनवदना दस्युमुषिता इव ततः Page #19 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रत्यावृतन् । भवदेवो नवोढां हृदि ध्यायन् केवलं भ्रातृभक्त्यैव सशल्यां प्रव्रज्यां पर्यपालयत् । ततो भवदत्तर्षिर्बहुना कालेन व्यतीतेनाऽनशनं कृत्वा विपन्नः सौधर्मे देवोऽभूत् । २४ ततो भवदेवश्चैवं दध्यौ मम नागिला प्रेयसी, तस्या अहमपि प्रेयान्, अहो ! द्वयोविरहोऽभूत् । एतावद्दिनपर्यन्तं भ्रात्रनुरोधेन व्रतमहमपालयम् । तस्मिन् दिवं गते किं मम आयासहेतुना व्रतेन ? यथा नागिलाविरहेणाऽहं दुःखी न तथा दुष्करेणाऽपि व्रतकष्टेन ? कथमहो सा भविष्यति ? आलानबद्धा हस्तिनीव, हिमयुता कमलिनीव, मरुगता मरालीव, ग्रीष्मतापयुता लतेव यूथभ्रष्टा हरिणीव, पाशबद्धा सारिकेव दैन्ययुता सा लोकानुकम्प्यैव भवेदिति मन्ये । यद्यहं जीवन्तीं तां प्राप्स्यामि तदाऽद्याऽपि मुनिव्रतं विहाय गृहस्थतातृप्तो, दीर्घनयनया तया सह रंस्ये । एवं चिन्तातन्तुभिरूर्णनाभ इव स्वं बध्न स्थविरर्षीननापृच्छ्यैव भवदेवो विनिर्जगाम । स भवदेवः शीघ्रमेव सुग्रामं ग्रामं जगाम । तत्र ग्रामाद् बहिः संवृतद्वारबाह्यगृहसमीपे तस्थौ । तावता तत्रैकया ब्राह्मण्या सह नागिला गन्धमालाधराऽऽगता, सा 'असौ कोऽपि मुनिरभ्यगादिति तमवन्दत । ततो भवदेवस्तां पप्रच्छ- "हे भद्रे ! अस्मिन् पुरे आर्यवान् राष्ट्रकूटस्तस्य रेवतीनाम्नी पत्नी च सम्प्रति जीवति न वा ?" सा प्रत्युवाच - "नो मृतौ तयोर्मरणस्य भूयान् कालो व्यतीयाय" । पुनरपि भवदेवस्तामप्राक्षीत् भद्रे ! आर्यवत्पुत्रेण भवदेवेन नवोढा प्रिया या त्यक्ता सा विद्यते न वा ?" सा व्यचिन्तयत्- " अयं भवदेव एवाऽस्ति । प्रायोऽग्रजाद् व्रतं गृहीतवान् अथवा निष्पापमिहाऽऽगतमेतं वार्तयामि । एवं परिशिष्टपर्व प्रथमः सर्गः २५ विचिन्त्योवाच-"भगवन् ! त्वमेवाऽऽर्य - रेवतीपुत्रो भवदेवोऽसि । हे तपोधन ! किमर्थमागतोऽसि ?” भवदेवोऽवदत्-"साधु त्वयाहमुपलक्षितोऽस्मि । स एवाऽहं नागिलाप्राणेश्वरो भवदेवोऽस्मि । तदाऽहं ज्येष्ठभ्रात्र नुरोधेनाऽनिच्छन्नपि दुष्करं व्रतमग्रहीषम् । अग्रजे मृते साम्प्रतमहं निरङ्कुशो नागिला कथमभूदिति तद्दिदृक्षयाऽत्राऽऽगमम्" । ततो नागिला व्यचिन्तयत्- " चिराद् दृष्टां परावृत्तवयोगुणां मामसौ न प्रत्यभिजानाति । तस्मादेनमात्मानं परिचाययामि । इति विमृश्य नागिलोवाच - " या नवोढा त्वयाऽत्याजि सा नागिला - ऽहमेवाऽस्ति । स्वर्गापवर्गफलदायकं रत्नत्रयं विहाय वराटिकामात्रसदृशीं मां मा गृहाण । अत्यन्तघोरनरकपातसाक्षिणां कामास्त्राणां विषयाणां लक्ष्यो मा भूः । हितैषिणा भ्रात्रा छलेनाऽपि त्वं व्रतं ग्राहितोऽसि । मयि पापतनौ रतस्तमप्यनाप्तं मा मन्यस्व । तत्समीपे मयि रागकृतं पापं समालोचय" । एवं नागिला यावद् भवदेवं भृशमन्वशासत् तावत् तया ब्राह्मण्या भुक्तपायसो बालकस्तत्राऽऽगमत्, अवोचच्च– “मातः ! यन्मयाऽमृततुल्यं पायसं भुक्तं तदहं वमिष्यामि, अधो भाजनं धारय । यतोऽहमन्यत्र निमन्त्रितस्तत्र दक्षिणां लप्स्ये । अवान्तपायसोऽहं भोक्तुं न शक्ष्यामि दक्षिणामादायाऽऽगतोऽहं पुनः पायसं भोक्ष्ये । स्वयं वान्तं स्वयं भोक्ष्ये । तत्र स्वोच्छिष्टभोजने का लज्जा ? ब्राह्मण्युवाच - " वान्ताशी त्वं निन्दितो भविष्यसि । तस्माद् हे पुत्र ! अनेन निन्द्यकर्मणाऽलम्" । तदा भवदेवोऽप्यवदत्-"हे बाल ! वान्ताशी त्वं कुक्कुरादपि निकृष्टो भविष्यसि " । तदा नागिलोवाच - "ऋषे ! यद्येवं जानीषे, वदसि च तदा मां त्वमुद्वम्य Page #20 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पुनः किमुपबुभुक्षसे ? मांस - शोणिता - ऽस्थि - विष्टा - मूत्राद्यशुचिपूर्णाऽहं वान्तादपि परमाधमा जुगुप्सनीयाऽस्मि । तत् किमीदृशीं मां कामयमानो न जिह्रेषि ? पर्वते ज्वलन्तमग्नि पश्यसि चरणयोरधः पुनर्न, यत् परं शिक्षयसि स्वयं स्वं न, येऽन्यशिक्षादक्षास्तेषां पुंसां का गणना ? ये पुनः स्वं शिक्षयितुं समर्थास्तेषां नृणां पुंसु गणना" । २६ एतन्निशम्य भवदेवोऽवदत्-" हे अनघे ! त्वयाऽहं साधु शिक्षितः । जन्मान्ध इवोत्पथे गच्छन्नहं पन्थानमानीतोऽस्मि । तदद्य स्वजनान् दृष्ट्वा गुरुसकाशे गमिष्यामि । तत्र व्रतातीचारमालोच्य दुस्तपं तपस्तप्स्ये च । नागिलोवाच - स्वजनैस्ते किम् ? स्वार्थपरायणो भव । ते हि गुरुदर्शने मूर्ता विघ्नाः सन्ति । तस्माद् गुरुसकाशं गच्छ । दान्तात्मा व्रतं कुरु । अहमपि व्रतिनीपार्श्वे प्रव्रजिष्यामि । अथ भवदेवः समाहितो जिनबिम्बानि वन्दित्वा गुरुपार्श्व गत्वाऽऽलोचनादिकृत्यमकरोत् । भवदेवः श्रामण्यं निरतीचारं प्रपालयन् कालधर्मं कृत्वाऽऽदिकल्पे शक्रसामानिक: सुरोऽभूत् । सागरदत्तकथा इतश्च भवदत्तस्य जीवस्स्वर्गाच्च्युत्वा विदेहधरणिशिरोमणी पुष्कलावत्यां विजये पुण्डरीकिण्यां नगर्यां वज्रदत्तस्य चक्रवर्तिनो यशोधरानाम्न्या राज्याः कुक्षाववातरत् । तस्मिन् गर्भस्थे यशोधरादेव्याः समुद्रस्नाने दोहदोऽभूत् । ततो वज्रदत्तनृपः समुद्रसदृश्यां सीतानद्यां यशोधरादेवीं क्रीडयित्वा तदीयदोहदमपूपुरत् । अथ पूर्णदोहदा सा यशोधरादेवी लतेवाऽधिकाधिकं लावण्यं प्राप । क्रमेण पूर्णे समये यशोधरा गङ्गा कनककमलमिवोत्तमं पुत्रमजीजनत् । परिशिष्टपर्व प्रथमः सर्गः वज्रदत्तनृपः शुभे दिने यशोधरायाः सागरस्नानदोहदानुसारि सागरदत्त इति नामाऽकार्षीत् । स राजपुत्रो धात्रीभिर्लाल्यमानः पयःपानादिभिः कर्मभिः पाल्यमानश्च तरुरिव क्रमेण वृद्धि प्राप । जातवाक्प्रचारः स कुमारः स्वर्णदण्डमुत्थाप्य शुकशारिका: सोत्कण्ठं पाठयामास । प्रौढतां प्राप्तः पुष्टः स रङ्गभूमौ नृत्यन्मणिकुण्डलः सुहृद्भिः सह रत्नकन्दुकैरक्रीडत् । राज्ञा समये गुरुसकाशे नियुक्तो गुरोः सकलाः कलाः पथिकः कूपादप इव परिपपौ । विश्वस्याऽपि नयनकैरवाणि प्रमोदयन् विधुरिव सम्पूर्णकलो यौवनं स प्रापत् । पितृभ्यां स्वयंवरागताः कन्याः स परिणिन्ये । यतो नद्यो रत्नाकर - मिव कन्या: पात्रमागच्छन्ति । ताभिः कन्याभिः सह वृषभोऽनड्वाहीभिरिव, हस्ती हस्तिनीभिरिव चन्द्रस्ताराभिरिव चिक्रीड । २७ अन्यदा कामदेवकल्पः स प्रासादे स्त्रीभिः सह रममाणो गगने मेरुसदृशं मेघमण्डलमपश्यत् अचिन्तयच्च - "अहो ! आगमे मेरुर्यादृक् श्रूयते तादृग् मेघमयोऽयं रमणीयो दृश्यते । एवं मेरुवद् मेघमण्डलं प्रेक्षमाणस्य तस्य तन्मध्ये विलग्नेव दृष्टिरधोमुखी नाऽजनि । कुमार उत्पश्यो यावद् मेघमण्डलं ददर्श तावद् बुद्बुद्वत् तन्मेघमण्डलं विलीय क्वचिज्जगाम । ततः कुमार एवमचिन्तयद् यथा मेघोऽयं क्षणिकस्तथा देहोऽपि प्राणिनामेषः तर्हि सम्पत्तीनां का कथा ? यत् प्रातर्दृश्यते तन्मध्याह्ने न, यच्च मध्याह्ने तद् न रात्रौ, अतः सर्वेषां पदार्थानामस्मिन् संसारेऽनित्यत्वमवधार्यते । तस्माद् विवेकजलसिक्तमनुष्यभववृक्षस्य सकामनिर्जरासारं व्रतं फलं पश्यामि । इति विचारानन्तरं सागरदत्तकुमारः परमं वैराग्यं धारयन् व्रतग्रहणाय कृताञ्जलिः पितरौ पप्रच्छ । Page #21 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - प्रथमः सर्गः Pommannamanninnnnnnnnn २८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmins तदा पितराववोचताम्-"वत्स ! यथा वाद्यमानायां वीणायां शास्त्रपाठो व्यर्थस्तथा यौवनेऽपि तव व्रताग्रहः । अधुना त्वं युवराजः, पुना राजा भविष्यसि, तस्माद् राज्यं चिरं पालयित्वा समये प्रव्रजे:"। ततः सागरदत्त उवाच-'हे पितरौ ! मया राजलक्ष्म्यश्चेतसो दूरीकृताः, अतो मां परिव्रज्यां ग्रहीतुं किं नाऽऽदिशथः । एवमत्याग्रहकुठारेण स चतुरः सागरोऽथ पित्रोः स्नेहपाशमच्छिदत् । ततस्तौ तं व्रतग्रहणायाऽऽज्ञापयाञ्चक्रतुः । अथाऽनेकराजपुत्रपरिवारपरिकरितः सागरः सागराचार्यपार्श्वऽमृतोपमं व्रतमग्रहीत् । ततः स सागरदत्तो मुनि नाभिग्रहधरो गुरुशुश्रूषानिरतः क्रमाच्छास्त्रसमुद्रपारङ्गतोऽभूत् । ततस्तपस्यतस्तस्य तपसः किमपि दूरे नाऽस्तीति प्रतीतिजनकमवधिज्ञानमुदपद्यत । शिवकुमारकथा इतश्च भवदेवजीवोऽपि प्रथमस्वर्गभोगकाले पूर्णे स्वर्गाच्च्युतस्तत्रैव विजये पुरीशिरोमणौ वीतशोकायां पद्मरथसंज्ञस्य महर्द्धर्नृपस्य वनमालादेव्याः शिवनामा पुत्रोऽभूत् । स उद्गतः कल्पवृक्ष इव यत्नेन पाल्यमानः क्रमेण वर्द्धमान: काकपक्षधरोऽभूत् । तस्मिन् साक्षिमात्रकृतगुरौ प्राज्ञवरे परस्परं गृहीतसङ्केता इव सकला: कला: प्राविशन् । स यौवने कुलोद्भवा राजकन्याः पर्यणैषीत्, ताभिर्युतो लताभिस्तरुरिव रेजे। एकदा प्रासादे स्थितस्य सस्त्रीकस्य नगरीबाह्योद्याने सागराचार्यः समवससार । तत्र कामसमद्धनामा सार्थवाहो मासक्षपणपारणे तं महर्षि भक्त्या प्रत्यलाभयत् । पात्रदानप्रभावात् कामसमृद्धस्य गृहे गगनाद् वसुधाराऽपतत् । यत:-'पात्रे दानात् किं न भवति ?' शिवकुमार आश्चर्यकरं तच्छ्रुत्वा सागराचार्यं समुपेत्य ववन्दे । तच्चरणसमीपप्रदेशे राजहंस इवोपविवेश च । ततश्चतुर्दशपूर्वी सागरो महामुनिरपि सपरिवारं शिवं प्रत्यार्हतं धर्ममुपदिदेश । विशेषतः प्राज्ञस्य तस्य स्फटिकस्वच्छे हृदये स महर्षिः संसारासारतां प्रवेशयामास । शिवकुमारः सागराचार्यं पप्रच्छ-"भगवन् ! कि पूर्वजन्मभवोऽयं स्नेहोऽस्ति ? यतो भवतः पश्यतो मेऽधिकाधिकः प्रमोदो जायते" । इत्याकाऽवध्युपयोगेन ज्ञात्वा मुनिरुवाच-"वत्स ! त्वं पूर्वजन्मनि प्राणेभ्योऽप्यधिकः प्रियो ममाऽनुज आसीः । पूर्व गृहीतव्रतेन मया प्रयासेन त्वमनिच्छन्नपि परलोकहितकामनया व्रतं ग्राहितः । आयुःक्षये सुधर्मे कल्पे आवां परमद्धिको सुरावभूव । तत्राऽपि कुमुदचन्द्रयोरिवाऽऽवयोः स्नेहोऽभूत् । अस्मिन् भवेऽहं वीतरागः स्व-परयोः समानदृक्, त्वं त्वद्याऽपि सरागत्वाद् मयि पूर्वजन्मस्नेहभागसि । ततः शिवकुमार उवाच-"भगवन् ! अहं पुराऽपि व्रतग्रहणाद् देवोऽभूवम् । तदिहाऽपि भवे प्राग्जन्मवद् मे व्रतं देहि । यावदहं पितरौ व्रतहेतवे पृष्ट्वाऽऽगच्छामि तावत् पूज्यपादा भवन्तो मयि कृपालव इहैव विराजन्ताम् । ततो गत्वा शिवकुमारः पितृपादान् न्यवेदयत् । “अद्य सागरदत्ताचार्यस्य धर्मदेशना मयाऽ श्रावि । तत्प्रसादात् संसारासारताऽधिगता । ततः संसाराल्लतापुञ्जाद् भारिक इवाऽहं विरक्तोऽस्मि । तन्मां प्रव्रज्याग्रहणायाऽनुमन्यध्वम् । अद्य मोहतमसः प्रत्यूषसमः सागरर्षिर्मे शरणमस्ति । एतद् निशम्य पितराववोचताम्-"वत्स ! यौवने व्रतं मा ग्रहीः, अद्याऽप्यस्माकं त्वत्क्रीडादर्शनजं सुखं न पूर्यते । एकपदेऽपि Page #22 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - प्रथमः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वं कथमत्यन्तं निर्ममोऽभू: ? अपरिचितानिवाऽस्मान् हि जिहाससि । यदि त्वं नो भक्तोऽसि, यदि चाऽस्मानापृच्छ्य गमिष्यसि, तदाऽऽवयो रसना नकारवातुलैव भविष्यति ! एवमनाज्ञापयतो: पित्रोः शिवकुमारो गन्तुमसमर्थो गृह एव सकलसावधव्यापारविमुखो भावयतिरभूत् । सागरदत्तषैरहं शिष्य इति निश्चयवान् मौनमालम्ब्य तिष्ठति स्म । 'यतो मौनं सर्वार्थसाधनम्' । बलादपि भोक्तुमुपवेशित: स न किञ्चिदपि जघास । मह्यं किञ्चिदपि न रोचत इत्येव पुनः पुनरुवाच । एवं शिवाभिलाषिणा शिवेनोद्वेजितो राजा शिवमित्रं दृढधर्म श्रेष्ठिपुत्रं समाहूय समादिशत् । "वत्स ! व्रतार्थमनादिष्टेन पाषाणनिष्ठुरहृदयेन मम पुत्रेण शिवकुमारेण मौनमवालम्ब्यत । व्यर्थफालो व्याघ्र इव क्षरन्मदधारो हस्तीव चाटुशतैरपि न बुभुक्षते । वत्स ! त्वं कथमपि मे शिवं प्रतिबोध्य भोजय । एवं कृतवता त्वया मम किं किं नोपकृतं भवेत् ? हे महाशय ! मम जीवविहगं शरीरनीडाद् गन्तुमुद्यतं प्रत्याशापाशबन्धेन नियन्त्रय । प्राज्ञो दृढधर्मोऽपि राज्ञ इत्याज्ञां स्वीकृत्य शिवकुमारसकाशं जगाम । क्रमशः स नैषेधिकों कृत्वा तस्य भवनमध्ये प्रविश्यैर्यापथिकी प्रत्यक्रमीत् । द्वादशावर्तं वन्दनं कृत्वा भूमिं प्रमाw मामनुजानीहीति निगदन्नुपविवेश । इति शिष्टविशिष्टाचारं दृष्ट्वा शिव उवाच-अहो दृढधर्म ! अयं विनयो मया सागराचार्यसमीपे साधूनामदर्शि स मयि कथं घटते ? ततो दृढधर्मोऽवदत्-"सम्यग्दृष्टीनां जनानां यत्र कुत्रचित् समभावो भवति स समभावो हि सर्वस्य विनयार्हः । यस्य कस्याऽपि जनस्य समभावयुक्तं मानसं भवति स वन्दनीयो भवत्येवाऽत्र न दोषशङ्काकलङ्कः । हे कुमार ! अहं त्वत्पार्श्व साम्प्रतमेतत् प्रष्टुमेवाऽऽगतोऽस्मि, त्वं रसज्वरव्याकुल इव कुतो भोजनमत्याक्षी: ? तत: शिव उवाच-"मम पितरौ व्रताय मां न विसृजतः, अत एव भावयतीभूय गृहाद् विरक्तस्तिष्ठामि, यथा च पितरौ उद्विज्य मयि रागं त्यक्त्वा व्रतग्रहणाय मामादिशतोऽतो न भुजे"। दृढधर्मोऽवोचत्-“हे महाशय ! यद्येवं तर्हि भुञ्जीथाः । यतो धर्मो देहाधीनः, देहश्चाऽऽहाराधीनः । महर्षयोऽपि निरवद्यमाहारं गृह्णन्ति, निराहारे शरीरे तु कर्मनिर्जरा दुष्करा जायते" । शिव उवाच-"प्रेयन् ! हे श्रेष्ठिपुत्र ! निरवद्याहारोऽपि मम न संपद्यते, तस्मादनशनमेव श्रेयः" । दृढधर्मोऽवदत्-"अत: परं त्वं मे गुरुस्तवाऽहं शिष्यः । यद् निरवद्यं वाञ्छसि तत् सर्वं सम्पादयिष्यामि"। शिव उवाच-"मित्र ! तर्हि निरन्तरं षष्ठं कृत्वाऽऽचाम्लेनाऽहं पारणं करिष्यामि" । ततः प्रभृति सामाचारीचतुरो दृढधर्मो भावयतिन: शिवकुमारस्य विनयं कर्तुमारेभे, तपस्यत: शिवस्य द्वादश वर्षाणि व्यतीयुः, तथाऽपि मोहात् तस्य पितरौ गुरुसकाशे न तं विसृजत: स्म । क्रमेण शिवः कालं कृत्वा ब्रह्मलोके महाद्युतिर्विद्युन्मालिनामा इन्द्रसामानिकः सुरोऽभूत् । हे श्रेणिक ! आसन्नच्यवनस्याऽस्य पुण्यात्मन इयं द्युतिः सम्प्रति भासते । अयं प्राग् ब्रह्मलोकेन्द्रसमानधुतिरासीत् । अयमस्मिन्नेव पुरेऽस्माद् दिनात् सप्तमे दिन ऋषभश्रेष्ठिनो जम्बूनामा Page #23 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पुत्रोऽन्तिमकेवली भविष्यति । तदा प्रसन्नर्षिसमीपे विद्युन्मालिनि सुरे गते तस्य चतस्रः स्रियस्तं महामुनि प्रत्येवं पप्रच्छु:-"अस्माद्विद्युन्मालिसुराद् वियुक्तानामस्माकं पुन: क्वाऽपि तस्य समागमो भविष्यति न वा?" ऋषिरुवाच-"देव्यः ! अस्मिन्नेव पुरे समुद्रः १ प्रियसमुद्रः २ कुबेरः ३ सागरः ४ इति चत्वारः श्रेष्ठिन: सन्ति । तेषां चतुर्णा यूयं चतस्रः पुत्र्यो भविष्यथ । तत्र मनुष्यत्वं प्राप्तेनाऽमुना सह युष्माकं सङ्गमो भावी । ततः सुरा-ऽसुरसेवितचरणारविन्दो दयासागरः श्रीमहावीर: प्रभुभव्यकमलदिवाकरोऽतिशयद्धिपात्रमन्यत्र विहर्तुमगमत्" ॥ १॥ इति परिशिष्टपर्वणि जम्बूस्वामिपूर्वभववर्णनात्मकः प्रथमः सर्गः॥१॥ द्वितीयः सर्गः श्रीजम्बूस्वामिकथा इतश्च राजगृहे नगरे पुष्कललक्ष्मीरिन्द्र इव नृपवरः श्रेणिको राज्यं पालयामास । तदीयसभालङ्कारो नरवरशिरोमणिधर्मकर्मश्रेष्ठः श्रेष्ठी ऋषभदत्तनामाऽभूत् । स समस्तेष्टसिद्धिप्रदमन्त्रवर्णवत् "मम देवोऽर्हन् गुरुस्तु साधु" रित्येव रात्रिन्दिवं जपन्नासीत् । तन्मनोजलं सदा गुरुवचनकतकचूर्णयुतं विगतदुर्ध्यानमलं विमलं बभूव । तस्यैश्वर्यं सरोवरस्य सलिलमिव पथिवृक्षस्य फलमिव केषां केषां प्राणिनामुपकारकं नाऽभूत् । मत्या धर्मानुरागिणी गत्या हंसानुहारिणी तस्य धारिणीनाम्नी सधर्मचारिणी बभूव । तस्या विपुलतमगाम्भीर्य-धैर्य-माधुर्यप्रभृतिगुणेसु सत्स्वपि शीलगुण एव सम्यक् प्रयासो बभूव । यतः कुलाङ्गनाः शीलालङ्कारा भवन्ति । सा सती गुप्तसमस्ताङ्गी नीरङ्गीभूषिणी सूर्यस्याऽपि करस्पर्शासहिष्णुरिव समचरत् । शील-विनयप्रभृतिनिरतिशयस्वच्छगुणैः सागरमध्ये गङ्गेव प्राणनाथस्य हृदये सा व्यलीयत । नख-मांसयोरिव नित्यमिलितयोस्तयोxिदेहैकहदययोः स्नेहोऽखण्डितो बभूव । एकदाऽपत्यरहिता धारिणी निष्कलाया लताया इव मम निःसन्तानं जन्म व्यर्थमिति दध्यौ । धन्यजीवनानामेव स्त्रीणां क्रोडे सुधारस इवाऽङ्गे शीतलत्वं जनयन् पुत्रः क्रीडति । तत्राऽपि Page #24 -------------------------------------------------------------------------- ________________ mmmmnanAnamnnnnnnnnnnnnnnnnnnnnnnnnnnni त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पुत्ररहितो गृहनिवास: पापाय तापाय च जायते, लवणहीनकुभोजनवद् मह्यं गृहनिवसनं न रोचते। ___ततः पुत्रचिन्तातुरा धारिणी रहसि तत्पतिना पृष्टा-"प्रिये ! कुतो विषीदसि ?" ततो धारिणी प्राणनाथं मानसं दुःखं निवेदयामास । यद्यपि प्राणपतौ सा निजदु:खं स्थापयामास, तथाऽपि तद्नाऽक्षीयत । प्रत्युत स्वेष्टपूर्तिविरहाद् भूयोऽधिकमवद्धिष्ट । सा तेन हृदयशल्यातुल्यदुःखेन नित्यं द्वितीयाचन्द्रकलेव कृशभावमशिश्रियत् । एकदा धारिणीपतिर्धारिणीं पुत्रालाभदु:खं विस्तारयितुकाम: प्रेमपाथोधिप्रवाहोपमया वाचोवाच-"प्रिये ! वयं वैभारभूधरमद्य गच्छामः, तत्र नन्दनवनोद्यानरमणीयोद्याने रस्यामहे" । ततो धारिणी पतिदेववाचं माननीयतयाऽऽधिविस्मारणकामनया च स्वीचकार । तत ऋषभदत्तोऽपि सज्जीकृते हंसलोमकोमलतूलिके रथे प्रियया सह समारुरोह । एवं तौ जायापती संयोजिताश्चं श्रेष्ठमहारथमध्यारूढो वैभारगिरि प्रति प्रययतुः । रथोपरि समारूढ ऋषभदत्तो मार्गे स्वप्रियां वार्तयति-"हे प्रिये ! इयं वाह्यालीभूमिर्वाह्यमानाश्वफेनबुबुददन्तुरा श्रेणिकनरेशस्य प्रतिभाति । इमे नगरसमीपतरवो गजबन्धनोन्मूलितत्वक्स्कन्धा मत्तगजराजालानतां सूचयन्ति । अमूनि सुन्दराणि गोकुलानि मदीयमहारथध्वनिना वृषभभाङ्कारैः समुत्थापितश्रवणवत्ससमूहानि राजन्ते । हे कृशोदरि ! एते पिकीस्वरौषधीभूतपल्लवास्तरुणरसालतरवः शोभन्ते । इमे रथनि?षभीरवो मृगा भूमि जिहासन्तः प्रायो वायुमारूढा इव गगनं गच्छन्ति । वारिवर्षिण इमेऽरघट्टा द्वितीयमूर्तिधारिणः पुष्करावर्तमेघा इव इक्षुवणेक्षु राजन्ते । परिशिष्टपर्व - द्वितीयः सर्गः एवं दर्शनीयदर्शनैः प्रियां विनोदयन् सपरिवार ऋषभो वैभारगिरिमगमत् । तौ दम्पती रथाद् वैभारगिरिवरोद्यानदिदृक्षानृत्यन्मनोरथौ समुदतरताम् । मार्गस्थप्रत्येकतरूणां नामधेयानि पृच्छन्ती स्वादूनि निर्झरजलानि भूयोभूयः पिबन्ती पदे पदे स्निग्धतरुच्छायासु विश्राम्यन्ती शीतलकदलीदलैः सुखस्पर्शमाचरन्ती शुकालापैर्हसन्ती मृगबालेषु वत्सला क्रोडारोपितबालवानरीषु परमोत्कण्ठिता धारिणी पतिदत्तकरावलम्बनेन तत्सुखेन शनैः शनैर्गिरिमारोहयाञ्चक्रे । तत्पर्वत ऋषभदत्तो मनोहरां पर्वतोद्यानसम्पदमङ्गुल्या धारिणीं दर्शयाम्बभूव-“हे प्रिये ! फलभारनम्रा इमा मातुलिङ्गी: प्रेक्षस्व । ताम्रवर्णपुष्पैर्विश्रान्तसायन्तनमेघा इवेमा दाडिमीः पश्य । अमी ताला नृत्यन्मयूरकलापानुकारिदला मण्डपीभूतमृद्वीकामण्डपाः सूर्यकिरणानामपि दुर्गमा: प्रतिभासन्ते । अलिकुलच्छलात् परस्परसौरभ्यदानैरेताः पुष्पजातयः स्वाजन्यमुद्घोषयन्त्यत्र । जम्बूकदम्बमाकन्दपारिभद्रप्रभृतितरुभिरयं गिरिश्छायया चोलकं वसान इव प्रतिभाति । ऋषभः श्रेष्ठी तत्र शीघ्रमागतं खेचरमिव सिद्धसुतं यशोमित्रं श्रावकं स्वबन्धुमिवाऽदर्शत् । ततश्च ऋषभः श्रेष्ठी सिद्धपुत्रमवार्तयत्"त्वं मे खलु सार्मिकोऽसि तत् कथय क्व गमिष्यसि ?" स उवाच-"श्रेष्ठिन् ! अस्मिन्नुद्याने भगवतः श्रीमहावीरस्य शिष्यः पञ्चमो गणधरः सुधर्मा समवसृतोऽस्ति । हे मित्र ! तं वन्दितुमहं गच्छामि । यदि ते तद्वन्दनेच्छा तर्हि त्वमपि त्वर, अहमग्रेसरामि । श्रेष्ठ्युवाच-"हंहो मित्र ! तत्राऽहमपि सपत्नीक आगच्छामीति तेनैव सह तौ दम्पती जग्मतुः । ततस्ते त्रयोऽपि यथाविधि Page #25 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - द्वितीयः सर्गः ३७ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः द्वादशावर्तवन्दनेन श्रीसुधर्मस्वामिनं भक्त्या वन्दित्वाऽग्रे समुपाविशन् । बद्धपाणिपुटास्ते च सुधर्मस्वामिनो धर्मोपदेशामृतं श्रवणपुरतितरामपुः । अथाऽवसरे सिद्धपुत्रः श्रीसुधर्मस्वामिनमप्राक्षीत्-"भगवन् ! यन्नाम्ना जम्बूद्वीपः ख्यातः सा जम्बूः कीदृशी विद्यते ?" ततः सुधर्मस्वामी तां जम्बू जात्यरत्नमयाकृतिमकथयत्, तन्मान-प्रभावस्वरूपादि चाऽऽख्यत् । तदा धारिणी चाऽवसरमासाद्य भगवन्तं गणधरमपृच्छत्-"प्रभो ! मम पुत्रो जनिष्यते न वा" इमं प्रश्नमाकर्ण्य सिद्धपुत्रोऽवदत्-“हे धारिणि ! महापुरुषं सावा प्रष्टुं नाऽर्हसि, यतो महर्षयः जानन्तोऽपि सावद्यं न जल्पन्ति । हे कल्याणि ! जिनपादोपदेशेन निमित्तज्ञानकुशलोऽहमेव तत् कथयामि तच्छृणु-धीरस्वभावो मनसा कायेन च पराक्रमी शिलापृष्ठे समुपाविष्टः सुधर्मस्वामी त्वया यत् पुत्रजन्म पृष्टस्तत्रेदं बोध्यं, "यदा स्वप्जे त्वं क्रोडस्थितसिंह द्रक्ष्यसि ततो गर्भे पुत्रसिंह धारयिष्यसि । समये प्रसिद्धजम्बूवृक्षवद् गुणरत्नमयश्च जम्बूनामा देवताकृतसन्निधिस्तव पुत्रो भविष्यति । ततो धारिण्युवाच-"विद्वन् ! तर्हि जम्बूदेवतामुद्दिश्याऽष्टोत्तरशतमाचाम्लान्यहं करिष्ये" । ततस्ते त्रयोऽपि वन्दितसुधर्मस्वामिचरणकमला वैभारगिरिशिखरादुत्तीर्य स्वपुरं जग्मुः । ततस्तौ दम्पती सिद्धपुत्रवचनप्रत्याशया गृहस्थतां पालयन्तौ कालं गमयामासतुः । एकदा धारिणी स्वप्ने श्वेतवर्ण सिंहमपश्यत्, तेनाऽतिप्रसन्ना सा तत्स्वप्नं स्वामिनं कथयामास । ऋषभः प्रत्युत्ततार-"प्रिये ! अनेन स्वप्नेन मम विश्वासोऽजनि यत् सिद्धपुत्रवचनं तत् सर्वं सत्यमेव । हे महाभागे ! पवित्रचरित्रः शुभलक्षणो जम्बूनामा पुत्रस्तवाऽवश्यमुत्पत्स्यते" । अथ समये जाते तदा विद्युन्मालिसुरो ब्रह्मदेवलोकाच्च्युत्वा धारिणीकुक्षौ शुक्तौ मौक्तिकमणिरिवाऽवततार । ततो धारिण्या देव-गुरुपूजनेषु दोहदः समजनि, यतो नारीणां दोहदा गर्भभावानुसारिणो भवन्ति । ऋषभः श्रेष्ठी भूयसा धनेन तद्दोहदमपूपुरत्, श्रेष्ठ्यपि धनव्यये धर्मकार्ये उत्पन्नदोहद इवाऽभूत् । क्रमेण धारिणी पुष्यद्गर्भाऽतिमन्दं गर्भक्लेशागमभीत्या सावधानेव सञ्चचार । तस्याः कपोलफलकावतिपाण्डुतया प्राभातिक चन्द्रबिम्बसदृशावभूताम् । ततः सार्धसप्तदिनाधिकनवमास्या धारिणी दीप्तिजितसूर्यं पुत्रं प्रासूत । ___ तदर्षभस्य गेहे मुक्ताचूयेव घटितैरतिविशदैरक्षतैः पूर्णानि सुवर्णपात्राणि प्रविविशुः । श्रेष्ठिनि कुलवृद्धस्त्रीक्षिप्तैश्च्युतैर्दूर्वा कुरैस्तदासनासन्नभूमितले दूर्वावणमिव बभूव । ऋषभगृहद्वारे सकलकल्याणप्रधानानि बहुविधानि तूर्यवर्याणि लक्ष्मीनृत्यनिबन्धनं नेदुः । कुलाङ्गनाश्च नवकुसुमस्तबकभूषितकेशपाशा मधुमत्तकोकिलस्वरेण संगायन्त्यो ननृतुः, ऋषभश्च विशेषतो देव-गुरुपूजां व्यधात् । प्रार्थ्यमानोऽर्थिभिस्तेभ्योऽत्यर्थमर्थममन्दानन्दतुन्दिलो व्यतार्षीच्च । शुभदिने सानन्दः श्रेष्ठी स्वयं सूनोर्जम्बूतरुनाम्ना जम्बूरिति नामाऽकर्षीत् । पितरौ तं शिशुमङ्कगतमुल्लापयन्तौ रात्रिन्दिवं विस्मृतान्यकारों हर्षप्रकर्षवातुलावभूताम् । जम्बूकुमारोऽपि पित्रोरङ्कालङ्कारीभूतः क्रमेण तयोर्मनोरथवद् ववृधे । पित्रोराशालतातरु: स ऋषभनन्दनः क्रमेण यौवनवयः प्रपन्नः पाणिपीडनयोग्यो बभूव । Page #26 -------------------------------------------------------------------------- ________________ ३८ परिशिष्टपर्व - द्वितीयः सर्गः mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmtamannambannammanmaan स्वीचकार । ताः कन्या जम्बूनाम्नेऽतिश्रेयसे वराय वयं पितृभिवितीर्णाः स्म इति ज्ञात्वा धन्यंमन्या मुमुदिरे । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च तस्मिन्नेव नगरे समुद्रप्रियनाम्नः श्रेष्ठिवर्यस्य पद्मावती नाम्नी स्त्री बभूव । सम्पदा समुद्रस्येव समुद्रदत्तनाम्नः श्रेष्ठिनो गुणवती कनकमालाऽभिधा स्त्री बभूव । तथाऽद्भुतलक्ष्म्या गरीयसः सागरदत्तस्य विनयवती विनयश्रीनाम्नी भार्याऽभवत् । परमा कुबेरस्येव कुबेरदत्तनाम्नः श्रेष्ठिन: शीलधनवती धनश्रीनाम्नी पत्नी बभूव । एतेषां जायापतीनां दिवश्च्युता विद्युन्मालिसुराङ्गना क्रमेण वक्ष्यमाणनाम्ना बभूवुः । यथासमुद्रश्रीः १ पद्मश्रीः २ पद्मसेना ३ कनकसेना ४ चेति । तथा कुबेरसेनस्य कनकवतीनाम्नी भार्या बभूव । श्रमणदत्तनाम्नः श्रीषेणानाम्नी पत्नी बभूव । वसुषेणनाम्नो वीरमतीनाम्नी प्रियाऽभूत्, वसुपालितनाम्नो जयसेनानाम्नी वनिताऽभूत् । तेषां दम्पतीनां क्रमेण नभःसेना १ कनकश्रीः २ कनकवती ३ जयश्री: ४ चेति दुहितरोऽवातरन् । एकदा तासामष्टानामपि कन्यानां पितरो विनयोत्सुका जम्बूजनकमृषभं प्रार्थयामासुः-"आर्यवर्य ! अस्माकं रूप-लावण्यमनोहराः कलाजलधिपारदृश्वर्यो गुणेश्वर्योऽप्सरःसमा अष्टौ कन्याः सन्ति । तासां विवाहकल्याणमित्रं यौवनं प्राप्तमस्ति । तदनुरूपं वरं तव जम्बूकुमारं नन्दनमालोकामहि । ये कुल-शील-वयोरूपप्रभृतयो वरगुणा अपेक्ष्यन्ते ते सर्वे जम्बूकुमारे दृश्यन्ते । अयं वरो बहुपुण्यैर्लभ्योऽस्ति । तासामस्मत्कुमारीणां त्वत्प्रसादादयं जम्बूकुमारो दक्षजानां चन्द्र इव वरो भवतु । त्वं श्रीमान् कुलीनश्चाऽसि, तत्त्वयि नः प्रार्थना न लज्जायै । किं बहुना? सर्वथा विवाहसम्बन्धं विधायाऽस्माननुगृहाण" । सूनुविवाहे स्वयमप्युत्कण्ठितस्तैः प्रार्थितश्चर्षभदत्तोऽपि हर्षात् तेषां वचनं अत्राऽन्तरे भगवान् सुधर्मस्वामी विहरन् भव्यप्राणिनो बोधयंस्तत्रैव नगरोद्याने समवससार । अथ श्रीसुधर्मस्वामिसमवसरणवृत्तान्तामृतसिक्तो जम्बूकुमारः कन्दवत् प्ररूढपुलकाङ्कुरः समजनि । ततो जम्बूकुमारः समवसृतं गणधरवरं सुधर्माणं वन्दितुं पवनवेगेन रथेन तत्स्थानमाश्रयत् । स श्रावकशिरोमणिः सुधर्माणं प्रणम्य पीयूषकण्डूषकल्पां तन्मुखारविन्दनिस्यन्दमानां धर्मदेशनां श्रवणपुटाभ्यां निपीय हतभाग्यपरमदुर्लभभववैराग्यभानूदयदलितहृदयान्धकारोऽभूत् । तत: श्रीसुधर्मप्रभुं प्रणिपत्य स भवबन्धनकर्तरी परिव्रज्यामादातुं न्यवेदयत्-"हे परमेश्वर ! यावदहं पितरौ पृष्ट्वाऽऽगच्छामि तावत् त्वमत्रैवोद्याने धर्मतरुशोभामाश्रय" । सुधर्मस्वामिना तथाऽस्त्विति स्वीकृते जम्बूकुमारोऽनिलवेगजितं स्यन्दनमधिरुह्य शीघ्रं नगरद्वारमाजगाम । तदा पतिततिलस्याऽपि यथा भूमिस्पर्शावकाशो नाऽभूत् तथा गजा-ऽश्व-रथाकुलं नगरद्वारमभवत् । ततो जम्बूकुमार एवमचिन्तयत्-"अहं यद्यनया नगरद्वारा पितृभवनं प्रवेष्टुं प्रतीक्षिष्ये तदा गरीयान् कालो व्यतिगमिष्यति । तत्रोद्याने श्रीसुधर्मस्वामिनं प्रतिष्ठाप्य भवनगमनाय विहङ्गमायमानस्य मेऽत्र स्थातुं नोचितम् । तस्मादन्येनैव पुरद्वारेण रथं त्वरयन् प्रविशामि । यत उत्कण्ठितस्याऽन्यो मार्गः श्रेयान्, प्रतीक्षणं न वरम्" । इति विचिन्त्य स ऋषभनन्दनोऽतिशीघ्रं यावत् द्वारान्तरं Page #27 -------------------------------------------------------------------------- ________________ ४० परिशिष्टपर्व - द्वितीयः सर्गः ४१ mannamanna त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जगाम तावत् तत्राऽपि वप्रं यन्त्रितमवलोकयामास । वप्रोपरितनभागे यन्त्रेषु गगनतलाद् निपतत्कुलिशगोलककल्पा महाशिला लम्बिता अपश्यत् । स एवं व्यचारयत्-"एतादृश उपक्रमः परचक्रभयाद् निर्मितोऽस्ति, तदनर्थबहुलेनैतेन द्वारेणाऽलम् । अनेन द्वारेण प्रविशतो ममोपरि यदि शिला पतेत् तदा नाऽहं, न मे रथो, न रथ्या सारथिश्च न वर्तेत । एवं चाऽविरतो मृत्युं प्राप्य दुर्गति प्राप्नोमि, यतः कुमरणप्राणिनां दुर्गतिर्भवत्येव, तेषां सुगतिस्तु गगनकुसुमवद् दुर्लभा । अहं स्वार्थभ्रष्टो मा भूवं तस्मादितोऽहं पुनः परावृत्य श्रीसुधर्मस्वामिचरणारविन्दमकरन्दास्वादमिलिन्दो भवामि" । एवं विचिन्त्य ऋषभनन्दनः कुटिलग्रह इव स्वरथं वालयित्वा पुनस्तमेव गणधरचरणकमलालङ्कृतं प्रदेशं जगाम । तत्र जम्बूकुमारः श्रीसुधर्मस्वामिनमभिवाद्य यावज्जीवं मनसा वचसा कर्मणा च ब्रह्मचर्यं स्वीकरोमीति विज्ञपयामास । ततो भगवता गणभृताऽनुज्ञातो जम्बूकुमारो नियममङ्गीकृत्य प्रसन्नः कामविकाररहितो निजं धाम जगाम । पित्रोश्च तत्रैवं निजगाद-"हे पितरौ ! अहं गणधरश्रीसुधर्मस्वामिमुखकमलादद्य सर्वज्ञप्रणीतं कर्मरोगशमनैकभेषजं धर्ममश्रौषम् । तेन जातभववैराग्यं परिव्रज्यां ग्रहीतुमुद्यतं मामनुजानीत । यत एष संसारो जन्मिनां कारागारसहोदरः खलु प्रतिभाति" । तन्निशम्य तदीयपितरौ गद्गदस्वरावेवमूचतुः-"वत्स ! त्वमसमयेऽस्मदाशालतोन्मूलनप्रभञ्जनो मा भूः । इदानीमावामिदं चिन्तयावः-यत् त्वं सवधूको भविष्यसि, लोचनकुमुदचन्द्रं नन्दननन्दनवदनं द्रक्ष्यावः" । विषयभोगयोग्येऽस्मिन् यौवने प्रव्रज्याग्रहण समयो न तवाऽस्ति । एतस्योचितमाचारं किञ्चिदपि किं न कामयसे? हे वत्स ! यदि तव प्रव्रज्यायां प्रचण्डपवनवेगवदाग्रहो विद्यते तथाऽपि तव गुरवो वयं खलु स्म, इति तावदस्माकं किञ्चिद् वचनमङ्गीकुरु । वत्स ! या अष्टौ कन्यास्तुभ्यमस्माभिर्वृतास्तासां पाणिग्रहणेनाऽस्माकं विवाहकौतूकं पूरय । कुमार ! एवं कृत्वा त्वं निःशङ्कं परिव्रजेः । अथ वयमपि कृतार्थास्त्वामनुप्रव्रजिष्यामः । तदा जम्बूकुमार उवाच-"आर्या ! युष्माकमस्मिन् निर्देशे कृते बुभुक्षोरशनादिव प्रव्रज्याग्रहणादहं न निषेध्यः" । पितरावामित्युक्त्वा कन्यापितृकृपापरौ शीघ्रमूचतु:-"असौ मत्कुमारोऽस्मदाग्रहेणाऽष्टानां श्रेष्ठिनामष्टभिः कन्याभिः सह विवाहं करिष्यसि" । अथ पुनः कन्यापाणिग्रहणानन्तरं मत्कुमारः प्रव्रजिष्यति । हे श्रेष्ठिनो ! यदि यूयं पश्चात्तापपापं करिष्यथ, तदाऽधुना तद्विवाहं न कारयत । एवं कथयतामस्माकं दोषो न देयः" । तच्छ्रुत्वाऽष्टावपि सस्त्रीका महेभ्या अस्मिन् विषये कि कर्तव्यमिति विषीदन्तो निर्णेतुं परस्परं संलपन्ति स्म । तेषां श्रेष्ठिनां संलापमाकर्ण्य ता: कन्या ऊचुः-“हे पितरो ! विचारेणाऽलम् । अत्र निश्चयं शृणुत-युष्माभिर्वयं जम्बूकुमाराय दत्ता: स्मस्तर्हि नोऽयमेव स्वामी, वयं नाऽन्यस्मै दातव्याः, लोकेऽप्येवं प्रसिद्धमस्ति" । "सकृज्जल्पन्ति राजानः, सकृज्जल्पन्ति साधवः । सकृत् कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत्सकृत् ॥१॥" पितृचरणैर्जम्बूकुमाराय वयं समर्पिताः स्मः, तस्मात् स एवाऽस्माकं गतिः । वयं तदधीनजीविताः सञ्जाताः स्मः । तस्माद् यदि जम्बूकुमारः प्रव्रज्यामितरद् वा करिष्यति, तदेवाऽस्माकं Page #28 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पतिव्रतानामुचितमस्ति" । ततः कन्याजनका जम्बूपितरमूचुः‘“साम्प्रतं विवाहायोद्यता भवन्तु, प्रथमं वचनं प्रमाणम्” । ततस्तैः श्रेष्ठिभि: सह ऋषभदत्तेन सह नैमित्तिकमुखात् तद्दिनात् सप्तमदिवसे विवाहमुहूर्तं निश्चिक्ये । ते महेभ्याः सोदरा भ्रातर इव मिलित्वा विशालं विवाहमण्डपं रचयामासुः । तन्मण्डपोपरि विचित्रवर्णवस्त्रैरुल्लोचो गगनतलादाकृष्टसन्ध्यामेघखण्डैरिवाऽभूत् । तत्र सर्वत उच्चूलीकृतानि स्फुरन्ति मुक्तामाल्यानि चन्द्रेण स्वकिरणसर्वस्वं न्यासीकृतमिव प्रतिभान्ति स्म । स मण्डपः पवनान्दोलितपल्ल वैरतितारैस्तोरणैर्वराह्वानेङ्गितमिव विपञ्चयन्नशुभत् । पुनश्च मण्डपः परितः स्वस्तिकन्यस्तमौक्तिकैर्मङ्गलतरूणामुद्भवायोप्तबीजस्तोम इव व्यराजत् । ४२ अथ जम्बूकुमारः शुभमुहूर्ते वर्णकेऽक्षेपि । कुसुम्भरक्त वस्त्रधारी स उदयकालिक सूर्य इव रेजे । वर्णके क्षिप्तास्ताः कन्या अप्यसूर्यम्पश्या राजमहिष्य इव बहिर्नाऽचरन् । अथ शुभे क्षणे स कुमारस्ताः कुमार्यश्च स्वस्वस्थानस्थिता विधिवद् मङ्गलस्नानमकार्यन्त । कृतस्नानस्य जम्बूकुमारस्य क्षरज्जलाः केशा आसन्न - लोचभयादश्रु मुञ्चन्त इव रेजुः । ततो गन्धकार्यः स्त्रिय उत्तंसलीलां कुर्वता कर्पूरागरुधूपेन जम्बूकुमारकेशानध्यवासयन् । गन्धकार्या तस्य कुमारस्य मूर्द्धनि पुष्पमाल्यगर्भितो जात्याश्वकन्धराकुटिलो धम्मिल्लो बबन्धे । जम्बूकुमारो मुखकमलप्रान्तविश्रान्तमरालयुगलशोभे तारे मौक्तिककुण्डले दधार । आनाभिलम्बितं फेनबुबुदावलिसन्निभं मुक्ताहारं परिदधे । चन्दनविलिप्ताङ्गः सर्वाङ्गामुक्तमौक्तिकस्तारावलिभिः पूर्णचन्द्र इव परिशिष्टपर्व द्वितीयः सर्गः भृशं चकाश । ऋषभनन्दनो देवदूष्ये इवाऽदूष्ये दशासहिते धवलवसने विवाहमङ्गलार्थं परिदधौ । ततः स जात्याश्वमध्यारोहत् । मायूरच्छत्रधारी स्वसदृशवयोवेषानुचरैः परिकरितो, नीरङ्गीवृतमुखो गीयमानबहुमङ्गलो वधूटीभ्यामुभयत उत्तार्यमाणलवणो जम्बूकुमारो वाद्यमानमङ्गलातोद्यः पठन्मङ्गलपाठको विवाहमण्डपद्वारं शीघ्रं ययौ । ४३ तत्र सुवासिनी साक्षात् तनुमतः कामदेवस्येव जम्बूकुमारस्य दध्यादिमङ्गलद्रव्यैरर्घं ददौ । कुमारो द्वारि न्यस्तं वह्निगर्भितं शरावसम्पुटं भङ्क्त्वा कल्याणसम्पद्गृहं मातृगृहं जगाम । ततः सोऽष्टाभिः कुमारीभिः सह तत्रोपविश्य कौतुकोद्वाहमङ्गलमङ्गीचकार । ततश्च शुभलग्नसमये चतुरिकाऽन्तरे गत्वा पित्रोर्विनयेच्छुर्जम्बूकुमारस्ताः कुमारिकाः परिणिनाय । ततो धारिणी तारामेलकके प्रसन्ना, कौतुकेषु ससम्भ्रमा, मङ्गलावर्ते सन्तुष्टा, मधुपर्के स्मितमुखी, यौतके सावधाना, अञ्चमोक्षणे चतुरा, प्रणामे सबाष्पनयना, क्रोडस्थापनेऽत्यन्तप्रमुदिता सती तनयविवाहकल्याणसुखमिति लेभे । यतः स्त्रियोऽपत्ये विवाहिते हृष्यन्ति । विवाहानन्तरं वरस्य वधूनां च तावद् यौतकमभूत् येन सौवर्णः पर्वतो भवेत् । ततः समाजसहचारिणा मङ्गलदीपेन, धवलमङ्गलं मधुरं गायन्तीभि: कुलाङ्गनाभि:, पुरतो मधुरस्वरपूर्वकं वाद्यमानैर्मङ्गलतूर्यैर्गीत-नृत्य-वादित्ररमणीयेन प्रवर्तमानेन सङ्गीतकेन च हृष्टज्येष्ठ-कनिष्ठपार्श्वगामिबन्धुभिश्च सह स परिणीतवधूभिः परिवृतो निजागारं प्रविवेश । Page #29 -------------------------------------------------------------------------- ________________ ४४ चरितम-गद्यात्मकसारोद्धारः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात ततः प्रथमतः सर्वज्ञ पश्चात् कुलदेवतां वन्दित्वा वधू-वराणां करेभ्यो विवाहबद्धकङ्कणमोक्षणमभूत् । तदनन्तरं हर्षितौ धारिण्यषभदत्तौ जम्बूद्वीपनाथस्य देवस्य स्वयं सविधिपूजां चक्रतुः । ततः सकलालङ्कारभासुरो जम्बूकुमारोऽपि निजवनिताभिः सह निवासभवनं जगाम । तत्रर्षभनन्दनः सभार्योऽपि ब्रह्मचर्यधरोऽस्थात् । यतो महाशया विकारहेतावुपस्थितेऽपि विकारहीना भवन्ति । श्रीजम्बूकथानके प्रभवचोरवृत्तान्तः इतश्चाऽस्मिन् भरते विन्ध्यपर्वतसमीपे जयपुरं नाम नगरमस्ति । तस्मिन् विन्ध्यनामा राजाऽभवत् । तस्य प्रसिद्धौ प्रभव-प्रभुनामानौ द्वौ पुत्रावभूताम् । एकदा विन्ध्यो राजा प्रभवे ज्येष्ठपुत्रे सत्यपि कनिष्ठाय प्रभुनामपुत्राय राज्यं केनचित् कारणेन ददौ । ततोऽपमानितो ज्येष्ठः प्रभवो जयपुरनगराद् बहिनिःसृत्य विन्ध्याचलस्य विषमभूमौ वासं निर्मायाऽस्थात् । तत्र सपरिवारः स खात्रखननैर्बन्दिग्रहणैर्मार्गपातनैश्चौरैरन्यैश्च प्रकारैर्जीविकां चकार । अथैकदा तस्य गुप्तचरा आगत्य कुबेरस्याऽप्युपहासिनी जम्बूकुमारसम्पत्ति विज्ञापयाञ्चक्रुः । जम्बूकुमारविवाहोत्सवे मिलितान् बहूनत्यर्थं धनाधिपतीनर्थचिन्तामणीनिव स्थितान् कथयामासुश्च । ततश्च स दस्युशिरोमणिः प्रभवोऽवस्वापनिकातालोद्घाटिनीभ्यां विद्याभ्यां सहितस्तदैव जम्बूकुमारभवनं प्रययौ । ततः प्रभवोऽवस्वापनिकया विद्यया जम्बूकुमारं विना सर्वं जाग्रतं लोकं स्वापयामास । साऽवस्वापनिका विद्या प्रचुरपुण्यशालिनो जम्बूकुमारस्य स्वापे नाऽशकत् । प्रायः पुष्कलपुण्यानामिन्द्रोऽपि विपत्तिदाने न समर्थः । ततो दस्यवो निद्रामुपागतानां सर्वेषामपि भूषण-वसनादिसर्वस्वं ग्रहीतुं प्रावृतन् । परिशिष्टपर्व - द्वितीयः सर्गः ततो महामना जम्बूकुमारो लुण्टाकेष्वपि लुण्टत्सु कोपक्षोभरहितो लीलयेदमुवाच-"भो भो दस्यवः ! इह निमन्त्रितानागतान् प्राघूर्णकाञ्छयानान् विश्वस्ताञ्जनान् मा स्पृशत, एषामहं यामिको जागर्थेषः" । ततो महापुण्यप्रतापस्य जम्बूकुमारस्येदृशा वचसा ते चौराः स्तब्धशरीरा लेप्यमया इव बभूवुः, प्रभवोऽपि निभालयन् करेणुभिर्गजेन्द्रमिव ताभिः स्त्रीभिः सह परिवृतं जम्बूकुमारं ददर्श, आत्मानं च निवेदयामास-“हे महात्मन् ! अहं विन्ध्यनाम्नो राज्ञः पुत्रोऽस्मि, मां मैत्र्याऽनुगृहाणेति स्वं परिचाययामास । हे मित्र ! स्तम्भनीं मोक्षणीं च विद्यां त्वं मह्यं देहि, अहं तुभ्यमवस्वापनिकां तालोद्घाटिनी च विद्यां ददामि" । ततो जम्बूकुमार उवाच-“हे प्रभव ! निर्ममोऽहं नवोढा अपि स्त्रियोऽष्टावपि प्रभाते त्यक्त्वा दीक्षां ग्रहीष्यामि । भो प्रभव ! इदानीमप्यहं भावयतीभूतोऽस्मि, तेन हेतुना तवेयमवस्वापनिका विद्या मां स्वापयितुं नाऽशकत् । हे भ्रातः ! प्रातरहमिमां लक्ष्मी तृणवत् परित्यक्ष्यामि, तहि वपुष्यपि नि:स्पृहस्य मे तवाऽनया विद्यया कि प्रयोजनमस्ति ? तच्छ्रुत्वा प्रभवोऽपि तामवस्वापिनीं विद्यां संवृत्य जम्बूकुमारं प्रणम्य कृताञ्जलिरुवाच-“हे मित्र ! इदानीं नवयौवनो विषयसुखं भुक्ष्व । त्वं विवेक्यसि, अत इमासु नवोढास्वनुकम्पस्व। इमाभिर्नवोढाभिः सह भुक्तभोगफलो भव । तत्पश्चाद् गृहीता परिव्रज्याऽपि तव शोभिष्यते" । जम्बूकुमारोऽप्युवाच-"हे मित्र ! विषयभोगजन्यं सुखं स्वल्पं बह्वपायं च भवति। तर्हि नो दुःखहेतुनाऽमुना किम् ? प्राणिनो विषयसेवनजं सुखं सर्षपादप्यत्यल्पीयः, दुःखं तु प्रचुरं मधुबिन्दुप्रभृतिपुरुषवत्" । Page #30 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रभवं प्रति जम्बूकुमारकथिता मधुबिन्दुपुरुषकथा तथाहि-कश्चित् पुरुषः सार्थेन देशाद् देशं परिभ्रमन् चौरमहानदीमटवीं प्रविवेश । तदा तस्यामटव्यां तं सार्थं लुण्टितुं चौरव्याघ्रा अधावन् । ततः सर्वे सार्थनिवासिनो मृगा इव पलायामासुः । सच पुरुष: सार्थात् परिभ्रष्ट आकण्ठमागतैः प्राणैरुद्गच्छत्कूपजलवद् महाटवीं प्राविक्षत् । तत्र विशालतरपर्वत इव स्यन्दमानमदनिर्झरः, उत्थितकर आकाशाद् मेघान् पातयितुमिव, पादप्रहारैरन्तः शुषिरिणीमिव पृथिवीं नमयन्, आध्मातताम्रवद्रक्तमुखो जलधर इवाऽतिगर्जन् साक्षाद् यमराज इव क्रोधोद्धरो वनवारणो वराकं कान्दिशीकं तं पुरुषं प्रति दधाव । अहं मारयिष्यामि याहि याहीति प्रेरयन्निव शुण्डतुषारैः पुनः पुनस्तं पुरुषं वारण: ताडयामास । ४६ स पुरुषो भिया कन्दुक इव पतन्नुत्पतन् तेन हस्तिना गृहीतप्रायस्तृणावृतमेकं कूपं प्राप । तादृगवस्थायां गतो नूनं प्राणान् हरिष्यति, कूपे तु कदाचिज्जीवामीति स तत्र कूपे झम्पां ददौ । यतः प्राणिनां जीविताशा दुस्त्यजा भवति । तदवटतट एको वटवृक्ष आसीत्, तस्यैक आयतः पादो भुजङ्गमभोगवत् तत्कूपमध्ये लम्बमान आसीत् । कूपमध्ये पतन् स पुरुषोऽन्तरा तमेव पादमवलम्ब्य रज्जुबद्धघट इव तत्र तस्थौ । ततो हस्ती कूपमध्ये शुण्डं निवेश्य तन्मस्तकं स्पृशन्नपि करेण तं ग्रहीतुं तथा न शशाक, यथा मन्दभाग्यो रसायनौषधिम् । तत्र स मन्दभाग्योऽधो भागे यदा दृशमदात् तदा तत्कूपमध्यस्थितमेकं महाजगरमपश्यत् । सोऽजगरोऽपि मम दैवात् कलमुपस्थितमिति ज्ञात्वा कूपमध्ये द्वितीयकूपमिव मुखं व्याददौ । परिशिष्टपर्व द्वितीयः सर्गः ४७ पुनश्चतुर्दिक्षु चतुरः सर्पान् प्राणापहारिणो यमबाणानिव तत्र स ददर्श । दुष्टचेतसस्ते च सर्पास्तं पुरुषं वीक्ष्य फणामण्डलमूर्वीकृत्य तं दष्टुं धमनीसदृशैरास्यैः फूत्कारस्फूर्जितवातान् मुमुचुः । पुनः कृष्ण- श्वेतौ द्वौ मूषकौ तं वटप्ररोहं छेत्तुं चटच्चटेति दन्तक्रकचलक्ष्यं चक्रतुः । स मत्तो मतङ्गजस्तं पुरुषं शुण्डेनाऽप्राप्नुवन् वटमुन्मूलयन्निव वटशाखां जघान । हस्तिना कम्प्यमानेन वटप्ररोहेण स पुरुषो हस्तपादबन्धं कुर्वाणो बाहुयुद्धमिव रचयामास । तदा गजताड्यमानवटशाखामध्यात् तोमरानना मधुमक्षिका मधुमण्डकं विहायोदडयन्त । ता मक्षिकास्तं पुरुषं लोहसंदंशसदृशैस्तुण्डैः कीकसविश्रान्तैर्जीवाकर्षकैरिव ददंशुः । तदोत्पक्षमक्षिकाव्याप्तसर्वाङ्गः स पुरुषः कूपाद् निर्गन्तुमुद्यतः कृतपक्ष इवाऽलक्षि । तस्य पुरुषस्य मस्तके मधुबिन्दुर्मधुकोशाद् मुहुर्मुहुः सलिलधानीमध्याज्जलबिन्दुरिव निपपात । स मधुबिन्दुर्भालप्रदेशात् तस्य मुखं प्राविशत्, ततः स तं मधुबिन्दुमास्वाद्य महत् सुखं मेने । "हे प्रभव ! एतस्य दृष्टान्तस्य सारांशं शृणु- "अत्र यः पुरुषः स संसारी जीव: । या महाटवी सा चतुरशीतिलक्षयोनिसंसृति: । यो गजः स मृत्युः । यः कूपः स मनुष्यजन्म । योऽजगरः स नरकः । ये सर्पास्ते क्रोधादयः । यो वटप्ररोहः स तदायुः । यौ कृष्ण-श्वेत मूषकौ तौ मासस्य कृष्ण-शुक्लौ द्वौ पक्षौ तौ चाऽऽयुश्छेदप्रसक्तौ । या मक्षिकास्ताः सांसारिणो व्याधयः । यो मधुबिन्दुः स विषयजन्यं क्षणिकं सुखम् । इति ज्ञात्वा कश्चतुरस्तत्राऽनुरागं कुर्यात् ? यदि देवोऽथवा विद्याधरस्तं पुरुषं कूपादुद्धरेत् तदा दैवदूषित: स नेच्छेत् किम् ?" Page #31 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः इति श्रुत्वा प्रभव उवाच - "महानुभाव ! विपत्समुद्रे निमज्जन् को नाम नेच्छेत् नौकायमानं परोपकारपरायणं नरम् ? तदा जम्बूरुवाच - " मित्र ! तदहमपारभवपारापारे समुद्धारके गणधरदेवे सत्यपि किं निमज्जामि ? प्रभवोऽवोचत् - "भ्रातः ! स्वकीयौ स्नेहिनौ पितरावनुरागिणीगृहिणीश्च त्वं निष्ठुरः कथं त्यक्ष्यसि ?" ततो जम्बूरभिदधौ -“अहो ! शत्रुरपि को बन्धुनिर्बन्ध: ? यस्मात् तत्राऽऽसक्तो जनो कुबेरदत्त इव कर्मपाशेन नूनं बध्यते । ४८ प्रभवं प्रति जम्बूकुमारकथिता कुबेरदत्तकथा तथाहि-मथुरानगर्यामेकोत्तमा वेश्याऽभूत् । तस्याः कुबेरसेनेति नाम । सा च कामदेवस्य सेनेवाऽऽसीत् । सा चैकदा प्रथमगर्भेणाऽत्यन्तं खेदिता सती तदीयजनन्या वैद्यस्य दर्शिता । "यतः क्लेशे समुपस्थिते वैद्यः शरणं भवति" । वैद्यश्च नाडीपरीक्षया तां नीरोगामकथयत् । पुनः क्लेशकारणं तदुदरे युग्मं सुदुर्वहमुत्पन्नमिति न्यवेदयत् । अपि च प्रसवपर्यन्तं तेनैव हेतुना कुबेरसेनायाः क्लेशोऽस्तीति प्रोवाच । तन्माता तामुवाच - "वत्से ! प्राणनाशकेनाऽनेन गर्भेण किं प्रयोजनम् ? ततः ते गर्भमहं पातयामि" । ततो मातृवचः श्रुत्वा कुबेरसेनाऽवदत्-"मातः ! स्वस्ति गर्भाय, अहं गर्भदुःखं दुःसहमपि सहिष्ये; यत: सूकर्यप्यसकृदनेकसन्ततीर्जनयित्वाऽपि जीवत्येव; तत् कथं नाऽहं जीविष्यामि ?" ततः सा गर्भक्लेशं सहित्वा पूर्णसमये पुत्रं पुत्रीं च जनयामास । ततस्तन्मातोवाच - "पुत्रि ! एते अपत्ये तव वैरिणी स्तः, यतस्त्वमाभ्यां गर्भस्थिताभ्यां मृत्युद्वारे स्थापिताऽसि । पुनरेतद्वालयुगलं परिशिष्टपर्व द्वितीयः सर्गः तव यौवनापहारकं भावि । वेश्याश्च यौवनजीवना भवन्तीत्यतस्त्वं यौवनं जीवमिव रक्ष । हे वत्से ! उदरात् पतितमिदं युग्मं पुरीषवद् बहिस्त्यज । अत्र मोहं मा कार्षीः अस्माकमियमेव कुलरीतिर्वर्तते” । कुबेरसेनोवाच - "हे मातः ! यद्यप्येवं क्रमोऽस्ति तथाऽपि किञ्चिद् विलम्ब्यताम् । दश दिनानि यावदेतौ दारकावहं पोषयामि । एवं मात्रोपदिष्टा सा वेश्या कथञ्चिदपि तौ बालावहर्निशं दुग्धदानेनाऽपोषयत् । एवं तौ दारकौ पोषयन्त्यास्तस्याः कालनिशासदृशमेकादशं दिनं प्राप्तम् । ४९ सा च कुबेरसेना कुबेरदत्त - कुबेरदत्तानामाङ्किते द्वे मुद्रिके कारयित्वा तयोर्दारकयोरङ्गल्योर्न्यधत्त । ततो बुद्ध्या चतुरा सा दारुपेटां कारयित्वा तां रत्नैरापूर्य तत्र तौ दारकौ स्थापयामास । ततस्तां मञ्जूषां यमुनानदीप्रवाहे स्वयं प्रावाहयत् । सा च पेटिका हंसवत् तरन्ती निरुपद्रवं चचाल । तत: कुबेरसेनाऽपि निवृत्त्याऽपत्ययोर्नयनाञ्जलिभिस्तिलाञ्जलिं ददानेव निजभवनं जगाम । ततोऽसौ मञ्जूषा प्रातः समये शौर्यनगरद्वारे प्राप्ता । द्वाभ्यां श्रेष्ठिपुत्राभ्यां लोचनपथगता सा जगृहे । तां चोद्धाट्य यदा तौ ददृशतुस्तदा तन्मध्ये एकं बालमपरां बालिकां चाऽपश्यताम् । तत एकः श्रेष्ठिपुत्रो बालं जग्राह, अपरश्च बालिकामग्रहीत् । तौ तयोरङ्गुलिनिहितमुद्रिकाक्षरवाचनेन कुबेरदत्त - कुबेरदत्तानामानावित्यज्ञासिष्टाम् । ततस्तयोरिभ्ययोर्गृहे प्रयत्नेन परिपाल्यमानौ तौ स्वाम्यर्पितनिधानवत् ववृधाते । तौ क्रमेणाऽनेककलाविदौ बभूवतुः । क्रमेण कामदेवक्रीडोद्यानमभिनवं यौवनं तौ प्रापतुः । इमावनुरूपाविति Page #32 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः श्रेष्ठिपुत्राभ्यां परमहर्षेण तयोः परस्परं विवाहोत्सवो व्यधायि । कलाकौशलशिक्षागुरुयौवनालिङ्गितयोस्तयोरङ्गे स्त्री-पुंसवाहनोऽनङ्ग ५० आरोहत् । एकदा तयोर्वधू-वरयोः परस्परप्रवर्धमानप्रेमवारिनदी द्यूतक्रीडा प्रावर्तत । तत्र क्वाऽपि प्रस्तावे कुबेरदत्तस्य मुद्रिका सख्या कुबेरदत्तायाः करमध्ये न्यधीयत । कुबेरदत्ता तामूर्मिकां परीक्षणीयं नाणकमिव पुनः पुनः परित उत्क्षिपन्ती ददर्श । कुबेरदत्ता व्यचारयच्चेयं मुद्रिकोर्मिकान्तरदर्शनाद् विदेशघटिता प्रतिभाति । ततो भूयोभूयस्तामूर्मिकां स्वां च पश्यन्ती सा चिन्तावेशात् स्फुरत्काया मनस्येवं निश्चिकाय । " केनचिद् एकस्मिन् देशे घटिते तुलया समे समानाक्षरनाम्नी च सोदरसदृश्याविमे मुद्रिके स्तः । एकः कुबेरदत्तोऽपराऽहं चेमौ द्वावपि मुद्रिके इव समानरूपौ भ्रातृभाण्डे, न इत्यत्र संदेहोऽस्ति । आवां समानसर्वाङ्गौ खलु युग्मजातौ, अहो ! दैवेनेदृशमावां विवाहाकृत्यं कारितौ । पित्रा मात्रा वाऽऽवयोः समानापत्यवात्सल्येन समाने ऊर्मिके कारिते । "यत आवां सौदरौ स्वस्तत एवाऽस्मिन् मम पतिबुद्धिरस्य च मयि स्त्रीबुद्धिर्नोत्पद्यते " । एवं विचार्य कुबेरदत्ता तथेति कृतनिश्चया कुबेरदत्तस्य करे तन्मुद्रिकाद्वयं चिक्षेप | कुबेरदत्तोऽपि तन्मुद्रिकाद्वयं दृष्ट्वा चिन्ताकुलो विमलहृदयः परं विषीदति स्म । ततः सुधीः कुबेरदत्तस्तां मुद्रिकां कुबेरदत्तायै दत्त्वा मातरमुपेत्य सशपथमपृच्छत्-मातः ! औरसादिबहुविधपुत्रेषु कीदृशो - ऽहं ते पुत्रोऽस्मि ? औरसो वा पितृत्यक्तः केनचिद् दत्तः ? कृत्रिमोऽन्यो वा ? एवं कुबेरदत्तस्य परमाग्रहवशाद् माता पेटिकाप्राप्तित आरभ्य पूर्वोक्तां सर्वां कथां तस्मै कथयाम्बभूव । परिशिष्टपर्व द्वितीयः सर्गः ततः कुबेरदत्तो जननीं प्रत्युवाच - "मातः ! आवां सौदरौ जानत्याऽपि त्वयाऽकर्तव्यं सोदरविवाहं किमनुष्ठितम् ? मम सैव माता श्रेष्ठा याऽवां परिपालयितुमसमर्था स्वभाग्यभाजनीकृत्य नदीप्रवाहे - मुञ्चत् । यतो नदीवेगो मरणाय स्यात् न त्वकर्तव्यकर्मकरणाय । तस्माद् मम मरणं वरं, नाऽकृत्याचरणं जीवनं वरम्" । ५१ ततो मातोवाच - "हे पुत्र ! युवयोरतिमनोहरेण परस्परमनुरूपेण च रूपेण मन्दमतयो वयं मोहिता जाता: । तवाऽनुरूपा कन्या तां विना न काऽप्यदृश्यत न चाऽस्याः सदृशस्त्वामृते कोऽपि वरः, अत एवैतदकृत्यमप्यस्माभिः कृतम् । तथाऽपि न काऽपि क्षतिः, यतो युवयोर्विवाहातिरिक्तं स्त्रीपुरुषसंयोगजन्यं पापकर्म नाऽभूत् । अद्याऽपि त्वं कुमार एव, तथैवेयमपि कुमार्येव । अथ तस्यै स्वस्ति भूयात् । तां भ्रातृभाण्डकथां कथयित्वा परित्यज । सौम्य ! व्यापाराय दिग्यात्रां चिकीर्षुस्त्वं सकुशलं तां सम्पाद्य शीघ्रमागच्छे:, इत्यहं शुभाशिषं ददामि । हे पुत्र ! सकुशलं पुनरागतस्य तवाऽपरया कन्यया सार्धं विवाहं सोत्सवं कारयिष्ये । ततो धर्मधीः कुबेरदत्तोऽपि मातृवचनमङ्गीकृत्य कुबेरदत्तामुपेत्य तं निर्णयं निवेदयामासाऽवोचच्च - "हे भद्रे ! त्वं पितृगृहं याहि; त्वं भगिन्यसि, विवेकिन्यसि, दक्षाऽसि च तस्माद् यथोचितं कुर्या: । हे भगिनि ! आवां पितृभ्यां वञ्चितौ किं कुर्वहे ? अयं तयोर्न दोष:, "यत आवयोरीदृश्येव भवितव्यताऽऽसीत् । यतः पितरोऽपत्यं विक्रीणन्ति, मुञ्चन्ति, अकृत्येऽपि योजयन्ति तत्कर्मणामेव दोषः " । ततः कुबेरदत्तो भगिनीमेवमुक्त्वा विहाय च क्रयाणक भाण्डमादाय मथुरानगरीं प्रययौ । तत्र स व्यवहारेण पुष्कलं Page #33 -------------------------------------------------------------------------- ________________ ५२ Anmunnnnnnnn परिशिष्टपर्व - द्वितीयः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः धनमुपार्जयत् । यौवनयोग्यं विलासं कुर्वाणश्चिरं न्यवसत् । एकदा रूप-लावण्यवतीं वेश्यां कुबेरसेनां द्रव्यं दत्त्वा भार्यां व्यधात् । ततः कतिपये समये व्यतीते कुबेरसेनया सह वैषयिकसुखमनुभवतस्तस्यैकः पुत्रोऽजनि, “ईदृशं दैवनाटकम्" ।। ततः कुबेरदत्ताऽपि मातरं गत्वाऽपृच्छत्-"माताऽपि तथैव मञ्जूषाप्राप्तित आरभ्य सर्वां कथां न्यवेदयत् । ततः सा तस्मिन्नेव काले परमं वैराग्यमासाद्य प्राव्राजीत्, दुस्तपं तपस्तेपे च । प्रव्रजन्ती सा तां मुद्रिकां क्वचित् संगोपयामास । तथा परीषहान् सहमाना स्वप्रवर्तिन्या सह विजहार । प्रवर्तिन्युपदेशमक्लेशं शिरसि निदधानाया अखण्डतपसस्तस्यास्तपस्तरोरवधिज्ञानपुष्पमुत्पेदे । “सैक्दा कुबेरदत्त: कथमस्तीति चिन्तयामास । ततः कुबेरसेनासङ्गवशात् सपुत्रं तं ददर्श" । निर्मलहृदयैवं शुशोच-"अहो ! सम्प्रति मम सहोदरो वराह इवाऽकृत्यकर्दममग्नस्तिष्ठति । एवं विचिन्त्य करुणाजलसारणिः सा तं प्रतिबोधयितुं साध्वीभिः सह मथुरापुरीं विजहार । साऽप्यार्या धर्मलाभपुरस्सरं कुबेरसेनापार्श्वे प्रतिश्रयं ययाचे । तत: कुबेरसेना वेश्या कुबेरदत्तामार्यां प्रणम्यैवं विज्ञपयाञ्चकार-“हे आर्ये ! यद्यप्यहं वेश्याऽस्मि तथाऽपि साम्प्रतमेक पतित्वेन पुनः कुलवधूरिव वर्ते । कुलीनपतिसंसर्गाद् ममैषः कुलस्त्रीवेषोऽस्ति । अतः कुलीनाचरितेनाऽपि तव प्रसादयोग्याऽहं, तस्माद् मम भवनसमीप उपाश्रयमाश्रित्य सर्वदेष्टा देवता इव सन्निहिता यूयं सर्वाः साध्व्यो भवत । ततस्तस्याः कल्याणकामधेनुरिव सपरिच्छदा कुबेरदत्ताऽऽर्या कुबेरसेनावेश्यार्पितोपाश्रये सुखपूर्वकं न्यवसत् । कुबेरसेनाऽपि दिवानिशं तत्राऽऽगत्य निजपुत्रमार्यायाः कुबेरदत्तायाश्चरणकमलसमीपे भूमौ लुठन्तममुचत् । ततो "यो जन्तुर्यथा बुध्येत तं तथैव बोधयेद्" इति न्यायेन साऽऽा तां बोधयितुं तं बालं वक्ष्यमाणप्रकारेणोल्लापयामास । यथा-"हे बालक! त्वं मम भ्राताऽसि १, पुत्रोऽसि २, पत्युरनुजो देवरोऽसि ३, भ्रातृपुत्रोऽसि ४, पितृव्योऽसि ५, पौत्रोऽसि ६" । "हे दारक ! यस्ते पिता स मे सोदरः ७, पिता ८, पितामहः ९, पतिः १०, पुत्रः ११, श्वशुरश्चाऽस्ति १२"। "हे बालक ! या ते माता सा मेऽपि माता १३, पितामही १४, भ्रातृपत्नी १५, वधू: १६, श्वश्रूः १७, सपत्नी १८ च भवति"। ततः कुबेरदत्तार्यायास्तादृशं वचनं श्रुत्वाऽपृच्छत्-“हे आर्ये ! ईदृशं परस्परविरुद्धार्थं किं वदसि ? एतेनाऽहं विस्मितोऽस्मि" । तत आर्या प्रत्युवाच-"शृणु सर्वं घटयामि-अयं बालो मम भ्रातैवं भवति-या मे माताऽस्ति, साऽस्याऽपि, अतो भ्राताऽयम् १ । योऽस्य पिताऽस्ति, स मे पतिरिति पतिपुत्रः पुत्र एव भवतीति ममाऽयं पुत्रः २ । मम स्वामिनोऽयं लघुः सोदरोऽस्ति, इति मेऽयं देवरः ३ । मम भ्रातुरयं पुत्र इति भ्रातृव्य [भ्रातृजं]ममुं कथयामि ४ । अयं मम मातुः पत्युद्घता भवति, तस्मादयं मे पितृव्यः ५ । मम सपत्नीपुत्रस्याऽयं पुत्र इति पौत्रोऽप्ययं भवति ६ । अस्य यः पिता स मे सोदरो भ्राता भवति, एकमातृकत्वात् ७ । अस्य य: पिता स मन्मातुः पतिरिति मातृपतित्वेनाऽस्य बालस्य पिता ममाऽपि पिता सम्पद्यते ८ । पितामहश्चैवं-बालोऽयं मन्मातृपतिसोदरतया पितृव्यो भवति, तस्य पिता पितामहः सुतरां सम्पद्यतेऽतोऽस्य पिता मम पितामहः ९ । अस्य पिता मम पतिरेवं Page #34 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भवति-“श्रेष्ठिपुत्रगृहेऽहं तेन परिणीताऽस्मि, अतः पतिर्भवति सः १० | मम बालपिता पुत्र एवं घटते- "पतिस्त्री सपत्नी - कुबेरसेना तस्या: पुत्र: कुबेरदत्त इति पुत्रोऽपि स भवति ११ । देवरोऽयं बालस्तस्य कुबेरदत्तः पितेति देवरजनकत्वात् कुबेरदत्तः श्वशुरोऽपि भवितुमर्हति १२ । ५४ एवं बालस्याऽस्य या माता सा ममाऽपि माताऽस्त्येव तदुत्पन्नत्वात् १३ । अस्य बालस्य माता मम पितामही चैवं घटते"पितृव्योऽयं बाल उक्तस्तस्य माता भवत्यतः पितृव्यमातृत्वात् पितामही सम्पनीपद्यते १४ । भ्रातृपत्नी बालमाताऽनेन प्रकारेण - "मम भ्राता कुबेरदत्तस्तस्य स्त्रीत्वेन सुतरां भ्रातृजाया भवति" १५ । बालकमाता वधूश्चैवं - " सपत्नीपुत्रभार्या यतो भवति एकपतित्वेन कुबेरसेना सपत्नी भवति, तस्याः पुत्रः कुबेरदत्तः, स च मम सपत्नीपुत्रत्वेन हेतुना पुत्रस्तस्य पुनः स्त्री कुबेरसेनेति पुत्रभार्या वधूर्भवत्येव १६" । बालस्येयं माता मम श्वश्रूरेवं- " मम पत्युः कुबेरदत्तस्य मातेति पतिमातृत्वेन श्वश्रूर्भवति १७” । बालकमाता सपत्नी ममैवं–“मम पतिः कुबेरदत्तस्तस्य द्वितीया पत्नीयं जात एकपतित्वात् सपत्नी युज्यते १८ इत्यष्टादशसम्बन्धघटना" । कुबेरदत्तार्येत्युक्त्वा स्वां मुद्रिकां विश्वासाय कुबेरदत्ताय ददौ । सोऽपि कुबेरदत्तस्तामूर्मिकामवलोक्य कुबेरदत्तार्याकथितं सर्वं सम्बन्धं जज्ञे । ततः कुबेरदत्तो विषण्णो भवादुद्विग्नः प्रव्रज्य तपस्तप्त्वा कालधर्मं कृत्वा स्वर्गमगमत् । अथ कुबेरसेना वेश्याऽपि तदा श्राविकात्वं प्रपन्ना | कुबेरदत्तार्या च पुनः प्रवर्तिनीसकाशमा सादयामास । परिशिष्टपर्व द्वितीयः सर्गः एवं च यो जन्तुः स्वयमपि कर्मणा बध्यते तस्मिन् शत्रुसदृशे परिजने मूर्खाणां शुक्तौ रजतधीरिव बन्धुबुद्धिर्जायते । वस्तुतः स क्षमाश्रमण एव बन्धुर्यः स्वयं बन्धुरहितोऽप्यपरेषां बन्धमोक्षको भवति । अन्ये तु नाममात्रेण बन्धवः । ५५ ततः पुनरपि प्रभवो जम्बूमाह - " हे कुमार ! दुर्गतौ पततो निजान् पितॄन् रक्षितुं स्वं पुत्रं जनय । यतोऽपत्यरहिताः पितरो - ऽवश्यं नरकं गच्छन्ति; तस्मादपुत्रस्य तव पितॄणामृणात् कथं मुक्ति: स्यात् ?" ततो जम्बूरुवाच - "हे प्रभव ! अयं ते मोहोऽस्ति यत् पुत्रादेव पितॄणां दुर्गतेस्तारणं त्वया प्रतीयते । हे प्रिय ! अस्मिन् विषये महेश्वरदत्तसार्थवाहदृष्टान्तोऽस्ति" । प्रभवं प्रति जम्बूकुमारकथिता महेश्वरदत्तकथा तथा हि- प्राक् ताम्रलिप्त्यां नगर्यां श्रीमान् महेश्वरदत्तनामा सार्थपतिरजायत । तस्य समुद्रनाम्ना प्रसिद्ध: पिता जलेषु समुद्र इव धनेष्वतृप्तोऽभूत् । तस्याऽतिमायाविनी बहुलानाम्नी जननी जज्ञे । लोभावकरगर्तोऽर्थोपचयव्यसनी तस्य पिता मृत्वा तस्मिन् देशे महिषो बभूव । पतिवियोगादार्तध्यानरता तस्य जननी तस्यैव गृहे शुनी बभूव । महेश्वरस्य पार्वतीव महेश्वरदत्तस्य पत्नी सौभाग्यवती गाङ्गिलानाम्नी जाता । सा च श्वश्रूश्वशुरहीना सती निजगृह एकाकिन्यवसत्, तस्माद् वने हरिणीव सा स्वच्छन्दचारिण्यभूत् । निजनाथं वञ्चयन्ती सा परपुरुषेण रेमे । एकाकिनीनां स्त्रीणां सतीत्वं न चिरं तिष्ठति । यतः कामदेव एकाकिनीरेकान्तस्था: स्त्रियो दृष्ट्वा निर्भय इव नितान्तं प्रहरति । एकदा स्वैरं परनरेण रममाणायां गाङ्गिलायां महेश्वरो हट्टाद् गृहमकस्मादाययौ । तदा तौ विस्रस्तकेशौ रमणप्रयाससञ्जातभयौ Page #35 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कम्पमानजङ्घौ चकितलोचनौ पुंश्चली-जारौ परावृत्त्य गृहीताधोवस्त्रावगृहीतोत्तरीयवसनौ नग्नकल्पौ स्खलच्चरणौ तं दृष्ट्वा कान्दिशीको बभूवतुः । महेश्वरश्च लुब्धको भल्लूकमिव केशेषु गृहीत्वा मान्त्रिको भूताविष्टमिव तं जारं चपेटाभिस्ताडयामास । तथा कुम्भकारो मृत्तिकापिण्डमिव पादप्रहारैश्च तं मर्दयामास, पुनर्गृहप्रविष्टं कुक्कुरमिव लकुटेन चाऽताडयत्, किं बहुना ? महेश्वरस्तं जारमर्धप्राणमिव चकार । "मनस्विनां हि चौरतोऽप्यधिक: कोपो जारे जायते" । कृतान्तस्य बन्धुना इव कुपितेन महेश्वरेणाऽर्धमारितः स जारः कथमपि पलायाञ्चक्रे । ____ अथ किञ्चिद् गत्वा पतित: स गाङ्गिलाजारः कण्ठगतप्राणेष्विदं व्यचारयत्-"धिङ् मां यन्मरणप्रदमनार्यकृत्यमहमकार्ष, तद्वाञ्छितदं तीर्थमिव मम मरणायाऽभूद्, इदं तद् युक्तमेव" । एवं चिन्तयन् स जारो विपद्य गाङ्गिलाकुक्षौ स्वाहितवीर्ये शीघ्रमेव पुत्रतां प्राप । ततः पूर्णसमये गाङ्गिला पुत्रमजीजनत् । अथ गाङ्गिलापतिर्महेश्वरस्तं जारजातमपि पुत्रं स्वोत्पन्नमिव मन्यमानः प्रेम्णा लालयाम्बभूव । ततो महेश्वरो जनिततनयाया गाङ्गिलाया आगतमपि व्यभिचारिणीदोषं पुत्रस्नेहाद् व्यस्मरत् । पुत्रीभूतस्य तस्य जारजीवस्य धात्रीकर्माणि कुर्वाणः प्रमोदभाग् महेश्वरो न ललज्जे । वर्धमानं कूर्चकेशाकर्षकं तं पुत्रं कृपणोऽर्थमिव स हृदयाग्रे सदा दधार च ।। एकदा महेश्वरः स्वपितृमरणदिने प्राप्ते तं पितृजीवं महिषं तन्मांसेच्छयाऽषीत् । ततः पितृमरणतिथिमहेऽतिहर्षरोमाञ्चितो महेश्वरः स्वयं तं महिषमवधीत् । ततस्तन्महिषमांसं भुञ्जानो प्रमोदभाग् महेश्वरः क्रोडस्थाय तस्मै पुत्रायाऽपि तद् ददौ । परिशिष्टपर्व - द्वितीयः सर्गः महेश्वरस्य शुनीभूता माता च तन्मांसं लिप्सुस्तत्राऽऽगमत् । सोऽपि मांसखण्डयुतास्थीनि शुनीकृते चिक्षेप । सा शुनी पवनान्दोलितधूमशिखाग्रवन्नृत्यता पुच्छेन स्वपतिजीवकीकसानि जघास । एवं पितृजाङ्गलं भक्षतः समुद्रपुत्रस्य गृह एको मुनिर्मासक्षपणभिक्षार्थी तत्राऽऽजगाम । स मुनिमहेश्वरदत्तस्य तादृशं सर्वं वृत्तं ज्ञानप्रकर्षण व्यजानात् । तज्ज्ञात्वाऽसौ मुनिरचिन्तयत्-"अहो ! तपस्विनोऽस्याऽज्ञानं धिक्, यत् पितुर्मासं भुडक्ते, क्रोडे च शत्रु वहति । इयं शुनी स्वपतेरस्थियुतानि मांसानि प्रमुदितमना: खादति । "अहो संसार ईदृशोऽस्ति" । एवं सम्यग् ज्ञात्वा मुनिमहेश्वरगृहाद् निर्जगाम । तदा महेश्वरोऽपि धावित्वा तं वन्दित्वा च प्रोवाच-“हे भगवन् ! त्वमगृहीतभिक्षो मद्गृहात् किं निवृत्तोऽसि ? न ह्यहं भवतोऽभक्तोऽस्मि, तवाऽनादरं न व्यधां, त्वां दृष्ट्वा हर्षुलोऽस्मि च" । ततो मुनिरुवाच-"मांसभक्षकस्य गृहेऽहं न विहरे, तत एव भिक्षां नाऽऽदां, मम परमं वैराग्यं चाऽभूत्" । ततो महेश्वरोऽस्य निदानमपृच्छत् । ततो मुनिरादितो महिष-शुन्यादीनां कथां कथयामास । कोऽत्र प्रत्यय इति पृष्टो मुनिरुवाच-इमां शुनी किमपि प्राग्भूमौ निखातं पृच्छ; तथा पृष्टा शुनी जातिस्वभावतः क्षितिं शय्यार्थमिव पादेन निधानस्थानं चखान । ततो विश्वस्तो महेश्वरो भवोद्विग्नः पात्रेषु धनं दत्त्वा परिव्रज्यामग्रहीत् । तस्माद् वदतां शिरोमणे ! हे प्रभव ! को निश्चयो यत् दुर्गतिसरसः पुत्राः पितरौ तारयन्ते ? अत्राऽन्तरे समुद्रश्रीर्जम्बूनामानमुवाच-“हे नाथ ! त्वं पश्चात्तापं कर्षकवद् मा गाः। Page #36 -------------------------------------------------------------------------- ________________ ५८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जम्बूकुमारं प्रति समुद्रश्रीकथिता कृषीवलकथा तथा हि-पृथ्व्यां प्रसिद्धे सुसीमनि ग्रामे धन-धान्यादिसमृद्धो बकनामा कर्षकोऽभूत् । स वर्षासमये कृष्टे क्षेत्रे कङ्गः कोद्रवांश्चाsaपत् । तस्य क्षेत्रभूमिरभिलोठितकाचेव जातकेशपाशेवोद्गतश्यामलदलैर्धान्यैरभूत् । प्रवर्धमानं तत्कङ्ककोद्रववनं दृष्ट्वा मुदितः स क्वचिद् ग्रामे स्वजनातिथिः स्वग्रामतोऽतिदूरेऽभवत् । तत्र स्वजनैर्भोजने तस्मै गुडमण्डका दत्ता: । स च तेनाऽ पूर्वेणाऽऽहारेणाऽत्यन्तं जहर्ष । तस्मात् प्रीतो ज्ञातीनपृच्छत्“अहो ! युष्माकं जीवितं धन्यं येषां सुधोपमोऽयमाहारो मिलति । यदहं स्वप्नेऽपीदृशमाहारं नाऽपश्यम् । कङ्ककोद्रवदग्धान्त्रानस्मान् नृपशून् धिक् । ततोऽज्ञातगुडमण्डको ज्ञातीनपृच्छत्- “इमान्याहारवस्तूनि कानि ? कुत्र च जायन्ते ?" ते च तस्मै प्रोचुः - " अरघट्टजलेन सिक्तेषु क्षेत्रेषूत्पद्यन्तेऽन्यधान्यवद् गोधूमाः । यदा गोधूमाः परिपक्वा भवन्ति तदा लूयन्ते विपिष्यन्ते वह्नितप्तायां लोहपात्र्यां मण्डकाः पच्यन्ते च । इक्षवोऽपि क्षेत्रे तथैवोप्यन्ते; वृद्धिं गतानां तेषां निपीलनात् प्राप्तेन रसेन पात्रे पाकेन गुडः समुत्पद्यते" । एवं गुडमण्डकविधानं विज्ञाय स कृषीवलो गृहीतेक्षुगोधूमबीजो निजग्राममाजगाम । ततश्च क्षेत्रे गत्वा फलितं कङ्कुकोद्रवं मातृशासितो बकनामा कर्षको झटिति लवितुं प्रारेभे । तदा पुत्रैरपि स प्रोक्त:- "हे पितः ! स्वकुटुम्बजीवातुमिमामर्धपक्वां कृषि किं साधारणतृणवल्लुनीषे ?" ततो बकोऽवोचत्-“हे पुत्राः ! एभिः कङ्ककोद्रवैः किम् ? अहमत्र क्षेत्रे इक्षुगोधूमान् वप्स्यामि, यतोऽस्माकं खाद्या गुडमण्डकाः सन्ति " | परिशिष्टपर्व द्वितीयः सर्गः ततः पुत्रा ऊचु:- "हे तात! स्वल्पैरेव दिनैरिमे कणा निष्पत्स्यन्ते, तान् गृहीत्वा यथारुचि त्वमिक्षुगोधूमान् वपेः । इयं निष्पन्नप्राया कृषिर्नश्यति, गोधूमेक्षुषु तु सम्प्रति सन्देहोऽस्ति । क्रोडस्थिते बाले विनश्यति सति उदरस्थिते काऽऽशा ?" एवं पुत्रैर्निवार्यमाणोऽपि बकस्तत् कङ्गुकोद्रववनं लुलाव । यतोऽसौ तत्र प्रभुरासीत् । ५९ ततः स मूढो बकस्तानि सस्यानि लवित्वा कन्दुक्रीडायोग्यां क्षेत्रभूमिं चकार । पार्श्वस्थितः कूपं खानयामास । परं वन्ध्यास्तनदुग्धमिव जलं न निरसरत् । तथा स कूपं खानं खानमनिर्विन्नं पातालबिलसदृशमकारयत् । परन्तु जलस्य का कथा पङ्कोऽपि न निरगात् । ततश्च तस्य न कङ्गवो न वा कोद्रवा नेक्षवो न च गोधूमा अभवन् । तेन स बकः पश्चात्तापमाप । तस्मादैहिकं स्त्रीधनसुखं त्यजन्नामुष्मिकं संशयास्पदं सुखमाकाङ्क्षस्त्वं द्वयोज्झितो मा भूः । समुद्रश्रियं प्रति जम्बूकुमारकथिता काककथा ततो महामना जम्बूनामा स्मयमान उवाच - "हे समुद्रश्रीः ! अहं काक इव निर्बुद्धिर्नाऽस्मि । तथाहि नर्मदानदीतटे विन्ध्यगिरिवने एको यूथपतिर्विन्ध्याद्रेर्युवराज इव महाहस्त्यासीत्, स्वच्छन्दं वने विचरन् स गजो यौवनं व्यतीयाय । आयुर्नदीतटमिव वार्द्धकं प्राप । तस्मात् क्षीणबलः स वृक्षे दन्ताघातान् कर्तुमक्षमो ग्रीष्मे शुष्कनिर्झरो गिरिरिव मदरहितो शल्लकीकर्णिकारप्रभृतिवनभङ्गविमुख उच्चान्निम्ने निम्नादुच्चेऽवतारोत्तारासमर्थो दन्तपतनात् स्वल्पभुक् बुभुक्षया क्षामकुक्षिरस्थिभस्त्रासदृशशरीरो वार्द्धकेऽजनि । Page #37 -------------------------------------------------------------------------- ________________ ६० nanamannmmmmmmmmmmmmmmmmmmmmmmmnnnnn परिशिष्टपर्व - द्वितीयः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स गजोऽन्यदा शुष्कपर्वतनद्यां समुत्तरन् स्खलितपाद एकं गिरिकूटमिव भुवि पपात । स चोत्थातुमशक्तस्तत्रैव पादोपगमनं पालयन्निव तस्थौ । तथास्थितोऽसौ विपेदे । विपन्नस्य तस्याऽऽपानमांसं श्व-जम्बूक-नकुलादयो बुभुजिरे । तस्य गजस्य सकन्दरपर्वतोपमं विशालापानरन्ध्रशरीरं श्वापदैनिवासीकृतमभूत् । तदीयापानयज्ञशालायां मांसार्थिन: काका द्विजा इव विविशुर्निर्जग्मुश्च । तत्रैको वायसो मांसभोजनादतृप्त उत्पन्नविट्कृमिरिवाऽऽपानमध्य एव तस्थौ । तस्मिन् सारं प्राप्नुवन् स काष्ठमध्ये धुणवदधिकाधिकं मध्ये प्रविवेश । स्वशरीरेण परकाये प्रवेशलीलां कुर्वन् स काको योगीवाऽभूत् । स गजकायमांसं स्वच्छन्दं भुजानोऽत्यन्तमध्यगत: पूर्वापरविभागाज्ञो बभूव । तस्य गजस्य मुक्तविष्ठं गुदरन्धं रविकरैः पूर्ववत् सञ्चुकोच । ततः स काकस्तस्य करिणः सङ्कोचितापाने बद्धद्वारे करण्डे सर्प इव तत्रैव तस्थौ । स गजकायो वर्षौ प्रवहन्त्या नद्या तरङ्गकरैर्नर्मदायामनीयत । नर्मदया च नक्राणामुपायनमिव तद्गजशरीरं तरत्प्रवहणमिव समुद्रमध्येऽनीयत । तत्र तस्मिन् प्रविशता जलेन तत्कलेवरमार्दीभूतम् । जलेनैव कृतद्वारात् तस्मात् स काको बहिर्निर्जगाम । तस्य गजकायस्याऽन्तरीपोपमस्योपरिष्टाद् निषद्य स सम्यग् दिगङ्गणं ददर्श । अग्रत: पार्श्वतः पश्चाच्च स जलमयं दृष्ट्वा दध्यौ-"समुड्डीय समुद्रात् तीरं गमिष्यामीति" । स चोड्डीयोड्डीय समुद्रजलस्य प्रान्तं न प्राप, अपि तु तत्कलेवर एवोपविवेश । मीन-मकरादिभिराक्रम्यमाणं तत्कलेवरं सागरे भाराक्रान्ता नौरिव सद्यो ममज्ज । सोऽपि निराधारो वायसः समुद्रे निममज्ज, जलाप्लावनभीत्येव सद्यः पञ्चत्वं प्राप । तत: स्त्रियो मृतवन्यगजसदृश्यः सन्ति, संसारश्च सागरसदृशोऽस्ति, पुरुषश्व काकतुल्योऽस्ति । गजकायसदृशेषु युष्मासु रागवानहमस्मिन् भवसागरे न मड्क्ष्यामि । जम्बूकुमारं प्रति पद्मश्रीकथिता वानरकथा अथ पद्मश्रीः प्रोवाच-“हे नाथ ! त्वमस्मान् परित्यजन् वानर इवाऽत्यन्तं तापं प्राप्स्यसि । तथाहि-एकस्यामटव्यां परस्परमनुरागिणी वानरो वानरी चाऽऽस्ताम् । तौ सदा सहैव निवसन्तावभूताम् । वेलन्धरपर्वताविव तौ मिथो बुभुजाते । युगपदेव तौ वृक्षेषु स्पर्धमानाविवाऽऽरुरुहतुः । एकरज्ज्वाकृष्टाविव युगपद् दधावतुः । एकचित्ताविवाऽनिशं सर्वं कार्यं चक्रतुः । एकदा तौ गङ्गातीरवानीरे रेमाते । तत्र वानरः प्लवमानोऽनवधानो भुवि पपात । तस्य तीर्थस्य प्रभावात् स वानरो विद्याबलादिवाऽमरकुमारसदृशो मनुष्यो बभूव । वानरं मनुष्यरूपं दृष्ट्वा वानरी च मनुष्यदेहेच्छुर्वानरमार्गेण प्राणांस्तत्याज । सा वानरी शीघ्रं देवीसदृशी नारी बभूव, नारीभूता सा पुनर्नवीनेन स्नेहेन नरभूतं तमालिलिङ्ग । तौ च नरीभूतौ प्राग्जन्मवदवियुक्तौ निशाचन्द्राविवाऽनिशं विलेसतुश्च । एकदा नरीभूतो वानरो नारीमुवाच-"प्रिये ! यथा प्राङ् मल्भूतावावां तथा देवीभवावोऽद्य" । वानरी प्रोवाच-"स्वामिन् ! भूयसाऽसन्तोषेणाऽलं, मनुष्यरूपावेवाऽऽवां सर्वान् विषयानुपभुज्वहे, देवत्वेन किं ? देवत्वादधिकं नौ सुखमस्ति, यत एकत्रैव स्वच्छन्दं निर्विघ्नं रमावहे । एवं वानर्या वार्यमाणोऽपि स वानरवरो नरस्तत्रैव वानीरादुच्चैझम्पां पूर्ववद् ददौ ।। Page #38 -------------------------------------------------------------------------- ________________ mmmmmmmmmmmmmmmmmmmmmmmmm SAMAnmmmmmmmmmmmmmmins त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___ तत्र नरीभूतस्तिर्यग्, देवीभूतो मानवश्च, यदि पुन: पतत: तदा तीर्थप्रभावात् तादृशौ स्याताम् । तस्मात् तत्रैव तीर्थे स पुनरपि झम्पां दत्तवानपि प्राग्जन्मवानरत्वेन भूयोऽपि वानरो बभूव । ततोऽन्येधुर्धमन्तो राजपुरुषाः पूर्णचन्द्रमुखीं कम्बुकण्ठी पृथुलस्ती कृशोदरीं वरारोहां कमलसदृशहस्तचरणां गङ्गामृत्तिकाविहिततिलकां लताबद्धकेशी वनकेतकभूषणां तालीदलकुण्डलां कण्ठस्थपद्मनालहारां हरिणाक्षीं तां नारी ददृशुः । ते राजपुरुषास्तामादाय राज्ञे समर्पयामासुः, यतो यद् वस्तु स्वामिरहितं तिष्ठति तद् राजाधीनं भवतीति नीतिरस्ति । अथ राजा च दिव्याकृति तामन्तःपुरशिरोमणि चकार, यतः सुलक्षणाया आकृतेः शोभाऽतिथितां व्रजति खलु । सोऽपि वानरः कैश्चित् तत्राऽऽगतैनटैर्गृहीतः पुत्रवद् विविधं नाट्यं शिक्षितश्च । ते नटा एकदा तस्यैव राज्ञः सन्निधौ समुपेत्य तं वानरं नर्तयन्तः प्रेक्षणीयकं चक्रुः । वानरश्च राज्ञोऽर्धासनोपविष्टां स्वां प्रियां वानरी दृष्ट्वाऽश्रुपातैः सात्त्विकाभिनयं प्रकटयन्निवाऽऽसीत् । राज्ञी प्रोवाच-“हे वानर ! यः कालो यथा भवति तं तथा सेवस्व । अधुना वञ्जुलपरिभ्रष्टः पतनं मा स्मरः" । तस्मात् त्वमपि संप्राप्तं वैषयिकं सुखं परित्यजन् तद्वानरवत् पश्चात्तापं पश्चाद् मा कृथाः" । इति पद्मश्रीवचनमाकर्ण्य जम्बूरुवाच-"अहं हि विषयेष्वङ्गारकारकवद् न तृषितोऽस्मि । अङ्गारकारककथा तथाहि-कश्चिदङ्गारकारक एकदोष्णौ महाटवीमगात्, जलतृषाशान्त्यर्थं जलं च बहु स्वपार्श्वे निनाय । अङ्गारान् कुर्वन् परिशिष्टपर्व - द्वितीयः सर्गः सोऽङ्गारिको महताऽग्नितापेन सूर्यतापे च तप्तस्तृषाकुलितो बभूव । स वराक: शरीरसेचनेन मुहुर्मुहुः पानेन च स्वपार्श्वस्थितं सर्वं जलं वन्यगजवत् व्यापपार । परं च सकलेनाऽपि वारिणा तस्य तृषाग्निस्तैलवन्नेषदपि शशाम । सोऽङ्गारकारको जलं पातुं निपाने यावच्चचाल तावन्मार्गे दैवयोगात् कस्याऽपि मार्गवृक्षस्याऽधोऽमृततुल्यशीतलच्छायायां स पिपासुर्निपपात । ततश्च शीतलच्छायया प्राप्तशान्तिः स सुखदां स्वल्पां निद्रां लेभे । स्वप्ने स वापी-कूप-तडागादीन् सर्वान् जलाशयान् मन्त्रप्रयुक्ताग्नेयबाणवच्छोषयामास; तथाऽप्यच्छिन्नतृष: पिपासाकुलो दीन इतस्ततो भ्रमन्नेकं पङ्किलजलं पुराणकूपं ददर्श । तज्जलं चुलुकैर्ग्रहीतुमसमर्थोऽसौ जिह्वया लिहन् दाहज्वरिवत् कथमपि नाऽतृप्यत् । हे प्रियतमे ! तस्माज्जीवोऽयं तदङ्गारकृत्सदृशः, देव-व्यन्तरादीनां भोगा वाणी-कूप-तडागादिजलसदृशाः किल सन्ति । यो जीवः स्वर्गादिसुखैर्नाऽतृप्यत् स मानुषैर्भोगैः कथं तृप्येत् ? तस्माद् विषयभोगार्थमाग्रहं न कुरु । अथ पद्मसेनोवाच-प्राणिनां परिणामः कर्माधीनस्तस्माद् भोगान् भुक्ष्व, इतरयुक्त्याऽलम् । प्रवर्तक-निवर्तका दृष्टान्ता बहवः सन्ति, यथा नूपुरपण्डिताया गोमायोश्च कथा । __नूपुरपण्डिताकथा तथाहि-राजगृहे नगरे देवदत्तनामा स्वर्णकारोऽभूत्, तस्य पुत्रो देवदिन्ननामा बभूव । देवदिन्नस्य दुर्गिलानाम्नी भार्याऽभूत् । सा च चतुरास्वेका सौभाग्यमहानिधिश्चाऽभवत् । एकदा सा कामबाणैः कटाक्षैर्भूनां मनः क्षोभयन्ती नद्यां जलस्नानार्थं गता । Page #39 -------------------------------------------------------------------------- ________________ ___ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सोज्ज्वलवस्त्रैः सर्वाङ्गस्वर्णभूषणैश्च मूर्ता जलदेवतेव भासमाना नदीतीरमलञ्चकार। कामदेवस्य दुर्गभूमिमिव स्तनद्वयं दर्शयन्ती सा पृथुलस्तनी कञ्चुकं शनैः शरीरादुत्तारयामास । सा कञ्चुकं चोत्तरीयं च सख्या: समर्प्य वस्त्रार्धेन कुचौ गोपयामास । निपुणसखीजनालापैर्विदग्धा सा जीवितकामदेवा मरालीव मन्दं मन्दं तटात् तटं विवेश । तां नदी दूरादप्युत्क्षिप्तैस्तरङ्गहस्तैश्चिराद् दृष्टां सखीमिव सर्वाङ्गे समालिलिङ्ग । सा चकितहरिणाक्षी जलेन रिरंसुररित्रदण्डाभ्यां नौरिव कराभ्यां जलमदारयत् । कुतूहलात् तस्याश्चिरं स्नान्त्या जलं विकिरन्त्याश्चलौ करौ नृत्यत्कमलविभ्रमौ रेजाते । सा श्लथैकवस्रा, विलुलितकेशपाशा, धवलदन्तावलीका, जलक्रीडापरा, रतोत्थितेवाऽलक्ष्यत । समुद्रे सुरीमिव नद्यां रममाणायां तां पर्यटन् दुःशीलः कोऽपि युवा नागरिको ददर्श । जलार्द्रसूक्ष्मैकवस्त्राच्छादितामपि सुदर्शसर्वावयवां तां दृष्ट्वा स नागरयुवा क्षोभादिदं पपाठ-"सुस्नातमिति नदी ते पृच्छति, अमी वृक्षाश्च पृच्छन्ति, त्वत्पादकमलयोनिपतन्नहमपि पृच्छामि" । साऽप्यपाठीत्-"नद्यै स्वस्त्यस्तु, वृक्षाश्च चिरं नन्दन्तु, सुस्नातप्रच्छकानां समीहितमहं करिष्यामि । स युवा मनोरथवृक्षोद्भवेऽमृतसेकोपमं तस्या वचनं श्रुत्वा नृपाज्ञयाऽवरुद्ध इव तथैवाऽस्थात् । स केयमिति चिन्तयन्नेकस्य वृक्षस्याऽध उच्चैर्मुखान् फलपाताभिकाङ्क्षिणो बालानपश्यत् । तत: स युवा लोष्टैस्तरुशाखाः प्रताडयन् फलानि चटरटेति भूतले पातयामास । स यथेष्टं तत्फललाभहृष्टान् बालानपृच्छत्-“हे बाला: ! नद्यामस्यां स्नानकी केयमस्ति ? अस्याश्च नार्याः क्व गृहम् ?" ते बालाः कथयामासुः परिशिष्टपर्व - द्वितीयः सर्गः "इयं स्वर्णकारस्य देवदत्तनाम्नः स्नुषा वर्तते, अस्या गृहमितोऽतिनिकटे वर्तते, दुर्गिलाऽप्येकचेतसा तं युवानं ध्यायन् स्नानक्रीडां विहाय तत्क्षणे स्वगृहं ययौ । कस्यां निशि, कस्मिन् दिने, क्वदेशे, क्वक्षणे आवां मिलिष्याव इति तौ दिवानिशं चिन्तयामासतुः । वियोगपीडितौ तौ युवानी परस्परसङ्गमकाक्षिणौ चक्रवाकाविव चिरमनुरागिणावतिष्ठताम् । अन्येद्युः स युवैकां तापसी पुंश्चलीकुलदेवतां भोजनद्रव्यादिभिः परितोष्य प्रार्थयामास-“हे तापसि ! त्वं देवदत्तस्नुषाया मम च परस्परानुरक्तयोः साक्षाद् नियतिदेवतेव शीघ्रं सङ्गमं कारय । हे तापसि ! मया स्वयं दूतीभूय सा सुन्दरी भाषिता, मम सङ्गमं सा स्वीकृतवत्यस्ति, अतस्तव सम्प्रति तत्सङ्गमः सुसाध्योऽस्ति । सा धीमती तापसी तद्वचनं स्वीकृत्य सद्यो देवदत्तस्य गृहं भिक्षाव्याजेन ययौ । स्थालीपरिष्कारे कृतव्यापारां स्वर्णकारवधू सा परिव्राजिकाऽद्राक्षीत्, तामिदं प्रोवाच-“हे वधु ! त्वामेको युवा मूर्तकामदेवो रिरंसुर्मन्मुखेन त्वां प्रार्थयते । हे विशालाक्षि ! मामुदासीनां मा कृथाः, मत्प्रार्थितं सफलीकुरु । रूपेण वयसा बुद्ध्या चातुर्याद्यन्यगुणैश्च स्वानुरूपं तं युवानमासाद्य यौवनं कृतार्थय । हे वधु ! यदवधि त्वामसौ नद्यां स्नान्तीमपश्यत् तदवधि त्वद्गुणोद्गानवातूलोऽन्यस्त्रीनामाऽपि न जानाति" । धीमती दुर्गिलाऽपि निजहृदयभावं गोप्तुं तां तापसीमेवं परुषाक्षरपूर्वकमतर्जयत्-“हे मुण्डे ! त्वं किं मद्यं पीतवत्यसि ? यदेवं प्रलपसि, किं कुलीनेषु जनेष्वकुलीना कुट्टिन्यसि ? आस्त्वं मम नेत्रयोरग्रं त्यज, लुब्वददर्शना भव, तव दर्शनेनाऽपि पापं, Page #40 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः Mammmmmmmmmmmmmmmmmmmmmmmminine भाषणेन का कथा ?" एवं निर्भत्सिताया गच्छन्त्यास्तापस्याः पृष्ठे दुर्गिला सौधकुड्य इव मषीमलिनकरं ददौ। तदाशयमजानाना सा विलक्षा तपस्विनी दुःशीलपुरुषं गत्वा परुषाक्षरैरुवाच-“हे दुःशीलपुरुष ! त्वं मां मिथ्यैवमवादीर्यद् मय्यनुरागिणी साऽस्ति" | सा हि विशालसतीगर्वा मां शुनीमिवाऽतर्जयत् । हे मुग्ध ! मम दूत्यं तस्यां कुलाङ्गनायां व्यर्थमभूत्, यतः सुभित्तौ चित्ररचना चतुरस्य शोभते । गृहकर्मव्यग्रया कुपितया तया मषीमलिनकरेण चपेटया पृष्ठेऽहमाहताऽस्मि" इत्युक्त्वा सा तापसी दुर्गिलादत्तमषीमलिनकराङ्कितं स्वपृष्ठं धूर्तवरायाऽदर्शयत् । तदा स एवं व्यचारयत्-"कृष्णपञ्चम्यां ध्रुवं सा सङ्केतमदात्, यदस्याः पृष्ठे पञ्चाङ्गुलिर्मषीहस्तो न्यस्तः, अहो ! तस्याश्चातुरी काऽप्यपूर्वा या सङ्केतवासरं सूचयति । हे मनो ! अनया भङ्गयाऽऽश्वसिहि; अहो ! सा सङ्केतस्थानं तु केनाऽपि हेतुना न सूचयाञ्चक्रे । तदद्याऽपि तत्सङ्गमे विघ्नो वर्तते । पुनश्च स तापसीमुवाच-“हे तापसि ! तस्या आशयं त्वं न जानासि । सा मय्यनुरागिण्येवाऽतो भूयोऽपि तां प्रार्थय । हे मातः ! मत्प्रयोजने सर्वथाऽनुत्साहं मा कृथाः । भूयोऽपि त्वं गच्छ । यत उत्साहो लक्ष्मीलताया आदिमं मूलमस्ति" । साऽपि जगाद-"सा कुलीना तव नामाऽपि न सहते । स्थले जलारोपणमिव तवेप्सितं दुष्करं प्रतिभाति । त्वदर्थसिद्धिस्तु संदिग्धा, मम भर्त्सनं तु नि:संदिग्धमेव । तथाऽपि ह्यनाशां त्यक्त्वा शीघ्रं यास्यामि", इत्युक्त्वा तापसी पुनरपि दुर्गिलां गत्वाऽमृतद्रवसदृशैर्वचनैरुवाच-“हे दुर्गिले ! रूपेणाऽऽत्मानुरूपं तं युवानं प्राप्य तेन परिशिष्टपर्व - द्वितीयः सर्गः रमस्व । यौवनफलं गृहाण । यतो यौवनस्येदं फलमस्ति" । दुर्गिला तां तापसीं भर्त्सनापूर्वकं गले धृत्वा रुष्टेवाऽशोकवनिकाप्रत्यग्द्वारेण निःसारयामास । सा तापसी लज्जावशाकृष्टोत्तरीया गोपितमुखी खेदभाग् द्रुतं गत्वा तस्य पुंसो दुर्गिलावृत्तं कथयामास-“हे पुमन् ! अहं तया प्राग्वद् भत्सिता गले धृता पश्चाद्वाराऽशोकवनान्तराद् निःसारिताऽस्मि । ततो धीमान् स पुमानेवं दध्यौ-"अशोकवनिकान्तरे त्वमागच्छेरिति सङ्केतस्तया दत्तो मम" । तामुवाच-“हे तापसि ! तया भर्त्सना कृता सा सोढव्या । अतः परं सा दुष्टा त्वया न किमपि वाच्या" । ततः स युवा कृष्णपञ्चम्यां सायंकालेऽशोकवनिकान्तरे पश्चिमद्वारेण जगाम । स युवा मार्ग पश्यन्तीं तामपश्यत्, साऽपि तमद्राक्षीत् । तयोविवाहवदस्खलितस्तारामेलकोऽभूत् । नयने इव परस्परं बाहू प्रसारयन्तौ तौ द्वौ रोमाञ्चोत्फुल्लसर्वाङ्गावधावताम् । तौ प्रागप्येकचित्तौ तदा त्वेकीभवत्कायौ समुद्र-नद्याविव दृढतरमालिलिङ्गतुः । प्रेमगर्भाभिर्वार्ताभिर्नवनवैः रतैः संभोगसमुद्रनिमग्नौ तौ रात्रेर्यामद्वयमतिनिन्यतुः । रतायासशालिनोर्भुजगण्डोपधानयोस्तयोनयनकमलनिशा निद्रा सञ्चक्राम ।। इतश्च देवदत्तनामा स्वर्णकारः कायचिन्तार्थमुत्थितोऽशोक वनिकां ययौ । तौ शयानौ दृष्ट्वाऽचिन्तयच्च-"इयं मम स्नुषा पापीयसी, तां धिक्, यदियं परपुंसा सह रतश्रान्ता नितान्तं स्वपिति" । स वृद्धो जारश्चाऽयमिति निश्चेतुं गृहं गत्वा सुप्तं पुत्रं दृष्ट्वेति व्यचारयत्-"एतस्याश्चरणनूपुरमाकर्षामि शनैः, यथा मे पुत्रो विश्वसिति यदियं स्नुषाऽसती विद्यते" । इति ध्यात्वा चौर इव सद्यस्तत्पादनूपुरं शनैराकृष्य देवदत्तस्तेनैव मार्गेण स्वगृहमाययौ । Page #41 -------------------------------------------------------------------------- ________________ ६८ परिशिष्टपर्व - द्वितीयः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm सा स्वर्णकारस्नुषा पादनुपुराकर्षणेनाऽजागरीत् । प्रायः सभयसुप्तानां निद्रा स्वल्पैव भयादिव भवति । साऽपि श्वशुरेणाऽऽकृष्टं पादनूपुरं ज्ञात्वा जारपुरुषमुत्थाप्य भयव्यग्रा जगाद-"शीघ्र पलायस्व, यत आवां दुरात्मना श्वशुरेण दृष्टौ स्वः, ममाऽनर्थे समागते सहायतायै त्वं यतेथाः" । स जार आमित्युक्त्वाऽर्धसंवीतवस्त्रो भयात् पलायाञ्चक्रे । पुंश्चल्यपि सा शीघ्रं गृहे गत्वा भर्तृपार्श्वेऽशेत । सा धृष्टतां नाटयन्ती बुद्धिमतीनां धुरन्धरा गाढालिङ्गनपूर्वकं स्वपति प्रबोधयाञ्चकार, पतिं चोवाच सा-“हे नाथ ! इह मां धर्मो बाधते, तत्पवनान्दोलितपल्लवामशोकवनिकामितश्चल" । स देवदिन्नोऽपि स्त्रीप्रधान उत्थाय सरलत्वादशोकवनिकां गत्वा कण्ठलग्नया दुर्गिलया सह जारस्थानेऽशेत । साऽपि तत्रैव निर्भरमालिङ्गयाऽशेत । तत्पतिस्तत्राऽपि सरलाशयो निद्रां प्राप, यतोऽक्षुद्रमनसां निद्रा सुलभैव भवति । अथ सा धूर्ता नटीव गोपिताकारा पतिमुवाच-"हे नाथ ! त्वत्कुले कोऽयमाचारो, यो वक्तुमपि न शक्यते । त्वामालिङ्ग्य प्रसुप्ताया आवरणरहितवक्षसो मे पादात् तव तातो नूपुरमाकृष्याऽग्रहीत् । पूज्यानां वध्वाः स्पर्शोऽपि नोचितः, रतवेश्मनि पत्या सह प्रसुप्तायास्तस्याः का कथा ?" "हे मनस्विनि ! प्रातरहं सोपालम्भं पितरं वक्ष्यामि त्वत्समक्षे" इति दुर्गिलां देवदिन्न आश्वासयामास । दुर्गिलोवाच-"अधुनैव त्वं पितरं कथयितुमर्हसि, अन्यथा प्रातर्मां परपुरुषेण शयितां कथयिष्यति । सोऽप्युवाच-"मम सुप्तस्य वध्वाः पादनूपुरमहार्षीदित्यहं पितरमाक्षिप्य वक्ष्यामि । तव पक्षेऽस्मि, किल त्वं निश्चिन्ता भव" । हे नाथ ! यथाऽधुना त्वं वदसि तथा प्रातरपि कथयेः" सा धूर्तेति स्वपति बहूञ्छपथान् कारयामास । ततः प्रभाते देवदिन्नः कुपित: स्वपितरं जगाद-"त्वं किं मम स्त्रिया: पादनूपुरमकर्षः" । स वृद्ध उवाच-"हे पुत्र ! इयं वधूः दुःशीलाऽस्ति, मयाऽशोकवने रात्रौ परपुरुषेण शयिता निरैक्षि, इयं दुःशीलेति तव विश्वासार्थमस्याः पादाद् नूपुरमाकर्षम्" । तदा पुत्र उवाच-“हे पितः ! तत्राऽहं सुप्तोऽपरः कोऽपि पुरुषो न शयितोऽभूत् । निर्लज्जेन त्वया किमीदृशं लज्जितोऽस्मि । वध्वा नूपुरमर्पय, त्वं न विगोपय तत्, मयि सुप्ते तत्त्वयाऽऽकृष्टं ममेयं स्त्री प्रकृष्टा सती वर्तते खलु" । स्थविर उवाच-"यदाऽहमस्या नुपूरमाकर्षं तदा गृहमागत्य त्वामपश्यं, त्वं गृहे शयित आसी: किल" । ततो दुर्गिलोवाच-"अहं स्वस्य दोषारोपणं न सहे, दैवी क्रियां कृत्वा पितरं प्रत्याययिष्यामि । मम कुलीनाया ईदृशं दोषारोपणं वाड्मात्रमपि न शोभते यथा धौतधवलवस्त्रे मषीबिन्दुः । इह शोभनयक्षस्य जयाभ्यन्तरे निःसराम्यहं, यत्तज्जवयोर्मध्येऽशुद्धो न गन्तुं शक्नोति । अथ सविकल्पेन पित्रा निर्विकल्पेन पुत्रेण प्रागल्भ्यमहानिधेस्तस्याः प्रतिज्ञा स्वीचक्रे । सा स्नात्वा धौतवस्त्रधरा धूपपुष्पोपहारपाणिः सर्वबन्धुसमक्षं यक्षं पूजयितुं जगाम । सङ्केतितः स जारः यक्षमर्चयन्त्यास्तस्याः कण्ठदेशे कवर्गवद् ग्रहिलीभूयाऽलगत् । जनैः स ग्रहिल इति गले धृत्वा दूरेऽपास्यत । सा पुनः स्नात्वा यक्षमचित्वैवं व्यजिज्ञपत्-"चेद् मया पति विना मत्कण्ठे प्रत्यक्षम, ग्रहिलं च विना कदाऽपि नाऽन्यः पुमानस्पर्शि तदा मे शुद्धिदो भूयाः, यतः सत्याः सत्यप्रियोऽसि" । किं करोमीति चिन्तया यावद् यक्षोऽप्याविष्टस्तावत् तज्जययोर्मध्ये साऽविलम्बेन निर्जगाम । शुद्धा शुद्धेति तुमुलकारिणि जने तस्या गले राजाध्यक्षाः पुष्पमाल्यं Page #42 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः निचिक्षिपुः । वाद्यमानेन तुर्येण प्रमुदितबन्धुभिर्वृता सा देवदिन्नेन स्वीकृता श्वशुरगृहं ययौ । स्वकं नूपुराकर्षणजनितं कलङ्कमुदतारयत्, तत्प्रभृति जनैर्नूपुरपण्डिताऽकथय । *** ७० "स्नुषया मत्या पराजितो देवदत्तस्तत्प्रभृति चिन्तया नष्टनिद्रो वारिबद्धगज इवाऽभवत् । राजा तं योगिनमिवाऽनिद्रं ज्ञात्वा यथाप्रार्थितां जीविकां दत्त्वा शुद्धान्तरक्षकं चकार । कस्याचिन्निश्येका राज्ञी तमन्तःपुररक्षकं शेते नवेति ज्ञातुं पुनः पुनरपश्यत् । सोऽचिन्तयत्-"किमपि कारणं मया न ज्ञायते यदुत्थाय मामेषा पुनः पुनर्निरीक्षते" । मयि सुप्ते किमियं कुर्यादिति ज्ञातुं स यामिकः कपटनिद्रया शिश्ये । शनैश्चौरवद् गवाक्षाभिमुखं गन्तुमारेभे । तस्य गवाक्षस्याऽधो देवराजगजसोदरो राजप्रियः सदामदो हस्ती निबद्ध आसीत् । सा तस्य गजस्य हस्तिपके नित्यानुरागिणी गवाक्षतः सञ्चारिदारुफलकमपसार्य बहिर्ययौ । नित्याभ्यासात् सुशिक्षितो गजः शुण्डेन तामादाय भूमौ मुमोच । ततस्तां दृष्ट्वा हस्तिपकोऽकुप्यत् । पुनः सोऽतिकाले किमायासीरित्युक्त्वाऽरुणेक्षणो हस्तिशृङ्खलया दासीमिव तां जघान । सोवाच - "हे हस्तिपक! मां मा ताडय, अद्य राज्ञा मुक्तः कोऽपि नवोऽन्तःपुररक्षको जागरूकः सन् मामवारुधत् । हे सुन्दर ! अहं कथमपि तस्य निद्राच्छिद्रं प्राप्याऽऽगताऽस्मि इति विज्ञाय मा कोपी, " इत्थं तया बोधितो हस्तिपकः कोपं त्यक्त्वा तया सह परिशिष्टपर्व द्वितीयः सर्गः यथारुचि रेमे । रात्रेः पश्चिमे भागे साहसमहानिधिः सा हस्तिना शुण्डमारोप्योदञ्चिता स्वावासं ययौ । ७१ स्वर्णकारोऽपि दध्यौ - " अहो ! स्त्रियाश्चरितं घोटकानां कुहकारावमिव को ज्ञातुमर्हति ? अहो ! यद्यसूर्यम्पश्यानामपि राजयोषितामेवं शीलभङ्गो भवति तर्ह्यन्यस्त्रीषु का कथा ? सामान्यगृहस्त्रीणां जलाहरणार्थं सञ्चरन्तीनां शीलरक्षणं कियच्चिरं भवितुमर्हति ?" इति स्वस्नुषाया दौ: शील्यकोपचिन्तां त्यक्त्वा शोधितर्णोऽधमर्ण इव तत्र निर्भरं सुष्वाप । स स्थविरः स्वर्णकारः प्रातरपि न जागराञ्चक्रे । ततो भृत्यास्तं तथास्थं राज्ञेऽकथयत् । राजाऽपि प्रोवाच - "केनाऽपि कारणेनाऽत्र भवितव्यं, तस्मादसौ यदा जागृयात् तदा तं मत्पार्श्वे समानयत", इत्यादिष्टा भृत्या ययुः । स्वर्णकारोऽपि चिरात् सप्तरात्रं निद्रासुखमन्वभूत् । सप्तरात्रे व्यतीते सोऽजागरीद् भृत्यैश्च स राजसमीपं नीतः । राज्ञैवमपृच्छ्यत- “हे स्थविर ! तव तु निद्रा कदाऽपि नाऽऽगमत् यथा दुर्भगस्य कामिनी नैति तथा, तत् किं सप्तरात्रं त्वं सुप्तः ? तव न किमपि भयं, यथार्थं ब्रूहि । सोऽपि हस्तिपकस्य राज्ञ्या गजस्य च रात्रिवृत्तान्तं यथादृष्टं राज्ञेऽचकथत् । ततो राज्ञा प्रसादं दत्त्वा स विसृष्टी निजगृहं ययौ । ततो दुःखः सुखपूर्वकमतिष्ठत् यतो जनो धैर्यं जनात् प्राप्नोति । ततो राज्ञा तां दुश्चारिणीं ज्ञातुं काष्ठहस्तिनं कारयित्वा सर्वा राज्ञीराज्ञापयत्, मया स्वप्नो दृष्टो यत् कैलञ्चोऽयं मतङ्गजः स भवतीभिर्ममाऽग्रे विवस्त्राभिरारोढव्यः । ता राज्यो राज्ञः पश्यतस्तथा चक्रिरे । परं चैका राज्ञी त्वेवमुवाच - "हे नाथ! अहमस्माद् गजाद् बिभेमि " । Page #43 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - द्वितीयः सर्गः ७३ ७२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो राजा कुपितः तां राज्ञी लीलाकमलनालेनाऽताडयत् । सा मूर्छानाटितकं कृत्वा भूमावपतत् । नृपोऽप्येवं दध्यौ-या स्थविरेणोक्ता सेयं कुलपांसिनी पापीयसी दुश्चारिणी मम राज्ञी वर्तते । तत्पृष्ठं निरूपयञ्छृङ्खलाघातदर्शनात् स्मयमानो नखाच्छोटनिकापूर्वकमिदमुवाच स राजा-“हे दुश्चरिते ! त्वं गजेन क्रीडसि, अस्माद् दारुहस्तिनो बिभेषि, पुनस्त्वं शृङ्खलाघाताद् मोदसे कमलघाताद् मूर्च्छसि च । राजा प्रदीप्तकोपप्राग्भारो वैभारगिरौ गत्वा तं हस्तिपकं हस्त्यारूढमाजूहवत् । ततस्तेन सह तां राजी गजासने समारोपयत् । उग्रशासनो राजा तं हस्तिपकाधम समादिशत्-"गजं विषमगिरिप्रदेशारूढं कृत्वा निपातयेः, तेन युवयोनिग्रहो भवतु । आधोरणस्तं हस्तिनं पर्वतशिखरे त्रिपद्योत्क्षिप्तैकपादं स्थिरं धारयामास । तदा जनो हाहाकुर्वन्नुवाच-"राजशिरोमणे ! आज्ञाकारिणः पशोर्गजेन्द्रस्य मारणं नोचितं भवति" । अनाकणितकं कृत्वा पातयेत्येवोपदिशति राज्ञि हस्तिपको गजं द्वाभ्यां पद्भ्यामधारयत् । पुनर्लोके “हाहाऽयं गजो न हन्तव्य" इति वदति सति राजा तूष्णीकोऽभूत् । हस्तिपकश्च तं गजमेकपादस्थं दधौ । लोको हस्तिरत्नस्य मारणं द्रष्टुमसमर्थो हाहाकुर्वन्नूर्ध्वस्थितैर्भुजै राजानमुवाच-“हे क्षितिवल्लभ ! अयमन्यगजासह्यः सुशिक्षितो दक्षिणावर्तवद् दुष्प्रापो वालनीयोऽस्ति" । राजन् ! त्वं प्रभुरसि तस्मादपराधिनोर्यदिच्छसि तत् करोषि; परन्त्वविवेकजमयशस्तव निरङ्कुशं स्यादिति विद्धि । हे स्वामिन् ! त्वया स्वयं कार्याकार्ये विचार्ये, ततः स्वयं विचार्य हस्तिरत्नं रक्ष, न: प्रसीद । राजाऽप्युवाच-"अस्त्वेवं, यूयं सर्वे मद्वचसेमं हस्तिपकं हस्तिरक्षणाय वदत" । ततो लोका ऊचुः-“हे आधोरणशिरोमणे ! इयती भूमिकां प्रापितं गजं निवर्तयितुं त्वं शक्नोषि ? स उवाच"यदि राजाऽऽवयोरभयं ददाति तदा सुखेनोत्तारयामि" । तदा राजलोकैविज्ञप्त:-“हे राजन् ! अनयोरभयं देहि । ततो हस्तिपकः शनैस्तं गजमुदतारयत् । ततो गजस्कन्धाद् राज्ञी-हस्तिपकावुत्तीर्णौ । मद्देशस्त्यज्यतामित्युक्तौ तो पलायाञ्चक्राते । तौ नश्यन्तौ सायंकाल एकं ग्रामं जग्मतुः । तत्रैकस्मिञ्छून्ये देवालये सहैव सुषुपतुः । एकश्चौरो ग्रामादर्धरात्रे तदारक्षकेभ्यो नंष्ट्वा तद्देवकुले प्राविशत् । तद्देवकुलं ग्रामारक्षकाः प्रातर्वयं चौरं ग्रहीष्याम इति वदन्तः पर्यवेष्टयन् । चौरोऽप्यन्धवत् कराभ्यां देवकुलं शोधयन् यत्र तौ शयानौ बभूवतुस्तत्र शनैर्ययौ । तस्करेण स्पृश्यमानोऽपि न हस्तिपकोऽजागरीत्, यतः श्रान्तस्य निद्रा वज्रलेपवत् सज्यते । परं चेषत्करस्पृष्टाऽपि राज्ञी शीघ्रमजागरीत् । तस्मिश्चौरे स्पर्शमात्रादनुरागिणी भूता सा त्वं कोऽसीत्युवाच च शनैः । सोऽपि तस्करः शनैरित्युवाच-"अहं चौरोऽस्मि" । अहं धावत्सु ग्रामरक्षकेषु प्राणत्राणार्थमत्र प्राविशम् । सानुरागाऽसतीब्रुवा सा चौरमब्रवीत्-"हे सुभग ! यदि मामिच्छसि तदा त्वं रक्षामि नाऽत्र संशयः" । चौर उवाच-“हे वरवणिनि ! मया कनकं सुगन्धश्च प्राप्तौ, यतो मम पत्नी भवसि जीवितं च रक्षसि । परं कोऽत्र प्रकारो येन मां रक्षसि तत् कथयित्वा हे धीमति ! मामाश्वासय" । सा प्रोवाच"हे सुभग ! ग्रामरक्षकेष्वागतेषु त्वां पति वक्ष्यामि" । सोऽब्रवीत्"एवमस्त्विति" । तदा प्रातःकाले शस्त्रपाणिभिः प्रविष्टैर्भूभङ्गभी Page #44 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - द्वितीयः सर्गः ७५ ७४ ___ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः षणैामसुभटैस्त्रयोऽपि पृष्टाः-"युष्मासु कश्चौर इति"। ततः सा धूर्ता मूर्तमायेव तान् ग्रामपुरुषानुवाच-"चौरपुरुषमुद्दिश्याऽयं मे पतिरिति” । सा कृताञ्जलि: पुनरुवाच-“हे भ्रातरः ! आवां ग्रामान्तरे गच्छन्तौ दिनापगमेऽत्र देवालये न्यवात्स्व" । ते ग्रामीणा: सम्भूय पर्यालोच्यैवमूचुः-"चौरस्य गृह ईदृशं स्त्रीरत्नं न संभाव्यते । इयं ब्राह्मणी वाणिजी राजकन्या वा काऽप्यन्या भवेत् । इयं मूर्त्याऽपि पवित्रा, अस्याः पतिश्चौरो न भवेत् । इयं विचित्रवस्त्रभूषणा लक्ष्मीरिव वपुष्मती, यस्येयं स्त्री स चौर्येण न जीवितुमर्हति । पारिशेष्याद् हस्तिपकमेव दोषिणं मत्वा सद्यः शूलायां समारोपयाञ्चक्रुः । शूलाधिरोपितः स हस्तिपको मार्गे यं यं ददर्श तं तं मां जलं पायय पाययेति प्रार्थयामास । तं राजभीत्या कोऽपि जलं नाऽपाययत् । यतः सर्वोऽपि स्वरक्षापूर्वकं धर्ममाचरति। ततस्तेन मार्गेण गच्छन् जिनदासाख्यः श्रावकस्तेन चौरेण दृष्टो जलं याचितश्च । सोऽपि तं प्रत्येवमुवाच-“हे चौर ! तव पिपासामहं हरिष्यामि यदि मद्वचः करिष्यसि" । तावत् त्वं 'नमोऽर्हद्भय इति वदेर्यावदहं जलमानयामि । जलपिपासया स हस्तिपकस्तथा घोषयितुं प्रारेभे । ततः स श्रावकोऽपि तत्पिपासाशान्त्यर्थं राजपुरुषाज्ञया जलमानयत् । स हस्तिपक आनीयमानं जलं दृष्ट्वा नमोऽर्हद्भय इति समुच्चरन् प्राणैरमुच्यत । स त्वसंश्रुतशीलोऽपि शीलिताकामनिर्जरो नमस्कारप्रभावेण व्यन्तरदेवोऽभूत् । साऽपि पुंश्चली चौरेण सह मार्गे प्रययौ । मार्ग एकां नदी जलपूरेण दुस्तरां प्राप । चौरोऽपि पुंश्चलीं प्रत्युवाच-"त्वामहमेकसमयेनोत्तारयितुं न शक्नोमि यतस्ते वस्राभरणभारोऽस्ति । हे प्रिये ! प्रथमं त्वं वस्त्राभरणभारं मह्यं समर्पय । तं प्राग् नदीपारं नेष्यामि, ततस्त्वामप्यनायासेन पारं नेष्यामि । यावदहमायामि तावत् त्वं शरस्तम्बे तिरोभव । एकाकिन्यपि मा भैषीरहं शीघ्रमेष्यामि, तदा त्वां पृष्ठदेश आरोग्य जले तरन् पोत इव परस्मिस्तटे नेष्यामि । त्वं मद्वचनं कुरु" । शरस्तम्बे प्रविश्य सा पुंश्चल्यपि तथा चकार । स चौरो वस्त्राभरणानि नीत्वा परं तटं गत्वेत्यचिन्तयत्-"येयं पति मारयामास सा मय्यनुरक्ता क्षणरागा हरिदेव ममाऽप्यसौ विपदेऽवश्यं स्यात्, इति वस्त्राभरणानि गृहीत्वा स तस्करो वलत्कन्धरः पश्यन्नपि हरिणवद् ननाश । उद्धतकरा हस्तिनीव सद्योजातेव नग्ना सा गच्छन्तं तमालोक्योवाच-"हे प्रिय ! मां विहाय किं यासि ?" चौरोऽवदत्-"त्वामेकाकिनी शरवणस्थितां राक्षसीमिव दृष्ट्वा बिभेमि, अतस्त्वयाऽलम्" । एवं वदन् स पक्षीवोड्डीयाऽनश्यत् । सा पुंश्चली पतिद्वेषिणी तत्रैवोपविश्य तस्थौ।। स हस्तिपकजीवोऽपि देवत्वं प्राप्तः प्रयुक्तावधिज्ञानस्तां तपस्विनीं तथास्थितामपश्यत् । ततः स तां पूर्वजन्मस्त्रियं संबुबोधयिषुर्मुखाद् गृहीतमांसखण्डं शृगालं विचकार । इतश्च स तस्या नद्यास्तटे जलाद् बहिःस्थितं मत्स्यं भोक्तुं मांसपिण्डं त्यक्त्वाऽधावत्; तदा मीन: पुनरपि नदीनीरं प्राविशत् । तद्विकृतपक्षिण्या मांसपिण्डमग्रहीत् । ततः सा नग्निका शरवणोपविष्टा दुःखदीनाऽपि दृष्टकौतुका तं जम्बुकमुवाच-“हे शृगाल ! दुर्मते ! मांसपेशीं विहाय मीनं त्वमीहसे, मीनाद् मांसाच्च भ्रष्टः सन् किं त्वं पश्यसि ? जम्बुक उवाच-“हे नग्निके ! त्वं निजपतिं त्यक्त्वा पत्युर्जाराच्च भ्रष्टा सती Page #45 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - द्वितीयः सर्गः ७७ RAA A Amainnnnnnnnine लि त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः किं पश्यसि ? तच्छ्रुत्वा सुष्ठ बिभ्यत्यास्तस्या: स व्यन्तरदेवो महद्धिकं स्वं रूपं दर्शयित्वैवमवोचत्-“हे पापे ! यद्यपि त्वं पापमेवाऽकृथास्तथाऽपि पापपङ्कजलप्लवं जिनधर्म समाश्रयः । हे मुग्धे ! यो हस्तिपकस्त्वया मारित: सोऽहमस्मि, जिनधर्मप्रभावात् देवत्वं प्राप्तोऽस्मि; मां पश्य । ततोऽहमपि जिनधर्मं प्रपत्स्य इति कृतनिर्णयां तां स साध्वीसन्निधौ नीत्वा परिव्रज्यामग्राहयत् । तस्मादस्माद् दृग्जनायोग्यान् प्रवर्तक-निवर्तकान् दृष्टान्ताननादृत्य त्वं वैषयिकं सुखं भुक्ष्व । ततो जम्बूनामाऽपि जगाद-"अहं विद्युन्माली खेचर इव रागग्रहिलो नाऽस्मि; तस्य चरितं त्वं शृणु" । विद्युन्मालिकथा इह भरतक्षेत्रे पक्षाभ्यां पक्षीव भरतार्धाभ्यां सम्पृक्तो वैताढ्यनामकः पर्वतोऽस्ति । तत्रोत्तरश्रेणिभूषणं गगनवल्लभनामकं पुरवरमस्ति यद्देवानामतिप्रियं विराजते । तस्मिन् पुरे मेघरथो विद्युन्माली चेति नामतो द्वौ प्रीतिमन्तौ तरुणौ विद्याधरौ सोदरावभूताम् । तौ विद्यां साधयितुं मन्त्रयामासतुः । भूगोचरसमीपे यामस्तत्रैवाऽऽवयोर्विद्या सेत्स्यति । तद्विद्यासाधनेऽयं विधिर्यत्अतिनीचकुलजाता कन्या विवाह्या, ततो वर्षपर्यन्तं ब्रह्मचर्य पालनीयमिति । ततो गुरूननुज्ञाप्याऽत्र दक्षिणे भरतार्धे द्वावपि तौ वसन्तपुरनगरमाजग्मतुः । ततश्चाण्डालावासं चाण्डालवेषेण गत्वा तौ बुद्धिप्रभावेण चाण्डालमाराधयाञ्चक्राते । ततश्चाण्डाला आराधिताः प्रसन्नाः सन्तः प्रोचुर्युवयोश्चिरागतयोः किमत्र प्रयोजनमस्ति ? तत् कथयतम् । तौ सद्भावं गोपयित्वोचतुः "हे हिताः ! आवां क्षितिप्रतिष्ठनगरादागतौ स्व:, आवां पितृभ्यां हि कुटुम्बमध्याद् बहिष्कृतौ, इति हेतोः क्रोधेन निर्यन्तौ भ्रमन्ताविहाऽऽगतौ स्वः" । ततश्चाण्डाला ऊचु:-"युवामस्मत्कन्ये परिणेष्यथस्तदाऽस्मत्कुलोचितं सर्वं करिष्यथ" । तावुचतु:-"आम्" इति । ततो मातङ्गास्ताभ्यां द्वे कन्ये काणदन्तुरे प्रादुः । विद्युन्माली तु कुरूपायामपि कन्यायां रक्तोऽभूत्, न विद्यामसाधयच्च । क्रमेण विद्युन्मालिभार्या गर्भवत्यभूत्, पूर्णे गर्भ च मेघरथो विद्यां साधयित्वा सिद्धविद्योऽजनि । ततो मेघरथो भ्रातृस्नेहाद् विद्युन्मालिनमुवाच-“हे भ्रात: ! वयं सिद्धविद्याः स्मः, चाण्डालकुलं त्यज । वैताढ्यसुखसम्पद्योग्यौ भवावः, अतस्त्वं चाण्डालकन्यां त्यज । वैताढ्ये खेचर्यः स्वयंवरा भाविन्यः सन्ति" । सलज्जो विद्युन्माल्यवदत्-“हे सुव्रत ! त्वं सिद्धविद्योऽस्यतो कृतकृत्यः सन् वैताढ्यं याहि । अहं तु नियमपादपं भग्नवांस्ततोऽधमः कथं नियमतरुजन्यं विद्यासिद्धिफलं प्राप्नुयाम् । हेऽनघ ! इमां वराकी जातगर्दा त्यक्तुं नाऽहं शक्नोमि । पुनरसिद्धविद्योऽहं त्वया सह गन्तुं जिहेमि । त्वं साधितविद्यो याहि, अहं पुनरसाधितविद्यो बन्धूनां मुखं कथं दर्शयिष्यामि ? अमुना प्रमत्तेन मयाऽऽत्मनैवाऽऽत्मा वञ्चितः । अहमिदानीमुद्योगतत्परो विद्या साधयिष्यामि, त्वं मां भ्रातरं हृदि धारयन् वर्षान्ते पुनरिहाऽऽगच्छे:, तदा त्वया सह साधितविद्योऽहं यामि" ।। ततो मेघरथश्चाण्डालीप्रेमपाशबद्धं विद्युन्मालिनं नेतुमशक्त एकाक्यपि वैताढ्यगिरिं ययौ । तत्र बन्धुभिः स पृष्टः-"त्वमेकाकी Page #46 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - द्वितीयः सर्गः ७९ mannnnnnnnnnnnnnnnnnn ७८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः किं समागतोऽसि ? तव भ्राता क्वाऽस्ति ?" इति श्रुत्वा प्रोवाचाऽसौ विद्युन्मालिवृत्तान्तमादितः । अवसरे विद्युन्मालिनः सा चाण्डाली प्रिया पुत्रमजीजनत् । स विद्यासिद्धिमिव तां प्राप्याऽमोदत । स कुबुद्धिस्तस्यां म्लेच्छ्यां परमप्रेम्णाऽऽसक्त्या च विद्याधरसुखं व्यस्मरत् । सा काण-दन्तुरा चाण्डाली विद्युन्मालिना सह यथासुखं क्रीडन्ती पुनरपि गर्भ दधौ । इतश्च विद्यासम्पन्नो मेघरथस्तत्र वर्षान्ते जगाम भ्रातृस्नेहवशात् । सोऽचिन्तयदेवम्-"अहं स्वर्गाङ्गनासदृशविद्याधरवधूवृतोऽस्मि । स मे भ्राता काण-दन्तुरम्लेच्छीगार्हस्थ्यनरके स्थितः । अहं पुनः सप्तभूमे प्रासादे उद्यानशोभिते निवसामि, स तु श्मशानास्थिव्याप्ते चाण्डालकुटीरके वसति । अहं नानाविधविद्यद्धिभिः सिध्यमानमनोरथोऽस्मि, स तु जीर्णवस्त्रधारी कदन्नभुक् चाऽस्ति"। एवं विद्युन्मालिनि सौभ्रात्रानुरूपं चिन्तयन् मेघरथो वसन्तपुरपत्तनं जगाम । तत्र गत्वा भ्रातरमुवाच-“हे भ्रात: ! त्वं वैताढ्यगिरौ विद्याधरसुखैश्वर्यं महत्तरं कथं न भुङ्क्षे ?" ततो विद्युन्माली विलक्षं हसित्वेदमूचे-“हे भ्रातः ! इयं पत्नी मम बालवत्सा पुनर्गर्भवती विद्यते, तस्मादिमामनन्यशरणां सुपुत्रां गुविणीं वज्रहृदयस्त्वमिव नाऽहं त्यक्तुं शक्नोमि । हे भ्रातस्तस्माद् गच्छ, अन्यदा दर्शनं दद्याः, अहममुं समयमत्रैव यापयिष्यामि, त्वं मा क्रुध्य" । ततो मेघरथस्तं प्रबोधं प्रबोधमतिखिन्नः पुनस्ततो निरगमत्; यतोऽतिजडे नरे हितोऽपि जनः किं कर्तुं शक्नुयात् ? अथ विद्युन्माल्यपि द्वितीये पुढे जाते चाण्डालकुलं स्वर्गादप्यधिकं मुदाऽमन्यत । वस्त्र-भोज्यादिदौःस्थ्येऽपि स दुःखं न विदाञ्चकार । तौ चाण्डालीकुक्षिभवौ बालौ सलीलमुदलालयत् । स ताभ्यां क्रोडस्थाभ्यां पुन: पुनर्मूत्रयद्भयां गन्धोदकस्नानमिव मूत्रस्नानममन्यत । तं म्लेच्छ्यपि सुभगंमन्या पदे पदे ततर्ज; तथाऽपि तदासक्तः स चाण्डालकुलकिङ्करो बभूव । मेघरथः पुनर्भ्रातृस्नेहवशादागत्य गद्गदया वाचा विद्युन्मालिनमालिङ्गय जगाद-“हे कुलीन ! त्वं चाण्डालकुले मा तिष्ठ, तवाऽत्र काऽऽस्था ? हंसो मानसोत्पन्नः किं गृहस्रोतसि रमते ? यत्र कुले त्वमुत्पन्नोऽसि तत्कुलं न मलिनीकुरु । यथा धूमेनाऽग्निस्तथा त्वमनेन दुराचारेण मलिनो जातः" । एवं प्रबोध्यमानोऽपि स नाऽऽगन्तुमैच्छत् । ततो मेघरथो नाऽहमत्र पुनरागमिष्यामीत्युक्त्वा ततोऽगमत् । अथ मेघरथः पैत्र्यं राज्यं चिरमपालयत् । एवं मेघरथो बुद्धिमान् सुखराशि लेभे, विद्युन्माली तु भवसागरे बभ्राम । हे पद्मसेने ! विद्युन्मालीवोत्तरोत्तरसौख्यातिलम्पटो रागान्धो न भविष्यामि । ततः कनकसेनोवाच-“हे स्वामिन् ! किञ्चिन्मामपि मानय । शङ्खधमक इव त्वमतिशयं न कुरु । शङ्खधमककथा शालिग्रामे कश्चिदेकः कृषीवलो बभूव । स प्रातरारभ्य सायं यावद् नित्यं क्षेत्रं ररक्ष । स क्षेत्रसमुद्रे मञ्चपोतमारूढः शङ्खशब्देन दूरादागच्छतः सत्त्वान् पलाययामास । एकदा चौरा गोधनं चोरयित्वा क्षेत्रसमीपे समागताः शङ्खनादं श्रुत्वैवमचिन्तयन्-"अहो ! अमी Page #47 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः ग्रामपुरुषा गोधनं वालयितुकामा अग्रेऽप्याजग्मुः यदयं शङ्खनादोऽतिनिकटे भवति" । इति विचार्य ते चौरा गोधनं परित्यज्य प्रातस्तरुत्थखगवत् दिशो दिशं पलायाञ्चक्रिरे । ८० ततस्तत् क्षुभितं गोधनं शनैः शनैश्चरदरुणोदयसमये तत्क्षेत्रसमीपमागमत् । स कृषीवलो गोमुखाभिमुखं यावद् दधाव तावद् निर्मनुष्यं सर्वं दृष्ट्वैवमचिन्तयत् मम शङ्खशब्दं श्रुत्वा तस्करा गोधनं तत्यजुः तत्राऽभिशङ्कया, पापः सर्वत्र शङ्कते । निःशङ्कः स कृषीवलस्तद्गोधनं गृहीत्वा ग्रामे सर्वस्मै ददौ । स उवाच-‘“मह्यं देवतयाऽदो गोधनं दत्तं भवद्भिर्गृह्यतामिति । ततः स ग्रामवासिजनसमूहेन गोमान् कृतः । ग्रामस्तु तं ग्रामयक्षमिव मेने, यतो यो ददाति स देवता भवति । स कृषीवलो लब्धप्रसरो द्वितीयेऽपि वर्षे क्षेत्रं गत्वा तत्र निशि शङ्खं ध्मातुमारेभे । एकदा त एव चौरा अन्यस्माद् ग्रामाद् गोधनं हृत्वा तत्क्षेत्रस्य निकटे महानिशि समाजग्मुः । तस्य शङ्खधमस्य महान्तं शङ्खध्वनिं श्रुत्वा सुष्ठु सौष्ठवं समाश्रित्य परस्परं जगदुः- “अत्र प्रदेशेऽत्र क्षेत्रे पुरा शङ्खध्वनिर्यथा श्रुतस्तथाऽधुनाऽपि श्रूयते । ते गुहात एवाssवासाः सन्ति । कोऽप्ययं क्षेत्रपालकोऽस्ति, प्राणिभ्यः क्षेत्ररक्षार्थं शङ्खं नूनं धमति । वयं धिक् यत् पुरा शङ्खध्मानेन वञ्चिता अभूम " । ततस्ते तस्करा तूलवर्तिका इव हस्तान् घर्षयन्तो दन्तैरधरान् पीडयन्त यथा गोस्तनात् वत्सास्तथा हस्तिनः शुण्डादण्डानिव लकुटानुत्थापयन्तो क्षेत्रान्तर्गोवृषा इव शस्यान्यान्दोलयन्तश्चौरकुञ्जराः शङ्खनादानुसारेण गच्छन्तस्तं मञ्चरूढं शङ्खधमं नरं ददृशुः । परिशिष्टपर्व द्वितीयः सर्गः मञ्चकाष्ठान्यान्दोल्य मञ्चं भूतले न्यपातयन् । सोऽपि कृषीवलो निराधारो भुवि पपात, यतो निराधारं न किञ्चिदप्यवतिष्ठते । ८१ ततश्चौराः कणमूटकवत् तं लकुटैरताडयन् । स भुञ्जान इव मुखे पञ्चाङ्गुलीश्चिक्षेप । ते चौरास्तत्करौ संयोज्याऽस्थिनिर्मग्नबन्धं बद्ध्वा बद्धाञ्जलिमिव तमलक्षयन् । चौरास्तस्य गवादि - वस्त्रान्तं धनमग्रहीषुः । तदा क्षेत्रपालो नग्नः सन् क्षेत्रपाल इवाऽभवत् । ते चौराः शङ्खधमं तत्रैव मुक्त्वा ययुः । प्रातर्गोपास्तं पप्रच्छुः, सोऽपीदमचकथत्- "धमेद् धमेत्, परन्तु नाऽतिधमेत्, यतोऽतिध्मातेन यद् ध्मातोपार्जितधनं तद् मया हारितम् । हे नाथ! तस्मात् तवाऽप्यतिशयः कर्तुं नोचितः । अस्मानपि पाषाणकठोरस्त्वमवज्ञातुं नाऽर्हसि । ततो जम्बूरम्बुशीतलवाचोवाच"अहं यथा शैलेयवानरो बन्धनानभिज्ञस्तथा नास्ति । तथाहिशैलेयवानरकथा वनलक्ष्म्याऽवन्ध्यो विन्ध्यो नाम गिरिरस्ति । तत्रैको महावानरयूथपतिर्बभूव । विन्ध्याद्रिवनगह्वरे कुमार इव स यूथसम्भवान् सर्वान् वानरान् निराकरोत् । स एवैको महाबलो वानरीभिः सार्धं बहुवनिताराज्यसाम्राज्यसुखलीलां वितन्वन् रेमे । एकदा कश्चिद् युवा वानरो मदोद्धतो वानरीरागाद् वृषस्यन् तं वानरमनादृत्य कस्याश्चिद् वानर्या धवलदन्ताङ्कुरं पक्वारुणविकसद्दाडिमसन्निभं मुखं चुचुम्ब । कस्याश्चिन्मुखं केतकीपुष्पपरागेणाऽऽच्छादयामास । कस्याश्चिद् गले गुञ्जहारं स्वयं कृत्वा पर्यधापयत् । कस्यैचिद् बिल्वदलैर्वीटिकां कारं कारं समर्पयामास । कामपि निर्भरमालिङ्गय Page #48 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - द्वितीयः सर्गः mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmins annnnnnnnnnnnnnn mnnnnnnnnnnnnnnnnnn मुखमाकर्षामीति शिलाजतुनि निक्षिप्तौ बाहू लगित्वा तस्थतुः । ततस्तेन क्षिप्तौ पादौ मुखहस्तवद् विलग्नौ । अथ स कीलितपञ्चाङ्ग इव तत्रैव कालधर्ममवाप । पाणिपादाबद्धः सः वानरो यदि मुखमाकर्षेत् तदा मुच्येत शैलजलात्, अत्र न संशयः । यथा जिह्वेन्द्रियमात्रलुब्धो मुग्धो वानरो नष्ट, एवं शैलेयनिभासु नारीषु पञ्चसङ्ख्यैर्हषीकैरपि मज्जन् देही कथं न विनश्येत् ? तथाऽहं तु नाऽस्मि ॥ २ ॥ इति परिशिष्टपर्वणि जम्बूस्वामिविवाहादिशैलेयवानरकथान्तवर्णनात्मको द्वितीयः सर्गः ॥२॥ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रालम्बहिण्डोलकमध्यास्त । एवं बहुबलगर्वादग्रेतनं यूथपं न जानानो निःशङ्कं वानरीभिररंस्त । तदा कयाऽपि नखैः कण्डूय्यमानलाङ्कलः, कयाऽपि प्रमृज्यमानसर्वाङ्गरोमराजिः, कयाऽपि कदलीतालवृन्तेन वीज्यमानः, कयाऽपि कमलनालैः क्रियमाणावतंसक उच्चैः शिखरस्थः स जरन् यूथपतिर्दाग् वानरयुवानं तं दृष्ट्वा कोपादधावत् । लाङ्कलं नर्तयन् स वानरयूथपतिस्तं वानरयुवानं रोषेण पाषाणखण्डेन जघान । ततः स वानरेन्द्रयुवाऽपि लोष्टाहत: सिंह इव क्रुद्धो घुरघुरारावं कुर्वस्तं प्रत्यधावत् । मिथः क्रोडीकृतसर्वाङ्गौ तौ दुहृदावपि सुचिराद् मिलितौ सुहृदाविव भूतौ दन्ताग्रैस्त्रटवटेति अङ्गुलीभिश्चटश्चटेति परस्परं युध्यमानौ तौ वपुषि व्यापप्रतुः ।। तदा परस्परं दन्त-नखक्षतक्षतजशोणितचर्चितौ परिहितरक्त चोलकाविव तौ शुशुभाते । क्षणाद् बन्धं क्षणाद् मोक्षं प्रयुञ्जानौ तावुभौ यथा द्यूतकारौ क्रीडतस्तथा युध्यमानौ तौ रेजतुः । अन्ते वानरयूना मुष्टिप्रहारेण भग्नास्थि: स वृद्धकपिः शीघ्रं शीघ्रमपससार, मन्दं मन्दं च त्वढौकत । ततो युवा वानरस्तं वृद्धवानरमपसरन्तं लोष्टघातेन जघान, तेन वृद्धवानरमस्तकं पुस्फोट । ततः प्रहारपीडितः स वृद्धो यूथपतिर्वानरो दूरोत्पातिमुक्तपक्षिवद् नंष्ट्वा दूरं ययौ । ततः प्रहारपीडितस्तृषितः स भ्रमन्नेकस्मिन् गिरौ प्रक्षरच्छिलाजतु ददर्श । स जलबुद्ध्या शिलाजतुनि मुखं न्यधात् । ततस्तन्मुखं भूमेरुत्थितमिव तत्रैव विलग्याऽस्थात् । तेन मन्दमतिना Page #49 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - तृतीयः सर्गः तृतीयः सर्गः अथ नभःसेना कृताञ्जलिः ऋषभनन्दनमुवाच-"त्वं स्थविरावद् मा भूः । स्थविरायाः कथा यथा स्थविराकथा एकस्मिन् ग्रामे नामतो बुद्धिः सिद्धिश्च स्थविरे बभूवतुः । ते द्वे अपि परस्परसख्यौ नित्यमत्यन्तदुःस्थिते अभूताम् । तस्य ग्रामस्य बहिः प्रतिष्ठितः प्रसिद्धो भोलको नामाऽभीप्सितधनप्रदो यक्षोऽस्ति । तं यक्षं बुद्धिनाम्नी दीना स्थविरा प्रत्यहमाराधयामास । सा त्रिसन्ध्यमपि देवकुलं संमार्जयति स्म, यक्षाय च पूजनपुरस्सरं नैवेद्यमर्पयाञ्चक्रे । अन्यदा तुष्टो यक्षस्ते किं ददामीति जगाद, यत आराध्यमानः कपोतोऽपि प्रसीदति । ततो बुद्धिरुवाच"यदि त्वं तुष्टोऽसि तदा तद्देहि येन सुखसंतोषभागहं जीवामि" । यक्ष उवाच-“हे स्थविरे बुद्धे ! त्वं सुस्थिता भव, मम पादमूले दिने दिने त्वं दीनारं प्राप्स्यसि" । ततः सा तत्प्रभृति प्रत्यहं दीनारं लभमाना कृतकृत्याऽभूत् । स्वजनाज्जनपदाच्च सा वृद्धाऽधिकधनवत्यभूत् । या स्वप्नेऽपि सुन्दरवस्त्रादिसम्भारं नाऽपश्यत् सा प्रतिक्षणं नवं नवं वस्त्रं भूषणं च राजीव पर्यधात् । यस्याः पुनः काञ्जिकेच्छाऽपि नाऽपूर्यत, तस्याः सहस्रशः कुण्डोध्यो धेनवो बभूवुः । याऽऽजन्माऽपि जीर्णतृणकुटीरे न्यवसत्, सा वेदीमत्तगज शोभितं प्रासादमकारयत् । या परगृहगोमयत्यागकर्मणाऽजीवत्, तस्याः स्तम्भलग्नाः पाञ्चाल्य इव दास्यः सेविका बभूवुः । या स्वग्रासचिन्ताकुलिता सदाऽभूत्, सा यक्षदत्तसम्पदा दीनानुद्धतुं प्रारेभे। तत: सिद्धिनाम्नी स्थविरा तादृशीं बुद्धिसम्पदं दृष्ट्वा जातमत्सराऽचिन्तयत्-"अहो ! अस्याः कुत ईदृशी सम्पत् सम्पन्नाऽभूत् ? भवतु, अस्याः सदा सखीत्वेनाऽहं विश्वासभागस्मि, तस्मादिमामेव चाटुशतानि कृत्वा प्रक्ष्यामि" । एवं विचिन्त्य बुद्धिमती सिद्धिर्बुद्धि स्थविरामुपययौ । बुद्ध्या च प्रियसखीति सा सत्कृता सत्युवाच-“हे सखि ! बुद्धे ! तवेदृश्यचिन्तिता सम्पत् कुत आगात् ? तव सम्पद्दर्शनेन चिन्तामणिः प्राप्त इवाऽनुमीयते । अथवा किं ते कोऽपि राजा प्रासीदत् ? वा काऽपि देवता ? किं वा किमपि निधानं प्राप्तम् ? वा किं कोऽपि रसः साधितस्त्वया ? हे सखि ! सम्पद्वत्या त्वयाऽहमपि सम्पत्तिमत्यभूवम् । अद्य मया दारिद्रयदुःखाय जलाञ्जलिरदायि । अहं त्वं त्वमहं, प्रीत्या देहेऽप्यावयोर्न भेदोऽस्ति । आवयोः परस्परं किमपि नाऽकथनीयमतस्त्वं कथय-"इयं सम्पत् कुत आगमत्" । ततो बुद्धिस्थविरा तद्भावमबुध्यमाना यथातथमकथयत्, यथा मया यक्ष आराधितः, यथा च यक्षेण सम्पद् दत्ता, तथा साऽख्यात् । तत: सिद्धिस्तच्छ्रुत्वा दध्यौ-"साधु साधु ममाऽपि धनोपार्जनोपायो निरपायो भविष्यति । अहं सविशेषं यक्षमाराधयिष्यामि, यथा मे सविशेषा सम्पद् भविष्यति । अथ धनप्राप्तये सिद्धिस्थविरा बुद्धिदर्शितप्रकारेणाऽहनिशं यक्षमाराधयितुमारेभे । Page #50 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - तृतीयः सर्गः ८७ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सा सिद्धिर्विविधभक्तिभिः खटिकाधातुभिर्यक्षस्य मन्दिरं भूषयामास, तथा सोपानश्रेणि चाऽलञ्चकार । कर्तव्यभक्तिप्रकारांस्तन्निभान् गणयन्तीव सा स्वस्तिकरेखाभिर्यक्षाङ्गणं भूषयामास । सा स्वयं जलमानीय प्रत्यहं स्वीकृतोपासनानियमा यक्षं स्नपयामास । सा स्वयमाहृतैबिल्वदलकरवीरतुलसीकुब्जकादिभिर्यक्षं त्रिसन्ध्यं पूजयाञ्चकार । सा यक्षमन्दिरे यक्षाभियोग्यव्यन्तरीवैकभक्तोपवासादितत्पराऽहर्निशं न्यवसत् । तत एवमाराधितस्तुष्टो यक्ष उवाच-“हे महाभागे ! अहं तुष्टोऽस्मि । यदिच्छसि तत् प्रार्थयस्व" । अथ सा सिद्धिः पूर्णसम्पदं यक्षं प्रार्थयाञ्चकार-“हे यक्ष ! त्वया मत्सख्यै बुद्ध्यै यद् दत्तं तद्द्विगुणं मे देहि" । ततो भोलाख्यो यक्ष एवमस्त्वित्युक्त्वाऽन्तर्दधौ । तत: सिद्धिरपि क्रमेण बुद्धितोऽधिकसम्पत्तिभाक् समजनि । बुद्धिः सिद्धि द्विगुणसम्पत्तिलाभेनाऽधिकद्धि दृष्ट्वा पुनरपि यक्षमाराधयत् । यक्षोऽपि तुष्टस्तस्यै तद्विगुणं धनं ददौ । ततः सिद्धिस्तस्य: स्पर्धया पुनरपि यक्षमाराधयत् । ततस्तुष्टे यक्षे दुष्टात्मा सिद्धिश्चिन्तयामास-"अहं प्रसन्नाद् यक्षाद् यत् किञ्चित् प्रार्थयिष्ये तद्विगुणं द्रव्यं बुद्धिर्यक्षमाराध्य प्रार्थयिष्यति । तस्मादहं तद् याचे यद् द्विगुणमर्थितं बुद्धेरपकाराय जायेत, तदा मे बुद्धिः साधीयसी स्यात् । इति चिन्तयित्वा मे नेत्रमेकं काणीकुरु इत्ययाचत । यक्षेणैवमस्त्वित्युक्ते सद्यः सा काणा बभूव । ततो बुद्धिः पुनर्मम सख्यै यक्षः किमप्यधिकं ददाविति तद्विगुणकाङ्क्षिणी सती यक्षमाराधयामास । ततस्तुष्टाद् यक्षाद् बुद्धिरप्येतादृशं प्रार्थयामास-“हे यक्ष ! सिद्ध्यै यद् दत्तं तद्विगुणं मे देहि" । यक्ष एवमस्त्विति कथयित्वा तिरोदधे । सा बुद्धिः सद्योऽन्धाऽभवत् । यतो देवतावचो मिथ्या न भवति, एवं बुद्धिस्थविरा पूर्वप्राप्तया सम्पदाऽतृप्ताऽतिलुब्धा स्वेनैव स्वं विनाशयामास । एवं मानुषश्रियं प्राप्याऽतिश्रियमिच्छंस्त्वमप्यन्धस्थविरावद् भविष्यसि । ततो जम्बूनामोवाच-"हे देवानांप्रिये! अहो ! अहं नोत्पथगाम्यस्मि, यथा जात्याश्वस्तथा । तस्य कथां शृणु जात्याश्वकथा तथाहि-वसन्तपुरपत्तने प्रतापेन जितशत्रुरद्भुतलक्ष्म्या विराजमानो जितशत्रुनामा राजाऽभूत् । बुद्धिधनवतां श्रेष्ठः श्रेष्ठी जिनदासनामा विश्वासपात्रं मित्रं तस्य राज्ञोऽभूत् । एकदाऽश्वपालका लक्षणवन्तो रेवन्तपुत्रानिवाऽश्वकिशोरांस्तं राजानमदर्शयन् । तदा राजाऽश्वलक्षणविदामादिदेश-“के केऽश्वा: कै: कैर्लक्षणैः सम्पूर्णा इति कथयत" । ते च शास्त्रोक्ताश्वलक्षणसम्पन्नमेकं घोटककिशोरं राजानं न्यवेदयन् । असावश्वो वृत्तखुर: स्तब्धसन्धिर्जवाखुरमध्ये, निर्मासजानुजवास्यः कुञ्चितोन्नतकन्धरः स्निग्धरोमा कोकिलस्वरो मल्लिकाक्षो लघुस्तब्धश्रवणो लम्बकेसरः पञ्चभद्रो गूढवंशः स्कन्धादिसप्तके स्थूलः, उरस्यादिध्रुवावर्तदशकेन भूषितः, बुध्नावर्तादिदुष्टावर्तरहितः स्निग्धदन्तोऽयं किशोरः स्वामिनो लक्ष्मी पुष्टीकरोति" । स्वयं विज्ञो राजाऽपि तमश्वं लक्षणवन्तं विज्ञाय केसरयुतजलेन स्वयं सर्वाङ्गमानर्च । अथ राजा तस्याऽश्वस्य पुष्पवस्त्रैः पूजां विधाय लवणोत्तारणादिकां कारयामास । अचिन्तयच्च-एनमश्वं को रक्षितुं समर्थः ? प्रायेण भूतले रत्नानि विघ्नबहुलानि भवन्ति । अथवा मम Page #51 -------------------------------------------------------------------------- ________________ ८८ परिशिष्टपर्व - तृतीयः सर्गः Anamnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn sunnnnnnnn त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विश्वासपात्रं प्रख्यातो जिनदासनामा श्रावको मम परमप्रियोऽस्ति । स च बुद्धिमान् स्वामिभक्तः प्रमादहीनश्चाऽस्ति । स एवेदृशाश्वस्य न्यासपात्रं भवितुमर्हति । अथ राजा जिनदासमाहूयाऽऽदिशत्-"अयमश्व आत्मेव त्वया रक्ष्यः" । ततो जिनदास "आदेशः प्रमाण"मित्युक्त्वा रक्षकयुतं तमश्वं गृहे निन्ये । स तस्याऽश्वकिशोरस्य स्थानं क्षिप्तकोमलवालुकं गङ्गापुलिनवत् सुखदं रचयामास । स तमश्वं रजोरहितानि पत्रलानि स्वादूनि हरितानि तृणानि स्वयमेव भोजयामास । स स्वयं तमश्वं वालुकामध्ये लोष्टकण्टकहीने भूप्रदेशे मुखरज्जौ धृत्वा वेल्लयामास । स स्वस्नानसमये सुगन्धिभिः स्नानीयैरेकतप्तै लैस्तमश्वं स्नपयामास । नीरोगोऽयं न वेति प्रत्यहं तमश्वं परीक्षितुं तस्य नेत्रपक्ष्मणी पर्यस्य पर्यस्य ददर्श । स्वयं तमारुह्य स प्रथमधारया सुखं वेल्लयन्ननुदिनं सरसि जलं पाययितुं नित्ये । तस्य गृहस्य सरोवरस्य चाऽन्तरे महज्जिनमन्दिरमासीत्, यत् संसारसागरस्याऽन्तरीपमिव कदाऽपि तेन नाऽऽक्रान्तमभूत् । अर्हन्मन्दिरानादरो मा भूदिति सोऽश्वारूढस्त्रि:प्रदक्षिणीकृत्य गमागमकाले प्रतिदिनं स्वं कृतार्थयन्नासीत् । स देवतत्त्वज्ञोऽश्वारूढोऽपि देवमवन्दिष्ट, प्रमादो मा भूदित्यश्वादुत्तीर्य न प्राविशत् । जिनदासस्तमश्वं तथाऽशिक्षयत् यथा स सरोगृहं चैत्यं च विहायाऽन्यत्र नाऽगच्छत् । यथा यथा शनैः शनैः सोऽश्वकिशोरो ववृधे तथा तथा राजगृहमध्ये सम्पदो ववृधिरे । तदश्वकिशोरप्रभावेण स राजा सर्वभूपतिमध्ये आज्ञाकारकेन्द्रोऽजायत । ते चाऽऽज्ञाकरणोद्विग्ना राजान एवं दध्यु:-"यदश्वप्रभावाद् वयं जिता: सोऽश्वो मारणीयो ऽथवा हरणीयः" । तस्याऽश्वस्य तथाकर्तुमशक्तेषु राजस्वेकस्य सामन्तस्य बुद्धिमान् मन्त्री जगाद-"अहं केनाऽप्युपायेन तमश्वं हरिष्यामि, उपायस्य किं दुष्करम् ? यत उपायशक्तेर्मानं नास्ति' । स धीनिधिर्मन्त्री एवं कुर्विति सामन्तेनाऽऽदिष्टो मायया श्रावकीभूय वसन्तपुरपत्तनमगात् । स तत्र चैत्यानि वन्दित्वा सुविहितानपि मुनीन् वन्दित्वा जिनदासगृहं गत्वा तद्गृहचैत्यमवन्दत । श्रावकवन्दनेन जिनदासं धूर्ततया श्रावकत्वं दर्शयन् स ववन्दे । अथ साधर्मिकवत्सलो जिनदासस्तमभ्युत्थाय वन्दित्वा पर्यपृच्छत्-"महाशय ! कुत आगमत् ?" तत: कपटश्रावक उवाच"अहं निःसारे संसारे विरक्तोऽस्मि, अहं शीघ्रं प्रव्रजिष्यामि, मम गार्हस्थ्येनाऽलम्, अहं निष्कपटो धर्मबान्धवस्तीर्थयात्रां कृत्वा सुगुरोः पार्श्वे व्रतं ग्रहीष्यामि" । जिनदासोऽप्युवाच-“हे महात्मन् ! तव स्वागतमस्तु, समानशीलयोरावयोधर्मगोष्ठीसुखानि भवन्तु । धर्मिषु दानशौण्डः स तथेति स्वीकृतवन्तं तं मायाश्रावकं निजबन्धुमिव प्रेम्णा स्नपयामास । तस्य शिरसि स्नानेन निर्मलीकृतकेशान् कस्तूरीपङ्कमलिनांश्चकार । तस्य सामन्तमन्त्रिणो मूर्धनि आलेख्यालिखितसन्निभं पुष्पमाल्यगर्भ धम्मिल्लमबघ्नात् । सुगन्धिना तनीयसा चान्दनेन ज्योत्स्नासदृशेनाऽङ्गरागेण तस्याऽङ्गमचर्चयत् । स धर्ममतिः तं निर्दग्धागरु-कर्पूरकस्तूरीवासितानि वस्त्राणि पर्यधापयत् । जिनदासः क्षणेन तदर्थं लेह्य-चोष्यपेयास्वाद्यहृद्यां रसवतीमकारयत् । ततो जिनदासेन हंसरोमासनमध्यासितः व्यजनेन वीज्यमानः स मन्त्री विविधैर्भोज्यैरभोजि। Page #52 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ भोजनानन्तरं जिनदासस्तेन दुरात्मना कपटश्रावकेण धर्मकथां प्रारेभे । तदा जिनदासस्यैकः स्वजनोऽभ्येत्योवाच- "हे बन्धो ! श्वः कल्याणकार्येण मम गृहमुपेहि; तत्र त्वया सकलमहोरात्रं स्थातव्यं, यतस्त्वं कल्याणकुशलोऽसि, त्वया विना कल्याणं किम् ?" ततो जिनदास आमित्युक्त्वा तं विसृज्याऽतिहारगी: सरलस्तं कपट श्रावकमुवाच - "हे अभ्यागत ! मया स्वजनगृहेऽवश्यं गन्तव्यं, मयि ते मद्गृहं त्वद्गृहमिति तद् रक्षणीयम्" । आमिति हसन् स स्वीचकार । ९० ततोऽस्मिन् दुर्मतौ जातविश्वासो जिनदासो जगाम । तस्मिन् दिने पुरे महान् कौमुद्युत्सवो हल्लीसपूर्वकं पुरवधूरासकलासकोऽभवत् । रात्रौ जनपदे कौमुदीमहमग्ने सति स मायाश्रावकस्तमश्वमादाय निर्जगाम । सोऽश्वोऽपि चैत्यस्य त्रिः प्रदक्षिणां कृत्वा वार्यमाणोऽपि तस्मिन् सरसि जगाम नाऽन्यत्र । ततः परावृत्तः सोऽश्वः पुनर्देवालयमगात्, देवालयाद् गृहं ययौ नाऽन्यत्र कुत्रचित् । स दुःसामन्तसचिवस्तमश्वमन्यत्र नेतुं शक्तो यावद् नाऽभूत् तावद् रात्रिः प्रकाशिताऽभूत् । स दुरात्मा पलायिष्ट । सूर्य उदगात्, तदा जिनदासोऽपि गृहं प्रति न्यवर्तत । आगच्छज्जिनदासो जनमुखादिदं शुश्राव - "तवाऽश्वः कौमुदीमहे सकलां रात्रिं वाहितः" । किमेतदिति चकितो जिनदासोऽपि गृहमगात् । तमश्वं श्रान्तं क्षामं स्वेदमलिनं च ददर्श । भाग्येनाऽयमश्वोऽस्ति, अहं तु धर्मच्छलेन वञ्चितोऽस्मि, इति स हर्षविषादौ प्राप । तत्प्रभृति स तमश्वं सविशेषमरक्षत् । स उत्पथं न जगामेति जिनदासस्याऽतीव प्रियोऽभूत् । तमश्वमिव मां कोऽप्युत्पथं नेतुं न शक्नोति । तस्मात् परलोकसुखदं पन्थानं न त्यक्ष्यामि । परिशिष्टपर्व - तृतीयः सर्गः ९१ अथ कनकश्रीः प्रेमबन्धुरं सहासमुवाच - "हे स्वामिन् ! ग्रामकूटसुत इव त्वं जडो मा भव" । ग्रामकूटसुतकथा एकस्मिन् ग्राम एको ग्रामकूटसुतोऽभूत् । स मृतपितृको - ऽत्यन्तदुःखितमातृको बभूव । रुदती माता तमुवाच - "हे पुत्र ! त्वं कापुरुषशिरोमणिरसि । तव परकथां विनाऽन्यत् कर्म नाऽस्ति । तव पिता व्यवसायी व्यवसायेनाऽजीवत् । आरब्धं व्यवसायं सदा निरवाहयत् । त्वं तु युवाऽपि व्यवसायं कदाऽपि नाऽऽरभसे । आरब्धव्यवसायस्य निर्वाहे कथैव का ? तव समानवयसः स्वेन कर्मणा जीवन्ति । त्वं ग्रामशण्ड इव भ्राम्यन् निष्कर्मा सन् न लज्जसे । मद्दारिद्र्येणेदमुदरं बिभर्षि । त्वमुदरे भृते कोशो भृत इति मन्यसे" । ततः पुत्र उवाच - "हे मातः ! अतः परमहमनर्गलो न भविष्यामि, धनोपार्जनोद्यमं करिष्यामि । हे मातर् ! यथा मे पितोत्साही प्रारब्धं व्यवसायं धनोपार्जनाय निरवाहयत् तथाऽहमपि करिष्यामि । एकदा ग्रामसभायामुपविष्टस्य पश्यतस्तस्य कस्यचित् कुम्भकारस्य गर्दभः पादबन्धनं त्रोटयित्वाऽनश्यत् ! पलायमानं तं गर्दभं कुम्भकारोऽप्यन्वधावत् । खरं धर्तुमशक्तः स इदमूर्ध्वबाहुरुवाच"भो भो ग्रामसभोपविष्टाः सर्वेऽपि ग्रामबालकाः ! युष्माकं मध्ये कोऽपि समर्थोऽस्ति यो मम खरं धृत्वा मेऽर्पयेत् । ततो ग्रामकूटसुतस्तस्मादर्थलाभं विचिन्तयन् धावित्वा तं खरं पुच्छे वृन्ते फलानीवाऽग्रहीत् । स लोकैर्वार्यमाणोऽपि यावत् तं खरं नाऽमुचत् तावत् तत्पादाघातेन भग्नदन्तः सन् भूतलेऽपतत् । तस्मात् Page #53 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः हे नाथ ! त्वमप्येवमसद्ग्रहमनुत्सृजन् यत् फलं प्राप्स्यसि तद् मया न किमपि ज्ञायते । अथ जम्बूनामा हसन्नवाच-"स्वकार्यग्रहिल: सोल्लक इव नाऽहमस्मि । सोल्लककथा एकस्य भुक्तिपालस्यैकोत्तमा घोटिकाऽभूत्; तां स पुत्रीमिव स्वयमलालयदपालयच्च । सोऽश्वहृद्विदं सोल्लकं नामपुरुषं समादिश्य तां घृत-तैलौदनादिभिरसेवत । परं च सोल्लको घोटिका) दत्तं स्वादुस्वादुभोज्यं किञ्चित् तस्यै दत्वाऽधिकं स्वयमेव बुभुजे । सोल्लकोऽपि चिरं तया वञ्चनया घोटिकाजीवविषयमाभियोगिकं कर्माऽर्जयामास । स तेन वञ्चनकर्मणा कालधर्म प्राप्य वने मूढः पान्थ इव दीर्घकालं तिर्यग्गतौ भ्राम्यन्नेकदा क्षितिप्रतिष्ठनगरे सोमदत्तनामकब्राह्मणस्य सोमश्रीकुक्षिजः पुत्रो बभूव । साऽर्वती मृत्वा भवं भ्रान्त्वा तस्मिन्नेव पुरे कामपताकागणिकायाः पुत्रीत्वेनोत्पन्ना। स सोल्लकजीवोऽपि मातापितृभ्यां पोष्यमाणः कणभिक्षया क्रमेण यौवनं प्राप । धात्रिभिर्हरियष्टिवत् हृदयाग्रे धार्यमाणा साऽपि वेश्यापुत्री क्रमेण यौवनं प्राप । तस्याः वपुःपावनयो रूप-यौवनयोः परस्परं भूष्यभूषणताऽत्यन्तं समानवाऽभवत् । मालत्यां भ्रमरा इव तस्यां महाधनिका ग्रामतरुणाः परस्परं स्पर्धमाना अत्यन्तमनुरक्ता बभूवुः । सोऽपि ब्राह्मणपुत्रस्तस्यामासक्तः श्वेव तद्द्वारमशिश्रियत्, यत: काम: सर्वङ्कषो भवति । सा वेश्यापुत्री महाधनिभिभूपा-ऽमात्य-श्रेष्ठिपुत्रादिभिः सह रममाणा तं ब्राह्मणसुतं तिरश्चकार, परन्तु स तां दृष्ट्वैवाऽजीवत् । परिशिष्टपर्व - तृतीयः सर्गः सा तु तं दरिद्रं दृष्ट्याऽपि न सम्भावयामास । यतो वेश्यानामयं स्वभावोऽस्ति यद् धनिनि रागो भवति न तु दीने । स ब्राह्मणसुतः कामबाणपीडितस्तत्पावं त्यक्तुमसक्तस्तस्या दासत्वं स्वीचकार । स कृषिकर्माणि सारथ्यं जलवाहनं कणपेषणं च चक्रे । तस्य किमप्यकार्यं नाऽभूत्, स बहिष्क्रियमाणोऽपि तद्गृहाद् न बहिर्जगाम । तृषां बुभुक्षां भर्त्सनां ताडनाद्यपि सेहे । तस्माद् युष्मासु घोटिकासदृशीष्वहमाभियोगिकं कर्म नाऽर्जयिष्यामि यथा सोऽर्जयत् तथा, युष्माकं युक्तिकल्पनैरलम् । तत: कमलवत्युवाच-“हे नाथ ! मासाहसपक्षिवत् त्वं साहसिको मा भूः । मासाहसपक्षिकथा एकः पुमान् दुर्भिक्षपीडितः स्वजनं विहाय महता सार्थेन सह देशान्तरे चचाल । एकस्मिन् महावने सार्थ आवासिते सति स एकोऽपि तृणकाष्ठाद्यानेतुं निर्ययौ । तदा वनगह्वरे एकः पक्षी सुप्तव्याघ्रमुखाद् दन्तलग्नमांसखण्डान्यादाय वृक्षमारोहत् । मा साहसमिति पुनः पुनर्भणन् मांसखादकः सः पक्षी तेन पुरुषेण सविस्मयमगादि । मा साहसमिति भणसि व्याघ्रमुखाद् मांसं च खादसि, त्वं मूर्यो दृश्यसे, यतो वचनानुरूपं न करोषि" । तस्मात् साक्षाद् भवसुखं हित्वाऽदृष्टसुखेच्छया तपश्चिकीर्षुस्त्वमपि मासाहसपक्षिवदसि । ततो हसित्वा जम्बूरुवाच-"त्वद्वचसा नाऽहं मुह्यामि, मित्रत्रयकथां जानानोऽहं स्वार्थाद् न भ्रश्यामि" । मित्रत्रयकथा क्षितिप्रतिष्ठनगरे जितशत्रुभूपतेः सर्वत्राऽधिकारी सोमदत्तनामा पुरोहितोऽभूत् । तस्य सहमित्रनामैकः सुहृदभूत्, स भोजन-पानादि Page #54 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - तृतीयः सर्गः त्रिपाष्टशलाका A marnamannmaina mnnnnnnnnnnnnnine त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भिरैक्यवान् सर्वत्र मिलित आसीत् । तस्य पुनः पर्वमित्रनामाऽपरः सुहृदभूत् । स च पर्वस्वागतेष्वेव सन्मान्य आसीद् नाऽन्यदा । तस्य प्रणाममित्रनामा तृतीयः सुहृदभूत्, स यथादर्शनं वार्तालापकमात्रो बभूव । एकदा तस्य पुरोहितस्य कस्मिंश्चिदपराधे समागते भूपतिश्चण्डशासनस्तं निग्रहीतुमैच्छत् । दीन: पुरोधा राजाभिप्रायं विज्ञाय रात्रावेव सहमित्रनाममित्रस्य गृहं ययौ । अद्य मे राजा रुष्ट इत्युक्त्वा पुरोहितस्तमुवाच "हे मित्र ! त्वद्गृहेऽशुभामवस्थां गमयामी'ति । हे मित्र ! आपत्काले ह्युपस्थिते मित्रं ज्ञायते, तस्मात् त्वं स्वगृहे मां गोपयित्वा मित्रतां सफलीकुरु" । ततः सहमित्र उवाच-“हे मित्र ! आवयोः सम्प्रति मैत्री न भवितुमर्हति, यावद् राजभयं ते न तावदेव नौ मैत्री । मद्गृहे राजदूषितो वसंस्त्वं ममाऽप्यापदे स्याः, ज्वलदूर्णमूर्णायु को नाम गृहे क्षिपेत् ? अहं त्वत्कृते सकुटुम्बमात्मानं कथमनर्थे पातयिष्यामि, तस्मादन्यत्र याहि, तव कल्याणमस्तु" । एवं सहमित्रेणाऽनादृतः सोमदत्तः शीघ्रं पर्वमित्रस्य गृहं ययौ । तत्र स द्विजस्तदाश्रयमीप्सुस्तथैव राजकोपवृत्तान्तं न्यवेदयत् । पर्वमित्रोऽपि पर्वमैत्र्या निष्क्रयकाम्यया महाप्रतिपत्त्या तं दृष्ट्वोवाच-“हे सखे ! त्वयाऽनेकपर्वसु संभाषणादिभि: स्नेहप्रकारैर्मत्प्राणा अपि क्रीता । हे भ्रातर्यदि तव दु:खभागहं न भवामि तदा मम कुलीनस्य कुलीनता नाऽवतिष्ठते । त्वत्प्रेमाधीनोऽनर्थमपि सहे, किन्तु मे कुटुम्बमप्यनर्थं गच्छेदिति दुःसहं प्रतिभाति । हे सखे ! कुटुम्बमपि मेऽतिप्रियं त्वमपि प्रेयानसि, अत्र किं करोमि ? इतो व्याघ्र इतस्तटी वर्तते । सकीटकपलाशवदहं बालपरिवृतोऽस्मि, तस्मात् तेभ्यो बालेभ्योऽनुकम्पय । तव स्वस्त्यस्तु, त्वमन्यत्र याहि" । एवं सत्कृत्याऽपि तेन स पुरोधा दूरीकृतो निर्ययौ । यतो दैवे रुष्टे पुत्रोऽपि शत्रूयते । चत्वरपर्यन्तमनुगम्य परावृतः पर्वमित्रः । अथ दुष्प्रापरोधाः पुरोधा व्यसनवारिधिर्दध्यौ-"मया ययोरुपकृतं तयोः परिणामोऽयं तस्मात् कस्य सम्प्रति दीनोऽहं पारिपार्श्विको भवामि । अद्य प्रणाममित्रस्य मित्रस्य समीपं यामि । तत्राऽपि मे प्रत्याशा नास्ति, यतस्तस्मिन् वाङ्मयी प्रीतिरस्ति, यद् वा वितर्केणाऽलं; सोऽपि किञ्चिन्मित्रं वर्तते, तस्मात् तमपि पश्यामि, यतः कस्याऽपि कोऽप्युपकारको भवति । इति प्रणाममित्रस्य गृहं ययौ। सोऽभ्यागतमात्रं तं कृताञ्जलिरभ्युत्तस्थौ, उवाच च-"तव स्वागतमस्तु, युष्माकं किमीदृशी दशा वर्तते ? मया कि प्रयोजनं, कथय, यदहं ते करवाणि" । ततः पुरोहितो राजवृत्तान्तमाख्याय तं प्रतीदमुवाच-"हे सखे ! अस्य राज्ञः सीमां त्यक्ष्यामि, मे सहायता सोऽप्युवाच- "हे सखे ! प्रियालापैः तवाऽहमृणी वर्ते, अधुना ते साहाय्यं कृत्वाऽनृणी भविष्यामि । त्वं मा भयं कार्षीर्यतस्तेऽहं पृष्ठरक्षकोऽस्मि । मयि जीवति सति तव रोम्णोऽपि विप्रियं कर्तुं न कोऽपि शक्नोति" इत्युक्त्वा प्रणाममित्रः पृष्ठकृततूणीरोऽधिज्यीकृतचापो निःशङ्कः तं पुरोहितमग्रे चक्रे । पुरोधास्तेन सहेष्टं स्थानं ययौ । तत्र निःशङ्को वैषयिकं सुखमन्वभवत् । अत्र चाऽयमुपसंहारः-तत्र जीवः सोमदत्तसदृशोऽस्ति, सहमित्रमित्रस्य तुल्यो विग्रहो भवति, यतोऽयं विग्रहः सत्कृतोऽपि कर्मराजकृतायां मरणापदि जीवेन सह मनागपि नाऽऽगच्छति । सर्वे Page #55 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - तृतीयः सर्गः wellinnnnnnnnnnnnnnnnnnmmmmmmmmmmmm ९६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वजनबान्धवाः पर्वमित्रसमाना ज्ञेयाः, यतस्तेऽखिलाः श्मशानचत्वरं गत्वा निवर्तन्ते । शर्मनिबन्धनं धर्मस्तु प्रणाममित्रसदृशो ज्ञातव्यः, यो धर्मः परलोकेऽपि गच्छता जीवेन सह गच्छति । तस्माद् हे मनस्विनि ! अहमैहलौकिकसुखास्वादमूढः परलोकसुखं धर्म न त्यक्ष्यामि । ततो जयश्रीरुवाच-“हे नाथ ! बुद्धिमन् ! त्वं कूटकथानकैर्मी नागश्रीवत् परं मोहयसि । नागश्रीकथा रमणीयनामपुरे कथाप्रियो राजाऽभूत् । स वारं वारेण पौरेभ्यः प्रतिदिनं कथां कथयामास । तस्मिन् पुर एको ब्राह्मणो दैन्यपीडितः सम्पूर्णदिनं भ्रामं भ्रामं कणभिक्षयाऽजीवत् । एकदा निरक्षरवरस्य तस्य विप्रस्य कथानकदिनमभूत् । स चेतसि चिन्तयामास-"स्वनामकथनेऽपि मम जिह्वा सन्निपातवती सदा स्खलति चेत् तदा कथाकथने कथं समर्था भविष्यति ? यद्यहं कथां कथयितुं न जान इति वदामि तदाऽहं कारागारे नीये, ततः का गतिमें भविष्यति ?" तस्य विप्रस्य कुमारीकन्या तं चिन्तितमुखं दृष्ट्वा पप्रच्छ-"तव का चिन्ता ?" ततो विप्रश्चिन्ताकारणं कथयामास । तत: कन्योवाच-“हे पितस्त्वं चिन्तां मा कृथाः, त्वद्वारेऽहं राजसमीपं गत्वा कथां कथयिष्यामि" इति स्नात्वा श्वेतवस्त्र परिधाय राजसमीपं गत्वा जयाशिषं दत्त्वा सा राजानमुवाच-"राजंस्त्वं कथां शृणु" । राजाऽपि कन्यायास्तादृशधाष्ट्येन विस्मितो मृग उच्चैर्गीतिमिव कथां श्रोतुमुत्कर्णो बभूव । साऽपि कथयितुं प्रारेभे-"राजन् ! इहैव पुरे नागशर्माऽग्निहोत्री द्विजोऽस्ति । स च कणभिक्षकजीविको ऽस्ति । तस्य सोमश्रीनाम्नी भार्याऽस्ति, तस्याः कन्याऽहमस्मि, मम नाम नागश्रीरिति । ___अहं क्रमेण यौवनं प्राप्ताऽस्मि । अहं पितृभ्यां द्विजपुत्राय चट्टनाम्ने दत्ताऽस्मि, यत: स्त्रीणां वरः सम्पदनुरूपो भवति । अन्यदा केनाऽप्यौताहिकेन कार्येण मां गृह एकाकिनी मुक्त्वा ग्रामान्तरं ययतुर्मे पितरौ । मम पितरौ यस्मिन्नेव दिने ग्रामान्तरमगमतां, तस्मिन्नेव दिने मद्गृहे चट्टाख्यो विप्र आगात् । तदा पितरौ विनाऽपि तस्य सम्पदनुसारेण स्नान-भोजनादिभिरहमातिथ्यमकार्षम् । दिनात्यये तस्य शयनाय स्वगृहसर्वस्वं खट्वाप्रस्तरणमेकमदाम् । ततो मया चिन्तितं-"यदस्य पर्यङ्कः समर्पितः, प्रसर्पत्सयां गृहभूमौ कथमहं शये? तद्भीताऽहमस्य शय्यायां शये, गाढान्धकारावृतरात्रौ मां कोऽपि न द्रक्ष्यति" । इति निर्विकारेण मनसा तत्रैवाऽहमस्वाप्सम् । ततश्चट्टो विप्रो मदङ्गस्पर्शेन कामातुरोऽभूत् । लज्जया क्षोभेण विषयनिरोधेन च तस्य सद्यः शूलरोग उदपद्यत । स तु तेन पञ्चत्वं प्राप। तं गतप्राणं दृष्ट्वा भीताऽहमचिन्तयम्-"अयं द्विजो मम पापाया दोषेण मृत्यु प्राप, अद्य कस्य कथयामि ? अत्र क उपायः? किं करोमि ? अहमेकाकिनी तं गृहात् कथं निःसारयामि ? इत्यह तद्वपुः कूष्माण्डमिव खण्डशोऽकार्षम् । गत खनित्वा तत्रैव निधानमिव तं न्यधाम् । तं गर्तं पूरयित्वोपरि समतलं कृत्वाऽमार्जयमलिम्पं च, यथा हि तत् केनाऽपि न ज्ञायते । तत्स्थानं पुष्पगन्धधूपैर्वासितं मया । अधुना मम पितरौ ग्रामान्तरादागतौ स्तः। राजाऽप्युवाच-“हे कुमारि ! यदिदं त्वया कथितं तत् सर्वमपि कि Page #56 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - तृतीयः सर्गः ९९ ९८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सत्यमस्ति?" ततः सा पुनरुवाच-“हे राजन् ! त्वं यानि कथानकानि शृणोषि तानि यदि सत्यानि तदा मयोक्तमप्येतत् सर्वं सत्यम् ?" हे नाथ ! नागश्रिया यथैव राजा विस्मापितस्तथा त्वमपि मां कल्पितकथानकैः किं प्रतारयसि ! जम्बूरूचे-हे सर्वाः प्रियाः ! अहं ललिताङ्गवद् विषयलोलुपो नाऽस्मि । ललिताङ्गकथा वसन्तपुरं नाम नगरमस्ति । तत्र विभूतिमानिन्द्र इवाऽऽज्ञया कन्दर्प इव रूपवान् शतायुधो नाम राजाऽभूत् । तस्य ललिताकृतिर्देवीव ललितानाम्नी भार्या बभूव । सा सकलकलापूर्णाऽभूत् । सैकदा स्वनयने विनोदयितुं मत्तवारणमारुह्याऽधः सञ्चरन्तं जनं द्रष्टुमारेभे । विशालेन सुन्दरेण धम्मिल्लेन द्विमस्तकमिव कस्तूरीपङ्किलश्मश्रु समदं गजमिव वृषस्कन्धं विशालवक्षसं कमलतुल्यकरचरणं जात्यस्वर्णभूषितग्रीवापाणिपादं कर्पूरपूर्णताम्बूलस्फुरन्मुखसुगन्धि कामविजयपताकोपमं तिलकशोभितललाटमङ्गरागव्याजेन मूर्तमिव लावण्यं बिभ्रतं, धूपायितवस्त्रसुगन्धमेदुरीकृतपथं वपुःश्रिया लक्ष्मीदेव्या द्वितीयपुत्रमिव मार्गे गच्छन्तं युवानं कञ्चन पुरुष साऽपश्यत् । तद्रूपदर्शनोन्मत्तनयना सुनयना सा स्तब्धा तद्गतचित्ता चित्रलिखितैवाऽभूत् । सैवं दध्यौ-"यद्ययं पुमान् परस्परबाहुलताबन्धसुन्दरमालिङ्गयेत मया तदा मे स्त्रीजन्म सफलं भवेत् । यद्यहं पक्षिणी स्यां तदा स्वयं दूतीभूयोड्डीय गत्वाऽमुं भजे । ततस्तत्पार्श्वस्थैका चतुरा चेटी दध्यौ-"मम स्वामिन्या दृष्टिनमस्मिन् यूनि पुंसि रमते" । ऊचे सा-“हे स्वामिनि ! तव मानसमत्र यूनि रमते ? अत्र नाऽऽश्चर्य, कस्य नेत्रे चन्द्रो नाऽऽनन्दयति ? ललितोवाच-हे बुद्धिमति ! साधु साधु त्वं मनोज्ञाऽसि । यद्यहमिमं मनोहरं नरं भजे तदा जीवामि । अयं कोऽस्तीति तावद् मां ज्ञापय । ततस्तथा कुरु, यथा सङ्गमय्याऽमुं मे वपुर्निर्वापयसि" । सा चेटी गत्वा तत्स्वरूपं ज्ञात्वा च धैर्यपूर्वकं शीघ्रं राज्यै व्यजिज्ञपत्-“हे स्वामिनि ! अत्रैव वास्तव्यो ललिताङ्गनामाऽयं समुद्रप्रियनाम्नः सार्थवाहस्य पुत्रोऽस्ति । अयं सौभाग्यकामदेवो द्वासप्ततिकलावान् कुलीनो युवा चेति सुपात्रे ते मनो रमते । अस्याऽऽकृत्यनुसारेण गुणानपि निश्चिनु । लोकेऽपि 'यत्राऽऽकृतिस्तत्र गुणा वसन्ति' इति गीयते । यथा त्वं नारीष्वेका गुणवत्यसि तथाऽयमपि नरेषु । तस्माद् द्वयोर्गुणिनोर्योगं घटयामि, मां समादिश" । एवं कुर्विति राज्युवाच । तदर्थं तस्या हस्ते प्रेमाङ्कुरमेघजलश्लोकाएं लेखमर्पयामास । सा दास्यपि दूतीकर्मकुशला शीघ्रं गत्वा ललितोक्तवाचिकं ललिताङ्गाय न्यवेदयत् । तद्रिरंसायां ललिताङ्गं चटूक्तिभिः प्रवर्त्य तन्मनः प्रसादयितुं तं लेखमदात् । स सद्यः पुष्पवान् कदम्ब इव उद्यत्पुलकः प्रेमप्रकाशकं तं लेखं वाचयामास । तद्यथा हे सुभग ! यदवधि त्वामपश्यं तदादि वराकी त्वन्मयं सर्वं पश्यामि, तस्माद् मां स्वयोगेनाऽनुगृहाण । स इति तं लेखं वाचयित्वाऽवदत्-“हे चतुरे ! साऽन्तःपुरवासिनी क्व? कथं नौ योग: संभाव्यते ? न ह्येतद् हृदि धर्तुं शक्यते, ध्रियते चेत् तर्हि वक्तुं न शक्यते, यद् राजभार्यया रंस्ये । यदि भूमिस्थेन चन्द्रकला स्प्रष्टुं शक्यते, तदा राजपत्न्यप्यन्यपुरुषैर्भोक्तुं शक्यते" । दास्युवाच-"असहायस्य सर्वमपि दुष्करं, तव त्वहं सहायाऽस्मि । अतो हे सुन्दर ! चिन्तां मा कृथाः, त्वं Page #57 -------------------------------------------------------------------------- ________________ १०० परिशिष्टपर्व - तृतीयः सर्गः १०१ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मबुद्ध्याऽन्तःपुरमध्येऽपि पुष्पमध्ये स्थित इव सञ्चरिष्यसि, भयेनाऽलम्" । समये मामाह्वयेरिति तेनोक्ता चेटी सद्यो गत्वा हर्षोच्छसद्भुवे राज्य तदुवाच तत्प्रभृति तत्सङ्गमं चिन्तयन्त्या ललिताया एकदा तत्र पुरे सुन्दरः कौमुद्युत्सवोऽभूत् । तदा राजा शस्यप्रशस्यक्षेत्रायां क्षीरधवलसरोजलायां बहि व्याखेटकलीलया ययौ । तदा परितो विजनीभूते राजवेश्मनि ललिता तयैव दास्या ललिताङ्गमाह्वयत् । सा चेटी राज्या विनोदमुद्दिश्य नवयक्षप्रतिमाच्छलेन तं नरमन्तःपुरे प्रावेशयत् । ललिता ललिताङ्गश्च तावुभौ चिराज्जातसङ्गमौ लतावृक्षाविव परस्परं गाढमालिलिङ्गतुः । ततोऽनुमानादिकुशला अन्त:पुरपालका निश्चितं कस्यचित् पुरुषस्य प्रवेशोऽन्तःपुरेऽभूदित्यज्ञासिषुः । अहो ! वयं वञ्चिताः स्म, इति तेषां चिन्तयतां राजाऽऽखेटकक्रीडां समाप्याऽऽययौ । ते राज्ञे निष्कपटमज्ञापयन्-“हे राजन् ! अस्माकमाशङ्केयमस्ति यदन्तःपुरे कोऽपि परपुरुषः प्रविष्टोऽस्ति । तस्माद् राजोपानही शब्दायमाने विहाय निःशब्दपादन्यासपूर्वकं चौर इव शुद्धान्ते प्रविवेश । सा चेटी द्वारदत्तदृष्टि रादागच्छन्तं राजानं दृष्ट्वा राज्य ज्ञापयाञ्चकार । दासी राज्ञी च तं जारमुपरितनमार्गेणाऽवकरराशिमिव शीघ्रं बहिश्चिक्षिपतुः । स जारो गृहात् पश्चात्तनप्रदेशे महावटे पपात । ततो गुहायामुलूक इव निलीय स तत्रैवाऽस्थात् । दुर्गन्धिमयेऽशुचौ तत्र कूपे नरकावास इव पूर्वसुखं स्मरन्नवातिष्ठत, सोऽचिन्तयच्च-"यदि कथञ्चिदस्मात् कूपादहं निःसरिष्यामि तदाऽहमीदृशपरिणामभोगं न करिष्यामि" । दासी राज्ञी च तत्र कूपे स्थिताय तस्मै कृपयोच्छिष्टं चिक्षिपतुः, तेनैव स जारोऽजीवत् । ततो वर्षासमये समागते गृहप्रस्रवणजलेन सकूप: पातकेन दुष्टधीरिव पूर्णोऽभूत् । स तेन परमवेगेन जलेन शबवद् वाहयित्वा वप्रद्वारिकया बाह्यपरिखायामनीयत । स जलपूरेण महदलाबुफलमिवाऽऽन्दोल्य परिखातीरेऽक्षेपि । ततः स जलेनाऽऽर्तो मुमूर्च्छ । दैवात् कुलदेवतयेवाऽऽगतया धात्र्या दृष्टः सङ्गोप्य गृहे नीतश्च । स कुटुम्बेन स्नानाभ्यङ्गभोजनादिभिः पाल्यमानश्छिन्नप्ररूढवृक्ष इव पुनर्नवीनोऽभूत् । अत्राऽयमुपनयः-यथा हि ललिताङ्गः कामभोगेषु समासक्तस्तथा देहिनां जीवः । यथा राज्ञीभोगस्तथा वैषयिकं सुखं, तदापातमधुरं परिणामातिदुःखदम् । गर्भ: कूपवाससमानः, मातृभुक्तान-पानाधैर्यद् गर्भपोषणं तदुच्छिष्टभोजनसदृशम् । यो मेघजलपूरिताद् विष्ठाकूपात् खालेन निर्गम: स पुद्गलोपचिताद् गर्भाद् योनितो निर्गमः । प्राकाराद् बहिस्थे परिखोत्सङ्गे यत् पतनं तत् सूतिकागृहे गर्भवासात् पतनम् । जलपूर्णपरिखातटस्थस्य या मूर्छा सा जरायुशोणितमयात् कोशाद् बहिःस्थस्य मूर्छा । या देहपालिका धात्री सा कर्मपरिणामसन्ततिस्त्वया ज्ञातव्या । हे प्रियाः ! यदि राज्ञी ललिताङ्गरूपमोहिता सती तं चेटीद्वाराऽन्तःपुरं पुन: प्रवेशयेत् तदा ललिताङ्गः किं तत्र प्रविशेत् ?" पत्न्य ऊचु:-"सोऽल्पधीरपि कथमनुभूतं विष्ठागर्तपातजं दुःखं स्मरन् राज्ञोऽन्तःपुरं प्रविशेत् ?" ततो जम्बूरुवाच "हे प्रियाः ! सोऽज्ञानवशेन प्रविशेदपि, अहं तु गर्भसङ्क्रान्तिहेतुं नाऽऽश्रयिष्यामि"। Page #58 -------------------------------------------------------------------------- ________________ परितम-गद्यात्मकसारोद्धारः त्रिषष्टिशलाकापुरुषचरितम्-गद्या परिशिष्टपर्व - तृतीयः सर्गः । १०३ mmmmmmmmmmmmnanamannamanennnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn nanamannmmmmmmmmmmmmmmmmmmmmmmmmanane प्रभवोऽपि पितॄनापृच्छ्य तत्र समागतो जम्बूकुमारमनुगच्छन् परिव्रज्यामग्रहीत् । स प्रभवः श्रीजम्बूस्वामिचरणकमलमरालोऽभवत् । यतो गुरुणा तस्यैव शिष्यत्वेन समर्पितः । ततो जम्बूमुनिः श्रीसुधर्मस्वामिगणधरपादारविन्दमिलिन्दः दुःसहान् परीषहानगणयन् पृथिवीं व्यहार्षीत् ॥ ३ ॥ इति परिशिष्टपर्वणि स्थविराकथादिललिताङ्गकथापर्यन्तसपरिवारश्रीजम्बू-प्रभवप्रव्रज्यावर्णनात्मकः तृतीयः सर्गः ॥३॥ अथ जम्बूस्त्रियो विज्ञातदृढनिर्णया: प्रतिबुद्धाः क्षमयित्वैवं जगदु:-“हे नाथ ! त्वं स्वयं यथा निस्तरसि तथाऽस्मानपि भवाद् निस्तारय, यतो महाशया आत्मकुक्षिम्भरित्वेन न संतुष्यन्ति" । ततो जम्बूनाम्नः पितरौ श्वशुरा बान्धवाश्चोचुः-“हे जम्बूः ! त्वं साधूक्तधर्माऽसि, अतः परमस्माकं परिव्रज्या भवतु । जम्बू-प्रभवयोः प्रव्रज्या ततः प्रभवनामकश्चौरोऽप्युवाच-“हे मित्र ! अहमपि शीघ्र पितृनापृच्छ्य तव परिव्रज्यासहायो भविष्यामीह न सन्देहः" । "हे सखे ! तवाऽविघ्नमस्तु, प्रतिबन्धं मा कृथाः" इति जम्बूकुमारोऽपि प्रभवं चौरं प्रत्युवाच । ततो महामना जम्बूकुमारः प्रातःकालेऽधिनिष्क्रमणोत्सवं स्वयमुच्चैश्चकार । कल्पवित् स स्नात्वा सर्वाङ्गीणं चाऽङ्गरागं कृत्वा रत्नमयानलङ्कारान् दधौ, अयं कल्पोऽस्तीति । ___ अथाऽनादृतेन देवेन कृतसन्निधिर्जम्बूनरसहस्रेणोद्वाह्यां शिबिकामारुरोह । निनन्दन्मङ्गलवाद्यः पठन्मङ्गलपाठक उत्तार्यमाणलवणः स्वकीयमानमङ्गलः कल्पतरुरिव विश्वजनहितं दानं कुर्वाणो लोकैः प्रशस्यमानः काश्यपगोत्रजातो जम्बूः सुधर्मस्वामिगणधरचरणकमलपूतं कल्याणसम्पदास्पदं तं वनोद्देशं जगाम । स निर्ममो गणधरशोभितारामद्वारदेशे संसारादिव शिबिकामध्यादुत्ततार । तत्राऽऽपदम्बुधितारकान् सुधर्मस्वामिपादान् पञ्चाङ्गस्पृष्टभूपृष्ठः सन् गणधरतो दीक्षामिच्छुर्व्यजिज्ञपत्-“हे परमेश्वर ! भवसागरतरी प्रव्रज्यां मम सस्वजनस्याऽप्यनुकम्प्य देहि" । तदा पञ्चमगणधरोऽप्येवं प्रार्थितः सपरिवाराय तस्मै यथाविधि दीक्षां ददौ । अन्येयुः Page #59 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः सुधर्मस्वामिगणधरस्य चम्पायामागमनम् एकदा गणधरः श्रीसुधर्मा जम्बूस्वाम्यादिशिष्ययुतो भुवि विहरंश्चम्पानगरी जगाम । उद्भूतधर्मकल्पतरुसमः परमेश्वरो गणधरः स नगरपरिसरारामे समवासरत् । ततस्तं वन्दितुं नगरलोका भक्त्या हर्षितहृदया गन्तुं प्रावृतन् । झणझणशब्दयुतनूपुरा काश्चित् नार्यः पादचारेण श्लथधम्मिल्लस्थपुष्पमाल्याः जग्मुः । काश्चिच्च नार्यः पतिभिः सह रथमारुह्य शीघ्रं शीघ्रं रथान् चालयामासुः । काश्चिच्छ्राविकास्त्यक्तान्यकर्माणो कपियुतवृक्षा इव कट्यारोपितबाला गृहाद् निर्जग्मुः । केऽपि महेभ्याश्चलत्कुण्डला अश्वारूढा धवलच्छत्रैदिवं पुण्डरीकिणीं कुर्वाणा निर्जग्मुः । शीघ्रं गच्छतां श्रीमतां परस्परसङ्घर्षताडनाद् निपतितैर्हारमुक्ताफलैर्मार्गभूमिर्दन्तुराऽभूत् । तदा तस्यां नगर्यां कूणिको नाम राजा गच्छतो लोकान् दृष्ट्वा वेत्रधरं पप्रच्छ कूणिकनृपस्य वन्दनार्थं गमनम् "अद्य किं कस्याश्चिद् देव्या यात्रा पुरसमीपे वर्तते ? कस्याऽपि वा महाश्रेष्ठिन उद्यापनिकोत्सवोऽस्ति ? किं कौमुदीसमान: कोऽपि महानुत्सवः समागतः ? अथवोद्यानचैत्ये पूजाविशेषो वर्तते ? परिशिष्टपर्व - चतुर्थः सर्गः १०५ किं वा कोऽपि महात्मा जैनमुनिः समागमत् ? यदेषोऽखिलनगरीजन: शीघ्रं गच्छति" । तदैव वेत्रधारी विज्ञाय तवृत्तं राजानं व्यजिज्ञपत्-“हे राजन् ! इह श्रीसुधर्मस्वामी गणधरवरः समवसृतो विराजते, अयं सर्वः पुरजनस्तत्पदान् वन्दितुं याति, तवैकातपत्राद्धर्मराज्यं विजयते" । राजोवाच-“हे वेत्रिन् ! अयं पुरजनो धन्योऽस्ति, य: श्रीसुधर्मस्वामिवन्दने एवं त्वरते । अहो ! अहं जाग्रदवस्थोऽपि सुषुप्तावस्थतां प्रापम् । यतोऽहं गणधरदेवमपि नाऽज्ञासिषं, तस्मादहमपि गणभृच्चरणान् शीघ्रं गत्वा वन्दे । यतस्ते पवनवदप्रतिबद्धा एकत्र न तिष्ठन्ति, इति प्रफुल्लकमललोचनो राजोत्थाय चन्द्रकिरणैरिव निर्मिते धवलवस्त्रे पर्यधात् । अथ कर्णतलयोः स्वच्छमुक्ताकिरणसमूहपूरिते सुधाकुण्डे इव मौक्तिककुण्डले दधौ । पुनर्हदये लावण्यनदीतीरस्थां फेनरेखामिव विमलमौक्तिकं हारमालम्बयामास । भूभारधरोऽपरकल्पवृक्ष इव स राजाऽन्यान्यपि सर्वाङ्गरत्नालङ्करणानि बभार । पवनचञ्चलाञ्चलमाकाशस्फटिकधवलं तत्स्पर्शाद् नृत्यन्तमिव चोलकं पर्यधात् । सुगन्धिपुष्पमाल्यगभितं कज्जलकान्ति ग्रस्तचन्द्रवर्षतुमेघसमं धम्मिल्लं मस्तके बबन्ध । शत्रुवारणः स राजा भद्रकारणं भद्रवारणं सिंह इव पर्वतं निःश्रेणित आरोहत् । स भूमिवासवो गगने विद्युल्लेखामिव कराभ्यां सृणिं नर्तयन् पादाभ्यां हस्तिनं प्रेरयामास । मम निभरैः पादघातैः पृथ्वी भगुरा मा भूदिति स हस्ती कृपयेव मन्दं मन्दं गन्तुं प्रचक्रमे । ऊर्जितं गर्जन् मदजलं निरन्तरं वर्षन् स हस्ती जनेन Page #60 -------------------------------------------------------------------------- ________________ १०६ त्रिषष्टिशलाकापुरुषचरितम्-गधा परिशिष्टपर्व - चतुर्थः सर्गः १०७ namannnnnnnnnna भूमिगतो मेघ इवाऽलक्षि । तथाऽऽरूढसादिनो नृत्यन्त इव वल्गन्तो मुखाग्रस्पृष्टजानवो लक्षशोऽश्वास्तं गजं प्रावतुः । तत्पुरो विजयसूचकानि तूर्यवर्याण्यनेकशो तदायुक्तैः पुरुषैः परस्परं संवलितशब्दमवाद्यन्त । तूर्याणामभित: प्रतिध्वनिभिरपौरुषेयं शब्दायमानमुद्दामं वाद्यान्तरं नभोऽभवत् । अथ सपरिच्छदो राजा श्रीसुधर्मस्वामिगणधरचरणकमलशोभितं वनोद्देशं प्राप । राजशिरोमणिः कुम्भोपरि सृणिदण्डप्रहारेण उपवेशिताद् गजाद् रज्जु गृहीत्वाऽवततार । त्यक्तपादुको दूरीकृतच्छत्रचामरो महाभुजो भूपो वेत्रिबाहुमपि विहाय वन्दारूञ्छावकान् पश्यन् उद्यद्रोमाञ्चकञ्चुकं स्वं भक्त्या साधारणजनसमं मन्यमानः श्रीसुधर्मस्वामिनं दृष्ट्वा बद्धेनाऽञ्जलिना मुकुटोपरि मुकुटीकुर्वाण: दूरादपि ववन्दे । भक्ताग्रगण्यो राजा तं नत्वा तत्पुरतस्तन्मुखदत्तदृष्टिस्तच्छिष्यपरमाणुरिवोपविवेश । ततः प्राणिकारुणिको गणधरः श्रोतृश्रोत्रामृतप्रपां धर्मदेशनामकरोत् । देशनावसाने गणभृच्छिष्यान् पश्यन् राजा जम्बूस्वामिनमुद्दिश्य परमेश्वरं पप्रच्छ-"हे भगवन् ! एतस्य महर्षे रूपं सौभाग्यं तेजश्च सर्वमप्यद्भुतं दृश्यते; तथाहि अस्य केशा यमुनातरङ्गकुटिलश्यामलाः, नेत्रे श्रवणान्तविश्रान्ते, नासा नालकमले इव, श्रवणे नेत्रसरस्तीरस्थे शुक्तिके इव, कण्ठः कम्बुसमः, वक्षस्थलं कपाटोपमं, बाहुदण्डौ सरलावाजानुलम्बिनौ दी?, मध्यदेशो मुष्टिग्राह्यः, जानुयुगलं गजबन्धनकाष्ठमिव, जङ्के हरिणीजड्यासमे, पाणिपादं कमलमिव । एतस्य रूपसम्पदं मादृशो वक्तुं किं शक्नोति ? अस्य महाभाग्यस्य सौभाग्यं वाग्गोचरतां नैति, यदेनं बन्धुवत् पश्यतो मे मनः प्रीयते । अयं महातेजाः कोऽस्ति ? तथा तेजसाऽस्य यादृशं रूपमस्ति तद् द्रष्टुं न शक्यते । अस्य महामुनेरधृष्यं चाऽभिगम्यं च तेजः, किं सूर्याचन्द्रमसोस्तेज एकत्राऽऽकृष्य पिण्डीकृतम् ? अस्य तपोनिधेस्तेज:पुज: कियत् कथ्यते, यत्पादनखकिरणानामपि विद्युद् दासीव लक्ष्यते" । श्रीज्ञातपुत्रो यथा पुरा श्रेणिकायाऽऽचष्टे तथा सुधर्मस्वामी जम्बूप्राग्भववृत्तान्तमस्मै जगाद । "राजन् ! पूर्वजन्मतपसाऽस्यैतादृशानि रूप-सौभाग्य-तेजांसीक्ष्यन्ते" । स एव परमेश्वर उवाच"राजन् ! अयमन्तिमशरीरश्चरमश्च केवली वर्तते । अस्मिन्नेव भवे सेत्स्यति" । पुन: सुधर्मस्वामिनेदमुक्तम्-"जम्बूनाम्नि शिवं गते मन:पर्यायो न भावी, परमावधिश्च न भावी, आहारकवपुर्लब्धिर्न, तथा जिनकल्पो न, पुलाकलब्धिन, क्षपकश्रेणिरोहणं न, तथा क्वचिदपि उपरितनं संयमत्रयं न, एवमग्रेऽपि हीनहीनतद्धिता भविष्यति" । राजैवं श्रीसुधर्मस्वामिवचनं श्रुत्वा तच्चरणकमले वन्दित्वा चम्पापुरीं ययौ । सुधर्माऽपि सपरिच्छदस्तत्स्थानाच्छ्रीमहावीरप्रभुपादान्तिके जगाम, तत्समं च विजहार । जम्बूस्वामिनः केवलज्ञानं निर्वाणं च श्रीसुधर्मस्वामिना पञ्चाशदब्देन व्रतं गृहीतम् । चरमार्हतः शुश्रूषा त्रिंशदब्दी चक्रे । श्रीमहावीरे मोक्षं गते गणधरवरः श्रीसुधर्मस्वामी छद्मस्थः सन् द्वादश वर्षाणि तीर्थं प्रवर्तयंस्तस्थौ । ततो द्वानवत्यब्दीप्रान्ते प्राप्तकेवलो भव्यप्राणिनो बोधयन्नष्टवर्षी पृथिवीं विजहार । निर्वाणसमये प्राप्ते सति पूर्णवर्षशतायुषा Page #61 -------------------------------------------------------------------------- ________________ १०८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः श्रीसुधर्मस्वामिना श्रीजम्बूस्वामी गणाधिपोऽस्थापि । तीव्र तपस्तप्यमानो जम्बूस्वाम्यपि केवलं लब्ध्वा सद्यो भव्यभविकान् प्रतिबोधयामास । श्रीमहावीरस्वामिमोक्षदिनादपि चतुःषष्टिवर्षाणि व्यतीत्य जम्बूस्वामी कात्यायनगोत्रं श्रीप्रभवं स्वपदे संस्थाप्य कर्मनिर्जरयाऽव्ययपदमाप ॥ ४ ॥ इति परिशिष्टपर्वणि जम्बूस्वामिनो निर्वाणवर्णनात्मकः चतुर्थः सर्गः ॥४॥ पञ्चमः सर्गः श्रीशय्यम्भवसूरिवृतान्तः ततः कात्यायनगोत्रोत्पन्नः श्रीप्रभवस्वामी तीर्थप्रभावनां कुर्वन् पृथिवीतलं पवित्रीचकार । एकदा निशीथे आवश्यकक्रियाश्रान्तायां सुप्तायां शिष्यपर्षदि योगनिद्रास्थः श्रीप्रभवस्वाम्येवं चिन्तयामास"अर्हद्धर्मकमलदिवाकरो मे गणधरः को भावी, य: समस्य भवसागरे पोतसम: स्यात्" । एतच्चिन्ताक्रान्तः स स्वे गणे सो चेष्टज्ञेयालोकप्रदीपकमुपयोगं चकार । स ज्ञानसूर्येण प्रसारिणा सूर्यतेजसेवाऽव्युच्छित्तिकरं तादृशं नरं कमपि न ददर्श । तादृग्नरार्थी स परेषामपि दर्शने उपयोगं ददौ । यतः पङ्कादपि कमलमुपादेयं भवति । ततो राजगृहनगरे यज्ञं कुर्वाणमासन्नभव्यं वत्सगोत्रजं शय्यम्भवनामकं ब्राह्मणं ददर्श । अनवस्थितैः श्रमणैरन्यत्राऽपि विहरणीयमिति प्रभवस्वामी तत्रैव नगरे पुरवरे जगाम । तत्र द्वौ मुनी आदिशत्-"यज्ञशालायां गम्यतां, तत्र युवां भिक्षार्थिनौ धर्मलाभाशिष वदतम् । तत्र भिक्षादानेच्छावादिभिर्यज्ञवाटद्विजादिभिः प्रस्थाप्यमानाभ्यामपि युवाभ्यामीदृशं वक्तव्यम्"अहो कष्टम्-अहो कष्टं, तत्त्वं विज्ञायते न हि । अहो कष्टमहो कष्टं, तत्त्वं विज्ञायते न हि" अथ वन्दनमालाङ्कद्वारमुत्तम्भितध्वजं द्वारदेशमुक्ताचामनाहावमिन्धनव्यापृतमाणवं यूपस्तम्भबद्धच्छागं वेदीमध्यप्रदीप्तवह्निकं Page #62 -------------------------------------------------------------------------- ________________ ११० परिशिष्टपर्व - पञ्चमः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः mmmmmmmmmmmmmmmmmmmmmmmm होमद्रव्यपूर्णानेकपात्रमृत्विग्गणावृतं सामिधेन्यर्पणतत्पराध्वर्यु यज्ञवाट गुर्वनुज्ञातौ तौ मुनी जग्मतुः । ___ अथ तौ मुनी भिक्षामदित्सुभिर्विप्रैर्विसृष्टौ गुरूपदिष्टमहो कष्टमित्यादि तारस्वरेण पेठतुः । तस्मिन् यज्ञे दीक्षित: शय्यम्भवाख्यो द्विजो यज्ञवाटद्वारदेशस्थित: तयोर्वचनमिदं शुश्राव । सोऽचिन्तयच्च-"इमे साधव उपशमप्रधानाः सन्तीति मिथ्यावादिनो नेति मे मनस्तत्त्वे शंसेते" इति सन्देहदोलारूढेन मनसा सुधीवरः स किं तत्त्वमित्युपाध्यायं पप्रच्छ । तत उपाध्यायस्तत्त्वमुवाच-स्वर्गमोक्षदा वेदास्तत्त्वं, वेदेभ्योऽन्यत् तत्त्वं नाऽस्तीति तत्त्वज्ञा विदुः । ततः शय्यम्भवोऽवोचत्-“यज्ञादिदक्षिणालोभाद् वेदास्तत्त्वमिति वदंस्त्वं मादृशान् नूनं प्रतारयसि । एते महर्षयो वीतद्वेषा वीतरागा निर्ममा निष्परिग्रहाः शान्ताश्चेति क्वचिद् मिथ्या न वदन्ति । त्वं गुरुर्नाऽसि, यत एतद् विश्वमाजन्म त्वया वञ्चितम् । हे दुराशय ! प्रत्युत त्वमद्य शिक्षणीयोऽसि । भो एवंस्थितेऽपि यथास्थितं तत्त्वं प्रतिपादय, नो चेत् तव शिरश्छेत्स्यामि, दुष्टनिग्रहे हत्या न दोषाय" इति स कोपात् खड्गमाचकर्ष । ततः स उपाध्यायमृत्युवाचनायात्तपत्र: साक्षाद् यम इवाऽलक्ष्यत । उपाध्यायोऽपीदं दध्यौ-"एष मां जिघांसुरस्ति, अतो यथास्थिततत्त्वकथनेऽयं समय उपस्थितः । इदमस्माकं वेदेष्वपि पठ्यते, तथाऽस्माकमाम्नायोऽप्ययं-"कथ्यं यथातथं तत्त्वं शिरच्छेदे हि नाऽन्यथा" । तस्मादस्मै यथातथं तत्त्वं शीघ्र प्रकाशयामि; यथाऽहं जीवामि, यतो-"जीवन्नरो भद्राणि पश्यति" । इति स्वभद्रं ध्यायन्नुपाध्यायः प्रोवाच-"अस्य यूपस्याऽधस्तादर्हतः प्रतिमा न्यस्ता वर्तते । अत्राऽधः स्थितैवाऽर्हतः प्रतिमा प्रच्छन्नं पूज्यते । तत्प्रभावेणा ऽस्माकमिदं यज्ञादिकर्म निर्विघ्नं सम्पद्यते । अर्हत्प्रतिमां विना महातपाः सिद्धपुत्रः परमार्हतो नारदो यज्ञमवश्यं विनाशयति । तत उपाध्यायो यूपमुत्पाट्य यथास्थितां तामहत्प्रतिमां दर्शयित्वेदमुवाच-“यस्य श्रीमदर्हत इयं प्रतिमा, तत्कथितो धर्मस्तत्त्वं, यज्ञादि तु विडम्बना वर्तते । श्रीमदर्हत्प्रणीतो जीवदयारूपो धर्मः, पशु-हिंसात्मके यज्ञे का धर्मसम्भावना ? एवं वयं महीयसा दम्भेन जीवामः । त्वं तत्त्वं विद्धि । मां मञ्च; त्वं परमाहतो भव । मया स्वोदरपूर्तये चिरं प्रतारितोऽसि । हेऽनघ ! अतः परं तवोपाध्यायोऽहं नाऽस्मि । शय्यम्भवोऽपि तं यज्ञोपाध्यायं प्रणम्योवाच-त्वं मम यथार्थतत्त्वप्रकाशनादुपाध्यायोऽस्येव, इति परमसन्तुष्टः शय्यम्भवस्तस्मै स्वर्ण-ताम्रपात्रादियज्ञोपकरणं ददौ । स्वयं तौ महर्षी गवेषयन् शीघ्रं निर्जगाम । तत्पदैरेव श्रीप्रभवस्वामिसमीपं ययौ । स प्रभवस्वामिपादान् सर्वान् मुनींश्च ववन्दे । तैश्च धर्मलाभाशिषाऽभिनन्दितः स उपाविशत् । कृताञ्जलिः शय्यम्भवः श्रीप्रभवस्वाम्याचार्यचरणानिदं व्यजिज्ञपत्-"भवन्तो मे मोक्षहेतुं धर्मतत्त्वं कथयन्तु"। प्रभवस्वाम्युवाच-"आदिमो धर्मोऽहिंसा, यथाऽऽत्मनि तथाऽपरस्मिन्नपि शुभोदर्कश्चिन्तनीयः, यत् प्रियं मितं तथ्यं परस्याऽबाधकं तद् वाच्यं, यतः परबाधा भवेत् तत् तथ्यमपि न वक्तव्यम् । अदत्तमर्थं न गृह्णीयाद् नित्यं सन्तुष्येत् । सन्तोषी जनो मोक्षसुखभागिवाऽस्मिन्नपि लोके सुखी । सर्वतो मैथुनं त्यजन् प्राज्ञ ऊर्ध्वरेता भवेत् । मैथुनं त्वत्र संसारविषवृक्षस्य दोहदः । सर्वपरिग्रहं मुक्त्वा Page #63 -------------------------------------------------------------------------- ________________ Hamannmannnnnnnnnnnmmmmmmmmmmmmmmmm त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वशरीरेऽपि निःस्पृहो विद्वान् यद्यपुनर्भवमिच्छेदात्मारामो भवेत् । अहिंसा-सूनृता-ऽस्तेय-ब्रह्मचर्या-ऽकिञ्चन्य[अपरिग्रह] रूपैः पञ्चभिव्रतैर्भवादात्मानमुद्धरेत् । शय्यम्भवस्तत्त्वं ज्ञात्वा सद्यो भवोद्विग्नोऽभूत् । तत: स प्रभवस्वामिपादान् नत्वैवं विज्ञपयाञ्चकार । ममाऽसद्गुरुवचनेनाऽतत्त्वे तत्त्वबुद्धिश्चिरमभूत् । यतः पीतोन्मत्तो मृत्पिण्डमपि स्वर्णमेव पश्यति, तस्माज्ज्ञाततत्त्वस्य मे भवकपे निपततो हस्तावलम्बनसमा दीक्षा दीयताम् । ततः प्रभवस्वामी संसारशत्रुभीतं तं शय्यम्भवद्विजोत्तमं परिव्राजयामास । स महाशयस्तपस्यन् परीषहेभ्यो नाऽभैषीत्, प्रत्युत दिष्ट्या कर्म क्षिपामीति परमोत्साही बभूव । स तुर्य-षष्ठा-ऽष्टमादीनि दुष्कराणि तपांसि तपनवत् तेजोभिरतिभासुरस्तेपेतराम् । स गुरुशुश्रूषां कुर्वाणो गुरुप्रसादत: क्रमेण चतुर्दशपूर्वधरोऽभूत् । ततः प्रभवस्वामी श्रुतज्ञानादिना स्वतुल्यं रूपान्तरमिव तं स्वपदे संस्थाप्य परलोकं साधयामास । * * * शय्यम्भवो यदा पर्यव्राजीत् तदा सर्वो लोकस्तत्पत्नीं युवति दृष्ट्वाऽनुशोचन्निदमुवाच-"अहो ! शय्यम्भवो भट्टो निष्ठुरशिरोमणिः, यः स्वां भार्यां युवति सुशीलामपि तत्याज, स्त्रीगणः पति विना पुत्राशयैव जीवति, अस्याः पुत्रोऽपि नाऽजनि, तत्कथमियं निर्वक्ष्यति" । लोकस्तामपृच्छत्-“हे शय्यम्भवप्रिये ! तवोदरे काऽपि गर्भसम्भावनाऽस्ति ? साऽपि 'मनाक्' इति कथनीये 'मणयं' इति प्राकृतभाषया जगाद । तदा हि साऽल्पगर्भाऽऽसीत् । तस्या गर्भः परिशिष्टपर्व - पञ्चमः सर्गः प्रत्याशेव शनैः शनैर्ववृधे । पूर्णे समये तन्मानससमुद्रचन्द्रः पुत्रोऽजनि । तदानीं ब्राह्मण्या 'मणयं' इत्युत्तरं कृतमिति तस्याऽपि सुतस्य नाम 'मणक' इत्यभूत् । स्वयं मात्रा स्वयं धात्र्या ब्राह्मण्या पाल्यमानः स बालकः क्रमेण पादचङ्क्रमणसमर्थो बभूव । सोऽतीतेऽष्टमवर्षे मातरं पप्रच्छ-"हे मातर्मम पिता क्व नामाऽस्ति ? यतस्त्वं वेषेणाऽविधवाऽसि" | माताऽपि कथयामास"हेऽर्भक ! तव पिता यदा प्रवव्राज तदा त्वमुदरस्थ आसी: । मया पालितोऽसि । हे आयुष्मन् ! त्वं यथाऽदृष्टपूर्वी पितरमसि, तथा तव पिताऽपि त्वामदृष्टपूर्वी विद्यते किल । तव पिता याज्ञिक: शय्यम्भवनामाऽभवत् । स कैरपि धूर्तश्रमणैः प्रतार्य पर्यव्राज्यत" । ततः शय्यम्भवर्षेः पितुर्दर्शनायोत्कण्ठितोऽसौ बालको निजजननी छलयित्वा गृहाद् निर्जगाम । तदा शय्यम्भवाचार्यो विहरन् चम्पायामासीत् । बालोऽपि पुण्यराशिनाऽऽकृष्ट इव तत्रैव ययौ । कायचिन्तादिना पुरपरिसरे गच्छन् सूरिर्दूरादायान्तं कमलनयनं बालमपश्यत् । तं बालं पश्यतः शय्यम्भवस्य चन्द्रं समुद्रस्येव स्नेहातिशयेनाऽधिकतर उल्लासो बभूव । बालकोऽपि तं मुनिचन्द्र दूराद् दृष्ट्वा सद्यः कुमुदकोषवत् प्रफुल्लमुखोऽभूत् । ___आचार्योऽपि परमहर्षितस्तं बालं पप्रच्छ-"त्वं कोऽसि ? कुत आयासि ? कस्य वा पुत्रः ? कस्य वा पौत्रोऽसि ? स बालोऽभिदधे-"अहं राजगृहादागतोऽस्मि, वत्सगोत्रब्राह्मणस्य शय्यम्भवस्य पुत्रोऽस्मि, मम गर्भस्थितस्य पिता प्राव्राजीत् । तमन्वेषयितुं पुरात् पुरं बम्भ्रमीमि, यदि शय्यम्भवं मे पितरं भवन्तो जानते तर्हि पूज्यपादाः प्रसद्य स क्वाऽस्ति? इति वदन्तु । यद्यहं पितरं द्रक्ष्यामि तदा तत्पादपार्श्वेऽहमपि परिव्रजिष्यामि । तस्य या गतिः सा मेऽपि । Page #64 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - पञ्चमः सर्गः ११५ PARMARArmananmannamanAAAAAAAAAAnan त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः सूरिरुवाच-"अहं तव पितरं जानामि, स मे मित्रं वर्तते । हे आयुष्मन् ! शरीरेणाऽप्यभिन्नं तमिव मां जानीहि । हे शुभाशय ! तस्मात् त्वं मम सकाशे परिव्रज्यां गृहाण । पितृपितृव्ययोः को नामभेदो भवति ? ततः सूरिस्तं बालमादायोपाश्रयं जगाम । अद्य सचित्तो लाभोऽभूदिति स्वयमालोचयत् । सूरिस्तं बालं सर्वसावद्यविरतिपुरस्सरं व्रतमजिग्रहत् । सूरिरस्य कियदायुरित्युपयोगं ददौ । तत: षण्मासान् यावदस्तीति सद्योऽज्ञासीत् । तदा एवं शय्यम्भवमुनिश्चिन्तयामास-"अयं बालोऽत्यल्पायुरस्ति तत्कथं श्रुतधरो भवितुमर्हति ? "अपश्चिमो दशपूर्वी चतुर्दशपूर्वधरो वा केनाऽपि कारणेन श्रुतसारं समुद्धरेत्" । मणकप्रतिबोधेऽस्मिन् कारण उपस्थितेऽहमपि सिद्धान्तार्थसमुच्चयं तस्मादुद्धरामि । तदा शय्यम्भवाचार्यः सिद्धान्तसारमुद्धत्य दशवैकालिकं नाम श्रुतस्कन्धमुवाच । विकालसमये दशाध्ययनयुक्तं शास्त्रं कृतमत एव तद्दशवैकालिकमिति नाम्ना प्रसिद्धम् । निर्ग्रन्थश्रेष्ठो दयालुशिरोमणिः श्रीशय्यम्भवाचार्यवर्यस्तं मणकं तं ग्रन्थमध्यापयामास । सूरिभिराराधनादिकं कृत्यं स्वयं कारितोऽसौ मणकः षण्मासानन्तरं कालं कृत्वा दिवं जगाम । मणके पञ्चत्वं गते श्रीशय्यम्भवाचार्यः शारदमेघवद् नयनाभ्यामश्रुजलमवर्षत् । तदा दु:खितविस्मिता यशोभद्रादयः शिष्याः सूरि विज्ञपयामासुः-भगवन् ! किमिदं योग्यं वः ? कोऽत्र हेतुः? ततः सूरिस्तेभ्यः शिष्येभ्यः पुत्रसम्बन्धबन्धुरं मणकवृत्तान्तं जन्मत आरभ्य मरणपर्यन्तं प्रोवाच । उवाच च सूरिरिति"बालोऽयमल्पीयसा कालेनाऽपि पालितविमलचारित्रः समाधिना कालमकरोत् । अयं बालोऽपि चारित्रेणाऽबालोऽभूदिति हर्षादस्माकमश्रुपातोऽभूत्, यतः पुत्रस्नेहोऽतिदुस्त्यजो भवति । ततो यशोभद्रादयः शिष्या नमद्ग्रीवा ऊचुः"पूज्यवरैरादावपत्यसम्बन्धः किं नाऽस्माकं ज्ञापित: ? हे गुरो ! यद्ययं मणकक्षुल्लकोऽस्माकं पुत्र इति गुरुपादा अल्पमप्यज्ञापयिष्यंस्तदा 'गुरुवद् गुरुपुत्रेऽपि वर्तेतेति नीतिवचनं वयं तदीयसेवनात् सत्यमकरिष्यामः" । प्रहृष्टः सूरिरुवाच-"युष्मासु तपोवृद्धेषु वैयावृत्त्या श्रेष्ठं तपः तस्य सुगतिप्रदमभूत् । यदा ज्ञातास्मत्पुत्रसम्बन्धा यूयमुपासनां मणकान्नाऽकारयिष्यत, तदा स स्वार्थं व्यमोक्ष्यत । मयाऽमुं स्वल्पायुषं ज्ञात्वा श्रुतधरं कर्तुं सिद्धान्तसारमुद्धत्य दशवैकालिकं व्यरचि । मया मणकार्थं ग्रन्थः कृतस्तेन निस्तारितश्च, तस्मादिमं ग्रन्थं यथास्थाने निवेशादद्य संवृणोमि । तदा यशोभद्रादिमुनयः सवायेति न्यवेदयन्-"सूरिपादा दशवकालिकं ग्रन्थं संवरिष्यन्ति" । सङ्घोऽपि प्रमुदितः सूरिपादानभ्यर्थयामास-"भगवन् ! मणकार्थोऽप्ययं ग्रन्थः सर्वं जगदनुगृह्णातु । प्राणिनोऽत: परमल्पमेधसो भविष्यन्ति, अतस्ते त्वत्प्रसादाद् मणकवत् कृतार्था भवन्तु। अदो दशवैकालिकं श्रुतकमलस्य परागो वर्तते, तदनगारभृङ्गा आस्वादमास्वादं प्रमोदन्ताम्" । इति सङ्घोपरोधेन महात्मभिः श्रीशय्यम्भवसूरिभिर्दशवैकालिकग्रन्थो न संवने । श्रीमान् शय्यम्भवः सूरिर्महामुनि श्रुतसमुद्रपारङ्गतं श्रीयशोभद्रं स्वपदे प्रतिष्ठापयामास । अथ श्रीशय्यम्भवाचार्यः समाधिना कालं कृत्वोर्ध्वलोक मगात् । जगत्प्रदीपसमानाः श्रुतकेवलिन: स्वकीयेऽपि कार्ये किं मुह्यन्ति ? ॥ ५॥ इति परिशिष्टपर्वणि प्रभवदेवत्व-शय्यम्भवचरित्रवर्णनात्मकः पञ्चमः सर्गः ॥५॥ Page #65 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः श्रीयशोभद्रादिसूरिवराणां वृत्तान्तः अथ पूरितदिग्यशाः श्रीमान् यशोभद्रसूरिरुपवासाद्यैर्विहिताहारो धरणीं विजहार । चतुर्दशपूर्वधरः सोऽर्हत्प्रणीतेन धर्मेण विश्वमन्वरञ्जयत् । तस्य मेधाविनौ भद्रबाहु सम्भूतविजयौ मुनी चतुर्दशपूर्वधरौ शिष्यौ बभूवतुः । श्रीमान् यशोभद्रः सूरिः श्रुतनिध्योस्तयोः स्वमाचार्यत्वमारोप्य परलोकं साधयामास । अथ जगद्भद्रङ्करो भद्रबाहुसूरिर्भुवि विहरन् क्षमाश्रमणसङ्घेन शोभमानो राजगृहं ययौ । तस्मिन् पुरे समानावस्था उद्यानवृक्षा सहैव वृद्धि प्राप्ताश्चत्वारो वणिजोऽभवन् । ते भद्रबाहुसूरिसन्निधौ जैनधर्मं शुश्रुवुः । कषायवह्निजलासारं प्रतिबोधं च लेभिरे । ते दान्तात्मानो गृहवासपराङ्मुखा श्रीभद्रबाहुपादान्ते सहैव प्राव्राजिषुः । तीव्रं तपस्तप्यमाना उपार्जितबहुश्रुता महीतले युगमात्रदत्तदृष्टयो विहरन्तः प्रियां तथ्यां मितां वाचं वदन्तः कुक्षिपाथेया नि निर्ममाः साम्यशालिनः सन्तुष्टा धर्मोपदेशतत्पराः करुणारससागरास्ते सरसि हंसा इव गुरुहृदि विविशुः । गुर्वनुज्ञयैकाकिविहारप्रतिमाधरास्ते भूयो राजगृहनगरं प्रापुः । तदा तत्र हिमर्तुर्भृशमभवत् । अथ तत्र तृतीये दिनप्रहरे भिक्षां कृत्वा निवृत्तास्ते वैभारपर्वतसमीपं गन्तुमुपचक्रमिरे । गच्छतां तेषां पर्वतगुहाद्वारे नगरारामे परिशिष्टपर्व षष्ठः सर्गः ११७ आरामान्तिके पुरसमीपे च क्रमाच्चतुर्थ: प्रहरोऽभूत् । भिक्षां गमनं वा तृतीययामे कुर्वीत' इति हेतोस्ते तुर्ययामे प्रतिमाधरास्तत्रैव तस्थुः । यो गिरिगुहाद्वारेऽतिष्ठत् तस्याऽत्यन्तं शीतमजायत । य उद्याने तस्थौ तस्य तदपेक्षया किञ्चिद् मन्दं शीतमभूत् । य उद्यानसमीपे तस्थौ तस्य तदपेक्षया मन्दं शीतमभूत् । यस्तु पुरसमीपेऽस्थात् तस्य तु पुरोष्मणाऽत्यल्पतरं शीतमभूत् । चत्वारोऽपि श्रमणाः क्रमात् प्रथम-द्वितीय-तृतीय- चतुर्थप्रहरेषु शीतेन विपद्य स्वर्गं ययुः । उदायीनृपवृत्तान्तः इतश्च चम्पानगर्यां श्रेणिकात्मजे कूणिके राज्ञि पञ्चत्वं गते तत्सुत उदायी नाम राजाऽभूत् । दुर्दिनेन चन्द्र इव निगूढतेजा पितृमरणशोकेनाऽऽक्रान्तः स राज्येऽपि प्रमोदं न प्राप । स कुलामात्यानुवाच - " अत्र समस्ते पुरे पितृक्रीडास्थानानि पश्यतो मे मनो व्यथते । सैवेयं सभा, यस्यां मे पिता क्षणे क्षणे मां क्रोडादपरित्यजन् सिंहासनमध्यास्त । इहाऽक्रीडत्, इहाऽरंस्त, इहाऽशेत मम पितेति सर्वत्र जलचन्द्रवत् पश्यामि । तातपादानग्रे स्थितानिव पश्यतो राजचिह्नधरस्य मे सुखमपि सदाऽस्तोकशोकः शल्यमिव दुःखाकरोति च । बहुदृष्टा बहुश्रुता अमात्यास्त अपि तु वाचंयमा इव शोकशङ्कुच्छिदा वाचा प्रोचुः- “इष्टवियोगेन कस्य शोको न स्यात्" । भवता स शोको भुक्तान्नवज्जरणीयः, अन्यथा ते लज्जा स्यात् । यह पुरे वसतस्ते शोकः स्यादेव, तस्मादन्यद् नगरं हे राजंस्त्वं निवेशय । तव पिता कूणिकोऽपि प्राग् राजगृहं पुरं विहाय पितृशोकेनेमां चम्पानगरीमकारयत् " । तत उदायी राजाऽपि नैमित्तिकवरानाहूय पुरनिवेशयोग्यं स्थानमन्वेषयितुमादिदेश । Page #66 -------------------------------------------------------------------------- ________________ ११८ परिशिष्टपर्व - षष्ठः सर्गः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तेऽप्युत्तरोत्तरान् प्रदेशान् सर्वत्र पश्यन्तो नेत्रविश्रामस्थाने सुन्दरगङ्गातीरे ययुः । तेऽपि तत्र गङ्गातटे पुष्पारुणं सपत्रं घनच्छायं पाटलिवृक्षं पृथिव्याच्छत्रमिवाऽपश्यत् । अहो ! उद्यानबाह्योऽप्ययं वृक्षः सकलापोऽस्ति । इत्थं चमत्कृते तत्र चाषपक्षिणं ददृशुः । वृक्षशाखोपविष्टः स खगो मुखं मुहुादात् । व्यादत्ते तन्मुखे कीटिकाः कवलीभवितुं स्वयमागत्य निरन्तरं निपेतुः । ते चिन्तयन् यथाऽत्र प्रदेशेऽस्य खगस्य मुखे कीटिका स्वयमागत्य निरन्तरं निपतन्ति तथाऽत्रोत्तमे स्थाने नगरेऽपि निवेशिते पुण्यात्मनोऽमुष्य राज्ञः सम्पदः स्वयमागमिष्यन्ति । इति निश्चित्य राज्ञस्तत्स्थानं नगरनिवेशयोग्यं चाषलक्षणं निमित्तं विवृण्वन्तस्ते व्यजिज्ञपन् । वदतां वर एको वृद्धनैमित्तिक उवाच-"ज्ञानिना पुरा कथितेयं पाटला न सामान्या । अन्निकापुत्रचरित्रम् तथाहि-दक्षिणोत्तरे समानसौन्दर्यगुणे युग्मजे भगिन्याविव द्वे मथुरे नगर्यो स्तः । तत्रोत्तरमथुरायां देवदत्ताभिधो वणिक्पुत्रो दक्षिणस्यां मथुरायां दिग्यात्रार्थं जगाम । तस्य वणिक्पुत्रजयसिंहेन मैत्री बभूव । तौ परस्परं रहस्यैकनिधानतां प्रापतुः । जयसिंहस्य भगिनी अनिकानाम्नी कुमारी रूपसम्पदा भूगता स्वर्गाङ्गनेव बभूव । अन्यदा जयसिंहोऽन्निकां स्वभगिनीं समादिदेश-हे भगिनि ! अद्य समित्रोऽहं भोक्ष्ये, ततो दिव्यां रसवती सम्पादय । इत्युक्त्वा जयसिंहेन देवदत्तसुहृन्निमन्त्रितः तद्गृहे भोक्तुमागमत् । ततो द्वावपि निषेदतुः। ततोऽनिका सुवेषधरा द्वयोरप्यष्टादश भक्ष्यभेदान् षड्रसास्वादसुन्दरान् परिवेषयामास । तौ पवनेन प्रीणयितुं मक्षिका दूरीकर्तुं च व्यजनं धुन्वती व्यर्थकारि कर्म चक्रे । ततो देवदत्तो व्यजनं दोलयन्तीं चन्द्रमुखीं तां पश्यन् कामवशोऽभूत् । स लावण्यजलदीर्घिकां तां बालां पश्यंस्तथा रिरंसुभॊज्यास्वादं नाऽज्ञासीत् । तस्य दृष्टिस्तस्यामापादतलमस्तकमारोहावरोही लतायां वानरीव चकार । अस्यां नयनमित्रताप्रत्यूहो मा भूदिति विज्ञः स स्थिरोऽपि गजेन्द्रलीलया स्थिरतरं बुभुजे । भोजनं कृत्वा स तां स्मरन् स्वस्थानं ययौ । देवदत्तोऽपि द्वितीयदिनेऽन्निकां याचितुं जयसिंहसमीपे सेवकान् प्रेषयामास । ते गत्वोचुः-"अमूमन्निकां यस्मै कस्मैचिद् यदि दास्यसि तहि देवदत्ताय देहि । यादृशोऽस्त्येष इति त्वं जानासि । स उवाच-"अयं कुलीन: कलाज्ञ: सुधीश्च युवा चाऽस्ति । कि बहूक्तेन ? इह सर्वे वरगुणाः सन्ति । किन्त्वहं तस्मै स्वभगिनीं दास्यामि यो मद्गृहात् क्वचिद् न गमिष्यति । अत्र स्थितं तमात्मवद् द्रक्ष्यामि । किन्तु सम्भाव्यते यदयं सुन्दरोऽप्यद्य श्वो वा यास्यति, 'विदेशस्थः प्रायेण गमिष्यतीति भवन्तः किं न शुश्रुवुः'। ममेयं भगिनी प्राणप्रिया लक्ष्मीरिव मद्गृहे वर्तते । तस्मादिमां विवोढुरपि गृहे न प्रेषयिष्यामि । यदि देवदत्तोऽपत्यजन्मपर्यन्तमेवं कर्तुं समर्थस्तदेमां मेऽन्निकां भगिनीं परिणेतुमर्हतु । ते देवदत्तानुज्ञया ओमिति स्वीचक्रुः । देवदत्तोऽपि शुभदिने तां कन्यां परिणिन्ये। एकदा तत्राऽनिकाप्रेमरज्जुबद्धस्य तिष्ठतस्तस्य समीपे तदीयपितृभ्यामुदग्मथुरास्थाभ्यामीदृशो लेख: प्रेषयाञ्चक्रे- "हे आयुष्मन् ! नेत्रहीनौ चतुरिन्द्रियतां गतौ जराजर्जरसर्वाङ्गावासन्नयमशासनौ आवां यदि जीवन्तौ दिदृक्षसे तहरैहि रुदतोरावयोनॆत्रे शीतलीकुरु च। स Page #67 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - षष्ठः सर्गः १२१ mnannnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn १२० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्नेहसागरचन्द्रं तं लेखमवाचयत् । निरन्तरक्षरन्नेत्रजलेनाऽऽसिञ्चदचिन्तयच्च-'मां धिग्धिक्, पितरौ मे विस्मृतौ, अहं विषयमग्नोऽस्मि । पुनर्मम पित्रोरीदृशी दशाऽस्ति ? अहं किं करोमि, कथं यामि ? मम पत्न्यपत्यदृश्वरी न । निजवाक्पाशबद्धस्य मे का गतिर्भविष्यति ? तदुःखदुःखिताऽनिकाऽपि भवन्ती तन्नयनप्रमार्जनेन स्ववस्त्रं क्लेदयन्ती सद्य एवं जगाद-"केन प्रहितोऽयं लेखस्त्वन्नेत्रचन्द्रकान्तयोर्दुरिं जलं द्रावयंश्चान्द्रीं कलां कलयति । तव निष्कलापं मुखं गगनेन्दुवद् दृष्ट्वाऽश्रुपूरोऽयं दुःखजो न तु हर्षज इत्यहं निश्चिनोमि । ततः स्वकीयदुःखनिवेदनेन मामपि तत् सम्भावय । भवद्दुःखविभागधुरीणता ममाऽप्यस्तु । परं चाऽनिकापतिर्दुःखी सन् किमप्युत्तरं न ददौ, अपि तु तं लेखं स्वनेत्रजलैः स्नपयन्नेव तस्थौ। अन्निकाऽपि तं लेखमादाय स्वयमवाचयत् । तदुःखकारणं सद्योऽज्ञासीत्, न्यगदच्च-“हे आर्यपुत्र ! सर्वथा दुःखं मा कार्षीः, शीघ्रमहं भ्रातरं बोधयिष्यामि त्वदीप्सितं कारयिष्ये च ।। सा नितरां कुपितेव स्वभ्रातरं गत्वोवाच-“हे भ्रातविवेकिन् ! इदं त्वया किमकारि ? तव भगिनीपतिः स्वकुटुम्बवियोगेन क्लिश्यते । अहमपि श्वश्रू-श्वशुरपादानां दर्शनायोत्कण्ठिताऽस्मि । तस्मात् त्वं मत्पत्तिं स्वस्थानं गन्तुमादिश । अहमपि तमनुगमिष्यामि; यतो मे प्राणास्त्वदधीनाः सन्ति । अयं वाग्बद्धः स्थास्यत्येव, अहं तु श्वशुरौ प्रणन्तुमेकाकिन्यपि यास्यामि । तदनेन किं कार्यम्," इत्याग्रहपूर्वकं मुहुर्मुहुरुक्तो जयसिंहो देवदत्तमुत्तरमथुरां प्रति प्रयातुमन्वमन्यत । तत: स वणिक्पुत्रस्तस्या नगर्या निर्ययौ । अन्निकाऽपि तं रात्रिश्चन्द्रमिवाऽन्वगच्छत् । तदाऽन्निकाऽतिनिकटप्रसवा गुर्वी बभूव, इति सा मार्गे एव सुलक्षणं पुत्रमसूत । अस्य सुतस्य नाम स्थविरौ पितरौ करिष्यत इति तौ दम्पती स्वमनीषया नैव चक्रुः । तदनुगामी परिजनस्तं बालं मुदा लालयन्नन्निकापुत्र इति पथि समुल्लापनेन जगौ। अथाऽनिकापतिरुत्तरां मथुरां जगाम, तौ पितरौ ववन्दे च । ताभ्यां मूनि सोऽचुम्बि च । मम देशान्तरोपार्जनेयमुपादीयतामिति कथ्यमानः स हृष्टयोः पित्रोर्बालकं समर्पयामास । इयं वधूर्युष्माकम्, अयं च मत्पुत्रो वधूकुक्षिजातः" इति भक्तिबन्धुरया वाचा सम्बन्धं न्यवेदयत् । तस्य पुत्रस्य नाम पितरौ सन्धीरणेति चक्रतुः, अन्निकापुत्र इति तु लोकनाम्ना स प्रसिद्धोऽभूत् । कुटुम्बेन लाल्यमानो वर्धमानोऽनिकापुत्रश्चतुर्वर्गार्जनसुखं मध्यमं वयः प्राप । धीधनः स यौवनेऽपि तृणमिव भोगानपास्य जयसिंहाचार्यपाधै परिव्रज्यामग्रहीत् । स व्रतिवरः खड्गधारातीक्ष्णव्रतेन निजान् दारुणकर्मकण्टकान् दारयामास । सोऽतितीव्रेण तपोवह्निना कर्ममहामलं दग्ध्वा वह्निशौचांशुकमिवाऽऽत्मानमशोधयत् । क्रमेण परिणतचारित्र-ज्ञानदर्शन: स स्वगच्छकमलसूर्य आचार्यवर्यधुर्योऽभूत् । स मुनिर्वृद्धत्वे सपरिवारो विहरन् गङ्गातीरालङ्कारं पुष्पभद्रनाम पुरं ययौ । तत्र पुरे पुष्पकेतुनामा राजाऽभूत् । तस्य पत्नी पुष्पवती नाम्नी कामस्य रतिरिव बभूव । पुष्पवत्या युग्मजी Page #68 -------------------------------------------------------------------------- ________________ १२२ त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः पुत्रः पुत्री चाऽभूताम् । तयोर्नाम पुष्पचूलः पुष्पचूला चेत्यभूत् । सहैव वर्धमानौ सहैव क्रीडन्तौ तौ परस्परं प्रीतिमन्तौ बभूवतुः । राजा दध्यौ - " यद्येतौ बालौ मिथः स्नेहलौ वियुज्येयातां तर्हि नूनं मनागपि न जीवेताम् । अहमप्यनयोर्वियोगं सोढुमशक्तोऽस्मि । तस्मादनयोर्विवाहमङ्गलमुचितम् " ॥ अथ राजा मित्राणि मन्त्रिणः पौरांश्च पप्रच्छ - "अन्तःपुरे यद् रत्नमुत्पन्नं तस्येश्वरः को भवितुमर्हति ?" ते जगदुः - "देशमध्येऽपि यद् रत्नमुत्पद्यते तस्येश्वरो राजा भवति, अन्तःपुर उत्पन्नस्य तस्य का कथा ? स्वदेशे यद् यद् रत्नमुत्पद्यते तद् तद् राजा विनियुञ्जीत । तस्य को बाधकोऽस्तु" । नृपो भावानभिज्ञानां तेषां वचनमालम्ब्य तयोः स्वबालयोः सम्बन्धं चक्रे । तस्य राज्ञी पुष्पवतीनाम्नी श्राविकाऽभूत् । तया तथा कुर्वन् स वार्यमाणोऽपि तामपि न गणयामास । ततः पुष्पचूलः पुष्पचूला च दम्पती नितान्तमनुरागिणौ गृहिधर्मं सिषेवाते । क्रमेण पुष्पकेतौ राज्ञि मृते सति विमलगुणै राजमानः पुष्पचूलो राजाऽभूत् । तदा तदकार्यं निवारयन्ती पुष्पवती राज्ञी पत्याऽपमानिता सती विरक्ता व्रतमग्रहीत् । सा व्रतप्रभावाद् देवोऽभूत् । यतः प्रव्रज्या यदि मोक्षाय न भवति स्वर्गाय भवत्येवेत्यत्र सन्देहो नाऽस्ति । स देवोऽवधिनाऽकृत्यविनियोजितां तां स्वकन्यामद्राक्षीत् । तत्स्नेहादित्यचिन्तयत्-“इयं कन्या मम पूर्वजन्मनि प्राणप्रिया दुहिताऽभूत्, तस्मात् तथाऽहं करवै यथेयं घोरनरके न पतेत्" । स देवः तस्याः स्वप्नमध्ये नरकावासदारुणांश्छेदभेदादिदुःखपीडितसंरटन्नारकिकाकुलान् पातकेनाऽन्धकारापदेशतः संरुद्धानिव दुर्दशान् सर्वान् नरकानदर्शयत् । श्येनमुक्ता वर्तिकेव, दवनिर्गता हरिणीव, परपुरुष परिशिष्टपर्व षष्ठः सर्गः करस्पर्शपलायिता सतीव, आयाततपोऽतिचारविधुरीकृता सुसाध्वीव, दृष्टनरका सा भयेन प्रबुद्धाऽप्यकम्पत । सा नरकदर्शनाद् नरकं गतेव बिभ्यती सर्वं तं स्वप्नं पत्यग्रेऽकथयत् । पुष्पचूलोऽपि पुष्पचूलाया: क्षेमेच्छुः शान्तिः शान्तिकं कर्म सम्यक् कारयामास । सः पुष्पवतीजीवस्तत्कल्याणकामनया प्रतिरात्रि तादृशानेव नरकानदर्शयत् । १२३ अथ राजा सर्वान् पाखण्डिन आह्वयत्, अपृच्छच्च- "नरका: कीदृशा इति यूयं कथयत” । तेऽल्पमतयो गर्भवासो, गुप्तिवासो, दारिद्यं, पराधीनता, एते साक्षाद् नरका इत्यकथयन् । सा दुर्गन्धमाघ्रायेव मुखमोटनं कुर्वाणा स्वस्वप्नविरुद्धवादिनस्तानत्यजत् । ततो राजाऽन्निकापुत्रमाहूयाऽपृच्छत् नरकान् । स यथा तया दृष्टास्तथैव कथयामास । राज्ञ्युवाच- 'भगवन् ! भवद्भिरपि किं मयेव स्वप्नो दृष्टः ? अन्यथा कथमित्थं जानीथ । ततः सूरिरुवाच - "हे भद्रे ! स्वप्नदर्शनं विनाऽपि तद् नाऽस्ति यज्जिनागमाद् न ज्ञायेत" । पुष्पचूलाऽपि पप्रच्छ- "भगवन् ! प्राणिनः केन कर्मणेदृग्घोरान् नरकान् प्राप्नुवन्ति । अन्निकापुत्र उवाच-महारम्भपरिग्रहैर्गुरुद्रोहात् पञ्चेन्द्रियादिवधाद् मांसाहाराच्च प्राणिनः पापं कृत्वा एषु नरकेषु यान्ति, तत्र दुःखान्यनुभवन्ति च । ततस्तस्या जननीजीवदेवस्तत्प्रभृति स्वप्ने नरकानिव प्रचुरसौख्यान् स्वर्गान् दर्शयामास । प्रबुद्धा सा स्वप्नदर्शनं पतिं प्रति निवेदयामास । अथ राजा पाखण्डिनोऽपृच्छद् - ब्रूथ किं स्वर्गलक्षणम् ? तेष्वेकः कश्चिदुवाच-“स्वर्गस्वरूपं प्रियसङ्गमः” । अन्ये तु Page #69 -------------------------------------------------------------------------- ________________ १२४ परिशिष्टपर्व - षष्ठः सर्गः १२५ Anamnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnine mnnnnnnnnnnnnnnnnnnnar त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कथयामासुः-"यद्यत् सुखकारणं स स्वर्ग इति" । एवं पाखण्डिकथितं स्वर्गस्वरूपं पुष्पचूलिका नाऽमन्यत, यतः सा स्वप्नदृष्टस्वर्गस्वरूपाऽभूत् । ततो राज्ञा पृष्टोऽनिकापुत्रो देवस्थितिमुवाच"मनश्चिन्तितकार्याणि सिध्यन्त्येव, आरामाः कल्पवृक्षभूषिताः, वाप्यः स्वर्गपङ्कजशोभिताः, देव्यश्चित्तानुवर्तिन्यो रूपवत्य: कलाविज्ञाः, यथादिष्टकारिण आभियोगिका देवाः । तथेच्छामात्रेण मनोहरसङ्गीतनाटकाभिनयोत्सवाः । शाश्वतविमानानि च सुन्दररत्नगृहाणि । देवाश्च सदा सर्वशक्तिधारिणः । इत्थं व्यन्तरपुरादारभ्याऽऽनुत्तरविमानपर्यन्तस्थानां देवानां सुखानि न वर्णयितुं शक्यानि । ___ तच्छ्रुत्वा पुष्पचूलोवाच-"यूयं यदीदृशं जानीध्वे, तत् किं सर्वे स्वर्गाः स्वप्ने ददृशिरे भवद्भिः ?" मुनिरुवाच-"कल्याणि ! जिनागमामृतपानप्रभावाद् वयं स्वर्गसुखानि ज्ञेयान्तराणि च विद्मः"। तच्छ्रुत्वा राज्ञी 'जैनं वचनं प्रमाणमिति निश्चित्य पुनर्मुनि पप्रच्छ"भगवन् ! केन कर्मणा स्वर्गः प्राप्यते ?" सूरिरुवाच-"भद्रे ! यस्य संसारिणोऽर्हति देवे गुरौ साधौ च श्रद्धातिशय: तस्य स्वर्गप्राप्तिरत्यन्तं सुलभा" । पुनर्मुनिना चारित्रधर्मे कथिते सति सा राज्ञी लघुकर्मत्वाद् भवोद्विग्नैवमुवाच-"भगवन् ! स्वपति पृष्ट्वा तवैव पादमूले नरदेहतरुफलं व्रतं ग्रहीष्यामि" इत्युक्त्वा तमृर्षि नत्वा विसृज्य च राजानमापृच्छत् । राजाऽपीदमुवाच-"वरवणिनि ! त्वां व्रतार्थं तदाऽनुमन्ये, यदि व्रतं गृहीत्वा मद्गृह एव भिक्षामादत्से" । तथेति स्वीकृत्य स्त्रीचूडामणिर्महाशया सा पुष्पचूला याचकेभ्यः कल्पलतेव दानं ददती राज्ञा कृतनिष्क्रमणोत्सवाऽन्निकापुत्रपादान्ते दीक्षामग्रहीत् । गुर्वाज्ञावशंवदा च सा सर्वां शिक्षामग्रहीत् । यतः शुद्धात्मनामपि तपः सामाचारीप्रधानं भवति । अन्यदाऽन्निकापुत्रो भविष्यदुर्भिक्षं ज्ञात्वा गच्छं देशान्तरे प्रेषयत् । यतः स एव देशो यत्र जीविका लभ्यते । गच्छोऽपि द्वादशाब्दकमशिवं भावीति शास्त्राद् गुरूपदेशाच्च ज्ञात्वाऽन्यत्राऽगमत् । सूरयश्च जड्याबलस्य परिक्षीणत्वात् परिवारं विनाऽपि तत्रैवाऽङ्गीकृतपरीषहा अस्थुः । पुष्पचूला च प्रतिदिनं भक्त-पानादिकमन्त:पुरादानीय पित्रे पुत्रीव गुरवे भक्त्या ददौ । अन्येधुरनन्यमनसः सदा संसारनि:सारतां भावयन्त्यास्तस्याः पुष्पचूलाया अपूर्वकरणक्रमाद् गुरुशुश्रूषाप्रभावाद् मुक्तिसम्पत्तिनिदानं केवलं समुदपद्यत । एवं सत्यपि सा विशेषतो गुरोर्वैयावृत्त्यं चकारैव । उक्तश्चाऽयमर्थ आगमे"यः पुरा यस्य कृत्यं प्रयुञ्जानोऽभूत्, स केवल्यपि तस्य तत्कृत्यं प्रयुञ्जीत, यावत् स न ज्ञातो भवति" । किं च पुष्पचूला सूरिचिन्तितं सर्वं केवलज्ञानसम्पदा विज्ञाय समपादयत् । तेन च जातविस्मयः सूरिस्तामपृच्छत्-"वत्से ! त्वं ममाऽभिप्रायं कथं जानासि, यद् मच्चिन्तितं सर्वं सम्पादयसि ?" पुष्पचूलोवाच-"भवदीयप्रकृतिमहं जाने, यतो यो यस्य समीपे तिष्ठति स तस्य प्रकृति जानाति" । अन्यदा साऽऽर्यिका मेधे वर्षत्यपि पिण्डमानैषीत् । तत: सूरिः पप्रच्छ-"त्वं श्रुतज्ञाऽसि, तर्हि वृष्टौ किमिदमुचितमस्ति ?" सोवाच-“यत्र मार्गेऽचित्त एवाऽप्कायोऽभूत्, तेनैवाऽहमगमम् । तस्मादत्र विषये मम कृते प्रायश्चित्तप्राप्तिर्नाऽस्ति" । ततः सूरिणा 'अचित्ताप्कायं मार्ग त्वं कथं वेत्सी'ति पृष्टा पुष्पचूलोवाच- भगवन् ! केवलमुत्पन्नमस्ति । Page #70 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - षष्ठः सर्गः १२७ १२६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ "मिथ्या मे दुष्कृतम्" । "आशातितः केवली"ति वदन्नाचार्योऽचिन्तयत्-"अहं सेत्स्यामि न वा ?" केवल्यूचे"मुनिवरा: ! यूयं माऽधृति कृषीढ्वं, युष्माकं गङ्गानदीमुत्तरतां केवलं भविष्यति" । तत: सूरयो लोकेन सह गङ्गानदीमुत्तरीतुं नावमारुरुहुः, यत: के नरः स्वार्थं त्यजन्ति ? स आचार्यो नाव: यत्र यत्र प्रदेशे उपविवेश, नाव: स स प्रदेशो मक्तुमारेभे, तस्मिन्नाचार्यवरे नौमध्यमध्यासिते च नौका लौहवज्जले समन्ताद् मङ्क्तुमारेभे । तत: स सूरिर्लोकेन गङ्गाजले न्यक्षेपि । ___ ततश्च तं प्रवचनप्रत्यनीकामरी शूले न्यधात् । गङ्गामध्ये शूलप्रोतोऽपि च स सूरिरेवमचिन्तयत्-"अहो ! मम शरीरमनेक प्राण्युपद्रवनिमित्तं जातम्" । तदेवमप्कायादिदयासारं भृशं भावयन् स सूरिः क्षपकश्रेणिमारूढोऽन्तकृत् केवली बभूव । चतुर्थशुक्लध्यानस्थितश्च सद्यो मोक्षमाप । ततश्च तत्समीपस्था देवास्तस्य निर्वाणमहोत्सवमकार्षुः । देवैश्च तत्र तन्निर्वाणमहो व्यधायीति तत् तीर्थं त्रिभुवने "प्रयाग" इति नाम्ना पप्रथे । अथाऽन्निकापुत्रस्य मुण्डं मकरादिजलजन्तुभिस्त्रोटयमानं जलतरङ्गैर्नदीतटमानीयत । शुक्तिकेवेतस्ततो लुठत्तन्मुण्डं क्वाऽपि गुप्ते विषमप्रदेशे विलग्य तस्थौ । तन्मुण्डमध्ये च कदाचित् केनचिद् दैवयोगेन पाटलाबीजं न्यपतत् । कालक्रमाच्च तस्य दक्षिणचिबुकात् कर्परं भिन्दन् पाटलावृक्ष उदपद्यत । क्रमादयं विशालोऽभूत् । महामुनिमुण्डकपरेऽयमुत्पन्नः, मूलजीवश्चाऽस्यैकावतार इति विशेषतः पवित्रोऽयं पाटलावृक्षः, तस्मादत्राऽस्य वृक्षस्य प्रभावमाश्रित्य चाषनिमित्तं च दृष्ट्वा नगरं निवेश्यतामिति नृपः समादिशत् । तदा सर्वनैमित्तिकाज्ञया एको नैमित्तिक उवाच-"पुरनिवेशने उपक्रान्ते यत्रेयं शिवा रौति तदवधिसूत्रं दातव्यम्" । 'यूयं प्रमाणमि'त्युक्तवान् नृपः तान् नैमित्तिकान् नगरनिवेशे सूत्रपातार्थमादिशत् । ततश्च ते नैमित्तिका: पाटलावृक्षं पूर्वतः कृत्वा ततः पश्चिमां, तत उत्तरां, ततः पुन: पूर्वां, ततः शिवाशब्दावधि दक्षिणां गत्वा सूत्रमपातयन् । ततश्च तदा नगरस्य चतुरस्रः सन्निवेशोऽभूत् । पाटलिपुत्रवृत्तान्तः तत्राङ्किते भूप्रदेशे राजा नगरमरचयत् । तत् पाटलावृक्षनाम्ना पाटलिपुत्रनामकमभूत् । राजा तस्य पुरस्य मध्ये शाश्वतायतनतुल्यं श्रेष्ठं जिनमन्दिरमकारयत् । शुभदिने च महोत्सवपूर्वकं हस्त्यश्वशालाबहुलं राजप्रासादसुन्दरं विशालशालमुद्दामगोपुरहादिबन्धुरं पण्यसत्रपौषधादिशालाभूषितं तद् नगरमलञ्चक्रे । तत्र लक्ष्म्योदयभागुदायी राजा स्वं विक्रममखण्डं कुर्वाण इव जैनं धर्मं वितन्वन् राज्यमकरोत् । तस्य हृदये देवोऽर्हन्, गुरुः साधुः, धर्मश्चाऽऽर्हत इति देवतत्त्वं गुरुतत्त्वं धर्मतत्वं चाऽभूत् । महाशयः स चतुष्पा चतुर्थादितपसाऽऽत्मानं पवित्रीकुर्वन् पौषधशालायां पौषधमग्रहीत् । तथा धर्माबाधेन क्षात्रं तेजः प्रभावयन् चतुर्थोपायेन प्रतिपक्षनृपतीन् स्वसेवकानकार्षीत् । अथ ते सर्वे राजानोऽत्यन्तमाक्रान्ता अहरहरेवमचिन्तयन्अयमुदायी यावज्जीवति, तावदस्माकं राज्यसुखं न भविष्यति । इतश्चैकदा कस्यचित् राज्ञोऽपराधे जाते महाप्रतापिनोदायिना तस्य राज्यमुदच्छेदि । स च राजा छिन्नराज्यो नश्यन्नेव विपेदे । तत्पुत्रश्चैक: इतस्ततः परिभ्रमन्नुज्जयिनीं ययौ । Page #71 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धार: तत्र गतश्च सोऽवन्तीनरेशमसेवत् । अवन्तीपतिरपि उदायिनो नित्यमसहनोऽभूत् । सेवकः स राजपुत्रस्तमवन्तीपतिमुवाच - "देव ! अहमुदायिनं तवाऽऽज्ञया साधयिष्यामि । त्वया ममाऽव्यभिचारिणा सहायकेन भाव्यम् । यतः को निजप्राणांस्तृणीकृत्य व्यर्थं साहसं कुर्यात्”, तथेति स्वीकृतवत्यवन्तीनाथे स राजपुत्रः पाटलिपुत्रमुपेत्योदायिनः सेवकोऽभूत् । स दुरात्मा नित्यं पश्यन्नपि उदायिनृपस्य छिद्रं मान्त्रिकं व्यन्तर इव न प्राप । स परमार्हतस्योदायिनो गृहे सदाऽस्खलद्गमनान् जैनमुनीनेव ददर्श । १२८ अथ स उदायिनो राजकुले प्रवेशमाकाङ्क्षन् एकस्य सूरे: सन्निधौ परिव्रज्यामग्रहीत् । सकपटं चाऽनतीचारं व्रतं पालयन् मुनींस्तथाऽऽराधयाञ्चक्रे यथा ते मुनयस्तन्मयतां प्रापुः । तस्य दम्भप्रधानं श्रामण्यं नाऽलक्षि । यतः सुप्रयुक्तस्य कपटस्याऽऽन्तं ब्रह्माऽपि न गच्छति । अथोदायी प्रत्यष्टमी - चतुर्दश्यां पौषधं गृह्णाति स्म । सूरयश्च तत्समीपे धर्मकथार्थं निवसन्ति स्म। एकदा पौषधदिवसे विकाले सूरयो राजकुलं प्रतिचेलुः । स कपटश्रमणश्चाऽपि प्राप्तविश्वासानां सूरीणामाज्ञया तदुपकरणानि गृहीत्वा भक्तिनाटितकं कुर्वन् छलं मनसि सन्धाय सह चलितवान् । उदायिनं जिघांसुश्च चिरगोपितां कङ्कमय कर्त्तरिकां गृहीत्वा प्रच्छन्नं धारयामास । चिरप्रव्रजितस्याऽस्य शमः परिपक्वो भवेदिति विश्वस्तः सूरिस्तेनैव सह राजकुलं ययौ । तत्र राजकुले च सूरिर्धर्मं व्याख्यायाऽस्वपत् । राजाऽपि स्वाध्यायखिन्नो महीतलं प्रतिलिख्याऽस्वपत् । स पुनर्दुरात्मा परिशिष्टपर्व षष्ठः सर्गः १२९ मायाश्रमणः जाग्रदेव तस्थौ । यतो रौद्रध्यानवतां नृणां भीतेव निद्रा नाऽऽगच्छति। प्राप्तावसरश्च स कपटसाधुः सुप्तस्य राज्ञो गलकन्दले लोहमयीं यमजिह्वासमां तां कर्त्तरिकां निचिक्षेप । तया च कर्त्तरिकया कदलीकाण्डकोमलो राज्ञः कण्ठोऽकर्त्ति । ततो घटकण्ठाज्जलमिव रक्तं निर्ययौ । स च पापीयान् कायचिन्ताच्छलेन तदैव ततो निर्जगाम । यामिकैरपि यतिरिति न जल्पितः । इतश्च राज्ञस्तेन शोणितेन सिक्ताः प्रबुद्धाः सूरयोऽपि निर्नालकमलमिव कृत्तं राजमूर्धानमद्राक्षुः । तच्च कपट श्रमणम पश्यन्निदमचिन्तयन्–“तस्यैव कपटव्रतिन इदं कर्म भवेत्, यतोऽत्र सम्प्रति स न दृश्यते । रे दुष्ट ! किमकार्यमकार्षीः ? यदयं धर्माधारो नृपतिस्त्वया निहतः अथ च प्रवचनस्याऽपि मालिन्यमधाः । यस्मादयं दुष्टो मया दीक्षितः स्वेन सहाऽऽनीतस्तस्माद् मत्कृतं प्रवचनमालिन्यमागमत् । तस्मादहं दर्शनम्लानिं स्वघाताद् अपनुदामि । राजा गुरुश्च केनाऽपि हताविति लोकवाग् लोके प्रथताम् " । तदेवं निश्चित्य सूरिर्भवचरमप्रत्याख्यानं कृत्वा तां कर्त्तरिकां कण्ठे न्यस्य पञ्चत्वमगमत् । अथ प्रातःकालेऽन्तः पुरशय्यापालिकास्तत्राऽऽगता: तदमङ्गलं दृष्ट्वा वक्षस्ताडयन्त्यः पूच्चक्रुः । तदा सर्वो राजपुरुषादिर्मिलितोऽचिन्तयत्-“राजा गुरुश्च क्षुल्लकेन निहतावत्र न सन्देहः । हन्ताऽन्यो यदि, तर्हि स क्षुल्लक एव प्रथमं कथयेत् ? अत एव महासाहसं कृत्वा स पलायाञ्चक्रे । वैरी वा वैरिपुत्रो वा वैरिणा प्रेषितो वा कोऽपि कपटव्रतीभूय विश्वस्तं राजानमवधीत् । सूरिर्नृपस्य पिता इव, राजाऽपि सूरेः पुत्र इवाऽऽसीदिति सूरिणा स Page #72 -------------------------------------------------------------------------- ________________ १३० परिशिष्टपर्व - षष्ठः सर्गः १३१ mnnnnnnnnnnnnnnnnnnnar त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः धर्तुं वारयितुं वा प्रचक्रमे, अत एव तप:क्षामशरीरः सूरिर्दुरात्मना तेन तथा कुर्वन् भूतले नृप इव निपातितः । विनयच्छलेन स सूरिरपि तेनाऽवञ्चि । तत एव स सूरिस्तस्मै दुष्टाय दीक्षां ददौ । यतो धूतैः को न वञ्च्यते ? केऽपि नृपभटा: निशि नष्टं तं न प्रापुः । यत:-'य: क्रमेणाऽपि त्यक्तः स क्रमशतेनाऽपि त्यक्तः' । तदनन्तरं प्रधानपुरुषा अश्रूणि मुञ्चन्तो राज-सूर्योः शरीरसंस्कार चक्रुः। इतश्च स दुष्ट उदायिघातक उज्जयिनी पुरीं प्राप्तवान् । यथा चोदायिनृपतिर्हतस्तथैव राजे न्यवेदयच्च । तच्छ्रुत्वाऽवन्तीपतिरुवाच-"रे पाप ! यस्त्वमियता कालेन परिव्रज्यां गृहीत्वाऽपि मुनिनिकटे स्थित्वाऽपि अहर्निशं धर्मोपदेशान् श्रुत्वाऽपि दुष्टधीरीदृशं कर्माऽकार्षीः ? स त्वं मे हितः कथं भवेः ? त्वमद्रष्टव्यमुखोऽसि, शीघ्रमितोऽपसर" इत्येवं राजा तं बहु निर्भय॑ स्वनगराद् निरवासयत् । तत्प्रभृत्येवाऽभव्यशिरोमणिः स जगत्युदायिमारक इति ख्यातोऽभूत् । नन्दस्य राज्याभिषेकः अथ तस्मिन्नेव नगरे एकस्य नापितस्य वेश्याकुक्षिजातो नन्दाभिधानः पुत्रोऽजनि । स नापितकुमारः प्रात: स्वप्ने स्वैरन्त्रैः परिवेष्टितं पाटलिपुत्रं ददर्श । तद् दृष्ट्वा प्रबुद्धः स नन्द उपाध्याय तं स्वप्नं पप्रच्छ । तद्विज्ञः उपाध्यायोऽपि तं स्वगृहे निनाय । स प्रसन्नो नन्दं भूषणादिभिर्भूषयामास । स्वकन्यां तेन परिणाययाञ्चकार च । उपाध्यायो नवीनं जामातरं तं नन्दं शिबिकायामधिरोप्य पुरे परिभ्रमयितुमारेभे । अत्राऽन्तरे मन्त्रिभि"रुदायी पुत्रगोत्रहीन: परलोकमगादि"ति तत्स्थाने को राजा भवेदिति परीक्षणार्थम् पञ्चदिव्यानि अभिषिक्तानि । एक: पट्टहस्ती, द्वितीयः प्रधानाश्वस्तृतीयं छत्रं, चतुर्थः कुम्भः, पञ्चमं चामरद्वयमिमानि पञ्चरत्नानि दिव्यानि अखिले राजकुले भ्रेमुः । ततस्तानि दिव्यानि राजकुलाद् बहिर्जग्मुः । तैश्च शिबिकास्थोऽसौ नन्दोऽदर्शि । तदा शारदमेघवद् गर्जितः पट्टहस्ती शुण्डमुत्थाप्य पूर्णकुम्भेन नन्दं सद्योऽभ्यषिञ्चत् । तमुत्थाप्य च सद्यः स्वस्कन्धेऽध्यरोपयत् । अश्वो हर्षाद् मङ्गलं प्रस्तुवन्निवाऽहेषत। छत्रं च प्रभाते कमलमिव सद्यो विकसितमभूत् । स्फुरायमाणौ चामरौ नृत्यन्ताविवाऽलुठताम् । ततः प्रधानपुरुषैः पौरैः जनपदेन च नन्दस्याऽभिषेकमहोत्सवः सानन्दं चक्रे । वर्धमानस्वामिनिर्वाणदिनात् षष्टिवत्सर्यां व्यतीतायां नन्दो राजाऽभूत् ।। ततः केचित् सामन्ता गन्धितबुद्धयो "असौ नन्दो नापितपुत्र" इति हेतोस्तं न नेमुः । नन्दोऽपि तेषां मनोभावं परीक्षितुमप्रकटितस्वाभिप्राय: सन् राजसभातो बहिभरि शालाया हस्तीव निर्ययौ । माता धात्री बालभृद् वा बालेन सहाऽपि गच्छत्येव, नन्देन समं तु कोऽपि नाऽगात् । ते सामन्ताः यथावस्थितमेव तस्थुः । पुना राजसभायामागत्य सिंहासने समुपविश्य च नन्दः स्वारक्षकान् जगाद-“हे आरक्षकाः ! युष्माभिरमी निहन्यन्तामि"ति । किन्तु ते आरक्षका अपि परस्परं चक्षुरेव ददृशुः, भूताविष्टस्याऽवलोकनादिव सोपेक्षं स्मितं नाटयामासुश्च । नन्दश्च आरक्षकानपि तत्सम्बन्धिनो विज्ञाय सभाद्वारद्वा:स्थौ पुत्तलको शीघ्रं ददर्श । कयाचिद् नन्दपुण्याकृष्टदेव्याऽधिष्ठितौ तौ Page #73 -------------------------------------------------------------------------- ________________ १३२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लेप्यमयावपि प्रतीहारिकावाकृष्टखड्गौ दधावतुः । ताभ्यां दुविनीतास्ते केचन सामन्ता निजघ्निरे । केऽप्यनाश्यन्त । तदनन्तरं नन्दोऽप्रतिहतशासनो बभूव । यदुक्तं-प्राय: श्लाध्येऽपि वंशे क्लीबं जन्म भवति । अत: पुण्यं पराक्रमश्च प्रमाणं, न कुलीनता ॥ ६ ॥ इति परिशिष्टपर्वणि यशोभद्रस्वर्गगमन-भद्रबाहुअन्निकापुत्रवृत्तान्त-पाटलीपुत्रप्रवेश-उदायिनृपमारक नन्दराज्यलाभवर्णनात्मकः षष्ठः सर्गः ॥६॥ सप्तमः सर्गः कल्पकवृतान्तः अथ तस्मिन्नेव नन्दनृपपालिते पाटलिपुत्रपुरे बहिर्भूमावेकः कपिलनामा ब्राह्मणो न्यवसत् । एकदा तद्गृहप्रान्ते संसारगजसिंहः कश्चिदाचार्यः सपरिवार आययौ । तदा समस्तगगनोल्लङ्घनखेदादिव सूर्यः पश्चिमसागरतरङ्गजलहस्तितामगमत् । ततश्च पश्चिमदिक् नवविकसितदाडिमीपुष्पवर्णवैभवमनोहरैः सायंमेघैः परिहितकोसुम्भवस्त्रेवाऽलक्षि । स्थाने स्थाने गृहाट्टदीपसमूहैर्भूमिराकाशस्पर्धया तारकितेवाऽभूत् । पक्षिणो विष्वगालोकजनकं सूर्यं 'कदा पुनर्द्रक्ष्यामी'ति कोलाहलव्याजादूचुरिव । अस्तं गतेन रविणा स्वतेजो वह्नौ न्यस्तमिति मन्ये । कथमन्यथा सूर्यास्तमनानन्तरं वह्निरतिप्रकाशशीलो भवेत् ? अञ्जनाभेन नीरन्ध्रेणाऽन्धकारेण तदाऽऽकाशं पातालविवरमिवाऽभूत् । तदा रात्रौ नगरप्रवेशो दुर्लभ इति सूरयस्तस्य ब्राह्मणस्य गृहाङ्गणं स्वपादैः पवित्रयामासुः । तथा निशि तं ब्राह्मणमनुज्ञाप्य तदीययज्ञशालायां न्यवात्सुः । स कपिल "इम आचार्याः किमपि जानन्ति न वेति" विपरीतधीराचार्यसमीपं निशि ययौ । तत: सूरिर्हदयान्त:समुल्लसितश्रुतसागरतरङ्गोपमैर्वचनैस्तस्याऽग्रे धर्म दिदेश । तेन च Page #74 -------------------------------------------------------------------------- ________________ १३४ परिशिष्टपर्व - सप्तमः सर्गः १३५ Anmunnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnilnnnnnnnnnnnnnnnnnnnnnnnnnnnnnina त्रिषष्टिशलाकापुरुषचरितम्-ग माकपचरितम-गद्यात्मकसारोद्धारः प्रभावितः स कपिलस्तस्यामेव रात्रौ श्रावकोऽभूत् । अथाऽऽचार्याः स्वैरवृत्तितयाऽन्यत्र विजहुः । ___अन्यदा वर्षाकाले जैनीभूतेन तेन ब्राह्मणेनाऽनुज्ञाताः तद्गृहे केचिदाचार्याः तस्थुः । अन्येद्युः कपिलस्य ब्राह्मणस्य पुत्रमुत्पेदे । स जातमात्र एव व्यन्तरीभिराक्रान्तः । मुनिभिः कल्पमानपात्राणामधोभागे श्रद्धालुना तेन ब्राह्मणेन स पुत्रो दधे । तेषां महाप्रभावाणामृषीणां पात्रजलेनाऽभिषिक्तं बालं व्यन्तर्यः शीघ्रं मुमुचुः । तदा कपिलः श्रावको मुनिपात्रजलसिक्तस्य नीरोगस्य बालकस्य 'कल्पक' इति नाम चकार । तत्प्रभृति तद्गृहे व्यन्तरीदोषः कदाऽपि नाऽभूत् । ततश्च कपिलः पुत्रसन्तानसमृद्धोऽभूत् । क्रमयोगेन मृतपितृक: कल्पकः पुरे एकः समस्तविद्यास्थानज्ञः कीर्तिपात्रमभूत् । स गर्भश्रावकत्वेन सर्वदा सन्तोष्यधिकपरिग्रहेच्छामपि न चकार । कुलीना रूप-लावण्यवतीरपि कन्या: प्रार्थ्य दीयमाना अपि न परिणिनाय । कल्पको वटुवृतः पुरे परिभ्रमन् पौरजनानामादरणीयोऽभवत् । यतो 'विद्वान् सर्वत्र पूज्यते' । इतश्च तस्य कल्पकस्य गमना-ऽगमनमार्गे एको ब्राह्मणो न्यवसत् । तस्यैका कन्याऽजनि । अत्यन्तरूपवतीमपि तां न कोऽप्युपायंस्त । यतस्तस्या रूपलक्ष्मीर्जलोदररोगेण दूषिताऽऽसीत् । तेन हि रोगेन जलभृतदृतिप्रायं तस्या उदरमजनि । तेन सा कन्याऽपि गर्भिणीवेतस्ततश्चक्रमणेऽप्यक्षमा जाता । तादृश्यपि च सा लतेव समये पुष्पवत्यभूत् । ततश्च विषण्णा तन्माता तत्पितुः कथयामास । तच्छ्रुत्वा ब्राह्मणो भार्यामूचे-"अयमावयोर्दोषो यतः सा नोद्वाहिता" । कन्याऽप्येषत॒मत्यभूत् । अस्याः परिणेत्रभावाद् रजोधर्मे व्यर्थीभूते आवयोभ्रूणहत्यापापमुपस्थितमिति किं कुर्मः ? इमां जलोदरिणी कोऽपि न वृणुते । तस्माद् वाक्छलेन मोहयित्वा कस्मैचिदेषा कन्या दातव्या । वाक्छलेनाऽपि कल्पकं विहायाऽन्यः कोऽपि नरो न ग्राह्यः । स एकः सत्यप्रतिज्ञोऽस्ति, अतस्तदर्थमेव प्रयतामहे । ततस्तेन ब्राह्मणेन स्वगृहाग्रे एका कूपिकाऽखानि । कल्पकागमनकाले च सा कन्या तत्र न्यक्षेपि । पुनः कल्पकमागच्छन्तं दृष्ट्वा स ब्राह्मणो पूच्चकार-“यो मे पुत्री कूपिकात उद्धरिष्यति, तस्मायेव वराय कन्यामहं दास्यामी"ति । दयालुः कल्पकोऽपि तत्पितुरुत्तरां वाचमश्रुत्वैव शीघ्रमेव तां कन्यां कूपिकात आचकर्ष । ततस्तत्पितोवाच-"त्वमिमां कन्यां परिणय । यतः कूपिकात उद्धारकाय मयैषोच्चैः प्राक्कल्पिता, त्वं चैतस्याः तदनिषेधेनैवोद्धारे प्रवृत्त इति तवैतदनुमतमेव, यतो “अनिषिद्धं वस्त्वनुमतं भवती"ति न्यायो वर्तते । विद्यास्थानानां विधातेव त्वं, न्यायविज्ञशिरोमणिरसि । पुनश्च सत्यप्रतिज्ञोऽप्यसि । अतो हे भ्रातर् ! यदुचितं तत् कुरु इति । कल्पकोऽचिन्तयत्-'अनेन बुद्धिप्रभावेण छलितोऽहमस्मि, कि करोमि ?' इति । एवं बहु विचिन्त्य स्त्रियं परिणेतुमकामयमानोऽपि तामुद्वोढुं स्वीचकार । अथ कलाकलापसमुद्रागस्तिः स कल्पकः आयुर्वेदोक्तौषधैस्तां नीरुजं कृत्वा परिणिन्ये । ___अथ नन्दनृपः कल्पकं पण्डितं मतिमन्तं श्रुत्वा तमाहूय "ममाऽमात्यो भवे"ति प्रार्थयामास । कल्पको राजानमुवाच"राजन् ! ग्रामवस्त्रादधिकमन्यत्परिग्रहमहं नेच्छामि । किं च Page #75 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - सप्तमः सर्गः १३७ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः धार्मिकाणां दयालूनाममात्यव्यवहारो न निर्वहति, तस्माद् मेऽमात्यत्वेनाऽलम्", इत्युक्त्वा कल्पकस्तां राजाज्ञामवज्ञायैव ततो जगाम । तत्प्रभृति राजा तच्छिद्राण्यन्वेषयितुमुदयतत । नन्दस्तच्छिद्रं नित्यमन्वेषयन्नपि मनागपि न प्राप । यतो निरीहाणां महात्मनां छिद्रं दुर्लभं भवति । __ अन्यदा धीधनो राजा कल्पकगृहद्वारवीथीवासिनं स्वरजक माहूय पप्रच्छ "हे रजक ! यस्तव प्रातिवेश्मिकः कल्पको ब्राह्मणोऽस्ति, तस्य वस्त्रं त्वं प्रक्षालयसि न वा?" प्रक्षालयामीति रजकेनोक्ते नृपस्तमुवाच-"तदानीं तानि त्वया धर्तव्यानि, कल्पकाय पुनर्नाऽर्पय" । रजक “आदेशः प्रमाण"मित्युक्त्वा ययौ । इतश्च कौमुद्युत्सवसमय आययौ । ततः कल्पकस्त्री कल्पक मुवाच-“हे मनोरम ! इमानि सुवस्त्राणि राजरजकेनाऽद्य प्रक्षालय, यथाऽहं कौमुद्युत्सवदिनेऽतिशयितधवलानि सच्छायानि तानि वस्त्राणि धूपयित्वा परिदधे" । ततः कल्पकोऽचिन्तयत्-"अतिनिकटे पर्वदिने राजप्राप्तबलो रजकोऽन्यस्य भाटिलोभेन वरवस्त्राण्यर्पयेत्, मम पुनस्तानि स नाऽर्पयिष्यति, तस्माद् महाकष्टं पराभवं स्वहस्तेन न क्रेष्ये" इति । एवं विचिन्त्य प्रेक्षावतां वरः स कल्पकः स्त्रीवचनमुपैक्षिष्ट । यतो विद्वांसः स्त्रीप्रधाना न भवन्ति । किन्तु स्त्रियाऽत्यागृहीत: कल्पकस्तस्या वस्त्राणि रजकस्याऽर्पयत् । यत: स्त्र्याग्रहो बलवान् भवत्येव । अथ पर्वदिने समागते उपस्थितस्य कल्पकस्य वस्त्राणि राजशासनात् रजको नाऽऽर्पयत् । अद्य त्वं याहि, प्रातरागच्छेत्येवं मुहस्तं प्रतारयामास । यत: स रजको राजनियोगादभय आसीत् । तत्प्रभृति कल्पकोऽनुदिनं वस्त्रार्थं तस्य रजकस्य गृहमुत्तमर्णस्याऽधमर्ण इवाऽगात् । एवं वस्त्राणि मार्गयमाणस्य कल्पकस्य द्वे वर्षे व्यतीयतुः । यतोऽत्यन्तदर्शिता क्षमाऽभिभवायैव भवति । ततस्तृतीये वर्षे प्रवृत्ते कल्पकोऽवदत्-"अरे ! त्वं मम वस्त्रं जीर्णवान्, अत: महान् चौरोऽसि, रे ! रजकाधम ! यद्यहं स्ववस्त्राणि त्वच्छोणितेन रञ्जयित्वा न गृह्णामि, तदाऽहं कल्पको न भवामि" । अन्यदा कल्पको निशि रजकगृहं गन्तुं स्वगृहाद् विद्यां साधयितुं साहसीव निर्ययौ । चण्डिका-भृगुवेतालाद्यखिलमतनिपुण: स यमस्य देवतामिव क्षुरिकां दधार । ततश्चाऽतिकुपितः फालोद्गतो व्याघ्र इव भृकुटीकुटिलभूभीषणमुखो गत्वा रजकमुवाच-"रे दुष्ट ! तव गृहेऽहं द्वे वर्षे सेवक इव समागाम्, इदानीमपि मम वस्त्राणि ददासि न वेति ब्रूहि" । रजकस्तं क्षुधितं ब्रह्मराक्षसमिवाऽऽलोक्य क्षोभमुपागतः स्वस्त्रियमुवाच-"अस्य वस्त्राणि देहि" । रजक्यपि तथा चकार । अथ कल्पकः क्षुरिकां प्रकटीकृत्य सिंहो लाङ्गुलमिव तां नर्तयामास । अनन्तरं च स कल्पकः फालेन क्षेत्रमिव तया क्षुरिकया चटच्चटेति कुर्वाणं रजकस्योदरं विददार । सत्यप्रतिज्ञश्च स कल्पको निर्झराज्जलेनेव रजकतुन्दाद् निःसरता शोणितेन स्ववस्त्राणि रञ्जयामास । रजकी रुदती जगाद-"निरपराधमिमं कथं हंसि, अयं राजाज्ञयैव तव वस्त्राणि गृहे चिरमधारयत्" । कल्पकस्तदाकर्ण्य सम्भ्रान्त: समचिन्तयत्-"अहो ! राज्ञोऽयं प्रपञ्चोऽस्ति, यतस्तद्वचो मया नाऽकारि", तस्मादद्याऽहं यावद् रजकवधापराधाद् राजपुरुषैर्न Page #76 -------------------------------------------------------------------------- ________________ १३८ परिशिष्टपर्व - सप्तमः सर्गः १३९ minanninnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः निगृह्ये, तावत् स्वयमेव राजसमीपं यामि" । एवं विचिन्त्य स शीघ्रं नन्दसमीपं ययौ । नन्दोऽपि सानन्दस्तं गौरवास्पदं चकार । इङ्गितज्ञशिरोमणिश्च स नन्दोऽपि साकाक्षं कल्पकं ज्ञात्वा तं भृशमभ्यर्थ्योवाच-"ममाऽमात्यपदमादत्स्वे"ति । कालवित् सुधी: कल्पकः स्वापराधप्रतीकारं चिकीर्षु राजवचः स्वीचकार । प्रमुदितो नन्दोऽपि स्वमात्मानं कृतकृत्यं मन्यमानः स्वमनोमयूरमेघ कल्पकं कल्पयामास । हृदयस्य शल्यभूतांश्च स्वार्थसंशयानागतं विद्यागुरुमिवेष्टं कल्पकं पप्रच्छ । महाबुद्धिः कल्पकोऽपि तत्कृतसन्देहलोष्टपेषणमुद्रैर्वाक्यैनन्दं प्रीणयामास । तदाऽन्यायं पूत्कर्तुमागतो रजकसयो राज्ञा प्रदत्तगुरुगौरवं कल्पक ददर्श । रजकास्तथास्थितं कल्पकं दृष्ट्वा भयात् निवृत्य ययुः । यतोऽनर्थस्य प्रतीकारो राजमान्यता । महीपतिश्च प्राक्तनामात्यमपसार्य यथोचितं मुद्राकरेण्वादि कल्पकाय ददौ । तत: स सकलनृपेभ्य आसमुद्रमपि लक्ष्मीरुपायहस्तैराकृष्य नन्दाधीना अकरोत् । लक्ष्मीवशीकारमान्त्रिके तस्मिन्नेवाऽमात्ये नन्दनृपस्य लक्ष्मीनिर्झरवारिवदक्षयाऽभूत् । तस्य बुद्धिजलेन सिक्तो राजविक्रमवृक्षः सुरभीकृतभुवनं यशःपुष्पं सुषुवे । नन्दराजप्रतापाग्ने: परां वृद्धिमुत्पादयन् सचिवस्य बुद्धिप्रपञ्चो महापवनोऽनुदिनं ववौ । ___इतश्च परिभ्रष्टः पुरातनमन्त्री तटस्थोऽपि भूत इव कल्पकस्य छिद्रं गवेषयामास । स दुष्टस्तत्प्रवृत्तिजिज्ञासया कल्पकचेटी वस्त्राऽऽभरणादिभिरावर्जयितुमारेभे । साऽपि लोभाभिभूतात्मा कल्पकगृहे प्रतिदिनं क्रियमाणं कथ्यमानं च पुरातनमन्त्रिणः कथयामास । कल्पकस्य बहवः पुत्रा बभूवुः । यत: परमार्हताः प्रायेण पुत्रवन्तो भवन्ति । एकदा स एकस्य पुत्रस्य विवाहमङ्गलमारेभे । तदा तत्र सान्त:पुरं राजानं निमन्त्रयितुमिच्छन् स राज्ञः स्वागतचिकीर्षया तद्योग्यान् मुकुट-च्छत्र-चामरान् कारयितुमारेभे । तत् सर्वं तथैव कल्पकचेटी स्थानच्युतामात्याय कथयामास । "मयाऽवसरो लब्ध" इति विचार्य सोऽपि भूपं शीघ्रं व्यजिज्ञपत् । तथाहि-“हे राजन् ! अहं साम्प्रतममात्यो नाऽस्मि, नाऽपि च तव मान्योऽस्मि, तथाऽप्यहं कुलीनोऽस्मि, अतः स्वामिनो हितं वच्मि, यत् त्वत्प्रियमन्त्रिणा कल्पकेन यदारब्धं तच्छृणु । अधुना स छत्रादीन् राजालङ्कारान् कारयति । प्रभुः स्वयं ममैतत्कथनेन तदाशयं जानीताम् । यत एककणेनाऽपि बुद्धिमन्तो द्रोणपरिमिततण्डुलादेः पाकं जानन्ति । स्वामिदत्तेन ग्रासेन वर्धितोऽस्मीति तव हितमिदं वच्मि । न पुनः कल्पके स्थानापहरणप्रयुक्ता शत्रुताऽस्ति । अहं कदाचिद् मत्सरेणाऽसत्यमपि कथयामि, तथाऽपि सत्यं मिथ्या वा तदिति चरैर्विद्धि, यतो राजानश्चरदृष्टयो भवन्ति" इति । ततो राज्ञा प्रेषिताश्चराः कल्पकगृहे गत्वा तदुदितं दृष्ट्वा च राजेऽकथयन् । ततो नन्दनृपेण सकुटुम्बोऽपि कल्पकोऽन्धकूपकारायां सतिरस्कारं सद्यश्चिक्षिपे । भोजनार्थं च सपरिवाराय कल्पकाय प्रसृतिद्वयपरिमितं कोद्रवौदनं पय:कमण्डलुं च कूपेऽक्षेपयत् । कल्पकोऽत्यल्पमन्नं दृष्ट्वा कुटुम्बमिदमुवाच। अस्याऽन्नस्य कणशोऽपि विभागो दुष्करः, कवलानां तु का कथा ? यतः उदरपूर्तिः कवलशतेन भवेत्, तत्कणमात्राणि भुञ्जाना यूयं सर्वे Page #77 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - सप्तमः सर्गः १४१ १४० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मरिष्यथ । तस्मात् स एवैकः समस्तं कोद्रवौदनं भुक्तां, यो भ्रष्टमन्त्रिणो वैरशोधनाय समर्थो भवेत्" । कुटुम्बो मिलित्वोवाच"त्वं भुड्क्ष्व, तव क्षेममस्तु । हे पितः ! अस्मासु वैरनिर्यातनं कर्तुं कोऽपि समर्थो नाऽस्ति" । ततः कल्पकस्तदन्नं प्रतिदिनमभुक्त । अन्ये त्वनशनं कृत्वा स्वर्गं ययुः ।। ततो ज्ञातकल्पकमरणाः सामन्तनृपा नन्दोन्मूलनेच्छया पाटलिपुत्रं रुरुधुः । प्रतिदिनं रुद्धद्वारे पाटलिपुत्रनगरे भीतानां पौराणां भाण्डेन भाण्डं पुस्फोट । तेषां शत्रूणां शासनेऽशक्तो नन्दो दाहज्वरात इवाऽऽसने शयनेऽपि वा निर्वृति न लेभे । सोऽचिन्तयत्"यावद् मम मन्त्री कल्पक आसीत् तावत् सिंहगुहेव पुरं केनचिदपि नाऽऽक्रान्तमभूत् । कल्पकं विना नगरस्येदृशी दशाऽभूत्, यतो विना रक्षकमुपवनं पथिकैरप्युपजीव्यते । स जीवति यदि तदा तेनैव पुरं नष्टवेष्टनं क्रियते, यतो हस्तिभारो हस्तिभिरेव प्रायेण कृष्यते"। राज्ञा काराधिकारिणः पृष्टा एवं विज्ञापयामासुः-"कोऽप्यन्धकूपस्थितोऽद्याऽपि कोद्रवान् गृह्णाति" । नन्दः कूपे मञ्चिकां क्षिप्त्वा तत्र कल्पकमारोप्य तदैव स्वनिधिमिव तमाकर्षयत् । पक्वतरुपत्रसदृशमपि तं शिबिकायामारोप्य पुरदेवतामिव वप्रस्योपरि नन्दोऽभ्रमयत् । वैरिणस्तं दृष्ट्वाऽचिन्तयन्-"नन्दः प्रायेणाऽबलोऽभूत्, यत एष कल्पितकल्पकं सम्प्रत्यस्मान् दर्शयन् भीषयते । ततस्ते शत्रवोऽनुत्पन्नभया यन्त्र-प्रतियन्त्रादिकल्पनैनन्दमत्यन्तमुपद्रोतुं प्रावृतन् । तत: कल्पको दूतं प्रेष्य ताञ्छत्रूनेवं प्रोवाच-"युष्माकं कोऽप्यभिमतो गङ्गामध्ये नौकास्थ आगच्छतु, यथाऽहमपि नौयानस्तेन धीमता सह वार्ता कृत्वा कथयित्वा सन्धि करोमि, यद्वा यदन्यदभिलषितं तत् करोमि" । तेषां शत्रूणां सान्धिविग्रहिक: कल्पकश्च द्वौ नौस्थितावाभिमुख्येन वक्रा-ऽवक्रग्रहाविव मिलितौ । तत्र कल्पको मन्त्री कस्यचिदेकस्य करस्थितमिक्षुपुजं दृष्ट्वाऽङ्गुलिचेष्टया तमुवाच-"यद्यस्येक्षुभारस्य मूलं प्रान्तश्च कर्त्यते तदैतन्मध्यप्रदेशस्य किं तिष्ठति ? अथ विद्वानपि सुधीरपि स सान्धिविग्रहिकस्तदाशयं नाऽज्ञासीत् । तदाशय ईदृशो हि-इक्षुयष्टिर्यथा मूलेन प्रान्तेन च विवर्धते, क्षत्रियसन्ततिस्तथा द्वाभ्यां सन्धिभ्यां विवर्धते । तत्रैक: सत्यसन्धिर्यत्रोक्तमन्यथा न भवेत् । द्वितीयश्च प्रपञ्चसन्धिः, यो मायया प्रतन्यते । नन्देऽविश्वासेन युष्माकं सत्यसन्धेविषयो नाऽस्ति । प्रपञ्चसन्धिर्युष्माकं कथंभावी तद्विदि मयि । तस्माद् यूयं निःसन्धिबन्धा नन्दभूपतेनिकृत्तमूलप्रान्तेक्षुदण्डवदुपजीव्या भविष्यथ । पुनश्च कल्पको हस्तचेष्टया तत्प्रदेशस्थगोपालिकामूर्धनि दण्डाहतां दधिस्थाली दर्शयामास । स राजपुरुषः प्राग्वत् तद्भावार्थं नाऽज्ञासीत् । पुनः कल्पकमन्त्रिहृदयभावार्थोऽयमासीत्, तथाहि-"यदि त्वत्पक्षसंहतिस्थाली मद्दोर्दण्डहता भवेत्, तदा वो बलं दधिवज्जारपुरुषरूपकाकयोग्यं विकीर्णं भवेत्" । पुन: कल्पकः स्वनावा तदीयनावं त्रिः प्रदक्षिणां चकार । तत्राऽपि स तदभिप्रायं नाऽज्ञासीत् । तद्भावार्थोऽयमासीत्-"यथा मन्नावा त्वन्नौरावृता, तथाऽस्मत्तेजसा भवतां तेज आवरिष्यते" । स कल्पकस्य संज्ञात्रयेऽपि भावार्थमजानान ऊहापोहपरः काकपोतवद् व्यात्तमुखस्तस्थौ । Page #78 -------------------------------------------------------------------------- ________________ १४२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ कल्पकः स्वस्थानमगात् । स सान्धिविग्रहिकस्तु तद्भावमविदन् विलक्षः स्वशिबिरं ययौ । स सान्धिविग्रहिकः स्वैः पृष्टो व्यषीदत् अवोचच्च-कल्पकद्विजोऽसम्बद्धप्रलापी वर्तते । तैः पुनः पुनः पृष्टः स न किञ्चिदपि जगाद । तद्भावं नाऽज्ञासिषमिति ब्रुवन् स जिहाय । कल्पकेनाऽयं मे सान्धिविग्रहिको मिलितोऽस्तीति निश्चित्य ते सामन्त-भूपतयो दिशो दिशं पलायन्त । ततः पलायमानानां तेषां हस्त्यश्व-रत्नकोशादि कल्पकशासनाद् नन्दराज आच्छिद्य जग्राह । नन्दोऽपि प्राक्तनं दुष्टमन्त्रिणं भक्तस्य कल्पकस्याऽयमनर्थकारीति क्रोधेन निजग्राह ।। नन्दश्रियां पालनेऽन्तःपुररक्षक इव सुधीर्नयोपायनदीसमुद्रो मन्त्रिवरः कल्पकः पृथिवीं नन्दनृपाज्ञानियन्त्रितां चकार ।। ७ ।। इति परिशिष्टपर्वणि कल्पकामात्यवर्णनात्मकः सप्तमः सर्गः॥७॥ अष्टमः सर्गः शकटालमन्त्रिणः श्रीस्थूलभद्रस्य च वृत्तान्तः धीनिधिः पुनरुत्पन्नानेकपुत्रः स कल्पको नन्दनृपस्य मुद्राव्यापारं सुचिरमन्वशात् । कालक्रमेण नन्दवंशे सप्त नन्दा राजानोऽभूवन् । तेषां मन्त्रिणः कल्पकवंशोद्भवा बभूवुः । ततस्त्रिखण्डपृथिवीपतिः श्रीपतिरिवोन्मूलितद्विषत्कन्दो नन्दो नवमो राजा बभूव । विशाल: श्रीमान् सङ्कटरहितो धीमान् कल्पकवंशोत्पन्नः शकटाल इति नवमनन्दराजस्य मन्त्री बभूव । तस्य लक्ष्मीरिव वपुष्मती शीलालङ्कारधारिणी लक्ष्मीवतीनाम्नी पत्नी बभूव, तयोः विनयी सूक्ष्मबुद्धिश्चन्द्र इव स्थूलभद्रनामा ज्येष्ठः पुत्रोऽभूत् । तथा तयोर्भक्तो नन्दनृपहृदयामन्दानन्दगोशीर्षचन्दनः श्रीयको नाम कनिष्ठो नन्दनोऽभूत् । तत्र पुर एका वेश्या रूपश्रियोर्वशीव वशीकृतजगच्चेता जीवनौषधि: कोशानाम्नी बभूव । तस्या गृहे तन्मना: स्थूलभद्रो द्वादशवर्षाणि दिवानिशं विविधान् भोगान् भुञ्जानो न्यवात्सीत् । नन्दराजस्य द्वितीयहृदयमिव विश्वासपात्रं श्रीयकोऽङ्गरक्षको बभूव । तत्र कवीनां वादिनां वैयाकरणानां च शिरोमणिर्वररुचिनामा ब्राह्मण आसीत् । स सुधी राजानुरञ्जनेऽनुदिनं स्वकृतैर्नवन Page #79 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः वैरष्टोत्तरशतेन वृत्तैः प्रववृते, मिथ्यादृष्टिरिति मन्त्री तं कदापि न प्रशशंस । ततस्तुष्टोऽपि राजाऽस्मै तुष्टिदानं न ददौ । तत्र वररुचिर्दानाप्रापणकारणं ज्ञात्वा तस्य मन्त्रिणः स्त्रियमाराधयितुं प्रारेभे । अन्यदिने सन्तुष्टया तया कार्यं पृष्टो वररुचिरुवाच - " तव स्वामी राजसमीपे मम काव्यं प्रशंसतु" । तदनुरोधेन तया विज्ञप्तः पतिरुवाच -“मिथ्यादृष्टेरस्य वचनं कथमहं प्रशंसामि ? तया साग्रहमुक्तो मन्त्री तद्वचस्तथा स्वीचकार । यतोऽन्ध - स्त्री - बालमूर्खाणामाग्रहोऽतिशयितो बलवान् भवति । १४४ ततो राज्ञोऽग्रे काव्यं पठतो वररुचेर्मन्त्रिवरोऽहो सुभाषितमिति प्रशशंस । ततो नरेशोऽष्टोत्तरशतं दीनारमस्मै ददौ। यतो राजमान्यस्याऽनुकूलया वाचाऽपि जीव्यते । प्रतिदिनमष्टोत्तरशते दीनारे दीयमाने किमेतद्दीयत इति मन्त्री राजानं विज्ञापयामास । राजोवाच - "हे मन्त्रिन् ! अहं च त्वत्प्रशंसयाऽस्मै ददामि यद्यहं स्वयं ददामि तर्हि पुरा कथं न ददामि ? मन्त्र्युवाच - "हे देव ! मयाऽस्य प्रशंसा न कृता । तदाऽहं परकाव्यानि प्राशंसिषम् । अयं परकाव्यान्यस्माकमग्रे स्वीकृत्य पठति" । ततो राजा किमेतत् सत्यमिति पप्रच्छ । एतत्पठितकाव्यानि पठन्तीः कन्या अपि वः प्रातर्दर्शयिष्यामि " इति मन्त्री जगाद । अथ मन्त्रिणः सप्त कन्या आसन्-यक्षा १ यक्षदत्ता २ भूता ३ भूतदत्ता ४ एणिका ५ वेणा ६ रेणा ७ एता सर्वा विदुष्य आसन् । तासां सर्वज्येष्ठा सकृदुक्तं धारयति स्म, इतरा यथाक्रमं द्वित्रादिवारक्रमाद् गृह्णन्ति स्म । मन्त्री ताः कन्या राजसमीपं द्वितीयदिने निनाय । स ताश्च जवनिकान्तरितास्तत्र समुपावेशयत् । परिशिष्टपर्व अष्टमः सर्गः १४५ ततो वररुचिर्नित्यमिवाऽष्टोत्तरशतं श्लोकान् विरचय्य राजाग्रे जगाद । तास्तु कन्यास्तान् यथा ज्येष्ठमन्ववादिषुः । ततो वररुचे रुष्टो राजा दानं न्यवारयत् । यत: सचिवानामुपाया निग्रहानुग्रहसमर्था भवन्ति । ततो वररुचिर्गङ्गातटे गत्वा तज्जले यन्त्रं व्यधात् । तन्मध्येऽष्टोत्तरशतं दीनारं वस्त्रबद्धमस्थापयत् । असौ प्रात:काले गङ्गां स्तुत्वा पादेन यन्त्रमाक्राम्यत् । ततस्ते दीनारास्तत्पाणौ समुत्पत्य न्यपतन् । स एवं नित्यं चकार तेन लोको विस्मयं प्राप । तच्च राजा जनश्रुत्या श्रुत्वा मन्त्रिणे कथयामास । " यदीदं सत्यमस्ति तर्हि प्रातर्वयं स्वयं पश्यामः" इति मन्त्रिणोक्तो राजा तत्तथा स्वीचकार । मन्त्रिणा चर: शिक्षयित्वा प्रेषितस्तत्र । स शरस्तम्बविलीनः पक्षीवाऽनुपलक्षितोऽस्थात् । तदा वररुचिर्गङ्गाजले प्रच्छन्नीभूय गत्वा दीनाराष्टोत्तरशतग्रन्थि निधाय गृहं ययौ । ततश्च चरस्तदादाय वरमन्त्रिणे प्रच्छनं समर्पयामास । अथ मन्त्री रात्रौ व्यतीतायां गुप्तगृहीतदीनारग्रन्थिर्भूपेन सह गङ्गां ययौ । तदा वररुचिरपि गङ्गामागच्छत् । ततो मूढो वररुचिर्द्रष्टुकामं राजानं दृष्ट्वोत्कृष्टमानी गङ्गां सविस्तरं स्तोतुं प्रावर्तत । यदा वररुचिः स्तवान्ते पादेन यन्त्रमचालयत् तदा तदञ्जलौ दीनारग्रन्थिरुत्पत्य नाऽऽपतत् । ततः स गङ्गाजले करेण ग्रन्थिमन्वेषयामास । स तं ग्रन्थिमपश्यंस्तूष्णीकोऽस्थात् । यतो धृष्टो धूर्तो मौनभाग् भवति । तदा मन्त्रीत्युवाच - " किं तेऽद्य जाह्नवी न्यासीकृतमपि द्रव्यं न ददाति पुनः पुनरन्वेषयसि उपलक्ष्येदं स्वद्रव्यं गृहाण " इति कथयन् स वररुचिहस्ते दीनारग्रन्थिमर्पया Page #80 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - अष्टमः सर्गः १४७ १४६ mmmmmmmmmmmmmmmmmmपाष्टशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मास । तेन दीनारग्रन्थिनोत्सर्पद्धृदयग्रन्थिनेव स मरणादपि दुःसहां दशां प्राप । असौ लोकं प्रतारयितुं सायं द्रव्यं तत्र क्षिपति, प्रातर्गृह्णातीति मन्त्री राजानमुवाच । राजा-'इदं छद्म साधु जात मिति मन्त्रिवरं निगदन् विस्मयस्मेरनेत्रः स्वगृहं ययौ ।। अमर्षणो वररुचिः प्रतीकारं विचिन्तयन् चेटिकादिकं मन्त्रिणो गृहस्वरूपं पप्रच्छ । चेटी तस्येदं प्रोवाच-"श्रीयकविवाहे राजा मन्त्रिगृहे भोक्ष्यते । मन्त्रिणा नन्दाय दातुमत्र शस्त्रादि सज्ज्यते, यत: शस्त्रप्रियाणां राज्ञां शस्त्रमाद्यमुपायनं भवति । ततश्छलज्ञो वररुचिश्छलं समासाद्य चणकादि दत्त्वाऽऽवयं डिम्भानि त्वपाठयत्-"राजा तद् न जानाति यत् शकटाल: करिष्यति । नन्दं हत्वा तद्राज्ये श्रीयकं स्थापयिष्यति" । स्थाने स्थाने प्रतिदिनमेवं बालकाः पेठुः । जनश्रुत्या राजेदमश्रौषीत्, अचिन्तयच्च-"यद् बालका भाषन्ते, यच्च स्त्रियो भाषन्ते, या चोत्पातिकी भाषा, साऽन्यथा न भवति" । अथ राज्ञा तत्प्रत्ययार्थं राजपुरुष: प्रेषितस्तद्गृहे गत्वा यथा दृष्टं सर्वं तत् समागत्य राज्ञे व्यजिज्ञपत् । तत: सेवावसरे समागतस्य प्रणामं कुर्वतो मन्त्रिणो राजा पराङ्मुखस्तस्थौ । अथ तद्भावज्ञोऽमात्यो गृहमेत्य श्रीयकमुवाच-"राज्ञः केनाऽपि विद्विषन्निव अभक्तः ज्ञापितोऽस्मि, अस्माकमकस्मात् कुलक्षय उपस्थितः । हे वत्स ! मदीयं ममाऽऽदेशं त्वं कुरुषे तदाऽयं कुलक्षयो निवार्यते । अहं यदा राज्ञे शिरो नमयामि तदा त्वं मे शिरः खड्गेन छिन्द्याः, ततस्त्वं स्वाम्यभक्तः पिताऽपि वध्य" इति वदेः । ततः त्वं जरसा परलोकं जिगमिषौ मयि मृते चिरं मत्कुलगृहस्तम्भो भविष्यसि" । श्रीयकोऽपि रुदन्नेवं गद्गदस्वरमुवाच-“हे पितर् ! इदं घोरं कर्म श्वपचोऽपि किं करोति ?" मन्त्र्यप्येवमुवाच-"एवं विचारयंस्त्वं शत्रूणामेव केवलं मनोरथान् पूरयसि । यम इवोद्दण्डो राजा यावत् सकुटुम्बं मां हन्ति, तावद् ममैकस्य नाशात् कुटुम्बं त्वं रक्ष । अहं तालपुटं विषं मुखे न्यस्य भूपतिं नस्यामि परासोर्मे शिरस्त्वं छिन्द्यास्ततः पितृहत्या ते न भविष्यति" । ततस्तातेनैवं बोधित: स तत् स्वीचकार, चकार च । धीमन्तो हि शुभपरिणामाय दारुणमिव लक्ष्यमाणमपि कर्म कुर्वन्ति । हे वत्स ! "त्वया किमिदं घोरं कर्म व्यधायि" इति नृपेण ससम्भ्रमं प्रोक्तः श्रीयक उवाच-"यदैवाऽयं स्वामिना द्रोही ज्ञातस्तदैव स निहतः, यतो भृत्यानां स्वामिचित्तानुसारेण प्रवर्तनं भवति । भृत्यानां दोषे स्वयं ज्ञाते विचारो युज्यते; स्वामिना ज्ञाते तु न विचार उचितः" । ततो नन्दराजः कृततातौदेहिकं श्रीयकमुवाच-सर्वव्यापारयुतेयं मुद्रा त्वया गृह्यताम् । अथ श्रीयको राजानं प्रणम्योवाच-"मम ज्येष्ठभ्राता पितृसमः स्थूलभद्रनामाऽस्ति । कोशाया गृहे पितृप्रसादाद् निर्बाधं भोगानुपभुञानस्य तस्य द्वादश वर्षाणि व्यतीयुः। राज्ञाऽऽहूय स स्थूलभद्र आदिष्टोऽमुमर्थं पर्यालोच्य करिष्यामी'त्युवाच । राज्ञाऽद्यैव पर्यालोचयेत्युक्तः स्थूलभद्रोऽशोकवनिकां गत्वा चेतसेति व्यमृशत्, नियोगिभिर्जनै रकैरिव शयनं, भोजनं, स्नानमन्येऽपि सुखहेतव उचितसमये नाऽनुभूयन्ते । नियोगिनां स्वपरराज्यचिन्ताकुलचेतसि पूर्णघटे जलानामिव प्रियाणामवकाशो न भवेत् । सर्वमपि स्वार्थं त्यक्त्वा राजार्थं कुर्वतामपि उद्घद्धानां Page #81 -------------------------------------------------------------------------- ________________ १४८ परिशिष्टपर्व - अष्टमः सर्गः १४९ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः काका इव पिशुना उपद्रवन्ति । यथा राजार्थे स्वदेहद्रव्यव्ययेनाऽपि प्रयत्यते, तथा धीमता स्वार्थे किं न प्रयत्यते ? एवं विचिन्त्य स पञ्चमुष्टिभिः केशोत्पाटनं चकार । अथ रत्नकम्बलदशाभी रजोहरणमपि चकार । ततः स महाभागः सभायां राजानमुपगम्याऽऽलोचितमिदमित्युक्त्वा"धर्मलाभोऽस्तु" इत्युवाच । ततो गुहाया: सिंह इव महासारः संसारगजरोषणः स राजगृहाद् नि:ससार । किमेष च्छलं विधाय वेश्यागृहं यातीति अप्रत्ययाद् राजा गवाक्षेणाऽपश्यत् । शवदुर्गन्धेऽपि प्रदेशेऽनाच्छादितनासिकं यान्तं स्थूलभद्रं दृष्ट्वा राजा शिरोऽधूनयत् । अहो ! अयं भगवान् वीतरागोऽस्ति, मां धिग् यदस्मिन् मया कुचिन्तितम् । नन्दस्तमभिनन्दयन् स्वमुच्चैर्निनिन्द । स्थूलभद्रोऽपि श्रीसम्भूतिविजयपाधै गत्वा सामायिकोच्चारपुरस्सरं दीक्षामग्रहीत् । ततो नन्दो राजा श्रीयकं हस्ते गृहीत्वा निःशेषव्यापारे मुद्राधिकारे सगौरवं स्थापयामास । श्रीयकोऽपि सावधान: प्रकृष्टनयपाटवात् साक्षाच्छकटाल इव सदा राज्यचिन्तां चकार । विनीत: स कोशाया वेश्याया गृहे नित्यमपि ययौ । कुलीनैर्धातुः स्नेहात् तत्प्रियाऽपि बहु मन्यते । स्थूलभद्रवियोगपीडिता सा श्रीयकं दृष्ट्वा रुरोद, यत इष्टजने दृष्टे सति दुःखपीडिता दुःखं धर्तुं न शक्नुवन्ति। ततः श्रीयकस्तामुवाच-“हे आर्ये ! वयं किं कुर्मः ? असौ पापो वररुचिरस्माकं पितरमघातयत्, समयोत्पन्नवज्राग्निप्रदीपनवत् तत स्थूलभद्रवियोगं च सम्पादयामास । हे मनस्विनि ! असौ खलो यावत् तव भगिन्यामुपकोशायामनुरक्तोऽस्ति तावत् कञ्चित्प्रतीकारं त्वं चिन्तय । तस्मात् त्वं तामादिश यत् कथमप्यसौ वररुचिर्मद्यपानरुचिस्त्वया विधीयतामिति । ततः साऽतिप्रियवियोगाद् वैराद् देवरस्य चातुर्यात् तत्प्रतिज्ञायोपकोशां समादिदेश । कोशानिदेशेनोपकोशा तं तथाऽकथयत् यथाऽसौ सुरां पपौ । स्त्रीपराधीनैः किं न क्रियते ? वररुचिर्भट्टोऽथ मद्यपानं स्वैरं कारितः" इत्युपकोशा रात्र्यतिगमे कोशायै कथयामास । अथ श्रीयकोऽपि तत् कोशामुखात् सर्वमशृणोत्, अमन्यत च "पितृवैरस्य प्रतीकारो विहित" इति । शकटालमहासचिवमरणात् प्रभृति सोऽपि वररुचिर्भट्टो राजसेवावसरतत्परो बभूव । स प्रतिदिनं राजकुले सेवासमये गच्छन् राज्ञा राजपुरुषादिभिश्च सगौरवमदृश्यत । ___ अन्यदा नन्दनृपो मन्त्रिगुणस्मरणविह्वल: सभायां श्रीयकसचिवं सगद्गदमेवमुवाच-“इन्द्रस्य बृहस्पतिरिव भक्तिमान् शक्तिमान् धीमान् शकटालो मे मन्त्रीबभूव । असौ दैवाद् मृतः, अहं किं करोमि ? तेन विना स्वस्थानं शून्यमिवाऽहं मन्ये । श्रीयकोऽप्येवमवोचत्-“हे राजन् ! इह किं विदध्महे ? मद्यपायी वररुचिरिदं सर्वमकार्षीत् । सत्यमेव वररुचिर्मद्यं पिबतीति राज्ञोक्ते श्रीयकोऽमुं श्वो दर्शयिताऽस्मीति प्रत्युवाच । श्रीयको द्वितीयदिने सभां गतानां सर्वेषां शिक्षितेन स्वपुरुषेणोत्तममेकैकं कमलमर्पयामास । तदा मदनफलरसभावितं कमलं दुष्टवररुचेरर्पयामास । कुतस्त्यं विलक्षणामोदमिति वर्णयन्तो राजादयः स्वं स्वं कमलं घ्रातुं नासाग्रे निन्युः । Page #82 -------------------------------------------------------------------------- ________________ १५१ MAMAnnanoonamnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn परिशिष्टपर्व - अष्टमः सर्गः १५० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स भट्टोऽपि स्वकमलं घ्रातुं नासाग्रेऽनैषीत् । ततो रात्रिपीतां चन्द्रहाससुरां स सद्योऽवमत् । अमुं मद्यपं ब्राह्मणाधम बन्धवधयोग्य धिक् इति सर्वैराक्रुश्यमानो वररुचिः सभातो निःससार । तेन याचिता ब्राह्मणा तापितत्रपुणः पानं मद्यपानपापनाशकं प्रायश्चित्तमुपादिशन् । वररुचिर्मूषया तापितं वपु पपौ, ततस्तत्प्रदाहभयादिव स प्राणैः सद्योऽमुच्यत । श्रुतसागरपारङ्गतः स्थूलभद्रोऽपि सम्भूतविजयाचार्यपार्श्वे प्रव्रज्यां पालयामास । अन्यदा वर्षासमये समागते मुनयः सम्भूतविजयं गुरुं मस्तकेन प्रणम्येत्यभिग्रहानग्रहीषुः । तत्रैको मुनि:"अहं सिंहगुहाद्वारे कृतकायोत्सर्ग उपोषितश्चतुर्मासीमवस्थास्ये, द्वितीयो मुनि:-अहं दृष्टिविषसर्पबिलद्वारे कृतकायोत्सर्ग उपोषितश्चतुर्मासी यावत् स्थास्यामि," तृतीयो मुनि:-"कृतकायोत्सर्ग उपोषित: कूपमण्डूकासने चतुर्मासी स्थास्यामीति स्वीचकार । गुरुर्यावद् योग्यांस्तान्मुनीननुमेने तावत् स्थूलभद्रो गुरुमुपेत्य नत्वैवमुवाच-"हे प्रभो ! कोशावेश्यागृहे या विचित्रकामशास्त्रोक्तकरणालेख्यवती चित्रशालाऽस्ति तत्र कृततपःकर्मविशेष: षड्रसान् भुञ्जानश्चतुरो मासानहं स्थास्यामीत्यभिग्रहो मे" | गुरुरुपयोगात् तं योग्यं मत्वाऽनुमेने । ततः सर्वे साधवः प्रतिज्ञातं स्वं स्वं स्थानं जग्मुः । त्रयोऽमी सिंहसर्पारघट्टका: शान्तांस्तीव्रतपोनिष्ठांस्तान् मुनिवरान् दृष्ट्वा शान्तिमशिश्रियन् । स्थूलभद्रोऽपि कोशावेश्यालयं जगाम । कोशाऽपि तदग्रतः कृताञ्जलिरभ्युदस्थात् । असौ प्रकृत्या रम्भास्तम्भ इव सुकुमार उरुणा व्रतभारेण खिन्नोऽत्राऽऽगच्छदिति विचिन्त्य सा जगाद-"स्वामिन् ! तव स्वागतमस्तु, समादिश, तव कृतेऽहं कि करोमि ? यतो मम शरीरं धनं परिजनः सर्वमेतत् तवैव" । ततः स्थूलभद्रोऽपि चतुर्मासी निवासायेयं चित्रशाला मेऽर्प्यताम्" इत्युवाच । साऽप्यूचे-"गृह्यतामिति, भगवानपि स्वबलवत्तया कामस्थाने धर्म इव तथा परिष्कृतायां चित्रशालायां प्राविशत् । अथ सा षड्रसाहारभोजनानन्तरं मुनेः क्षोभाय कृतविलक्षणशृङ्गारा समुपाययौ । तस्याग्र उपविष्टा सा काचिदप्सरा इव मुहुर्हावभावादिकं सम्यक् चकार । पुनः सा प्राक्तनानि तानि तानि करणानुभवक्रीडोद्दामानि सुरतानि वारं वारं स्मारयामास । तया तस्मिन् मुनिवरे क्षोभाय यद् यद् विदधौ तत् तद् वजे नखविलेखनमिव व्यर्थमभूत् । सा प्रतिदिनं तं मुनि क्षोभयितुं प्रायतिष्ट । किन्तु महामनाः स मुनिवरो मनागपि नाऽक्षुभ्यत्, प्रत्युतोपसर्गकारिण्या तया महामुनेानानलो जलेन मेघवह्निरिव प्रादीप्यत । ततो-“हे प्रभो ! त्वयि पूर्वमिव रन्तुकामां मां धिक्" इत्यात्मानं निन्दन्ती सा तस्य चरणकमलयोरपतत् । सा तस्य मुनेरिन्द्रियविजयप्रकर्षेण चमत्कृता श्रावकत्वं प्रपेदे, इममभिग्रह चाऽग्रहीत्-"राजा यदि मां तुष्टः सन् कस्मैचिद् ददाति तदा तमेकं पुरुषं विनाऽन्यं न सेविष्य, इति मे नियमः" । __ अथ वर्षासमये व्यतीते त्रयोऽपि साधवो निढाभिग्रहाः क्रमाद् गुरुपादसमीपं समुपागमन् । सिंहगुहासाधुरागच्छन् 'अहो दुष्करकारक' इति सूरिणा किञ्चिदुत्थाय स्वागतमूचे । तथाऽन्यावपि समायान्तौ सूरिणोक्तौ, प्रतिज्ञानिर्वाहे समानौ स्तः, स्वामिसत्कारोऽपि तुल्य एवाऽस्ति । अथ स्थूलभद्रं समायान्तं Page #83 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - अष्टमः सर्गः १५३ १५२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दृष्ट्वा गुरुरुत्थायाऽब्रवीत्-“हे दुष्करदुष्करकारिन् ! तव स्वागतमस्तु" । अथ ते साधवः सासूया इत्यचिन्तयन्-"गुरोरिदमामन्त्रणं मन्त्रिपुत्रताहेतुकं प्रतिभाति । यद्यसौ षड्रसाहारात् कृतदुष्करदुष्करो गीयते, तर्हि वयं द्वितीयवर्षे वेश्यागृहेऽवस्थानं प्रतिज्ञास्यामहे" । सामर्षास्ते महर्षय एवं हृदि संस्थाप्य संयमं कुर्वाणाः क्रमादष्टौ मासानयापयन् । उत्तमर्ण इव काले प्राप्ते गुरोरग्रे हृष्टः सिंहगुहावासी साधुरिति प्रतिज्ञामकार्षीत्-“हे भगवन् ! इमां चतुर्मासीमहं कोशावेश्यागृहे नित्यं षड्विधाहारं भुजानः समवस्थास्ये । गुरुरुपयोगेन स्थूलभद्रेण मात्सर्यादेतत् स्वीकरोत्ययम्" इत्यवगम्य समादिशत्-“हे भद्र ! अतिदुष्करदुष्करमभिग्रहं न कुरु, गिरिराज इव स्थिरः स्थूलभद्रस्तु तत् कर्तुं समर्थोऽस्ति" । ततो नहि मे दुष्करोऽप्येषोऽस्ति तर्हि कथं दुष्करदुष्करो भवितुमर्हति तदहमवश्यं करिष्यामि" इति स गुरुं प्रत्युवाच । गुरुरुवाच-"अनेनाऽभिग्रहेण प्राक्तनस्याऽपि तपसस्ते भ्रंशो भविष्यति" । यत आरोपितोऽतिभारो देहभङ्गाय जायते" । स मुनिर्गुरुवचनमनादृत्य वीरंमन्य: कोशावेश्याया कामकलापरिपूर्णं तद् निकेतनं जगाम । असौ तपस्वी स्थूलभद्रस्पर्धयाऽत्राऽगच्छतीति मत्वा भवे पतन्नयं मया रक्षणीय इत्युत्थाय सा ननाम । सा वेश्या तेन मुनिना निवासाय प्रार्थितां चित्रशालां तस्मै ददौ । स च मुनिस्तत्र प्राविशत् । लावण्यकोशभूता कोशाऽपि मध्याह्ने भुक्तषसाहारं तं परीक्षितुं समाययौ । स कमलाक्षी कोशां दृष्ट्वा शीघ्रं चुक्षोभ । तादृशी स्त्री, भोजनं च तादृशं किं विकाराय न भवेत् ? कोशाऽपि कामपीडया याचमानं तमेवमुवाच-"हे भगवन् ! वयं वेश्या धनदानतो वश्याः स्मः । मुनिरप्येवमुवाच-“हे मृगनेत्रे ! प्रसीद, वालुकासु तैलमिवाऽस्मासु किं द्रव्यं भवति ? ततः सा नवीनाय साधवे नेपालभूपालो रत्नकम्बल वितरति, 'तमानय' इति मुनि निर्वेदं प्रापयितुमुवाच । ततः स मुनिः निजव्रतमिव स्खलन् प्रावृट्कालेऽपि पङ्किलायां भूमौ बालवत् चचाल । तत्र गत्वा च राज्ञो रत्नकम्बलं प्राप्य वलितः । तस्मिन् मार्गे दस्यव आसन् । ततो दस्यूनां शकुनिरित्युवाच'लक्षमायाति' । दस्युराजः किमायातीति वृक्षस्थितं नरमपृच्छत् । स द्रुमारूढो नरः-‘एको भिक्षुक आगच्छन्नस्ति' कश्चित् तादृशोऽन्यो नाऽस्तीति चौरसेनापत्यग्रे जगाद ।। अथ साधुस्तत्र सम्प्राप्तः, तैश्चौरैविधृत्य निरूपितः, किमपि धनं तत्साधुपार्श्वे न दृष्ट्वा साधुस्तैर्मुमुचे । पक्षी पुनरेतल्लक्षं प्रयातीति व्याजहार । ततश्चौरपतिरुवाच-"साधो ! त्वं सत्यं ब्रूहि, किमपि ते पार्श्वे धनमस्ति ? तत: साधु:-"वेश्यार्थोऽयं रत्नकम्बलो वंशमध्ये निक्षिप्तोऽस्ति" इत्युवाच । तत: स चौरराजेन मुमुचे । स साधुस्ततः समागत्य कोशायै तं रत्नकम्बलं ददौ । सा गृहस्रोतःपङ्के तं निःशङ्कं न्यक्षिपत् । मुनिरप्येवमुवाच-“हे कम्बुकण्ठि ! महामूल्योऽसौ रत्नकम्बलः किमशुचिकर्दमे त्वयाऽक्षेपि ? अथ कोशाऽप्युवाच"हे मूढ ! त्वं कम्बलं शोचसि किन्तु गुणरत्नमयमात्मानं नरके पतन्तं न शोचसि" । मुनिस्तच्छ्रुत्वा जातवैराग्य इत्यवोचत-“हे भद्रे ! त्वयाऽहं साधु बोधितोऽस्मि; संसाराच्च साधु रक्षितोऽस्मि । हेऽनघे ! अतीचारभवानि स्वानि पापानि नाशयितुं गुरुपादपार्श्वेऽहं यास्यामि, तव धर्मलाभोऽस्तु" । वेश्याऽपि साधुमेवमुवाच-“हे मुने ! त्वयि मे दुष्कृतं मिथ्या, यतो ब्रह्मव्रतस्थयाऽपि मया त्वं खेदितोऽसि; Page #84 -------------------------------------------------------------------------- ________________ १५४ परिशिष्टपर्व - अष्टमः सर्गः MAnnanoranAnamnnnnnnnnnnnnnnnnnnnni nounnanonmainamaAAAAAA mmannmannmannanamannamannannnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः युष्माकं बोधार्थं मयेयमाशातना कृता । सा त्वया क्षन्तव्या । गुरुवचनमाश्रय, शीघ्रं याहि । ततः स साधुरिच्छामीति वदन् सम्भूतविजयपार्श्वे गत्वाऽऽलोचनां गृहीत्वा पुनः शीघ्रं तपश्चकार । परेधुः समाधिमन्तः सम्भूतविजयाचार्यपादा मरणं साधयित्वा स्वर्ग ययुः । ___ अन्यदा तुष्टेन राज्ञा कोशाऽपि रथिने दत्ता । राजाधीनेति सा रागं विनाऽपि तं रथिनमाश्रयत् । सा वरवर्णिनी स्थूलभद्रं विहाय कोऽपि पुरुषो नास्तीति दिवानिशं तस्य रथिनो निकटे वर्णयामास । रथी गृहोद्याने गत्वा पर्यङ्के समुपविश्य कोशामनो रञ्जयितुं वक्ष्यमाणं स्वविज्ञानं तामदर्शयत् ? तथाहि-बाणेनाऽऽम्रलुम्बी विव्याध । तमपि पुनर्बाणेन तमपि पुड्खेऽन्येन बाणेने ति हस्तपर्यन्तं बाणपङ्क्तिरभूत् । क्षुरप्रेण वृन्तं छित्त्वा करेण बाणश्रेणिमुखस्थितां लुम्बीमाकृष्य कोशायै ददौ । साऽपि सम्प्रति मम विज्ञानं पश्येत्युक्त्वा सर्षपराशिं विधाय तदुपरि ननर्त । तद्राशौ सूची क्षिप्ता, तां सूची पुष्पपत्रैराच्छाद्य तदुपरि साऽनृत्यत् । सा वेश्या न सूच्या विद्धा, न च सर्षपराशिः क्षतोऽभूदिति चमत्कारस्तया दर्शितः । ___ ततो रथी जगाद-"अनेन दुष्करेणाऽहं तवोपरि तुष्टोऽस्मि, त्वं मां याचस्व, यन्ममाऽधीनं वस्त्वस्ति तदहं निश्चितं ते ददामि" । सोवाच-"मया किं दुष्करमकारि? येन त्वं रञ्जितो जातः, इदमपि नाऽधिकम् अस्मादप्यधिकमभ्यासेन किं दुष्करं भवति ? कि चाऽऽम्रलुम्बीच्छेदोऽयं न दुष्करः, नृत्तमपि न दुष्करं, स्थूलभद्रो यदशिक्षितं चकार तत्तु दुष्करं प्रतिभाति । तथाहि-यत्र मया सह द्वादशवर्षाणि भोगानभुक्त; तत्रैव चित्रशालायां सोऽखण्डितब्रह्मव्रतस्तस्थौ । स्थूलभद्रमुनि विना योगिनां चित्तं नकुलसञ्चाराद् दुग्धमिव स्त्रीसञ्चाराद् दुष्यति । स्थूलभद्रोऽखण्डितव्रतश्चतुर्मासी स्त्रीनिकटे यथा तस्थौ तथैकमपि दिनं कः स्थातुं शक्नोति ? लौहशरीरस्याऽप्यन्यस्य स्त्रीनिकटे षड्रस आहारश्चित्रशालावास, एकमपि व्रतभङ्गाय पर्याप्तम् । वरिव स्त्रिया: पार्श्वे धातुमया विलीयन्ते; स स्थूलभद्रमहामुनिवज्रमयोऽस्तीति मन्ये । महासत्त्वं कृतदुष्करदुष्करं स्थूलभद्रमुनि व्यावर्ण्य तदन्यं वर्णयितुं मुखमुद्रैव समुचिता। अथ रथिकः पप्रच्छ-"हे प्रिये ! त्वया यो वर्ण्यते स कोऽयं स्थूलभद्रनामा महासत्त्वशिरोमणिरस्ति ? साऽप्यूचे-आर्यपुत्र ! तवाऽग्रे यमहं वर्णयामि स नन्दनृपमन्त्रिशकटालपुत्रः स्थूलभद्राख्यो मुनिरस्ति" । एतच्छ्रुत्वा सम्भ्रान्तः कृताञ्जलिरित्युवाच-"तस्य स्थूलभद्रमहामुनेरहमधुना किङ्करोऽस्मि । अथ सा कोशा विरक्तं ज्ञात्वा धर्मदेशनां चकार । स सन्मतिर्मोहनिद्रां त्यक्त्वा प्रत्यबुध्यत । सा तं प्रतिबुद्धं बुधवा स्वाभिग्रहमकथयत् । स तच्छ्रुत्वा विस्मयोत्फुल्लनयन इदमुवाच"हे भद्रे ! स्थूलभद्रगुणवर्णनेन त्वयाऽहं प्रतिबोधितो भवत्यैव दर्शितं तस्य मार्गमद्य गमिष्यामि । हे भद्रे ! तस्य कल्याणमस्तु, त्वं स्वमभिग्रहं पालय" । स एवमुक्त्वा सगुरोः पार्श्वे गत्वा दीक्षां जग्राह । भगवान् स्थूलभद्रोऽपि तीक्ष्णं व्रतमपालयत् । तदा द्वादशवर्षप्रमाणो दुष्काल: समभूत् । Page #85 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - अष्टमः सर्गः १५७ mmannmannmannanamannamannannnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चाणक्य-चन्द्रगुप्तयोवृत्तान्तः इतश्च गोल्लदेशे चणकनामनि ग्रामे चणी नाम ब्राह्मणो बभूव । तद्भार्या च चणेश्वरी । चणी जन्मप्रभृति कुशल श्रावकोऽभूत् । तद्गृहे ज्ञानिनो जैनमुनयो न्यवात्सुः । अन्यदा चणेश्वर्या उद्गतदन्तः पुत्रोऽजनि । तं पुत्रं चणी तेभ्यो मुनिभ्यो नमोऽकारयत् । चणी तं जातदन्तं जातं सुतं मुनिभ्योऽकथयत् । ज्ञानिमुनयोऽप्येष बालको राजा भावीत्युवाच । चणी मत्पुत्रो राज्यारम्भेण नरकभाङ् मा भूदिति तस्य पीडामगणयन् दन्तानघर्षयत्, स तदपि मुनिभ्योऽकथयत् । मुनयोऽप्येवं बभाषिरे"एष दन्तघर्षणाद् राजानं स्वाज्ञावशंवदं करिष्यति" । चणी तस्य 'चाणक्य इति नाम चकार । चाणक्योऽपि सर्वविद्यापारङ्गतः श्रावको बभूव । स श्रमणोपासकत्वेन सदा सन्तोषधन एकस्य कुलीनस्य ब्राह्मणस्य कन्यां पर्यणैषीत् ।। अन्येधुश्चाणक्यस्य पत्नी मातृगृहं ययौ । तत्र तदा तद्भ्रातुविवाहोत्सवोऽभूत् । तस्मिन् महोत्सवे तस्या अन्या भगिन्य आययुः । ता वस्त्रा-ऽलङ्कारवत्यो महाधनिकस्वामिका आसन् । ताः सर्वा अद्भुतवाहनाः दासीभिः समन्विता: शोभनच्छवाडम्बरा माल्यभूषितमौलिका आगता आसन् । ताः सर्वा दिव्याङ्गरागिण्यस्ताम्बूलकरा: श्रियो देव्या वैक्रिया मूर्तय इवाऽऽसन् । चाणक्यस्त्री तु दिने रात्रौ चैकस्थूलवस्त्रा, विशुद्धशुद्धकाष्ठहारालङ्कारा, जीर्णकञ्चुका, जीर्णकौसुम्भोत्तरीया, ताम्बूलरहितमुखी, वपुर्मलैकसञ्जाताङ्गरागा, त्रपुकुण्डला, कर्मणा कर्कशकरी, सदा मलिनकेशी ताभिर्धनिक परिणीताभिर्भगिनीभिरुपाहस्यत । विवाहोत्सवं द्रष्टुमागतः सर्वोऽपि जनस्तामुपजहास । सा तु लज्जमाना कोणप्रविष्टा विवाहोत्सवमपि न ददर्श । अथ सा विषण्णवदना साजनैरश्रुभिर्भूमि तिलकयन्ती चाणक्यगृहे गता । चाणक्योऽपि तां प्रात:कैरविणीमिव म्लानमुखीं दृष्ट्वा तदुःखदुःखी मधुराक्षरमुवाच-“हे प्रिये ! तव कि मत्कृतोऽपराधोऽथवा प्रतिवेश्मिकृतोऽपराधो यद् वा पितृगृहकृतोऽपराधो यदेवं विषीदसि ?" यद्यपि साऽपमानदुःखिता कथयितुमसमर्थाऽऽसीत् । तथाऽपि पत्याग्रहवशात् तदुवाच। विज्ञातस्त्रीदुःखहेतुचाणक्योऽपि द्रव्यमुपार्जयितुं निरपायमुपायं व्यचिन्तयत् । पाटलीपुत्रनगरे नन्दराजो ब्राह्मणानां विशिष्टां दक्षिणां ददाति । ततोऽहं तत्र तदर्थं यामि, इति निश्चित्य स तत्राऽगमत् । तत्र राजसद्मन्यग्रे दत्तेष्वासनेषु प्रथमासने स उपाविशत् । चाणक्येन तदासनमाक्रान्तं यस्मिन्नासने राजैव प्रत्यहं सदोपविशन्नासीत् । यतस्तद् भद्रासनमासीत् । तदा नन्दनृपेण सहाऽऽगतो नन्दराजपुत्र उवाच-एष ब्राह्मणो राज्ञः प्रभावमाक्रम्योपविवेश । ततो राज्ञ एकया दास्या सामपूर्वकमूचे-“हे द्विज ! अस्मिन् द्वितीयासने त्वमुपविश" । स "मम कमण्डलुरत्र स्थास्यति" इत्युक्त्वा तत्र कमण्डलुं न्यधात् । एवं दण्डेन तृतीयं, जपमालया चतुर्थम्, उपवीतेन पञ्चमं चाऽसनमुत्थाप्यमानः स रुरोध । ततो दास्युवाचअयं विशेषो धृष्ट आद्यमासनं न मुञ्चति, अन्यान्यासनानि स रुणद्धि, तत् किमेतेन धृष्टेन वातुलेन ब्राह्मणेन ? इति सा चाणक्यं पादेनाऽऽहत्योत्थापयामास । चाणक्यस्तत्क्षणाद् दण्डस्पृष्ट उरग इव रुष्टः पश्यतः सर्वलोकस्य समक्षमिमां प्रतिज्ञां प्रकार-"अहं सकोश-भूत्यं Page #86 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - अष्टमः सर्गः १५८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ससुहृत्पुत्रं सबलवाहनं नन्दं महावायुस्तरुमिवोन्मूलयिष्यामि । आध्मातताम्रताम्रमुखः क्रुधाग्निरिव ज्वलंश्चाणक्यः सभ्रूक्षेपं शीघ्रं नगराद् निःससार । धीमच्छिरोमणिश्चाणक्य एवं चिन्तयामासयद् बिम्बान्तरितो राजाऽहं भविष्यामि, 'राज्ययोग्यं कञ्चिन्नरं पश्यामि' इत्यभिमानात् स भूमौ बभ्राम । यतोऽभिमानिनोऽपमानं न विस्मरन्ति । ___अन्यदा चणेश्वरीकुक्षिजन्मा स ब्राह्मणो नन्दराजस्य मयूरपोषका यत्र न्यवात्सुस्तत्र ययौ । चाणक्यः परिव्राजकवेषधारी संस्तस्मिन् मयूरपोषकग्रामे भिक्षार्थं प्राविशत् । तदा मयूरपोषकवरस्याऽऽपन्नसत्त्वायाः कन्यायाश्चन्द्रपानाय दोहदोऽभूत्, तत्कुटुम्बेन स दोहदश्चाणक्याय कथितः । कथमसौ पूरणीय इति पृष्टश्चाणक्य उवाच-"यद्येतस्या जातमात्रं बालकं मम दत्थ, तदाऽहमस्याश्चन्द्रपानदोहदं पूरयाम्येव" । अस्या अपूर्णे दोहदे गर्भनाशो मा भूदिति तन्माता-पितरौ चाणक्यवचनं स्वीचक्रतुः । अथ चाणक्यः सच्छिद्रं तृणमण्डपं व्यरचयत् । तदूर्वे पिधानधारिणं नरं गुप्तममुचत् । तस्याऽधः पयसा भृतं स्थालं रचयामास । कार्तिकपूर्णिमामध्यरात्रौ तत्र चन्द्रः प्रत्यबिम्बत । तत्र सङ्क्रान्तं तं पूर्णचन्द्रं गुर्विण्या अदर्शयत् । पिबेत्युक्ता सा विस्मेरमुखी तं पातुमारेभे । सा यथा यथाऽपिबत् तथा तथा गुप्तपुरुषस्तृणमण्डपगतं तच्छिद्रं पिधानेन प्यधात् । एवं दोहदे पूरिते समये सा पुत्रमजीजनत् । पितरौ तस्य नाम 'चन्द्रगुप्त' इति चक्रतुः । मयूरपोषककुलकैरविणीचन्द्रः स चन्द्रगुप्तो दिने दिने चन्द्र इव व्यवर्धत, चाणक्योऽपि सुवर्णोपार्जनबुद्ध्या परिभ्रमन् धातुवादविशारदानन्वेषयितुं प्रारेभे । ___इतश्च चन्द्रगुप्तो बालकैः सह प्रत्यहं क्रीडंस्तेभ्यो ग्रामादिकं भूप इव सदा प्राप । बालकान् हस्तीकृत्याऽश्वीकृत्य चाऽऽरुरोह । प्रायोभाविनी लक्ष्मीरिङ्गितैरपि सूच्यते । क्रमेण चाणक्यः परिभ्रमंस्तत्रैवाऽगात् । चन्द्रगुप्तं तादृशचेष्टं दृष्ट्वा विस्मितोऽभूत् । चाणक्यस्तं परीक्षितुमेवमुवाच-“हे राजन् ! त्वया मह्यमपि किञ्चन दीयताम्" । चन्द्रगुप्तोऽप्युवाच-“हे ब्राह्मण ! त्वं इमा ग्रामगवीर्यथारुचि गृहाण, मद्दत्ताः को निषेत्स्यति ?" चाणक्यः स्मित्वोवाच-"इमा गाः कथं गृह्णामि ? अहं गोस्वामिभ्यः परं बिभिमि, यतस्ते मां मारयिष्यन्ति" । चन्द्रगुप्तोऽप्युवाच-"त्वं मा भैषीः, तुभ्यं मया गाव: प्रदत्ता गृह्यन्तां, यतः पृथिवी वीरभोग्याऽस्ति" । विज्ञानवानपि चाणक्योऽचिन्तयत्-"अहो ! असौ विज्ञानवानस्ति । अतस्तत्समीपस्थान् बालकान् पप्रच्छ-"असौ बालकः कोऽस्ति ?" ते बाला ऊचुः"परिव्राजकपुत्रोऽसौ, मात्रा निजोदरस्थ एव परिव्राजकाधीनीकृतः"। चाणक्योऽपि स्वयं लब्धं तं ज्ञात्वा बालकमुवाच"यदीयस्त्वं स एषोऽहमस्मि, त्वमागच्छ, तुभ्यं राज्यं ददामि" । चन्द्रगुप्तोऽपि राज्यलाभाय तदङ्गुलौ ललाग । चाणक्योऽपि तमादाय चौर इव शीघ्रं पलायाञ्चक्रे । ततश्चाणक्यो धातुवादोपार्जितेन द्रव्येण नन्दमुन्मूलयितुं पत्त्यादिसामग्री सङ्कलय्य पत्त्यादिसर्वबलेन पाटलीपुत्रनगरं चतुर्दिशमवेष्टयत् । ततो निर्गत्य नन्दराजस्तदाऽल्पसारं सर्वं चाणक्यशिबिरमजमारणलीलया कुट्टयामास । ततः समयविदौ चाणक्य-चन्द्रगुप्तौ पलायाञ्चक्राते । यतो 'नंष्ट्वाऽपि प्राणान् रक्षेत्, आत्मनि सति लक्ष्य: पुनरागच्छन्ति' इति नीतिरस्ति । Page #87 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - अष्टमः सर्गः १६१ १६० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नन्दोऽपि चन्द्रगुप्तं ग्रहीतुं वरसादिन आदिशत् । 'यतो राजानो राज्यकाक्षिणं न सहन्ते' । जितशत्रौ नन्दे पुनर्नगरं प्राप्ते सति नागराः स्वस्वसम्पदनुरूपमुत्सवं चक्रुः । तेषां सादिनामेक: सादी चपलेनाऽश्वेनाऽतिनिकटे देशे गच्छतश्चन्द्रगुप्तस्य प्राप्तः । प्रत्युत्पन्नबुद्धिश्चाणक्योऽपि तं सादिनं दूराद् दृष्ट्वा चन्द्रगुप्तायैवमादिशत्,-"पद्मिनीषण्डमण्डितस्याऽस्य सरसो जले क्रीडायामिव मज्जोन्मज्जेश्च मद्वचनेन । अथ धीरश्चन्द्रगुप्तोऽपि साधितजलस्तम्भनविद्य इवाऽगाधेऽपि जले ममज्ज । चाणक्यः स्वयं तु सरस्तटे सुस्थिरासनो निर्ममो योगीव समाधिनाटनं कृत्वाऽस्थात् । अथ पृथ्व्यातोद्यकोणाघातसदृशपादपातशालिना वायुवेगेनाऽश्वेन स नन्दसादी समागमत् । स चाणक्यं पप्रच्छ-“हे भदन्त । त्वयाऽद्य किं कोऽपि नूतनतरयौवनः पुरुषो दृष्टः ? चाणक्यः समाधिभङ्गभीरुत्वाभिनयेनाऽङ्गुलिचेष्ट्या हुं कुर्वं. स्तस्य जलमदर्शयत् । स सादी चन्द्रगुप्तं जलादाक्रष्टुं शीघ्रं जले मतुं नर्तकी चलनीमिव परिहितवस्त्रादिकं मोक्तुमारेभे । अथ चाणक्यस्तस्यैव खड्गं गृहीत्वा निर्दयो जलदेव्या बलीकर्तुमिव तन्मस्तकं चिच्छेद । "आगच्छ वत्स ! आगच्छ वत्स !" इति चाणक्येनोक्ते क्षणाच्चन्द्रगुप्तश्चन्द्रसागराद् इव सरोवराद् निर्ययौ । चाणक्यश्चन्द्रगुप्तं तस्मिन्नश्वे समारोप्योवाच-"यदाऽहं सादिने त्वामाख्यं तदा त्वया किं चिन्तितम् ? चन्द्रगुप्त उवाच-"हे आर्य ! तदा मयैतच्चिन्तितम्-"इदमेव श्रेय आर्यों जानाति न त्वहम्" । चाणक्योऽचिन्तयत्-"अवश्यमयं सर्वदाऽधीनोऽस्ति, अयं यन्तुर्मे भद्रगज इव व्यभिचारी न भवति । गच्छतोस्तयोः पृष्टे यमदूत इवोद्भटोऽन्यो नन्दसादी वायुवेगेनाऽश्वेन पुनराययौ । चाणक्येन तमायान्तं दृष्ट्वा पुनरुक्तश्चन्द्रगुप्तः सरोमध्ये हंस इव निममज्ज । चाणक्यो जलतटस्थं रजकमुवाच-"राजा रजकेभ्यो रुषितः, यदि त्वं न मुमूर्षसि तदा नश्य" । रजकोऽपि तमश्ववारमुदायुधं दूराद् दृष्ट्वा सत्यमेवेति निश्चित्य जीवितप्रियत्वात् पलायिष्ट । वस्त्रक्षालनेऽपि कृतश्रमश्चाणक्यस्तद्वस्त्राणि स्वयं वृहतीक्षालनैः शोधयितुमारेभे । तमायान्तं पूर्ववत् पृच्छन्तं सादिनं कुशाग्रबुद्धिचाणक्यस्तथैव जघान । चाणक्य-चन्द्रगुप्तौ तस्मात् स्थानात् प्रजग्मतुः । गच्छंश्चन्द्रगुप्तो बुभुक्षया क्षामकुक्षिश्चिखिदे । चाणक्यश्चन्द्रगुप्तं ग्रामाद् बहिर्मुक्त्वा ग्रामाभिमुखं भक्तमानेतुं चचाल । यतो ग्रामं विना भक्तं न लभ्यते । स चाणक्यो ग्रामाद् निर्गच्छन्तं तत्कालकृतभोजनं मन्दमन्दपदं तुन्दपरिमार्ज भट्टमपश्यत् । तं स पप्रच्छ तत्र ब्राह्मणस्य पालिर्लगति न वा ? भट्टोऽप्युवाच-"लभत्येव यतो मम सम्प्रति लग्ना" । पुनश्चाणक्यस्तं पप्रच्छ-“हे भट्ट ! त्वया किं भुक्तम् ?" स उवाच-"सरसदना कृतशालिकरम्बकं भुक्तम्"। चाणक्योऽचिन्तयत्-"ग्रामे भक्तार्थं भ्रमता मम विलम्बः स्यात्, तत्कथं मां विना चन्द्रगुप्तो भविष्यति ? एकाकी चन्द्रगुप्तो दुर्वारविक्रमैनन्दसादिभिः श्वभिः सूकर इव ग्रहीष्यते । यदि चन्द्रगुप्तकुमारो नन्दसादिभिर्गृह्येत मम तदा मनोरथः स्वप्नराज्यतुल्यो भवेत् । तस्मादस्य भट्टस्योदरात् करम्बकमाकृष्य चन्द्रगुप्ताय ददामि । तस्य प्राणा यथा तथा रक्षणीयाः सन्ति" । इति विचिन्त्य चाणक्यस्तस्य भट्टस्योदरं विदारयामास । चाणक्योऽपि पात्रादिव भट्टोदरात् करम्बं सद्यः स्वयमाकृष्य चन्द्रगुप्तमभोजयत् । Page #88 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - अष्टमः सर्गः १६३ mnamansamannnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn १६२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो भ्रमंश्चाणक्यः सायंकाले खगो नीडमिवैकं ग्रामं प्राप । तदा भिक्षार्थे तत्र ग्रामे प्रविष्टः स परिभ्रमन् कस्याश्चिद्दीनाया: वृद्धायाः गृहे ययौ । तदा बालकानामुष्णा रब्बा परिवेषिताऽभूत् । तत्रैको बालकोऽतिबुभुक्षित: करं मध्ये चिक्षेप । ततः स्थविरा दग्धाङ्गुलिकं रुदन्तं बालमुवाच-“हे बालक ! चाणक्य इव त्वं किञ्चिदपि न जानासि" | चाणक्यस्तद्वचः श्रुत्वा तद्गृहे प्रविश्य वृद्धां पप्रच्छ-"अस्मिन् बालके कोऽयं चाणक्यदृष्टान्तस्त्वया दत्तः ?" स्थविरोवाच-"आदौ बहिर्देशमसाधयंश्चाणक्योऽल्पमतिर्नन्दपुरं रुन्धन् वैफल्यं प्राप, तथाऽयं बाल: शनैः पार्श्वेष्वभुञ्जानो मध्य एव हस्तं क्षिपन्नुष्णरब्बयाऽङ्गुलिषु दग्धोऽभूत् । ततश्चाणक्यः-"अहो ! अस्याः स्त्रिया अपि बुद्धिमत्ता" इति चिन्तयन् हिमवत्कूटं नाम नगरं ययौ । तत्र चाणक्यः पर्वताख्येन राज्ञा सह तत्सहायताकाम्यया मैत्री चकार । अन्यदोवाच च-"हे पर्वतराज ! नन्दराजमुन्मूल्य तद्राज्यं संविभज्याऽऽवां भ्रातराविव गृह्णीव । तत: पर्वतराजस्तद्वचनं स्वीचकार । चाणक्ययुतः स हि केसरीव सन्नद्धोऽभूत् । अथ चाणक्य-चन्द्रगुप्त-पर्वता नन्ददेशं साधयितुं बहिरुपचक्रमिरे । तैरेकं नगरं रुद्धमपि भक्तुं नाऽशकि। चाणक्यो भिक्षुवेषेण भिषार्थं तत्र प्राविशत् । तत्र त्रिदण्डी चाणक्यः पुरमध्ये परिभ्रमन्ननादिकाः सकलाः सप्त मातृदेवता अपश्यत् । ततश्चाणक्योऽचिन्तयत्-"इमाः सकला देवता इदं नगरं नूनं रक्षन्ति । अत एतत्पुरं न भज्यते । इमा मातरः कथमुत्थापनीया इति चाणक्यो यावच्चिन्तयामास तावत् पुररोधनपीडितै गरिकैरपृच्छयत-"हे भगवन्! एतन्नगरं कदा रोधरहितं भविष्यति ? इति ब्रूहि, प्रायो भवादृशाः सर्वं खलु जानन्ति । चाणक्य उवाच-"यावदिमा मातर इह सन्ति तावदस्य पुरस्य रोधमुक्तिः कुतः स्यात् ?" ततः पौरा मातृमण्डलं शीघ्रमुत्पाटयामासुः । आर्तस्तथा विशेषतो धूर्तवश्यश्च किं न कुरुते ? तदा चाणक्यदत्तसङ्केतौ चन्द्रगुप्त-पर्वतौ पलायिषाताम् । ते नागराश्चाऽत्यन्तं जहषुः । सागरवेलेव दुर्धरौ तौ पुनः परावृत्त्याऽचिन्तितौ तत्र पुरे प्रविविशतुः ।। ततश्चाणक्यसहायौ महारथौ तौ द्वावपि तत्पुरं भक्त्वा नन्दनृपदेशं साधयामासतुः । चाणक्यबुद्ध्या महापराक्रमौ तौ सेनाभिः पाटलीपुत्रनगरं परितोऽरुधताम् । नन्दराज: पुण्यक्षयेण क्षीणकोशः क्षीणबलः क्षीणबुद्धिः क्षीणपराक्रमोऽभूत् । यतो यावत् पुण्यं तिष्ठति तावदेवर्द्धयः सन्ति । अनन्तरं चाणक्यसमीपे नासिकागतप्राणो नन्दो जीवितं याचितवान् । कस्य जीवनं न प्रेयः । पुनश्चाणक्योऽज्ञापयत्, त्वम् एकेन रथेन निर्याहि, तत्र च स्वेष्टं वस्तु संस्थापयेः । यत एकेन रथेन गच्छतस्ते कोऽपि नोपद्रोता, न च ब्राह्मण इव हन्यसे, अतः समाश्वसिहि, मा भैषीः । तदा नन्दराड् द्वे भार्ये, कन्यामेकां यथाशक्ति वसूनि च रथमारोप्य नगराद् निरगमत् । तदा रथस्था नन्ददुहिता आयान्तं चन्द्रगुप्तं दृष्ट्वा शीघ्रोत्पन्नानुरागा देवीव निनिमेषनेत्राऽभवत् । नन्दनन्दिनी हावभावैश्चन्द्रगुप्तस्य सम्भोगस्वीकृतिं च प्रादादिव । नन्दः तां प्राह-हे वत्से ! स्वैरं स्वयंवरा भव । कन्यानां स्वयंवरः प्रशस्यते । हे आयुष्यमति ! तुभ्यं स्वस्ति, रथादुत्तर, मां Page #89 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मुञ्च । तव परिणयनशल्यं त्वया सह यातु, एवमादिष्टा सा शीघ्रं रथादुत्तीर्य यावच्चन्द्रगुप्तस्य रथवरमारोढुं प्रक्रान्तवती चन्द्रगुप्तरथस्य नवारका यन्त्रक्षिप्तेक्षुवदभज्यन्त । असावमङ्गलकरी केयं मद्रथमायाति ? इति रथमारुरुक्षं तां चन्द्रगुप्तो निवारयामास । चाणक्योऽप्युवाच - "हे चन्द्रगुप्त ! इमां मा निवारय, इदं शकुनं शुभाय, अन्यथा त्वं मा मंस्थाः । हे वत्स ! अनेन शकुनेन तव वंशो नव पुरुषयुगानि यावदधिकाधिकां वृद्धिमेव गमिष्यति” । १६४ ततश्च नन्दगृहे चन्द्रगुप्त - पर्वतौ प्रविष्टौ विपुलां नन्दसम्पत्तिं संविभक्तुमारेभाते । तत्रैका कन्या सर्वस्वमिव रक्षिताऽभूत्। नन्दभूपस्तां विषेणोपाजीवत् । पर्वतकस्य तस्यामनुरागस्तथा बभूव यथा तां हृदये ध्यातव्यदेवतावदस्थापयत् । चाणक्यस्तां पर्वतायैव ददौ । तदैव च विवाहमङ्गलमारेभे । तदा होमाग्नितापोत्पन्नतत्स्वेदजलसङ्गमात् पर्वतकेऽपि तस्या विषं सञ्चक्राम । तदा पर्वतकः सङ्क्रान्तविषवेगार्तः शिथिलीभूतसर्वाङ्गः संश्चन्द्रगुप्तमुवाच-अहं पीतविष इव वक्तुमपि नोत्सहे; हे वत्स ! मां परित्रायस्व, अहं म्रिये नाऽत्र संशयः " । मान्त्रिका मान्त्रिका वैद्या वैद्या इत्यनुभाषिणं चन्द्रगुप्तं चाणक्यः कर्णे भूत्वैवमन्वशात् - "औषधं विनैष ते व्याधिर्याति तहि यातु, मौनं कुरु, इममुपेक्षस्व, अमुं विना ते कल्याणं भवतात् । अर्धराज्यहरं मित्रं यो न हन्यात् स हन्यते इति हेतोरयं मारणीयः, यदि स्वयमयं म्रियते तर्हि त्वं पुण्यवानसि " । बुद्धिमदग्रेसरश्चाणक्य उत्क्षिप्तभृकुटीभङ्गश्चेष्टयैवमनुशिष्य चन्द्रगुप्तं वारयामास । ततश्च पर्वतकः पञ्चत्वं प्राप । तदा समस्तं तद्राज्यं चन्द्रगुप्तस्यैवा परिशिष्टपर्व अष्टमः सर्गः ऽभवत् । एवं च श्रीमहावीरनिर्वाणात् पञ्चपञ्चाशदधिके वर्ष व्यतीते चन्द्रगुप्तो राजाऽभूत् । **** १६५ एकदा केऽपि नन्दानुजीविनो गुप्ते प्रदेशे स्थिताः पुरुषाश्चन्द्रगुप्तराज्ये चौर्यं चक्रुः । अथ चाणक्यः कञ्चित् पुररक्षाक्षमं पुरुषं पश्यन्नेकस्य कौलिकस्य गृहमगच्छत् । तदा स मत्कोटकदरीषु वह्नि क्षिपन्नासीत् । चाणक्यस्तं पप्रच्छ किं करोषि ? तदा स उवाचमत्पुत्रोपद्रवकरान् दुष्टानिमान् मूलादुन्मूलयामि । दुष्टानामन्यन्नोचितम् । अहो ! धीव्यवसायाभ्यामयं कौलिकः प्रकृष्टोऽस्ति" इति चिन्तयंचाणक्यश्चन्द्रगुप्तमुपययौ । शिक्षाविचक्षणश्चाणक्यः कौलिकमाह्वाय्य चन्द्रगुप्ताद् नगराध्यक्षं कारयामास । ते चौरा नन्दपुरुषास्तेन विविधैर्भोजनादिभिर्विश्वास्य जघ्निरे, चाणक्यस्य बुद्धिर्वृथा न भवति स्म । इतश्च चाणक्यो यस्मिन् ग्रामे पुरा भिक्षां न प्राप, तद्वासिनः कुटुम्बिन आह्वयत् । तदा तेषां क्षुद्रबुद्धयोत्पन्नकोपश्चाणक्य"आम्राणां वंशानां वृतिं कुरुत" इत्यादिदेश । ततश्चाणक्यनिर्देशेन तैस्तद्ग्रामकुटुम्बिभिराम्राणां तरूणां वंशीश्छित्त्वा वृतिश्चक्रे । ततश्चाणक्यो - " रे रे मूर्खाः ! मया वंशीनामाम्रैर्वृतिः क्रियतामित्यादेशि " इति वदंश्चुक्रोध । कृत्रिममिमं दोषमुत्पाद्य तेषां कुटुम्बिनां सबालवृद्धं ग्रामं रुषाऽज्वालयच्च । अन्येद्युश्चन्द्रगुप्तस्य कोशो नास्तीति चिन्तया चाणक्यो दीनारै: स्थालमापूर्य लोकं प्रत्युवाच - "अहो जनाः ! मया सहाऽक्षैर्दीव्यन्तु", यो मां जेष्यति स दीनारपूरितमिदं स्थालं पणं Page #90 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लभते; यद्यहं यं जेष्यामि तत्पादेकं दीनारं ग्रहीष्यामि; इयं मे वाक् शिलारेखावद् निश्चलाऽस्ति" । ततश्चाणक्यो जनैः सह दिवानिशं रन्तुं प्रारेभे, कूटपाशकैस्तान् जिगाय च । तथैष धनोपार्जनोपायः सविलम्बः स्वल्पोऽपीत्यन्यमुपायं कर्तुं सर्वान् पौरानाह्वयत् । ततस्तान् भोजयित्वा वरवारुणीमपाययत् । पानगोष्ठ्यामतिबहुलानुच्चतालानवादयच्च । तथा धनोपार्जनदक्षः स हसन-नर्तन-गानादिप्रमत्तचेष्टितमभिनयन्नुवाच-"मम धातुरक्ते द्वे वस्त्रे, त्रिदण्डं स्वर्णकुण्डिका, वशवर्ती राजा च वर्तते, तस्माद् यूयं झुम्बरी वादयत"। ततश्च कौलिकैझुम्बरीवाद्ये वादिते सति परो मत्तो नागरो हस्तमुत्थाप्योवाच-"योजनसहस्रयाने हस्तिनो यानि पदानि तानि प्रत्येकं सुवर्णसहस्रेणाऽहं पूजयामि" । प्राग्वद् वादितायां झुम्बर्यामन्यो नागरिक उवाच-"तिलानामाढक उप्त उत्पन्ने भृशं फलिते यावन्तस्तिला भवन्ति, तावन्ति मम गृहे स्वर्णसहस्राणि सन्ति, तेषां सङ्ख्या नाऽस्ति । पूर्ववद् वादितायां झुम्बर्यामन्य उवाच-"अहं बहुतरेण जलपूरेण प्रवहन्त्या गिरिनद्याः पयोवेगमेकदिनोत्पन्नेन गोनवनीतेन पालि कृत्वा निरुणध्मि । पूर्ववद् वादितझुम्बर्यामन्योऽवदत्-"अहं जात्यनवाश्वबालानामेकदिनोत्पन्नानां समुत्पाटितैः स्कन्धकेशैः पाटलीपुत्रनगरं समन्तत: तरुं तन्तुभिलूंतेव वेष्टयामि" । प्राग्वद् वादितझुम्बर्यामन्य उवाच-"मम गृह एकः शालिभिन्नभिन्नशालिबीजोत्पादकः, अन्यो गर्दभिकाशालिः स पुनर्लन: लूनः पुनः पुनः फलतीत्येतद् रत्नद्वयं मम वर्तते । परिशिष्टपर्व - अष्टमः सर्गः १६७ प्राग्वद् वादितझुम्बर्यामन्यो मदमत्त आह स्म-"मम गृहे सहस्रसङ्ख्यकं द्रव्यमस्ति, अहमनृणोऽस्मि, सुगन्धिश्चाऽस्मि श्रेष्ठ चन्दनलिप्ताङ्गः, मम स्त्री सदाऽधीनाऽस्ति, मम तुल्य: सुखी कोऽपि नाऽस्ति, प्राग्वद् वादितझुम्बयाँ मतिज्ञानमहासमुद्रश्चाणक्य एवं सर्वेषां धनिनां धनमज्ञासीत् । एकयोजनगामिहस्तिपदप्रमितिसुवर्णं तथैकतिलोत्पन्नतिलप्रमिता: स्वर्णसहस्रकाः, प्रतिमासं चैकदिननवनीतभवं घृतम्, एकस्मिन् दिने जाता जात्यकिशोराः, कोष्ठागाराणां भरणप्रमाणा: शालयोऽपि तैः पौरैश्चाणक्याय ददिरे । यतश्चाणक्यस्तेषां मर्मज्ञोऽभूत् । चाणक्यस्तेन धनेन चन्द्रगुप्तं समर्थं चकार यतो राज्ञां धीनिधिः सचिव: कामधेनुर्भवति । इतश्च तस्मिन् कराले द्वादशाब्दके दुष्काले चन्द्रगुप्तपुरे सुस्थितनामाऽऽचार्योऽवसत् । अन्नदौलभ्येनाऽनिर्वाहात् स्वगणं सोऽन्यत्र देशे प्राहिणोत्, स तु स्वयं तत्रैव तस्थौ । द्वौ क्षुल्लको [मुनी] पुनः परावृत्य तत्रैवाऽऽजग्मतुः । आचार्यैः किमागताविति पृष्टौ तावुचतु:-"गुरुपादानां वियोगं सोढुमावां न शक्नुवः । तस्माद् व: पार्वे नौ मरण-जीवने शुभे"। आचार्य उवाच-"अत्र युवाभ्यां साधु न कृतं, यतो मुग्धत्वाद् युवामगाधक्लेशसमुद्रे पतिष्यथ:"। इत्युक्त्वा गुरुणाऽनुज्ञातौ तौ भक्त्या गुरुं शुश्रूषमाणौ तच्चरणकमलमिलिन्दौ तत्रैवाऽस्थाताम् । ततो दुर्भिक्षप्रभावादल्पलब्धया भिक्षया गुरून् सारयित्वा तौ स्वयं भुञ्जानावत्यसीदताम् । अपूर्यमाणाहारौ बुभुक्षया क्षीयमाणौ तौ मुनी रहसि परस्परं मन्त्रयामासतु:-"गुरुणा गीतार्थमुनीन् प्रति प्रकाश्यमानमदृश्यत्वकारकं दिव्यमञ्जनमश्रौष्व । तस्मादयं प्रयोग Page #91 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - अष्टमः सर्गः १६९ १६८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः आवाभ्यां कुक्षिभरणाय प्रयोक्तव्यः । पुनः पूर्णकुक्षी निश्चिन्तौ गुरुपादानुपास्वहे"। अथ तौ द्वौ मिलित्वा अदृश्यीभूय तस्मिन्नेव दिने भोजनावसरे चन्द्रगुप्तस्य निकटं जग्मतुः । अदृश्यमानौ तौ मुनी चन्द्रगुप्तपात्रे प्राणप्रियौ बन्धू इव बुभुजाते । एवं प्रतिदिनं भुञ्जानाभ्यां ताभ्यां राजोनोदरत्वेन जितेन्द्रियस्तपस्वीवोदस्थात् । शनैः शनैस्ताभ्यां हृतभोजनश्चन्द्रगुप्तः कृष्णपक्षचन्द्र इव क्षीणो बभूव । तथाऽपि स निजामतृप्ति कमपि नाऽवोचत् । मदवान् हस्तीव नित्यं क्षुत्पीडितोऽप्यस्थात् । एकदा सुधीश्चाणक्य एकान्ते तमपृच्छत्-“हे वत्स ! क्षयरोगेणेव किं प्रत्यहं क्षीयमाणस्त्वमसि ? चन्द्रगुप्त उवाच-"मम न्यूनं न परिवेष्यते, किन्तु कोऽपि प्रेत इव मम भोजनमाच्छिनत्ति । मां पूर्णाहारभोजनं तटस्थिता आर्या जानन्ति । अहमर्द्धमपि न भुजे । अत: किञ्चिदप्यहं न जाने । चाणक्य उवाच-"अद्याऽपि त्वं किमेवं मुग्धधीरसि? यदतत्त्वज्ञेन मुमुक्षुणेवाऽऽत्मा चिरं खेदितः, भवत्विदानीमपि त्वं युक्तमाख्यातवान् । तव भोजनलुण्टाकमहं शीघ्रं ग्रहीष्यामि"। इत्युक्त्वा चाणक्यः प्रातःसमये चन्द्रगुप्तभोजनस्थानभूतले कोमलादपि कोमलं लोष्टचूर्णं न्यक्षिपत् । भोक्तुमुपविष्टे चन्द्रगुप्तनृपे भोक्तुमागतयोस्तयोरदृश्यमानयोस्तत्र सचूर्णे भूतले पदचिह्नानि जातानि । चाणक्यो राज्ञि भुक्तोत्थिते तत्र तयोश्चरणपङ्क्ति दृष्ट्वा मनस्यचिन्तयत्-"कोऽपि भून्यस्तपादः सिद्धाञ्जनो नरोऽदृश्यीभूय स्थालाल्लीलया भोजनं प्रत्यहं हरति" । इति चाणक्यो द्वितीयदिने भोजनालये भोजनसमये गाढं धूममकारयत् । पूर्ववच्चन्द्रगुप्तेन सहैकत्र स्थाले भुञ्जानयोस्तयोः प्रसरता धूमसमूहेन नेत्राण्यबाष्पायन्त । ततस्तयोरदृश्यीकरणं सर्वं नेत्राञ्जनं बाष्पजलैरतिशीघ्रं पङ्कवद् दूरीबभूव । ततस्तौ नेत्राञ्जनरहितौ तत्र भाजने भुञ्जानौ कोपाद् भृकुटिकारिणा नृपलोकेनाऽदर्शिषाताम् । तयोर्यक्कारकृद्वचः कोऽपि चाणक्यभिया नोवाच । परन्तु चाणक्यः प्रवचनोड्डाहभीरुरिदमुवाच-"युवामृषिरूपेण पितरौ परमेश्वरावस्मासु प्रसादं कृत्वा स्वस्थानाय गच्छतम्" । __तयोर्गतयो राजा सविषादमिदमुवाच-"अहमनयोरुच्छिष्टभोजनेन दूषितोऽस्मि" । ततश्चाणक्य उवाच-"राजन् ! स धन्योऽस्ति यो विरक्ताय भिक्षां ददाति । त्वं त्वेकस्थालातिथीभूतमुनिकोऽसि तहि किमुच्यते?" चन्द्रगुप्तमेवं संबोध्याऽऽचार्यपार्श्व गत्वा क्षुल्लान्यायं प्रदर्शयन्नुपालम्भं ददौ । आचार्य उवाच-"अनयोः क्षुल्लयोः को दोषः ? यद् भवादृशाः सयपुरुषाः स्वकुक्षिम्भरय: सन्ति" । चाणक्योऽपि तमाचार्य मिथ्यादुष्कृतपूर्वकं वन्दित्वोवाच-"त्वयाऽहं प्रमादी साधु शिक्षितोऽस्मि, अद्याऽरभ्य प्रत्यहं यद्भक्त-पानोपकरणादिकं साधूपकारकं तन्मम गृहे ग्रहीतव्यम्" । इत्यभिग्रहमादाय दृढनिश्चयश्चाणक्यस्तदादि निजगार्हस्थ्यं सफलीकुर्वन् तं पालयामास । अथ तस्य पितेव हित: स चाणक्यः पाषण्डिमतभावितं मिथ्यादृष्टिं चन्द्रगुप्तमनुशासितुमारेभे-"यतोऽमी पापा असंयताः Page #92 -------------------------------------------------------------------------- ________________ १७० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्त्रीषु लम्पटाः संभाषितुमपि न योग्यास्तर्हि तत्पूजायां तु कथैव का ? कषायपक्षिवृक्षेषु कृतघ्नेषु दुरात्मस्वेतेषु दानम् - ऊषरेषु जलवृष्टिवद् व्यर्थं भवति । हे राजन् ! आत्मानमाश्रितं च लोहनौकावद् भवसागरे पातयत्सु तेषु भक्तिं न कुरु" । चन्द्रगुप्त उवाच - "इदं त्वद्वचनं मे गुरुसम्मतं, तथाऽपि ते संयमिनो न सन्तीति मां प्रत्यायय । ततश्चाणक्यो नगर एवं प्रघोषणामकारयत् - " राजा सर्वेषां पाषण्डिनां धर्मं श्रोष्यति” । ततो विचक्षणः स सर्वांस्तानाहूय नृपान्तःपुरसमीपतर एकान्ते देशे निवेशयामास । तदा चाणक्येनाऽग्रतोऽपि हि शुद्धान्तासन्नदिग्भागेऽलक्ष्यं सूक्ष्मं लोष्टचूर्णमक्षेपि । तत्र चाणक्येनोपदेशनार्थं प्रवेशिताः पाषण्डिनो विजनं स्थानं ज्ञात्वा राजान्तः पुराभिमुखं ययुः । ततः स्वभावेन स्त्रीलोला असंयता राजाङ्गनासमूहं गवाक्षविवरैर्द्रष्टुमारेभिरे । ते दुराशया राजस्त्रियः पश्यन्तस्तावत् तस्थुः यावद् राजा नाऽऽययौ । राज्ञि समागते तूपविविशुः । ततस्ते चन्द्रगुप्ताय धर्ममुपदिश्य पुनरन्त:पुरदिदृक्षयाऽऽगमनमिच्छन्तो जग्मुः । तेषु गतेषु चाणक्यश्चन्द्रगुप्तमुवाच - " हे वत्स ! त्वमिह पाषण्डिनां स्त्रीलम्पटतालक्षणं पश्य । गवाक्षविवरक्षिप्तलोचनैरजितेन्द्रियैस्तैस्त्वदागमनपर्यन्तं त्वदन्तःपुरमदर्शि । त्वं तेषां गवाक्षविवराधस्तात् स्पष्टं प्रतिबिम्बितामिमां पादपङ्क्त दृष्ट्वा प्रतीहि " । ततश्चाणक्यो राज्ञि सञ्जातप्रत्यये सति द्वितीयदिने तत्र धर्ममुपदेष्टुं जैनमुनीनप्याह्वयत् । अथ ते साधवः स्वाध्यायावश्यकेन नृपागमनमपालयन् । प्रथमत आसनेष्वेवोपाविशन् । ततश्च ते साधवो धर्ममुपदिश्येर्यासमितितत्परत्वाद् भूमिमेव पश्यन्त उपाश्रयं ययुः । १७१ परिशिष्टपर्व अष्टमः सर्गः ततश्चाणक्यो गवाक्षविवराधोभागे तं लोष्टचूर्णं यथास्थं दृष्ट्वा तच्चन्द्रगुप्तमदर्शयदुवाच च "एते मुनयः पाषण्डिवद् नाऽत्राऽऽजग्मुः, अन्यथा तदीयचरणप्रतिबिम्बानि कुतो न दृश्यन्ते ? अथ चन्द्रगुप्तराजः समुत्पन्नविश्वास: साधून् गुरून् मेने । विषयेषु योगविदिव पाषण्डिषु विरक्तो बभूव । प्रसिद्धधीगुणश्चन्द्रगुप्तलक्ष्मीलतामण्डपश्चाणक्य एवं नानाप्रकारैश्चिन्तयामास । अहं शनैः शनैश्चन्द्रगुप्तं विषाहारं साधयामि, यथाऽस्य रसायनं स्यात्, विषदश्च न प्रभवेत् । अथ महाबुद्ध्या बृहस्पतिरिव चाणक्यः प्रतिदिनमधिकाधिकं विषाहारमभोजयत् । ततश्चाऽन्येद्युश्चन्द्रगुप्तेन सह तस्य गुर्विणी दुर्धरानाम्नी राजी रागोत्कर्षेण भोक्तुमारेभे । चाणक्यो विषान्नं भुञ्जानां तां दृष्ट्वा गर्भविनाशशङ्कया त्वया किं कृतमिति शीघ्रमुवाच । राज्ञी विषभोजनमात्रेण पञ्चत्वं प्राप । ततश्चाणक्यो दध्यौ - "अस्या गर्भो न नश्यतु" इति तस्या मृतायास्तदानीमुदरमदारयत् । तस्माद् गर्भाच्छुक्तिपुटाद् मुक्तामिव गर्भमाचकर्ष । तस्य बालस्य मूर्धनि विषबिन्दुः सङ्क्रान्तश्चाणक्येन बिन्दुसार इत्यभिधायि । बिन्दुसारे तारुण्यं वयः प्राप्ते सति चन्द्रगुप्तः समाधिना मरणं प्राप्य दिवं जगाम । अथ मतिमांश्चाणक्यस्तद्राज्ये बिन्दुसारमस्थापयत् । सचिवाधीनसिद्धिः स चाणक्याज्ञाकरोऽभूत् । इतश्च चाणक्यः पूर्वं बिन्दुसारमाज्ञाप्य चतुरं सुबन्धुनामानं सचिवं कारयामास । स चाणक्ये स्वतन्त्रतामन्त्रिताभिलाषी मत्सरी चाणक्योच्छेदायैकान्ते बिन्दुसारं प्रतीदमुवाच - "हे राजन् ! अहं यद्यपि तव प्रमाणभूतो नाऽस्ति तथाऽपि तव परिणामहितं कथयामि, Page #93 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः यतः कुलीनानामयं क्रमोऽस्ति । विश्वासघातकस्याऽस्य चाणक्यस्य त्वं विश्वासं मा कार्षीः । एष दुरात्मा तव मातुरुदरं खलु व्यदारयत्" । तदैव स बिन्दुसारो धात्रीराहूय तत् पप्रच्छ । ताभिरपि तथैव कथिते स चाणक्यायाऽकुप्यत् । १७२ चाणक्यो राजानं कुपितं दृष्ट्वा स्वयमचिन्तयत्- " कृतघ्नेन सुबन्धुना मयि राजाऽन्यथाऽकारि । अयं मयैव प्राक् सचिवपदे न्यवेशि । तन्मम प्रत्युपकाराय, अस्य कुलोचितं युक्तम् । तस्मादासन्नमृत्योर्मे राज्यचिन्तया किम् ? तथाऽप्यहं प्रतिचिकी: स्वबुद्धि प्रयोक्ष्ये । मद्बुद्धिपिशाचिकाग्रस्तः सोऽपि राज्यं मा अश्नुताम् " । इति तस्याऽपकारेण समयोचितं करिष्ये" । अथ स उग्रबुद्धिः समुद्गके योगमन्त्राद्यैर्वरगन्धान् संयोज्य लिखिताक्षर भूर्जेन सह प्राक्षिपत् । स सुधीः समुद्गकं जतुना विलिप्य पेटायां निदधौ । तां पेटां तालशतेन तालयामास । तां च गृहसर्वस्वमिव गृहमध्ये संस्थाप्य दीना - ऽनाथपात्रेभ्यो धनं ददौ । ततो नगरसमीपशुष्कगोमयराशिशिरसि समुपविश्य निर्जरोद्यतोऽनशनं चकार । ततो बिन्दुसारो यथाविषान्नमृतमातृसमाचारं धात्रीमुखात् ज्ञात्वा पश्चात्तापं कुर्वाणस्तत्राऽऽजगाम । चाणक्यं क्षमयित्वोवाच“हे आर्य ! त्वं मे राज्यं पुनर्वर्तय, अहं तवाऽऽज्ञाकरोऽस्मि" । चाणक्य उवाच- हे राजन् ! अधुनाऽनया प्रार्थनयाऽलम् । अहं शरीरेऽपि निःस्पृहोऽस्मि । त्वया किं मे ? ततो बिन्दुसारः प्रतिज्ञाया मर्यादाया अचलन्तं सागरमिव चाणक्यं ज्ञात्वा स्वगृहं ययौ । बिन्दुसारो गतमात्रः सुबन्धुमन्त्रिणेऽकुप्यत् । परिशिष्टपर्व अष्टमः सर्गः सुबन्धुरपि शीतार्त इव कम्पमान उवाच - "हे राजन् ! मया सम्यगविज्ञाय चाणक्यो दूषितः । अहं गत्वाऽद्य चाणक्यं क्षमयामि यावत् तावत् तं प्रसीद" । इति सुबन्धुर्गत्वा तं कपटेन क्षमयामास । अचिन्तयच्चाऽयं पुनर्नगरं न गच्छतु । सोऽनेन कुविकल्पेन राजानं विज्ञपयामास -“चाणक्यमहं तदपकारी पूजयिष्यामि " । राज्ञाऽनुज्ञातः सुबन्धुश्चाणक्यस्याऽनशनस्थस्य पूजां कर्तुमारेभे । सुबन्धुरापातसुन्दरां पूजां कृत्वाऽन्यैरलक्षितः करीषमध्ये धूपाग्नि चिक्षेप | पवनविस्तारितेन धूपवह्निना शीघ्रं प्रोद्यज्ज्वाले करीषस्थले सति चाणक्योऽकम्पो दारुवद् दह्यमानस्तत्र पञ्चत्वं प्राप्य देवोऽजनि ॥ ८ ॥ इति परिशिष्टपर्वणि शकटालमरणादि बिन्दुसारजन्मराज्यान्तर्वर्णनात्मकः अष्टमः सर्गः ॥ ८ ॥ 非龍 १७३ Page #94 -------------------------------------------------------------------------- ________________ नवमः सर्गः अशोकश्री-कुणाल- सम्प्रतीनां वृत्तान्तः अथ सम्भाव्यं चाणक्यद्रव्यं लिप्सुः सुबन्धुर्बिन्दुसाराच्चाणक्यगृहे वासं ययाचे । राज्ञाऽऽदिष्टः सुबन्धुश्चाणक्यगृहे प्रविष्टस्तालकशतैस्तालितां तां पेटिकां ददर्श अचिन्तयच्च‘“चाणक्यस्याऽत्र पेटायां सर्वस्वं विद्यते, अन्यथा तालकशतेनेदृशी नियन्त्रणा न स्यात् । ततः सुबन्धुः पेटायास्तानि तालकानि कारागृहाकृष्टबन्दी चरणशृङ्खला इवाऽत्रोटयत् । ततः पेटामध्ये तं समुद्गं दृष्ट्वा मनसि चिन्तयामास - "नूनं रत्नकोशोऽयं यस्य रक्षेदृशी वर्तते, स तमपि समुद्गं नालिकेरमिव स्फोटयामास । ततः समुद्गमध्ये लोकोत्तरमहागन्धान् स ददर्श । स गन्धलुब्धो भ्रमर इव सुगन्धीन् गन्धानघ्रात् । विस्मितः शिर उच्चैर्व्यधूनयच्च । अथ स तत्राऽक्षराङ्कितं भूर्जमपश्यत् । एतद्रव्यबीजकं स्यादिति स स्वयं वाचयामास । तद्भूर्जपत्रे वक्ष्यमाणविषयो लिखित आसीत्, यथा-“य इमान् गन्धानाघ्राय मुनिचर्यया न तिष्ठेत् स सद्यो यमस्याऽतिथिर्भविष्यति” । एतान्यक्षराणि वाचयित्वा सुबन्धुरतीव व्यषीदत् । अयं चाणक्यस्य प्रयोगोऽन्यथा न भावीति निश्चिक्ये । तथाऽपि सुबन्धुर्भूर्जप्रोक्तार्थविश्वासाय तान् गन्धानाम्राप्य कमपि दिव्याहारमभोजयत् । आघ्रातगन्धे पुरुषे शीघ्रं मृते सति तत्र परिशिष्टपर्व नवमः सर्गः १७५ सुबन्धुर्मुनिरिव विषयास्वादं मनसाऽपि नैच्छत् । अभव्य इवाऽविरतो जीविताशया नटितो बन्धुहीनः सुबन्धुर्भुवं व्यहार्षीत् । बिन्दुसारस्य पुत्रोऽशोकश्रीनामा बिन्दुसारे मृते पृथ्वीशासको बभूव । अशोकस्याऽपि कुणालनामा पुत्रोऽजनि राजा कुमार भुक्तावज्जयिनीं पुरीं ददौ । स कुणाल उज्जयिन्यां स्थितो राजनियुक्तैः शिशुपालकैः जीवितवत् स पाल्यमानोऽष्टवर्षतोऽधिको बभूव । बालधारका अष्टवर्षाधिको बालो जात इति राज्ञे कथयामासुः । राजाऽपि हृष्टो दध्यावयं कुमारोऽध्यनयोग्यो जात इति । ततो राजा कुमाराय 'प्राकृतं सुखबोधायेति कुमारो अधीयउ' एवं लेखेऽलिखत् । कुमारस्य सपत्नी माता तत्रोपविष्टेमं लेख राजपार्श्वादुपादायाऽवाचयत् । मम पुत्रस्यैव राज्यं स्यात्, न कुणालस्येति अन्यमनस्के राज्ञीदृशं कूटं चकार । सा निष्ठीवनार्दीकृतया नयनाञ्जनशलाकया नेत्रात् कज्जलमाकृष्याऽकारे बिन्दुं ददौ । तेन 'कुमारो अंधीयउ' इत्यक्षरं जातम् । अशोकोऽपि प्रमादेन तत्पत्रमवाचितमेव मुद्रयामासोज्जयिन्यां प्राहिणोच्च । पितृनामाङ्कितं तं मुद्रालङ्कृतं लेखं कुमारो हस्ताभ्यामग्रहीत् । मूर्ध्नि च न्यधात् । ततो लेखकात् तं लेखं वाचयामास । लेखको वाचयित्वा विषण्णस्तूष्णीको बभूव । ततश्च कुमारो लेखक उदश्रुनेत्रे लेखार्थं वक्तुमशक्ते लेखकहस्ताल्लेख स्वयमग्रहीत् । दर्शनोत्प्रेक्षणैर्वर्णानपि वाचयितुं शक्तः कुणाल : स्वयं तं लेखं वाचयामास । 'अंधीयउ' इत्यक्षराण्यवलोक्य चिन्तयामास च - "मौर्यवंशे गुर्वाज्ञालयकः कोऽपि नाऽस्ति यद्यहमेव प्रथमं राजाज्ञां लोप्स्यामि तदाऽन्येषामपि तदाज्ञालोपमार्गो मत्कृत एव भविष्यति" । Page #95 -------------------------------------------------------------------------- ________________ १७६ परिशिष्टपर्व- नवमः सर्गः १७७ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततश्च साहसनिधिौर्यवंशसागरचन्द्रः कुणालस्तप्तशलाकया स्वयमेव नेत्रे आजीत् । ततोऽशोकश्रीमहासाहसकारकं तं ज्ञात्वा धिक् कूटलेखकोऽस्मीति स्वं निनिन्द, अचिन्तयच्च-"दुर्दैवाधिष्ठितो हताशयोऽहमस्मि, यतो मे प्रमादलिखितेन कुमारोऽन्धोऽभूत् । अयं बालोऽद्य राज्यं वा मण्डलित्वं नाऽर्हति । यस्य भक्तिर्मयीदृशी तस्येदृशमापतितम् । असौ यौवराज्यं भुक्त्वा राजा भविष्यति, इति मे मनोरथेनाऽधुनाऽलम् । अथ अशोकश्रीः कुणालाय महद्धिकं ग्रामं तत्सापत्नकुमाराय चोज्जयिनी ददौ । परेद्यवि तं ग्रामं भुञ्जानस्य कुणालस्य शरच्छ्रीनाम्न्यां स्त्रियां सम्पूर्णलक्षणः पुत्रोऽभूत् । कुमारो वर्धापिकाभ्यो दासीभ्यः पारितोषिकं दत्त्वा पुत्रजन्मप्रयुक्तं महोत्सवं चकार । लब्ब्या मातुर्मनोरथं वृथैवाऽद्य करोमीति राज्यं लिप्सुः स पाटलीपुत्रनगरं जगाम । तत: स तत्र पुरे गीतविनोदेन स्वेच्छया परिभ्रमन् गान्धर्वेण शास्त्रेण साक्षात् तुम्बुरुरिव पुरजनस्याऽतिप्रियो बभूव । पाटलीपुत्रनगरे यत्र यत्र सोऽगायत् तत्र तत्र पौरा हरिणा इव गीताकृष्टा बभूवुः। पृथिवीपतिर्गान्धर्वेणाऽद्भुतं तं श्रुत्वा सोऽन्ध इति तमाहूय जवनिकान्तरितं कृत्वा गातुमादिदेश । स यथास्थानं मन्द्रमध्यतारैः षड्जादिभिः स्वरै रागं पोषयन्नीदृशं पद्यप्रबन्धमगायत-"चन्द्रगुप्तप्रपौत्रो बिन्दुसारपौत्रोऽशोकश्रीपुत्र एष सुतोऽन्धीभूतः काकिणी मार्गति" । राजाऽन्धेन पद्यप्रबन्धं गीयमानं श्रुत्वाऽपृच्छत्- "हे गायन ! त्वं कोऽसि ?" इति ब्रूहि स उवाच-“हे राजन् ! अहं तवैव कुणालनामा पुत्रोऽस्मि, त्वदाज्ञालेखं दृष्ट्वा यः स्वयमन्धोऽभूत्" । ततो राजा जवनिकां वेगेनाऽपसार्य दृष्ट्वा स्वपुत्रमुपलक्ष्य बाहुभ्यामालिलिङ्ग । स राजोवाच च-“हे वत्स ! अहं त्वयि संतुष्टोऽस्मि, तुभ्यमहं किं ददामि ?" कुमारोऽप्युवाच-“हे राजन् ! अहं काकिणी याचे" । किमेतद् याचितमिति राज्ञि वदति सति मन्त्रिण ऊचु:-"राजपुत्राणां काकिणी राज्यं भण्यते" । राजोवाच"हे वत्स ! त्वं राज्येन किं करिष्यसि ? दैवापहृतनेत्रस्य ते तद्राज्यमन्याधीनं स्यात्" । कुमारोऽपि विज्ञापयामास-“हे पितः ! मम पुत्रो भाग्येन जात: स राज्येऽभिषिच्यताम्" । अशोकनृपः पप्रच्छ-"कदा ते पुत्रोऽजनि" । कुणालोऽपि कृताञ्जलिः सन् प्रोवाच-"राजन् ! सम्प्रत्येव मे पुत्रोऽजनि" । अशोकश्रीस्तदैव तं शिशुमनाययत्; तस्य नाम कृतोत्सवः स सम्प्रतिरिति चकार । अमोघवागशोकश्रीस्तं बालकं स्तनन्धयमपि दशदिनानन्तरं स्वकीयराज्येऽस्थापयत् । आजन्म परमार्हतः सम्प्रतिकुमारो वयसा विक्रमेण लक्ष्म्या च ववृधे । स क्रमेण सदक्षिणं भरतार्द्ध साधयामास । प्रचण्डशासन: स इन्द्रतुल्यो बभूव । * ** इत: कालरात्रिवत् कराले तस्मिन् दुष्काले साधुसड्यो निर्वाहार्थं समुद्रतटं ययौ । तदा साधूनामावृत्तिहीनं शास्त्रं विस्मृतमभूत्; यतो धीमतामपि विनाऽभ्यासेनाऽधीतं नश्यति । अथ सड्यः सर्वो दुष्कालव्यतिगमे पाटलिपुत्रेऽमिलत् । यस्य तदङ्गाध्ययनोदेशादि बभूव स तदाददे । ततस्तदा श्रीसय एकादशाऽङ्गान्यमेलयत् । दृष्टिवादनिमित्तं च किञ्चिद् विचिन्तयन् तस्थौ । तत: सयो Page #96 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नेपालमार्गस्थं भद्रबाहुं पूर्वधरं ज्ञात्वा तमाह्वातुं द्वौ मुनी प्रैषीत् । तौ मुनी तत्र गत्वा कृताञ्जली इत्यूचतुः - "हे महाराजा: ! युष्मान् सङ्घस्तत्राऽऽगमनहेतवे समादिशति" । १७८ सोऽप्युवाच - "हे मुनी ! मया यस्माद् महाप्राणं ध्यानमारब्धमस्ति तद् द्वादशभिर्वर्षैः साध्यमित्यहं नाऽऽगमिष्यामि । महाप्राणे निष्पन्नेऽन्यस्मिन् कार्ये कस्मिश्चिदागते सति मुहूर्तमात्रेण सूत्राऽर्थाभ्यां सम्पूर्णानि पूर्वाणि गुण्यन्ते । अथ तौ मुनी ततो निवृत्य गत्वा भद्रबाहूक्तं सङ्घायोचतुः । सङ्घोऽप्यन्यौ द्वौ मुनी आहूया - ऽऽदिशत् - " हे मुनी ! युवाभ्यां तत्र गत्वाऽऽचार्यो वाच्यः- “यः श्रीसङ्घस्य शासनं न करोति तस्य को दण्डो भवेदिति" । यदा स 'सङ्घबाह्यः स कर्तव्य' इति वदेत् तदा 'त्वं तद्दण्डयोग्योऽसी'- ति उच्चैः स वाच्यः" | ताभ्यां मुनिभ्यां गत्वा तथैव निवेदित आचार्य उवाच"भगवान् सङ्घो मैवं कार्षीत् किन्तु अदः करोतु, श्रीसङ्घो मयि प्रसादं कृत्वा मेधाविनः शिष्यान् मम समीपं प्रेषयतु । तेभ्योऽहं सप्त वाचना: प्रदास्यामि । तत्रैकां वाचनां भिक्षाचर्यात आगतोऽहं दास्यामि । तथा तिसृषु कालवेलास्वन्यास्तिस्रो वाचना: प्रदास्यामि । सायाह्नप्रतिक्रमणे सम्पन्नेऽन्यास्तिस्रो वाचना: पुनर्दास्यामि एवं मत्कार्याबाधया सङ्घकार्यं सेत्स्यति । ताभ्यां मुनिभ्यां गत्वा तथोक्ते श्रीसयोऽपि प्रसन्नः स्थूलभद्रादिसाधुपञ्चशतीं तत्र प्रेषयामास । सूरिस्तान् मुनीन् प्रति प्रतिज्ञाता वाचना वाचयामास । मुनयोऽल्पा वाचना भवन्तीति तत उद्विज्य स्वस्थानं प्रापुः । स्थूलभद्रस्तु तत्रैव तस्थौ । महामतिः स श्रीभद्रबाहुपादपार्श्वे परिशिष्टपर्व नवमः सर्गः १७९ ऽष्टभिर्वर्षैरष्टपूर्वी भृशमपाठीत् । त्वमुद्विग्नः किम् ? इति सूरिणोक्तः स उवाच-“हे भगवन् ! अहं नोद्विजे, किन्तु मम कृते वाचना अल्पा एव भवन्ति” । ततः सूरिरुवाच - " मम ध्यानं सम्पन्नप्रायमस्ति तदन्ते तुभ्यं त्वदिच्छया वाचना: प्रदास्यामि" । ततः स्थूलभद्र उवाच - "हे भगवन् ! ममाऽधीतशेषं सम्प्रति कियदस्ति ?” ततः सूरिरुवाच"सागरबिन्दूपमिता सङ्ख्या वर्तते " । ततो महाप्राणे ध्याने पूर्णे महामुनिः स्थूलभद्रो द्विवस्तूनानि दश पूर्वाणि यावत् समापयामास । अथ श्रीभद्रबाहुर्विहारक्रमयोगेन पाटलीपुत्रनगरमागत्य बाह्योद्यानमाश्रयत् । तत्र तस्य यक्षादयोऽपि भगिन्यः साध्व्यः स्थूलभद्रं वन्दितुं समाययुः । ताः श्रीभद्रबाहुं गुरुं वन्दित्वा पप्रच्छुः - "हे प्रभो ! सम्प्रति स्थूलभद्रः क्व वर्तते ?" स लघुदेवकुलेऽधुनाऽस्तीति ताः प्रत्युवाच । ततस्तास्तमभिचेलुः । स्थूलभद्रस्ताः समागच्छन्तीर्दृष्ट्वाऽऽश्चर्यदर्शनाय सिंहरूपं विचकार । ता: सिंहरूपं दृष्ट्वा भीता सत्यो गुरुवर्यं श्रीभद्रबाहुमजिज्ञपन्- "हे भगवन् ! सिंहो ज्येष्ठार्थं जग्रास, सोऽद्याऽपि तत्र तिष्ठति । आचार्योऽप्युपयोगात् तद्वृत्तं ज्ञात्वाऽऽदिदेश - "यूयं गच्छत, तं वन्दध्वं तत्र युष्माकं स ज्येष्ठार्यो वर्तते, सिंहो नाऽस्ति" । ततस्ताः पुनस्तत्र ययुस्तत्र स्वरूपस्थं तं दृष्ट्वाऽवन्दन्त । ज्येष्ठा च स्थूलभद्रं प्रति स्वकथामुवाच - " श्रीयकोऽस्माभिः सह दीक्षामग्रहीत्, किन्त्वसौ क्षुधित एकभक्तमपि कर्तुं न शक्नोति । समयोक्तोऽद्य पर्युषणायां पौरुषीं प्रत्याख्याहि", स प्रत्याख्यातवान् । पुनर्मया पूर्णेऽवधौ निर्दिष्टः, पूर्वाद्धं प्रत्याख्याहीदं पर्वा - ऽतिदुर्लभम्, इयान् कालश्चैत्यवन्दनादि परिपाट्याऽपि सुखं व्यत्येष्यति तथैवाऽसौ प्रत्यपादि । Page #97 -------------------------------------------------------------------------- ________________ १८० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___पुनः समयेऽभिहितोऽसौ तथैवोक्त:-"इदानीं तिष्ठ अपार्द्धमिति स तथैव चकार । अधुना रात्रिनिकटाऽस्ति सा सुप्तस्य तव सुखं व्यतिगमिष्यति, तस्मात् त्वमभक्तार्थं प्रत्याख्याहीत्युक्त: स तथा चकार ततो निशीथे सम्प्राप्तेऽसौ देव-गुरून् स्मरन् प्रवर्धमानक्षुत्पिपासाभ्यां पीडितो मृत्वा स्वर्गं ययौ । ऋषिघातो मयाऽकारीति विषीदन्ती प्रायश्चित्तार्थं श्रमणसवस्य समीपमागता । सवोऽपीदमुवाच-"त्वया शुद्धभावनयेदमकारि, तस्मात् ते किञ्चिदपि प्रायश्चित्तं न कर्तव्यमस्ति" । ततोऽहमित्यवोचम्-"यदि जिनः साक्षाद् वक्ति ततो मे मन:समाधिर्जायते, अन्यथा न । अथ सकलसड्योऽस्मिन् विषये कायोत्सर्गमदात् । ततः शासनदेव्याऽऽगत्योक्तं-"कार्यं ब्रूत, अहं किं करोमि ?" सङ्घोऽप्येवमुवाच-"इमां जिनपार्वं नय" । साऽऽख्यत्-"निर्विघ्नगत्यर्थं कायोत्सर्ग कृत्वा तिष्ठत", इति सङ्घ तत् स्वीकृतवति सति सा मां जिनपार्श्वमनैषीत् । ततो मया भगवान् सीमन्धरः स्वामी वन्दितः । ततो जिनो-"भरतादागता निर्दोषेयमस्ति" इत्यवदत् । ततोऽहं छिन्नसंशया सती शासनदेव्या निजावासमानीता । ततः श्रीमान् सीमन्धरस्वामी प्रसन्नः सन् मन्मुखेन श्रीसङ्घाय चत्वार्यध्ययनान्युपायनं प्रेषयामास । तान्यध्ययनानि नाम्ना-"भावना, विमुक्तिः, रतिकल्पं विचित्रचर्या" इति प्रसिद्धानि जिनागमे सन्ति । तानि मयैकया वाचनया धृतानि । उद्गीतानि च तथाख्यानपूर्वकं सङ्घाय । तत्राऽऽद्ये द्वे अध्ययने आचाराङ्गस्य द्वे चूले स्तः । अथ सङ्घनाऽन्ये द्वे अध्ययने दशवैकालिकस्य चूले योजिते", इत्युक्त्वा स्थूलभद्रानुज्ञाता: स्वाश्रयं ता जग्मुः । परिशिष्टपर्व - नवमः सर्गः १८१ ___अयं स्थूलभद्रोऽपि वाचनार्थं गुरुमुपजगाम । गुरुस्तस्मै वाचनां न ददौ । त्वमयोग्योऽसीत्यादिशत् । एष दीक्षादिनादारभ्य स्वापराधान् व्यचिन्तयत् । स चिन्तयित्वाऽपराधं न स्मरामीति गुरुं प्रत्युवाच । पापं कृत्वा न मन्यसे पापं शान्तमिति गुरुरुवाच । ततः स्थूलभद्रः सिंहरूपविकरणपापं स्मृत्वा गुरुचरणकमलयोः पपात । अहमेवं पुनर्न करिष्यामीति प्रतिज्ञायेदं मम क्षम्यतामिति गुरुं प्रत्युवाच । पुनर्न करिष्यसि, यदिदं पुनरकार्षीस्तेन वाचनां तुभ्यं न दास्यामीति गुरवोऽवोचन् । तत: स्थूलभद्रो गुरुं सर्वसङ्घनाऽमानयत् । यतः कुपितानां महतां प्रसादने महान्त एव समर्था भवन्ति । ___ अथ सूरिः सङ्घ बभाषे-“यथाऽधुनाऽयं सिंह विचकार तथाऽन्येऽप्यल्पपराक्रमा अतः परं विकरिष्यन्ति । अवशिष्टानि पूर्वाणि मत्पार्श्व एव सन्तु, अन्यशिक्षाकृतेऽपि हि अस्याऽयं दोषदण्डोऽस्तु" । स सङ्घनाऽऽग्रहात् प्रार्थित उपयोगतोऽज्ञासीत्, यत्-"मत्त: शेषपूर्वाणामुच्छेदो न भावीति" । हे स्थूलभद्र ! त्वयाऽन्यस्मै शेषपूर्वाणि न देयानीत्यभिग्राह्य भगवानाचार्यः स्थूलभद्रमवाचयत् । अथ महामुनिः स्थूलभद्रः सर्वपूर्वधरो बभूव । तं श्रीभद्रबाहुराचार्यपदे प्रतिष्ठापयामास । श्रीमहावीरनिर्वाणात् सप्तत्युत्तरवर्षशते व्यतीते सति भद्रबाहुस्वाम्यपि समाधिना स्वर्गं ययौ । ततः सर्वश्रुतस्कन्धनिधानकोश: श्रीस्थूलभद्रो नीलकमलानां चन्द्र इव जनानां प्रबोधं जनयन् भुवि विजहार ॥ ९ ॥ इति परिशिष्टपर्वणि अशोकश्रीकुणालादिजन्मादिश्रीभद्रबाहुस्वर्गगमनान्तवर्णनात्मकः नवमः सर्गः॥९॥ Page #98 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - दशमः सर्गः १८३ दशमः सर्गः स्थूलभद्र-धनदेवयोवृत्तान्तः अथाऽन्यदा स्थूलभद्राचार्यः श्रावस्त्यां नगर्यां ययौ । ऋषिभिरावृत: स बाह्योद्याने समवससार । तस्मिन्नुद्याने श्रावस्तीस्थः सर्वो लोकस्तं विवन्दिषुर्हर्षोत्साहयुत आययौ । तदा जगन्मङ्गलकरो भगवान् स्थूलभद्रोऽपि सुधासारमधुरां धर्मदेशनां चकार । तत्रत्यं धनदेवनामानं स्वसुहृदमनागतं विज्ञायैवं दध्यौ-"मम प्रियमित्रं धनदेवोऽत्र नाऽस्ति, अन्यथा सर्वः पौरो लोक आगमत्, स पुन: स्नेह्यपि नाऽऽगमत् । स देशान्तरं गतो ग्लानो वा भवेदिति स्वयं तद्गृहं यामि । स विशेषतोऽनुकम्पनीयो वर्तते" । इति निश्चित्य तस्मादुद्यानात् धनदेवस्य गृहेऽभिमुखैर्वन्दारुभिर्वन्धमानचरणकमलः, सहर्ष नागराङ्गनागीयमानतपोगुणः, श्रीमतां भक्तानां छत्रैमण्डपाध:स्थित इव, उद्घाटिकवृन्तकमलवद् विवलत्कन्धरमुखैरग्रगामिभिः श्राद्धजनैर्दृश्यमानमुखकमलः, पदे पदे नगरीमध्यस्थचैत्यानि वन्दमानो जगाम । जङ्गमकल्पवृक्ष इव भगवांस्तत्र प्रविवेश । धनदेवगृहनिवासिन्या धनेश्वर्या स दृष्टः । प्रशस्तबुद्धिर्धनेश्वरी सद्य आसनादुत्थाय भूतलन्यस्तमस्तका स्थूलभद्रमुनिवरं ववन्दे । ततः सा तस्मै श्रेष्ठासनमदापयत् । यतः सतां भक्त्यनुसारेण गुरौ प्रतिपत्तयः सजायन्ते । भगवानपि तदासनं प्रतिलिख्याऽलञ्चकार । अथ स धनेश्वरीं धर्मक्षणनिर्वाहवृत्तान्तेनाऽनुकम्पयामास । ततः प्रतिप्रवासदुःखितां धनेश्वरीं स पप्रच्छ- "हे भावसारे ! किं ते पतिर्धनदेवो न दृश्यते?" ततो धनेश्वरीदमुवाच-“हे भगवन् ! मम पतिर्गृहस्थितं बहिःस्थितं च सर्वं धनं व्ययते स्म । सोऽर्थहीनोऽस्मिन्नेव पुरे तृणादपि लघुरभूत्, यतः शरीरिणामाः सर्वत्र पूज्यन्ते, किन्तु शरीराणि न । स पूर्वपुरुषनिधीनन्वेषयन्नपि न प्राप । यतो भाग्यहीनस्य समीपस्थाऽपि लक्ष्मी-पान्तरस्थेव भवति । स वणिग् व्यापारेण द्रव्योपार्जनेच्छया देशान्तरं जगाम; यतो व्यवसायिनां को विदेशो भवति ?" अथ कृपानिधिः सूरिः श्रुतबलेन तद्गृहे निधिस्थानं ज्ञात्वा तस्यै वक्तुं चिन्तयामास । धर्मोपदेशच्छलेन च हस्तचेष्टयाऽध:स्थितनिधि स्तम्भं तस्यै प्रदर्शयन् प्रोवाच-"अयि ! संसारस्वरूपं पश्य कीदृशं, तव गृहमीदृक्, तच्च भर्तुर्वाणिज्यं तादृशमस्ति" । भगवान् धनेश्वर्या मुहुर्मुहुरेवं कथयित्वाऽऽर्हतं धर्मं प्रभावयन्नन्यत्र विहर्तुं जगाम । ततो धनदेवो लाभोदयकर्महीनो यादृग् गतस्तादृगेव वस्त्रैः पुनरागमत् । धनेश्वरी स्थूलभद्रागमनवृत्तान्तं तमकथयत् । सोऽपि सहर्षं तां पप्रच्छ "भगवान् किमकथयत् ?" साऽप्युवाच"अस्य स्तम्भस्याऽभिमुखहस्ताभिनयपूर्वकं स्थूलभद्रेण धर्मदेशना विहिता । धनदेवोऽपीदं दध्यौ-"ज्ञानसागरस्य तस्याऽभिप्रायरहिता चेष्टा कदाऽपि न भवति-'यत् स्तम्भमुद्दिश्य हस्ताभिनयो मुहुर्विदधे Page #99 -------------------------------------------------------------------------- ________________ १८४ Anamnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तस्माद् नूनमस्य स्तम्भस्याऽधो निधि: सम्भाव्यते' इति मत्वा स्तम्भमूलं खानयामास । तत्र पुष्कलं तत्पुण्यमिव द्रव्यमाविर्बभूव । तेन धनेन च स कुबेरतुल्योऽभूत् । स्थूलभद्रप्रसादोऽयमिति च न व्यस्मरत् । अन्यदा स वन्दनीयस्योपकारिणो मित्रस्य स्थूलभद्रमुनीश्वरस्य वन्दनाय पाटलीपुत्रनगरं ययौ । तत्र चोपाश्रये गत्वा सपरीवारं महामुनि स्थूलभद्रं ववन्दे । कृताञ्जलिरुवाच च-"हे भगवन् ! त्वत्प्रसादेनाऽहं दारिद्र्यसागरं तीर्णवानस्मि, त्वत्प्रसादस्याऽनृणो न भवामि; त्वं मे गुरुः स्वामी च, तदादिश किं करोमि ?" त्वमार्हतो भूया इति स्थूलभद्रेणोक्तः "ओम्" इत्युक्त्वा स पुन: स्वस्थानमाजगाम । तेन च महामुनिना द्वौ शिष्यौ दीक्षितौ-एक आर्यमहागिरिनामा, द्वितीयश्चाऽऽर्यसुहस्तिनामा च, यक्षार्यया बाल्यात् पालितावित्यार्योपपदौ जातौ । तौ खड्गधारेव तीव्रमतीचारवर्जितं व्रतं परीषहेभ्यो निर्भीको पालयामासतुः । तौ महाप्रज्ञौ स्थूलभद्रपादकमलसेवाभृङ्गौ साङ्गानि दश पूर्वाण्यधिजगाते । ततः स्थूलभद्राचार्यः शान्तौ दान्तौ लब्धिमन्तावायुष्मन्तौ वाग्मिनी दृढभक्ती च तौ स्वाचार्यपदे न्यस्य कालं कृत्वा देवत्वं प्राप ।। १०॥ इति परिशिष्टपर्वणि आर्यमहागिर्यार्यसुहस्तिदीक्षास्थूलभद्रस्वर्गगमनवर्णनात्मकः दशमः सर्गः ॥१०॥ एकादशः सर्गः आर्यमहागिर्यार्यसुहस्तिनोवृत्तान्तः अथ महागिरि-सुहस्तिनौ भविकान् जनाननुगृह्णन्तौ धर्म दिशन्तौ भुवं विजहूतुः । तत्र जगद्वन्धुर्महागिरिभगवान् कालक्रमेण वाचनाभिरनेकाञ्छिष्यानकार्षीत् । अन्यदा सः स्वगच्छं सुहस्तिने समार्पयत्, स्वयं तु जिनकल्पेन विहर्तुमेकचित्तो बभूव । तदानीं जिनकल्पस्य व्युच्छेदाद् गच्छनिश्रास्थितोऽपि स जिनकल्पोचितया वृत्त्या व्यहार्षीत् । अन्यदा ते महाशया धर्मदेशनाजलं मेघा इव वर्षन्त: पाटलीपुत्रनगरं ययुः । तत्र वसुभूतिनामा श्रेष्ठी श्रीमता सुहस्तिना बोधितः सन् जीवा-ऽजीवादितत्त्वविद् श्रावको बभूव । वसुभूतिरहोरात्रं सुहस्त्युपदिष्टधर्मानुवादेन स्वपरिवारानपि प्रबोधयितुमारभत । वसुभूतिना सादरं प्रबोध्यमाना अपि ते मन्दमतयो धर्माचार्य विना न बुबुधिरे । ततो वसुभूतिर्गुरुमुवाच-“हे भगवन् ! मया स्वजना बोधयितुं न पारिता अतस्त्वमेव तान् बोधयितुमर्हसि" इति सुहस्तिस्वामी तान् बोधयितुं वसुभूतिगृहं जगाम । तत्र सुधानदीसमानां धर्मदेशनां प्रारेभे । तदाऽऽर्यमहागिरिस्तत्र भिक्षार्थं प्राविशत् । सुहस्त्याचार्यस्तमभ्युत्थायाऽवन्दत । ततो वसुभूतिश्रेष्ठी जगाद- "हे भगवन्तः Page #100 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - एकादशः सर्गः १८७ १८६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः युष्माकमपि कोऽपि किं गुरुर्विराजते ? यतो विश्ववन्दनीयैर्युष्माभिरागतोऽयं वन्द्यते" । तत: सुहस्ती प्रोवाच-“हे श्रेष्ठिन् ! एते महाशया मम गुरवः सन्ति । सदा त्याज्यभक्त-पानादिभिक्षां गृह्णन्ति, यत एत ईदृशभिक्षां भुजते, अन्यथोपवासं कुर्वन्ति । एषां नाम सुगृहीतं, चरणरेणुरपि वन्दनीयोऽस्ति" । भगवान् श्रीसुहस्त्याचार्य एवं महागिरिं स्तुत्वा सर्वांस्तान् प्रतिबोध्य पुनरेव स्वस्थानं ययौ । दृढभक्तिः श्रेष्ठ्यपि विशेषतः स्वजनानुवाच-"यदा भिक्षार्थमागतमीदृशं मुनि यूयं पश्यथ तदा त्यज्यमानं भक्त-पानादिकं तस्मै दर्शयित्वा देयं, तत् तद्गृहीतं युष्माकं महाफलं स्यात्" । वसुभूतेस्तद्वचनं तदीयस्वजनैः स्वीकृतम् । महागिरिद्वितीयदिने भिक्षार्थं तेषामेव गृहमगात् । ततस्ते श्रेष्ठिबन्धवो महागिरिमायान्तं दृष्ट्वा तस्मै कल्पमानं दातुमिच्छतस्तथैव कर्तुमारभन्त । महागिरिरुपयोगेन तदशुद्धं ज्ञात्वोचे-त्वया महत्यनेषणाऽकारि, यतस्ते त्वदुपदेशेन मह्यं भिक्षामसज्जयन्" । सुहस्त्याचार्योऽप्यहं पुनरेवं न करिष्यामीति वदन् पादाग्रे लुठन् श्रीमहागिरि क्षमयामास । इतश्च सम्प्रतिनामा राजोज्जयिनी नगरी जगाम, यतो राजानः कदाऽपि क्वचित् स्वभूभौ तिष्ठन्ति । अन्यदा महागिरिसुहस्तिनौ जीवन्तस्वामिप्रतिमारथयात्रां द्रष्टुमवन्त्यामाजग्मतुः । तौ सपरिच्छदौ पृथक् पृथगुपाश्रये तस्थतुः, यतस्तयोर्गच्छो विपुलोऽतः एकत्र समावेशो भवितुं नाऽशकत् ? भक्तानां पौराणां मनोमयूरजलदः जीवन्तस्वामिरथः सोत्सवं निःससार । ताभ्यामाचार्यवर्याभ्यां सर्वेण श्रीसङ्घन चाऽनुगम्यमानः स रथो नगर्यामस्खलन् पर्यटति स्म । अथ रथे राजकुलद्वारं गते सति राजा सुहस्तिनं गवाक्षस्थितः सन् दूराद् ददर्श, एवं दध्यौ च-अयं मुनिवरो मन्मनःकुमुदचन्द्रः क्वाऽपि दृष्ट इवाऽऽभाति, किन्त्विदं न स्मरामि" । राजैवं विचारयन् मूर्च्छितौ निपपात, तदा 'आः किमेतदिति वदन् परिच्छदोऽधावत् । राजा व्यजनैर्वीज्यमानश्चन्दनैः सिच्यमानो जातिस्मरणं प्राप्योदतिष्ठत् । स जातिस्मरणेन सुहस्तिनं पूर्वजन्मगुरुं ज्ञात्वा तदैवाऽन्यत्प्रयोजनं त्यक्त्वा वन्दितुमगमत् । स आर्यसुहस्तिनं सपञ्चाङ्ग वन्दित्वा जिनधर्मस्य कीदृशं फलमिति पप्रच्छ । भगवान् सुहस्ती प्रत्युवाच-"जिनधर्मफलं मोक्षः स्वर्गश्च" । "सामायिकस्य किं फल"मिति राज्ञा पुनः पृष्टेऽव्यक्तस्य सामायिकस्य राज्यादिकं फलमस्त्येवं सुहस्तिनाऽऽचार्येणोक्ते प्रतीतो राजा विश्वाससूचिकां नखाच्छोटनिकां मुहुः कृत्वा "एतदेवं नाऽत्र संशय" इत्युवाच । प्रणम्य पुनः पप्रच्छ च- "यूयं मामुपलक्षयध्वेऽथवा न" । आचार्योऽप्युपयोगेन पूर्वभववृत्तं ज्ञात्वोवाच-“हे राजन् ! अहं त्वां सम्यगुपलक्षये । त्वं पूर्वजन्मकथां शृणु; तथाहि हे राजन् ! वयं पुरा महागिर्याचार्यैस्सह विहरन्तो गच्छेन सह कौशाम्ब्यामागच्छाम । तत्र वसतेः संकीर्णतयाऽऽवां पृथक् पृथगवस्थितौ, यत आवयोः परिवारो महानासीत् । तत्राऽतिदुर्भिक्षमभूत्, तथाऽपि लोकोऽस्मासु भक्तिमान् भक्तादिकं विशेषतो दातुमारेभे । अन्येयुः साधव एकस्य श्रेष्ठिनो गृहे प्रविविशुः । तेषां साधूनां पृष्ठत एको दरिद्रोऽपि प्राविशत् । तत्र ते साधवो मोदकादिभिभिक्षां तस्य पश्यत एव लेभिरे । गृहीतभिक्षाणां साधूनां वसति प्रतिगच्छतां पश्चाद् गच्छन् स दीनोऽब्रवीत्-"मम भोजनं दीयता"मिति ते Page #101 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - एकादशः सर्गः १८९ नृणां परलोके स्वर्गोऽपवर्गो वा भवेत् । इह लोके पुनः हस्तिघोटक-कोशादय उत्तरोत्तराः सम्पदः स्युः । १८८ त्रिषष्टिालाकापुरुषचरितम्-गद्यात्मकसारोद्धारः साधव ऊचुः-"गुरवः खलु जानन्ति, वयं गुरुपराधीना किञ्चिदपि दातुं न शक्नुमः" । __ततः स रङ्कः साधूनां पश्चादेव वसति जगाम । तत्र दीनात्माऽस्मान् दृष्ट्वा भोजनमयाचत । साधव ऊचु:-"भगवन् ! अनेन दीनमूर्तिना मार्गे वयमुच्चैर्भोजनं याचिताः । उपयोगपरायणैरस्माभिरेवं ज्ञातं यदयं रङ्को भवान्तरे प्रवचनाधारो भावी । तत: स रङ्कोऽस्माभिः सप्रेम कथित:-"यदि परिव्रज्यां गृह्णासि तदा भोजनं लभसे"। रकोऽपि चिन्तयामास-"अहमग्रेऽपि सर्वकष्टमयोऽभूवं, तस्माच्छ्रेय इष्टभोजनलाभकरं व्रतजं कष्टम्" । ततः परिव्रज्यां स्वीकृतवन्तं रक्षं तदैव प्रव्राज्येष्टं मोदकादि यथारुच्यभोजयम् । स स्वादुमाहारं स्वादं स्वाद तथा बुभुजे यथा श्वासपवनस्याऽपि मार्गो दुःसञ्चरोऽभूत् । स तद्दिनस्यैव रात्रौ तेनाऽतिपुष्कलेनाऽऽहारेण रुद्धश्वासो विपन्नः, यतः प्राणिनः श्वासजीवा भवन्ति । स रङ्कसाधुर्मध्यस्थभावेन स्थितो मृत्वाऽवन्तिराजस्य कुणालस्य पुत्रस्त्वमुदपद्यथाः" । राजा पुन: सुहस्तिनं विज्ञपयामास-“हे भगवन् ! अहं त्वत्प्रसादेनेमां पदवी प्राप्तोऽस्मि । यदि त्वयाऽहं प्रवाजितो न स्यां तदाऽस्पृष्टजिनधर्मस्य मे का गति: स्यात् ? तस्मादादिश, किमहं करोमि, पूर्वजन्मोपकारिणां युष्माकमहमनृणो न भवामि । अस्मिन्नपि जन्मनि पूर्वजन्मनीव यूयं मे गुरवः सन्ति । अतो धर्मपुत्रं मां कर्तव्यशिक्षयाऽनृगृह्णीत । कृपालुरार्यसुहस्ती भगवान् नृपमादिशत्"राजन् ! इह परत्र च कल्याणाय जिनधर्म स्वीकुरु, अर्हद्धर्मवतां अथ राजा सुहस्त्याज्ञया तदग्रेऽभ्यग्रहीत्-"अर्हन् देवः, साधुर्गुरुः, अर्हतो वचनं प्रमाणम्" । सम्प्रतिस्तत्प्रभृति अणुव्रतगुणव्रत-शिक्षाव्रतपवित्रित: प्रधानश्रावको बभूव । अवन्ध्यश्रीः स त्रिसन्ध्यमपि जिनमानर्च । साधर्मिकेषु बन्धुष्विव वात्सल्यं चकार । जीवदयातरङ्गितमनाः स सुधीरवदानरतो दीनेभ्योऽभ्यधिकं दानं ददौ । आवैताढ्यं प्रतापी निर्विकारधीः स त्रिखण्डं भरतक्षेत्रं जिनमन्दिरभूषितं चकार । अन्यस्मिन् वर्षेऽवन्त्यामेव वसतां सुहस्त्याचार्यपादानां सतां चैत्ययात्रोत्सवं सङ्घश्चकार । भगवान् सुहस्त्याचार्यः सङ्घसहितश्चैत्ययात्रायां मण्डपं नित्यमलञ्चकार । स सम्प्रतिराजः कृताञ्जलिः सुहस्तिस्वामिनः शिष्यपरमाणुरिवाऽग्रे नित्यमुपविवेश । सङ्घो यात्रोत्सवावसाने रथयात्रां प्रारेभे । यतो यात्रोत्सवो रथयात्रया सम्पूर्णो भवति । अथ स्वर्ण-माणिक्यद्युतिद्योतितदिङ्मुखो रथो दिवाकररथ इव रथशालातो निःससार । विधिज्ञैः श्रावकै रथस्थाया अर्हत्प्रतिमाया महद्धिभिः स्नात्रपूजादि प्रारेभे । अर्हत: स्नात्रे सति स्नात्रजलं रथात् पूर्वं जन्मकल्याणके सुमेरुशिखरादिव निपपात । वक्त्राहितवस्त्रैः श्राद्धैः सुगन्धिभिर्द्रव्यैः प्रतिमाया विलेपनं स्वामिविज्ञीप्सुभिरिव चक्रे । अर्हतः प्रतिमा मालती-कमलादिमालाभिः पूजिता सती शारदमेधैर्वृता इन्दुकलेवाऽभात् ? पुनरर्हतः प्रतिमा दह्यमानागरूत्थाभिधूमराजिभिरावृता नीलवस्त्रैः पूजितेव शुशुभे । जिनपूजाया Page #102 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - एकादशः सर्गः १९० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः आरात्रिकं ज्वलच्छिखं दीप्यमानौषधीसमूहशैलशृङ्गविडम्बकं श्राद्धैश्चक्रे। अथ तैः परमार्हतैः श्रीमन्तमर्हन्तं वन्दित्वा रथ्यैरिवाऽग्रतोभूय रथः स्वयमाचकृषे । नागरीभिरारब्धसहल्लीसकरासकश्चतुर्विधातोद्यवादाभिरामप्रेक्षणीयकः, परितः श्राविकाजनगीयमानबहुमङ्गलः, प्रत्यढें प्रतिमन्दिरं विविधपूजां गृह्णन्, विविधैः कुङ्कमजलैरभिषिक्ताग्रभूतलो रथ: शनैः शनैः सम्प्रतिराजस्य गृहद्वारमाजगाम । अथ सम्प्रतिराजोऽपि रथपूजनार्थमुत्सुकः पनसफलवत् सर्वाङ्गोत्पन्नकण्टक आजगाम । नवीनानन्दसरोहंसो राजा रथाभिरूढां जिनप्रतिमामष्टविधपूजयाऽपूजयत् । तदैव च सर्वान् सामन्तानाहूयसम्यक्त्वं ग्राहयित्वैवमादिशत्-“हे सामन्ताः ! यूयं यदिमां स्वामिनं मन्यध्वे तहि सुविहितश्रमणानामुपासका भवत । हे सामन्ताः ! युष्मद्दत्तैर्द्रव्यैरपि मे किमपि प्रयोजनं नाऽस्ति । एवं कृते सति मम प्रियं भवति । स एवमादिश्य सामन्तान् स्वस्वदेशे व्यसर्जयत् । ते गत्वा स्वामिभक्त्या श्रमणानुपासत । रथयात्रां प्रावर्तयन्, तथा तत्राऽनुगमनं रथाग्रे पुष्पवर्षणं चैत्यपूजां च ते व्यधुः । इत्यादि श्रावकाचारं ते सर्वे तथा चक्रुस्तथा प्रान्तदेशा अपि साधुविहारयोग्या बभूवुः। अन्यदा निशीथे सम्प्रतिनृपश्चिन्तयामास-"अहमनार्येष्वपि देशेषु साधूनां विहारं प्रवर्तयामि" | तस्मादनार्यान् राजाऽऽदिदेश"अस्मत्पुरुषा यथा यथा मार्गयन्ति तथा तथा मम करं दद्ध्वम्" । ततो राजाऽनार्येषु साधुवेषिणो नरान् प्रेषयामास । सम्प्रत्याज्ञया तेऽनार्यानेवं भृशमन्वशिषन्-"अहो ! एभिरेभिर्द्विचत्वारिंशता दोषै रहितं वस्त्र-पानादिकमस्मभ्यं दातव्यम्, इदमिदमध्येतव्यं च । ततो युष्मासु सम्प्रतिराजः सन्तुष्टो भविष्यति, अन्यथा कोपिष्यति" । ततः सम्प्रतिनृपस्य तुष्ट्यर्थमुत्सुकास्ते तत्पुरुषादिष्टं दिने दिनेऽकार्युः । एवमनार्येषु साधुयोग्याचारदक्षेषु कृतेषु सत्सु सम्प्रतिनृपो गुरुं विज्ञपयामास-“हे भगवन् ! एते श्रमणा आर्यदेशेष्विवाऽनार्यदेशेषु कुतो न विहरन्ति ?" तत: सूरय ऊचु:-"राजन् ! ज्ञान-दर्शन-चारित्राण्यनार्यदेशेषु न प्रसरन्ति" । राजोवाच-"भगवन् ! साम्प्रतमनार्येष्वपि श्रमणान् प्रेष्य तेषामाचारकुशलतां जानीध्वम् । एवं राज्ञोऽत्याग्रहवशादाचार्य: कांश्चित् साधून् अन्ध-द्रमिलादिषु देशेषु विहर्तुमाज्ञापयामास । अनार्यास्तान् साधून् दृष्ट्वा सम्प्रतिनृपस्येमे पुरुषा इति ज्ञात्वा पूर्वशिक्षया तेभ्यो मुनिकल्प्यं भक्त-पानादिकं ददुः । साधवोऽनार्येष्वपि निरवद्यं श्रावकत्वं दृष्ट्वा विस्मिताः सन्त: स्वगुरवे पुनरूचुः । ___ एवं सम्प्रतिनृपो बुद्धिगर्भया स्वशक्त्याऽनार्यानपि देशान् साधुविहारयोग्यानकरोत् । राजा बीभत्सं स्वपूर्वजन्मरङ्कत्वं स्मरन् चतुर्वपि पुरद्वारेषु महासत्राणि कारयामास । अयं निजोऽयं पर इत्यपेक्षाविवर्जितं सर्वे भोजनार्थिनस्तत्राऽनिवारितं भोजनं लेभिरे । बुभुक्षुषु भुक्तवस्तु यदन्नाद्यवशिष्टमभूत् तत् पाचका विभज्याऽग्रहीषुः । राज्ञा कोऽवशिष्टान्नादि गृह्णातीति पृष्टा: पाचका ऊचुः-राजन् ! वयं गृह्णीमः" । राजा तानादिशत्-"यदन्नमवशिष्यते तदकृताकारिताथिभ्यः साधुभ्यो युष्माभिर्देयम् । अहं युष्मभ्यं द्रव्यं दास्यामि, तेन यूयं Page #103 -------------------------------------------------------------------------- ________________ १९२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः निर्वाहं करिष्यथ । यतो द्रव्यवान् जनः केष्वपि कार्येषु न सीदति" । ते तद्दिनादारभ्य राजादेशादवशिष्टान्न पानादि तादृशेभ्यः साधुभ्यो ददुः । तेऽपि शुद्धं दृष्ट्वा स्वीचक्रुः । अथ श्रमणोपासको राजा कान्दविकांस्तथा तैल-घृतदधिविक्रेतॄन् वस्त्रविक्रयकानप्यादिशत् - "साधूनां यत्किञ्चिदुपकारकं भवति तदवश्यं देयं, युष्मभ्यं तन्मूल्यं दास्यामि, यूयमन्यथा न शङ्कध्वम् । ते हृष्टास्तथा कर्तुमारभन्त यतो वणिजां पण्ये विक्रीयमाणे सति महानुत्सवो भवति । आर्यसुहस्ती तद्दोषयुक्तं जानन्नपि प्रबलेन शिष्यानुरागेण लिप्तचित्तः सेहे । इत आर्यमहागिरिः सुहस्तिनमुवाच - "त्वमनेषणीयं राजान्नं जानन्नपि किं गृह्णासि ?" सुहस्त्युवाच - "हे भगवन् ! यथा राजा तथा प्रजाः, राजानुवर्तनपराः पौरा इदं ददति" । ततो महागिरिर्मायेयमिति कुपित उवाच - "पापं शान्तं खलु । अतः परं विसम्भोगः किलाऽऽवयोः स्यात्, यतः सामाचारीसमानैः साधुभिः सङ्गतं साधु भवति, सामाचारीविभिन्नस्य तवाऽतः परं मार्गो भिन्नो जातः” । भक्तः सुहस्त्यपि बाल इव भिया कम्पमान आर्यमहागिरिपादान् वन्दित्वा कृताञ्जलिरुवाच - "हे भगवन् ! अहमप्यपराध्यस्मि, मम मिथ्या पापमस्तु । अयमपराधः क्षम्यतामहं पुनरीदृशं न करिष्ये' । अथ महागिरिरुवाच - "तव को नाम दोषः ? अथवा पुरा श्रीवीरस्वामिना ह्येतदुक्तं - " मम शिष्यसन्ताने स्थूलभद्रमुनेः परं साधूनां सामाचारी लुप्तप्रकर्षा भविष्यति । स्थूलभद्रमुनेः पश्चादावां तीर्थप्रवर्तक अभूव । त्वया तदिदं स्वामिवचनं सत्यापितम् । अथ आर्यमहागिरिरसम्भोगिकल्पं स्थापयित्वा श्रीजीवन्तस्वामिप्रतिमां वन्दित्वाऽवन्त्या निर्जगाम । पूर्वं श्रीमतो महावीरस्य परिशिष्टपर्व एकादशः सर्गः १९३ समवसरणे दशार्णभद्रसम्बोधसमये शक्रे समागते यानि गजेन्द्रस्याऽग्रपदानि जातानि तत्र तीर्थ आर्यमहागिरिर्गत्वा तस्थौ । महागिरिस्तस्मिन् गजेन्द्रपदाख्ये महातीर्थेऽनशनेन शरीरं त्यक्त्वा स्वर्गं ययौ । सम्प्रतिराजाऽपि श्रावकव्रतं पालयन् पूर्णायुः सुरत्वं प्राप, क्रमेण स सिद्धिं गमिष्यति । अथाऽर्यसुहस्त्यन्यत्र विहृत्य पुनः श्रीजीवन्तस्वामिप्रतिमां वन्दितुमुज्जयिनीं समाययौ । बाह्योद्याने समवससार च । स पुरमध्ये वसतिं याचितुं द्वौ मुनी प्रैषीत् । तौ तु भद्राख्यायाः श्रेष्ठिन्या गृहं जग्मतुः । साऽपि तौ नत्वाऽपृच्छत्-"युवां किमादिशथः" । तावूचतु:-"आवामार्यसुहस्तिनः शिष्यौ स्वः, हे कल्याणि ! तदाज्ञयाऽऽवां निवासं प्रार्थयावहे " । ततः सा विशालां वाजिशालां वसतिमर्पयामास । ततश्च सपरीवारः सुहस्त्याचार्यस्तामलञ्चकार । als at als अन्यदा प्रदोषसमय आचार्यैर्वरं नलिनीगुल्माख्यमध्ययनमावर्तितुमारेभे । तदा देवतुल्यो भद्रापुत्रोऽवन्तिसुकुमालः सप्तभूमिप्रासादे विराजमान आसीत् । स्वर्गाङ्गनासदृशीभिर्द्वात्रिंशत्स्त्रीभिः क्रीडन् स कर्णरसायने तस्मिन्नध्ययने कर्णं ददौ । सम्यक् श्रोतुं च प्रासादादुत्तीर्य शीघ्रं वसतिद्वारमाययौ । मयेदं कुत्राऽनुभूतमिति चिन्तयन् स सञ्जातजातिस्मरण आचार्यसमीपमाययौ, उवाच च-हे भगवन् ! अहं भद्रायाः सुतोऽस्मि, प्रागहं नलिनीगुल्मविमाने देवोऽभवम् । मया नलिनीगुल्मं विमानं जातिस्मृत्या स्मृतम् । अद्य पुनरहं तत्रैव गन्तुं परिविव्रजिषामि । तस्मात् तं विमानं प्रार्थयमानं मां परिव्राजय" । Page #104 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः आर्यमिश्रा ऊचुः - "हे बालक ! त्वं सुकुमारोऽसि, यतो लोहचणकाः सुखदा, वह्नयोऽपि सुस्पर्शाः परं च जिनप्रणीतमतीचारवर्जितं तपो दुष्करमस्ति" । भद्रापुत्रोऽप्युवाच - "अहमतिशयितं प्रव्रज्योत्कण्ठितोऽस्मि । सामाचारीं चिरतरं पालयितुं न शक्नोमि, तस्मादादावेवाऽनशनपुरस्सरं सत्त्वमालम्ब्य परिव्रज्यां ग्रहीष्यामि । इदं कष्टमल्पं खलु” । गुरुरुवाच "हे महाभाग ! यदि त्वं परिव्रज्यां जिघृक्षसि तह कर्मणि स्वबन्धूननुज्ञापय" । ततः स गृहं गत्वा कृताञ्जलिर्निजान् बन्धून् पप्रच्छ, परं च ते नाऽऽज्ञापयन् । १९४ ततो भद्रासुतः स्वयं केशांस्तत्रैवोदखनत् गृहपराङ्मुखः स साधुलिङ्गं च जग्राह । अथ स्वशरीरेऽपि निर्ममस्तादृग्रूपः स सुहस्त्याचार्यपार्श्वं जगाम । सुहस्त्यपि स्वयमेव गृहीतसाधुलिङ्गो मा भूदिति प्रव्रज्याविधिमुच्चरंस्तं परिव्राजयामास । चिरकालं तप:कष्टनिर्जरां कर्तुमसमर्थः स गुरून् पृष्ट्वाऽनशनं चिकीर्षुरन्यत्र ययौ । गच्छन् च सः सुकुमालपदद्वयाद् निःसरच्छोणितबिन्दुभिः पृथ्वीं सेन्द्रगोपामिव चकार । स स्थाने स्थाने चिताभस्म धूसरीकृतधरातलं यमस्य क्रीडास्थानमिव श्मशानं ययौ । स समाहितः पञ्चपरमेष्ठिनमस्कारं स्मरन्ननशनेन कन्थारिकाकुडङ्गस्य मध्येऽतिष्ठत् । शोणितस्रावयुतानि तस्य पदानि लिहाना काऽपि सबाला जम्बुकी तस्मिन् प्रदेशे समाजगाम । अथ सशिशुर्जम्बुकी महता तत्पादप्रक्षरच्छोणितपङ्कगन्धेन कन्थारिकावनमध्ये प्राविशत् । शोधयन्ती च सा रात्रेः प्रथमप्रहरे तत्पादं शोणितपिच्छलं प्राप । यमसोदरेव तं भोक्तुमारेभे, सा चटच्चटिति चर्म त्रटनटिति मांसं धगद्धगिति मेदः कटक्कटित्यस्थि परिशिष्टपर्व एकादशः सर्गः भक्षयन्ती तस्यैकं पादं निरशेषयत् । अपरं पादं च जम्बुकीशिशवश्चखादुः । तथाऽपि स नाऽकम्पत, प्रत्युत सात्त्विकः स तां पादभोक्त्रीं जम्बुकीं पादसंवाहिकामिवाऽमन्यत । एवं सा रात्रिद्वितीयप्रहरे तस्योरू अखादत् । स जीवोऽयं सम्यक् तृप्यत्विति दयां चकार । सा जम्बुकी रात्रितृतीययामे तस्य तुन्दं चखाद । स व्यचारयत्" एषा तुन्दं न मथति, किन्तु मम कर्म" । रात्रेश्चतुर्थे प्रहरे स महासत्त्व मृत्वा नलिनीगुल्मे विमाने महर्द्धिर्देवो बभूव । १९५ अथ सुरगणोऽयं महासत्त्वो महानुभावो वन्दनीयोऽस्तीति तच्छरीरस्य तदा महिमानं चकार । अवन्तिसुकुमालमपश्यन्त्यस्तद्भार्याः सुहस्तिनं पप्रच्छु:- "हे भगवन् ! अस्मत्पतिः कथमभूत् तदाख्याहि” । तदा सुहस्त्यप्युपयोगेन तस्य तथाभूतं ज्ञात्वा ताभ्यो मधुरवाचोवाच । अथ ता गृहं गत्वा भद्रायाः पार्श्वे सर्वं तं वृत्तान्तमूचुः । अथ सा भद्रा तन्माता रात्र्यतिगमे कन्थारीवनयुक्ते श्मशाने ययौ । सा नैऋत्यां दिश्याकृष्टं पुत्रशरीरं दृष्ट्वा बाष्पच्छलतो जलदानोद्यतेव रुरोद । स्नुषाभिः सहिता रुदती भद्रा विललाप" किमस्मानिव प्राणानपि किं तत्यजिथ ? हे वत्स ! प्रव्रजितोऽपि त्वमेकस्मिन्नपि दिने विहारेण मम गृहाङ्गणं किं न भूषयामासिथ ? अतः परं का कल्याणी रात्रिर्भविष्यति या त्वां स्वप्ने दर्शयित्वाऽस्मान् सञ्जीवयिष्यति । यदि व्रतेच्छया निर्मोहीभूयाऽस्मानत्यजस्तत्किं गुरुष्वपि निर्मोहोऽभूः, यत्तेऽपि त्वया त्यक्ताः " । भद्रैवं बहुतरं विलप्य रुदती शिप्रानदीतीरे तस्य समयोचितमौर्ध्वदेहिकं कर्म चकार । तस्य स्त्रियोऽपि विलापं शिप्रानद्यां क्लिन्नवस्त्राः शङ्ङ्खोद्धरणं चक्रिरे । Page #105 -------------------------------------------------------------------------- ________________ १९६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदा भद्रा पुत्रमरणशोकवह्निकरालिता सती शान्तिसुधानदी प्रव्रज्यां ग्रहीतुमैच्छत् । अथ गृहं गत्वैकां गर्भिणी स्नुषां त्यक्त्वाऽन्यस्नुषाभिः सह परिव्रज्यां जग्राह । कालक्रमेण गुर्वी प्रसूतपुत्रेणाऽवन्तिसुकुमालस्य चिताभूमितले विशालं देवमन्दिरं व्यरचयत् । अवन्तिभूषणं तद्देवकुलमद्याऽपि महाकालाभिधानेन लोकेऽतिप्रसिद्धमस्ति । भगवानार्यसुहस्त्यपि समये गच्छं प्रधानशिष्याय समाऽनशनं कृत्वा देहं त्यक्त्वा देवलोकं ययौ ॥ ११ ॥ इति परिशिष्टपर्वणि सम्प्रतिराजचरित्रादिसुहस्तिस्वर्गगमनान्तवर्णनात्मकः एकादशः सर्गः ॥११॥ द्वादशः सर्गः धनगिरिवृत्तान्तः अथ सुहस्त्याचार्यवंशे क्रमात् प्रवचनाधारो वज्रस्वामी बभूव । तस्य कथा विस्तार्यते तथाहि अस्मिन्नेव जम्बूद्वीपे दक्षिणभरता लङ्कार ऋद्धिभिः स्वर्गोपमोऽवन्तिनामा देशोऽस्ति । तत्र तुम्बवननाम सन्निवेशमस्ति । तच्च लक्ष्मीनिवासस्थानमिव देवानां हर्षदमस्ति । तत्र लक्ष्मीदेवीपुत्र इव पर्वतीकृतधनराशिर्धनगिरिनामा श्रेष्ठिपुत्रो बभूव । तारुण्यभूषितदेहस्याऽपि तस्य प्रशमद्वारपालरक्षिते हृदि कामो न प्राविशत् । नीतौ धर्मादर्थो भवतीति पठ्यते, परन्तु स पात्रेभ्योऽर्थं नियोजयन्नादपि धर्मं चकार । सोऽर्हद्धर्मतत्परो ब्रह्मचर्यपरिणाम स्वर्गा-ऽपवर्गफलं जानन् कन्यां परिणेतुं नैच्छत् । तद्विवाहोत्सवकाक्षिणौ तस्य पितरौ धनगिरिकृते कन्यां यत्र यत्र कुले प्रार्थयामासतुस्तत्र तत्र धनगिरिर्गत्वा स्वयमकथयत्-"अहं प्रव्रजिष्यामि" कथयतो मम दोषः कोऽपि नाऽस्ति । इतश्च धनपालश्रेष्ठिन: सुनन्दानाम्नी कन्योवाच-"मां धनगिरये ददातु, स मे वरो भवतु । धनपालश्रेष्ठ्यपि स्वयंवरतत्परां सुनन्दां दीक्षां जिघृक्षवेऽपि धनगिरये ददौ । सुनन्दाया Page #106 -------------------------------------------------------------------------- ________________ १९८ Annannnnnnnnnnnnnnnnnnnnnnnnnnnnnnn त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः आर्यशमितनामा भ्राता सिंहगिरिसूरिपादपावें प्रागेव परिव्रज्यामग्रहीत् । अन्यदा ब्रह्मबुद्धिरपि धनगिरि ऋतुस्नातां सुनन्दामुपबुभुजे, यतो भोगफलं कर्माऽन्यथा न भवति । इतश्च गौतमस्वामिनाऽष्टापदगिरौ प्ररूपितं पुण्डरीकाध्ययनं येन वैश्रमणसामानिकदेवेनाऽवधारितं स एव देवस्तदा सुनन्दोदरे स्वर्गात् प्रच्युत्याऽवातरत् । विमलमतिर्धनगिरिस्तां गर्भवतीं ज्ञात्वा"एष ते गर्भोऽनुपमो भविता, अहं प्रव्रजामि, त्वया सह ममाऽनभिमत एव सम्बन्धोऽभवत्, अतः परं परिव्रज्यैव ममाऽतिप्रिया, तव पुनः कल्याणं भूयात्" । इत्युक्त्वा भाटकगृहीतकुटीरमिव तां विहाय सिंहगिरिगुरुपायें परिव्रज्यामग्रहीत् । अथ स द्वाविंशति परिषहान् सहमानः स्वदेहेऽपि निरीहोऽतिदुस्तपं तपश्चकार; स स्थैर्या-ऽऽर्जवविनयादिशिष्यगुणयुतो गुरुपार्थात् कूपाज्जलमिव शास्त्रतत्त्वं जग्राह । ततः सुनन्दाऽपि नवमास्यां व्यतीतायां सत्यां जनानन्दं पुत्रं सरसी कमलमिव जनयामास । सूतिकागारे प्रतिजागरणार्थमागताः सुनन्दायाः प्रियाः स्त्रियस्तं बालमिदमूचुः-“हे जात ! यदि तव पितोत्कण्ठितः सन् न प्राव्रजिष्यत् तदा जातकर्मोत्सवोऽतिमहानभविष्यत् खलु । स्त्रीजने सत्यपि पति विना गृहं न शोभते, यथा बह्वीभिस्ताराभिश्चन्द्रं विनाऽऽकाशमण्डलं न राजते" । स बालोऽपि ज्ञानावरणलाघवात् संज्ञावांस्तासां संलापं समाहितः शुश्राव, अचिन्तयच्च-"मम पिता परिव्रज्यां जग्राह" । एवं चिन्तयन्नेव स बालो जातिस्मरणं प्राप । सजातजातिस्मरणः स बाल: संसारस्य नि:सारतां जानन् क्षीरकण्ठोऽपि पितृमार्गे पथिकतामैच्छत् । मम माता कथमुद्विज्य मां त्यक्ष्यतीति विचिन्त्य परिशिष्टपर्व - द्वादशः सर्गः मातृक्रोडस्थोऽपि रात्रिन्दिवं महातारस्वरेण रुरोद । रागमधुरगानैः क्रीडनकदर्शनैर्वस्त्रदोलान्दोलनाभिश्चाटुवचनैः क्रोडनृत्यलीलाभिमुखातोद्यवादनैः शिरश्चुम्बनेनाऽपि च स रोदनाद् न विशश्राम । एवं रुदतस्तस्य षण्मासी व्यतिगता । सुनन्दाऽपि तेन पुत्रेण वैराग्यमाप । अन्यदा धनगिर्यार्यशमितादिशिष्ययुतः सिंहगिरिस्तस्याः सुनन्दायाः पुरे समायात् । ततो धनगिर्यार्यशमितौ स्थितं सिंहगिरि गुरुं नत्वा विज्ञापयामासतुः-“हे भगवन् ! अस्मिन् संनिवेशने आवयोः स्वजनाः सन्ति, तद्भवतां नियोगेन तान् वन्दयितुं प्रेरयावः" । तयोरेवं पृच्छतोस्तत्त्वविदां वरः सिंहगिरिः शुभसूचकं शकुनं दृष्ट्वोवाच । अद्य युवयोमहाल्लाभो भावी, अद्य युवां मुनी सचित्तमचित्तं वा प्राप्नुयातं तन्ममाऽऽज्ञया गृह्णीयातम्" । अथ तौ श्रमणौ सुनन्दागृहं जग्मतुः । अन्यस्त्रीभिस्तद्वारि समायातौ तौ मुनी सुनन्दाया निवेदितौ । सर्वाः स्त्रिय ऊचुः-"हे सुनन्दे ! त्वयाऽयं पुत्रो धनगिरेः समर्पणीयः, 'एष क्व नेष्यति' इति दृश्यताम्" । दुःखिता सा सुनन्दाऽपि तं स्तनन्धयं बालं गृहीत्वा तेन पुत्रेण निर्वेदिता धनगिरि प्रत्युवाच-“हे भगवन् ! एतावत्कालपर्यन्तमयं बालक आत्मवद् मया रक्षितः, अनेनाऽहं तु नटिताऽस्मि, अयं दिवानिशमुच्चै रोदिति । यद्यपि त्वं प्रव्रजितोऽसि तथाऽप्येनं स्वपुत्रं गृहाण । मामिवैनं सम्प्रति न त्यज" । वदतां वरो धनगिरिरपि स्मित्वोवाच-“हे कल्याणि ! अहं तव पुत्र रक्षिष्यामि परन्तु त्वं पश्चात्तापं प्राप्स्यसि, एवं सर्वथा न कुरु, यदि करोषि तहि विचार्य साक्षिणां समक्षं कुरु । पुनस्त्वमिमं बालकं न प्राप्स्यसि" । तत: सुनन्दा साक्षिणः कृत्वा सविषादं धनगिरये पुत्रं समर्पयामास । सोऽपि तं जग्राह । स बालको धनगिरिणा पात्रबन्धे Page #107 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्थापितो गृहीतसङ्केत इव रोदनाद् व्यरमत् । ततस्तावृषी गुर्वाज्ञापालकौ सुनन्दागृहाद् गृहीतशिशू पुनर्गुरुपार्श्वमाजग्मतुः । ततो गुरुर्महासारस्य तस्य पुत्ररत्नस्य भारेण नमद्भुजं धनगिरिमवलोक्यो - वाच - " त्वं भिक्षाभारेणाऽऽयासित इव वर्तसे, तं ममाऽर्पय, तव भुजो विश्राम्यतु" । २०० साधुः श्रीपात्रं तं बालकं कान्त्या सुरकुमारमिव गुरो: समर्पयामास । तेजसामधिपमिव तेजोभिः प्रकाशमानं तं शिशुमाचार्यो हस्ताभ्यां स्वयं जग्राह । सिंहगिरेर्गुरोर्भूपीठं तस्य शिशोरतिभारेण जलं जिघृक्षोरञ्जलिरिवाऽनमत् । तद्भारभङ्गुरहस्तो गुरुः सविस्मय उवाच–“अहो पुरुषरूपधरमिदं वज्रं धर्तुमहं न शक्नोमि, अयं पुरुषो महापुण्यः प्रवचनाधारो भावी यत्नेन रक्षणीयोऽयं यतो रत्नं प्रायेणाऽपायप्रियं भवति" । इति गुरुः पालनाय साध्वीनां पार्श्वे समर्पयामास । तस्य वज्रसारस्य 'वज्र' इति नाम चकार । अथाऽऽर्यिका भक्ते शय्यातरकुले गत्वा तं बालं स्वात्मानमिव पालयितुं कथयित्वा ददौ । कुमारभरणनिपुणाः शय्यातर्योऽपि तं बालकं प्रीत्या स्वस्वपुत्राधिकं पश्यन्त्यः पालयाञ्चक्रुः । तासां सौभाग्यनिधनभूः स शिशुः क्रोडात् कोडं कमलात् कमलं हंस इव सञ्चचार । चित्तोल्लासपुरस्सरं तं बालमुल्लापयन्त्यश्च ता हर्षवातुलतां प्रापुः । परस्परं स्पर्धमाना इव च वज्रं सच्चक्रुः । बालोऽपि वज्रः संयमाद् वृद्ध इव तासां दुःखजनकं किञ्चिदपि बालचापल्यं नाऽकर्षीत् । प्राणरक्षणार्थं प्रासुकं बुभुजे, यतः स जातिस्मरणसञ्जातविवेक आसीत् । यदा च नीहारादि चिकीर्षाञ्चकार तदा बालधारिषु सदा स्पष्टां चेष्टां चकार । समानं परिशिष्टपर्व द्वादशः सर्गः प्रीतिगुणं दर्शयन् वज्रः सर्वेषां शय्यातरकुमाराणां जन्मभूरिवाऽभूत् । ज्ञानोपकरणपाट्याद्यादानेन च स वज्रः प्रतिवासरं बालक्रीडनेनाssयिकाः प्रीणयामास । सुनन्दाऽपि शीलवन्तं सुरूपं वज्रमवलोक्य मत्पुत्र इति वादिनी शय्यातरेभ्यो ययाचे । ते “तवाऽस्य बालस्य मातृपुत्रसम्बन्धं वयं न जानीमः किन्त्वसौ गुरूणां न्यासो विद्यत" इत्यूचुः । एवमुक्त्वा शय्यातरास्तस्यै पुत्रं न समर्पयामासुः । सा परधनमिव दूरस्थैव वज्रमपश्यत् । सा महतोपरोधेन तेषामेव गृहे तं पुत्रं दुग्धपानादिना धात्रीव लालयामास । *** २०१ इतोऽपि चाचलपुरविषयलक्ष्मीविभूषणे कन्या पूर्णा चेति द्वे नद्यौ प्रसिद्धसंज्ञे स्तः, तयोर्नद्योर्मध्ये केऽपि तापसा न्यवात्सुः तेषां मध्ये एकस्तापसः पादलेपज्ञोऽभवत् । स पादलेपं कृत्वा पादुके परिधाय जलेऽपि स्थल इव पादौ न्यस्य सञ्चचार । एवं च स नित्यं पादुकारूढो जलमार्गेण नगरे जने विस्मयं जनयन् गतागतं चकार । स तापसः श्रावकान् प्रत्येवं प्रजहास - " युष्माकं दर्शनेऽस्माकमिव कस्याऽपि कोऽपि प्रभावो नाऽस्ति" । अथैकदा योगसिद्धो महातपा वज्रमातुलः शमिताचार्यस्तत्र विहारक्रमयोगेनाऽऽ जगाम । तत आर्हतास्तस्मा आचार्यवर्याय तापसकृतं महान्तं स्वदर्शनोपहासं कथयामासुः । तदाकर्ण्य श्रुतज्ञाने स्फुरत्यपि मतिबलेन ज्ञात्वा स आचार्य उवाच - "अस्य तपस्विनस्तापसस्य न काऽपि तपः शक्तिः, किन्तु स केनाऽपि प्रयोगेण युष्मान् सर्वान् प्रतारयति । यथा कौतुकावहमकालपुष्पादि दर्श्यते Page #108 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - द्वादशः सर्गः २०३ २०२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तथैतदपि विज्ञानमस्ति, किन्त्वीदृशी तप:शक्तिर्नाऽस्ति । उपदेशमात्रसिद्धे युष्मादृशामपि साध्ये विज्ञाने विस्मयं कृत्वा तापसान् मा श्रद्धत्त । यदि युष्माकं विश्वासो नाऽस्ति तर्हि स तापस आहूयताम् । गृहागतस्य पादौ प्रक्षालनीयौ पादुके अपि प्रक्षाल्ये" । ततः श्रावका मायां कृत्वा तापसं निमन्त्रयामासुः । स तापस एकस्य श्रावकस्य गृहे जनैः परिवृतः समाययौ । तदा सकुटुम्बोऽपि श्रावको भक्तिनाटकं दर्शयन् गृहद्वारमुपागतं तं तापसमुवाच-"हे भगवन् ! भवतः पादावहं प्रक्षालयामि, यतो ये त्वत्पादौ क्षालयन्ति ते आत्मानं क्षालयन्ति । तस्मादस्माननुकम्प्य त्वमेव निस्तारयितुमर्हसि, यतो महात्मानो भक्तिशालिनां भक्तिं न स्खलयन्ति" । अथ स श्रावकोऽनिच्छतोऽपि तस्य तापसस्योष्णजलेन पादौ पादुके च प्राक्षालयत् । स श्रावकस्तस्य तापसस्य पाद-पादुकाशौचं तथा चकार यथा लेपलेशोऽपि नीचेऽनुराग इव न तस्थौ । स श्रावकशिरोमणिर्महत्या सामग्या तं तापसमभोजयत्, यतो मिथ्यादृष्टयोऽपि कार्यवशात् पूजनीया भवन्ति । तेन लेपदूरीकरणेन दुर्मनायितस्तापसो भोजनास्वादं विगोपागमशङ्कया नाऽज्ञासीत् । जलस्तम्भकुतूहलदिदृक्षुलोकैर्वृतः कृतभोजन: स तापस: पुनरपि नदीतीरं ययौ । अल्पबुद्धिः स कोऽपि लेपाश्रयः स्यादिति मिथ्यासाहसं कृत्वा जले प्रविवेश । ___ तत: स तापसकुमारः कमण्डलुरिव बुडबुडशब्दं कुर्वन् नदीजलेऽब्रूडत्" । अनेन मायाविना वयं कियच्चिरं मोहिताः स्म:इति मिथ्यादृष्टीनामपि तदा मनो मलिनीबभूव । तदा जने दत्तताले तुमुलकारिणि च सति श्रुतस्कन्धपारङ्गता आचार्या अपि तत्र समाजग्मुः। ततः स्वस्य दर्शनस्य प्रभावनां चिकीर्षव आचार्या नदीमध्ये योगविशेष न्यक्षिपन् । महात्मनां धुर्य आचार्यवों हे पुत्र ! त्वमेहि यथा वयं तव परतटे यामः" इत्युवाच । ततस्तस्या नद्यास्तटद्वये मिलिते सपरिवार आचार्यः परतीरभूमिं जगाम । ततः सर्वे तापसा आचार्यदर्शितं तमतिशयं दृष्ट्वा वैराग्यं प्रापुः । तथा सर्वो जनस्तद्भक्तो बभूव । अथ मथितमिथ्यात्वाः सर्वे तापसा आर्यशमिताचार्यस्य पार्वे प्रवव्रजुः । ते ब्रह्मद्वीपवास्तव्यतया तदन्वये ब्रह्मद्वीपिकनामान आगमोदिताः श्रमणा अजायन्त । इतश्च तत्रस्थो वज्रो यदा त्रिवर्षोऽभूत् तदा तत्र धनगिर्यादयः साधव आगमन् । “यदा धनगिरिरागमिष्यति तदा स्वं पुत्रमहं ग्रहीष्यामि" इति चिन्तयन्ती सुनन्दा तेषु समागतेषु मुमुदे । सुनन्दाऽपि महर्षिभ्य: स्वपुत्रं ययाचे, ते पुनर्न ददुः, प्रत्युतेदृशं प्रत्यूचुः-“हे मुग्धे ! अयं बालकस्त्वयाऽस्मभ्यमयाचितोऽदायि । तदा दत्तं वान्तान्नमिव कः पुनर्ग्रहीतुं काङ्क्षति ? दत्तेषु वस्तुषु विक्रीतेष्विव स्वामित्वमगच्छति । अतस्त्वं सुतं दत्त्वा न याचस्व, यतस्त्वयाऽयं बालः पराधीनीकृतः" । उभयोः पक्षयोरेवमुच्चैर्विवदमानयोर्लोक एवमवादीत्-"अमुं विवादं राजा निश्चेष्यति" । ___ तत: सुनन्दा लोकयुता राजसभायां जगाम । ते श्रमणा अपि सङ्ग्रेन सह ययुः । तत्र सुनन्दा राज्ञो वामभागेनोपविवेश । श्रीमान् सर्वः सङ्घो राज्ञो दक्षिणपार्वे न्यसीदत् । अपरेऽपि यथास्थानमस्थुः । राजा द्वयोर्वचनं परिभाव्य जगाद-"अयं बालो येनाऽऽहूतो यस्य पार्वे समायाति तस्याऽसौ भवतु" । तं निर्णयमुभावपि पक्षौ स्वीच Page #109 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - द्वादशः सर्गः २०५ २०४ त्रिषष्टिशलाकापुरुषचरितम्-गद्या चरितम-गद्यात्मकसारोद्धारः क्रतुरिति च जगदतुः-आदौ कः पुत्रमाह्वातुमर्हति ?" स्त्रीपक्षावलम्बिनः पुरवासिन ऊचुः-"व्रतिनामेवाऽयं शिशुश्चिरसंघटितस्नेहस्तद्वचनं नोल्लङ्घयति, दुष्करकारिणीयं मातैव प्रथममाह्वयतु; यत इयं नार्यतोऽनूकम्पनीयाऽस्ति, अन्यथा न" । ततः सुनन्दा बहूनि बालकक्रीडनकानि नानाविधानि भक्ष्याणि च दर्शयन्त्येवमुवाच-“हे बालक ! तव क्रीडार्थममी हस्तिनोऽमी अश्वा, अमी रथा मयाऽऽनीतास्तस्मात् तान् गृहाण, तद्ग्रहणार्थं त्वमागच्छ । हे दारक ! मोदका मण्डका द्राक्षाः शर्करा अन्यच्चाऽदो वस्तु, यदिच्छसि तदस्ति त्वमागच्छ, गृहाण । हे आयुष्मन् ! तव जनने मम सर्वाङ्गं कृशमभूत्, त्वं चिरं जीव, चिरं नन्द, मां सुनन्दां मोदय । त्वं मम देवोऽसि, मम त्वमेव पुत्र आत्मा जीवनं चाऽसि, अतो मां दीनां परिष्वङ्गेण जीवय । हे वत्स ! त्वं पश्यतो लोकस्य मध्ये मां विलक्षां न कुरु, अन्यथाऽस्य लोकस्य समक्षं मे हृदयं पक्ववालुङ्कवद् द्विधा भविष्यति । हे हंसगमन ! वत्स ! त्वं मम क्रोडमागच्छ भूषय च । मम किमियानपि कुक्षिनिवासावक्रयो न लभ्यः ?" एवं क्रीडनकैर्भक्ष्यप्रकारैरपि वज्रः सुनन्दासमीपं मनागपि नाऽऽगच्छत् ।। मातुरुपकाराणां कोऽपि पुरुषोऽनृणो न स्यादिति जाननपि सुधीर्वज्र एवं विचारयामास-"यद्यहं मातरि कृपां कृत्वा सङ्घमुपेक्षिष्ये तदा ममाऽतिदीर्घतरः संसारो भवेत् खलु । इयं मे माता धन्याऽल्पकर्मा प्रव्रजिष्यति, अतोऽस्या इदमापातमात्रजं दुःखमप्युपेक्षणीयम्" । दीर्घदर्शी वज्रदृढाशयो वज्रः प्रतिमास्थ इव स्वस्थानाद् मनागपि नाऽचलत् । ततो राजोवाच-"हे सुनन्दे ! त्वमपसर, असावाहूयमानो बालस्त्वां मातरमजानन्निव नाऽऽगच्छत् । ततो राजाऽवसरं प्राप्य धनगिरिं प्रत्युवाच "हे भगवन् ! अथ त्वमेतं बालमाह्वय" । ततोऽसौ रजोहरणमुत्थाप्यैवं मिताक्षरमुवाच-“हे अनघ ! यदि तव व्रते व्यवसाय:, यदि च त्वं तत्त्वज्ञोऽसि, तदा धर्मध्वजं रजोहरणं गृहाण" । ततो वज्रस्तदैवोत्क्षिप्तकरो हस्तिशिशुरिव प्रक्वणत्पादनूपुरो धनगिर्यभिमुखं शीघ्रमधावत् । गत्वा पितुः क्रोडमारुह्य लीलाकमलवत् तद्रजोहरणमग्रहीत् । वज्रेण करकमलाभ्यामुद्धृतं रजोहरणं प्रवचनलक्ष्म्याश्चमर इव शुशुभे । स शोभमानकुन्दकलिकोपमदशनकान्तिस्मितो रजोहरणादन्यत्र दृष्टि स्वल्पमपि न ददौ । सुनन्दा दिनावसाने कमलिनीव सद्यो ग्लानि प्राप्ता हस्तविन्यस्तचिबुकैवं चिन्तयामास-"मम भ्राता प्रव्रजितः,भर्ता च प्रावाजीत्, पुत्रोऽपि प्रव्रजिष्यति । अतोऽहमपि प्रव्रजिष्यामि । सुनन्दा स्वयमेवेति निश्चित्य गृहं जगाम । ते मुनयोऽपि वज्रमादाय वसति जग्मुः । वज्रस्तद्वयस्कोऽपि व्रताभिलाषी स्तन्यं नाऽपिबत्' इत्याचार्यास्तं परिव्राज्य पुनः साध्वीनां समर्पयामासुः । सुनन्दाऽप्युद्यद्भाग्यविशेषेण भृशं वैराग्यभृत् तद्गच्छाचार्यपाइँ प्राव्राजीत् । धीनिधिर्भगवान् वज्रः पदानुसारी पठदार्यामुखादेकादशाऽप्यङ्गानि पपाठ । वज्र आर्योपाश्रये यावदष्टवर्षोऽभूत्, ततो हृष्टा महर्षयस्तं स्ववसतिमानैषुः । अन्यदा वज्रगुरवोऽवन्तरीनगरी प्रति प्रययुः । मार्गमध्ये मेघोऽखण्डधारं ववर्ष । ते वज्रगुरव आचार्याः सपरिवारा यक्षमण्डपिकोपमेऽस्रवज्जले क्वचित् स्थाने तस्थुः । तदा वज्रस्य पूर्वजन्म Page #110 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - द्वादशः सर्गः २०७ २०६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सुहृदो जृम्भका देवाः सत्त्वं परीक्षितुं तत्र वणिग्रूपाणि तदुचितावासांश्च विचक्रुः । ते देवा मेघे विरतप्राये तानाचार्यान् लघुवन्दनपुरस्सरं भिक्षार्थं न्यमन्त्रयन् । आचार्यवर्या वृष्टिं निवृत्तामिव ज्ञात्वा भिक्षामानेतुं विनयोज्ज्वलं वज्रमादिशन्, वज्रोऽप्यावश्यकी क्रियां विधाय द्वितीयमुनिना सार्धं मार्गे ईर्याशुद्धि चिन्तयन् भिक्षार्थं निर्ययौ । वज्रस्त्रसरेणुतुल्यानपि जलबिन्दून् पततो दृष्ट्वाऽप्कायविराधनाद् भीत: शीघ्रं न्यवर्तत । देवास्त्रसरेणुमात्रामपि तां जलवृष्टिं निरुध्य वृष्टिर्नास्तीतिभाषिणो वज्रमुनि पुनराह्वयन् । वज्रमुनिस्तदनुरोधेन वृष्टौ निवृत्तायामचलद् भक्त-पानादिशोभितं च देवावासं ययौ । तेषु देवेषु ससम्भ्रमेषु भक्त-पानादि दित्सुषु सत्सु वज्रमुनिर्द्रव्य-क्षेत्र-कालभावैरुपयोगं ददौ । असम्भवि कूष्माण्डकादिकं द्रव्यं कुतो राद्धम् ? यत इदमुज्जयिनीक्षेत्रं स्वभावादेव कठोरमस्ति । प्रथमवर्षास्वस्य द्रव्यस्य कथाऽपि का ? दातारोऽप्यनिमेषनेत्रा अभूमिस्पृक्पादा इति देवपिण्डोऽयं नियतं वर्ततेऽतोऽयं साधूनां न कल्पते, तस्मादगृहीतपिण्डोऽप्यहं गुरुसमीपं गच्छामि" । इति हेतोर्वज्रस्वामी देवभिक्षामगृहीत्वैव तदावासाद् निववृते । __ अथ देवा विस्मिताः प्रत्यक्षीभूयोचुः-“हे वज्रस्वामिन् ! वयं जृम्भका देवास्तव पूवभवसुहृदः स्मः, वयं त्वां द्रष्टुमिहाऽऽगताः स्मः । त्वमस्माकमद्याऽपि मित्रमसि । अथ तुष्टा देवा वज्रस्वामिने विहितमायाया निष्क्रयमिव वैक्रियलब्ध्याख्यां विद्यां ददुः । अन्यदा ज्येष्ठे मासि बहिर्भूमौ विहरन्तं वज्रस्वामिनं देवा नैगमीभूय घृतपूरैय॑मन्त्रयन् । वज्रस्तदावासे गत्वा पूर्ववद् देवपिण्डं ज्ञात्वा नाऽग्रहीत्, यतः स उपयोगज्ञाताऽऽसीत् । अथ पुनस्तुष्टदेवा: पूर्वमित्राय वज्रायाऽऽकाशगामिनी विद्यां दत्त्वा स्वस्थानं जम्मुः । ततो गच्छमध्ये विहरतो वज्रस्य पदानुसारिलब्ध्याऽऽत्तैकादशाङ्गयपि सुस्थिराऽभूत् । भगवान् मेधाविशिरोमणिर्वज्रो यद्यत्पूर्वगताद्यप्यधीयमानं शुश्राव तत्तदग्रहीत् । यदा स्थविरा वज्रं प्रति पठेति जगदुस्तदा स निद्रालुरिव किञ्चिद्गुणगुणशब्दं चकार । स स्थविराज्ञाभङ्गभीरुः स्वशक्तिमप्रकाशयन्नव्यक्तं किञ्चिदुद्गिरन्नन्यान् पठतः शुश्राव । अन्येधुर्मध्याह्ने साधवो भिक्षार्थं जग्मुः । त आचार्यमिश्रा अपि बहिर्भूमौ निर्ययुः, तदा वज्र एकाकी वसतिरक्षकस्तस्थौ । स साधूनां मण्डलवत् वेष्टिकाः संनिवेशयामास । स तासां शिष्याणां मध्य आचार्य इवोपविश्य वर्षामेघशब्दो वाचनां दातुमारभत । पुनरागच्छन् गुरुरेकादशानामप्यङ्गानां पूर्वगतस्य च वाचनां दूरतोऽशृणोत् । वसतिद्वारमागत आचार्यो गहगहशब्दं श्रुत्वा साधवः कि शीघ्रमागता ? इत्यचिन्तयत् । अस्मदागमनं पालयन्तोऽमी महर्षयो भिक्षां गृहीत्वा समागताः स्वाध्यायं कुर्वन्ति । आचार्याश्च क्षणं स्थित्वा चाऽज्ञासिषुर्यत्-"एष शब्दो वाचनां ददतो वज्रबालमुनेरस्ति । असौ पूर्वगतस्यैकादशाङ्गया अपि वाचनां यस्माद्धेतोर्ददाति तस्माद् वयं विस्मयामहे किमसौ गर्भस्थोऽध्यगीष्ट ? अतोऽयं स्थविरैरध्याप्यमानोऽलसायते वा बाल्यात् पाठालस, इति ज्ञात्वा तत्पठनकाले वयमशिक्षयाम । असावस्मदाकर्णनाशङ्की लज्जितो न भवतु इति बुद्ध्या शिष्यगुणैर्हर्षपुलकिताङ्गस्ततोऽपससार । Page #111 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धार: अथाऽऽचार्या उच्चैःशब्देन नैषेधिकीं चक्रुः । वज्रोऽपि गुरूणां शब्दं श्रुत्वाऽऽसनादुदतिष्ठत्, स्खलितगतिर्गुरुर्यावताऽऽयाति तावता वज्र उपधीन् स्वस्वस्थानेऽस्थापयत् । पुनरभ्येत्य गुरोर्दण्डमग्रहीत् पादौ च ममार्ज, तद्रजोवन्दनेन स्वं भालमुच्चैरवगुण्ठयन् आसनस्थस्य गुरोः प्रासुकजलेन पादौ प्रक्षालयामास, पादोदकं शिरसाऽवन्दत च । २०८ आचार्याश्चिन्तयामासुः- “असौ बालकोऽपि महात्मा श्रुतसमुद्रपारङ्गतो वज्रास्पदीभवन् रक्षणीयः । अस्य बालस्याऽपि प्रभावमजानन्तोऽन्यसाधवो यथाऽवज्ञां न कुर्युस्तथा वयं प्रयतिष्यामहे" । इत्यालोच्याऽऽचार्या रात्रौ शिष्येभ्य ऊचुरिदम् - "वयममुकं ग्रामं यास्यामः अस्माकं स्थितिस्तत्र द्वित्रदिनानि स्यात्" । योगप्रतिपन्नाः साधवो गुरुं विज्ञापयामासुः - "हे भगवन् ! तदाऽस्माकं वाचनाचार्यः को भविष्यति ?” युष्माकं वाचनाचार्यो वज्रो भवितेति गुरुरादिशत् । ते भक्तत्वादविचार्यैव तथा स्वीचक्रुः । अथ ते साधवः प्रातः कृत्यं कायोत्सर्गवाचनाग्रहणादिकं कर्तुं वज्रं निषद्यायामुपावेशयन् । वज्रोऽपि गुर्वाज्ञाऽस्तीति निषद्यायामुपविवेश, साधवस्तस्य गुरोरिव विनयं चक्रुः । अथ वज्रः सर्वेषामपि साधूनामानुपूर्व्या परिस्फुटान् सङ्क्रान्त्या वज्रलेपोपमानालापकान् ददौ । येऽल्पमेधसोऽपि साधवोऽध्येतुमागमंस्ते वज्राद् वाचनामादायाssदाय प्रारेभिरे । वज्रोऽतिजडेष्वप्यमोघवाचनो बभूव । ततः सर्वो गच्छस्तदद्भुतं नवीनं दृष्ट्वा विस्मयं ययौ । साधवः पूर्वमधीतान् सुस्फुटानप्यालापान् संवादार्थं वज्रमपृच्छन् । वज्रोऽपि तथैव तानुवाच । महर्षयो गुरुसंनिधावनेकाभिरपि वाचनाभिर्न यावत् परिशिष्टपर्व द्वादशः सर्गः पेठुस्तावद् वज्रादेकयैव वाचनया पेठुः । ततो विस्मिताः साधवः परस्परमूचुः, यदि गुरुविलम्बते तदा वज्रपार्श्वे श्रुतस्कन्धः शीघ्रं समाप्यते" । मुनयो गुणैर्गुरुभ्योऽप्यधिकं वज्रं मेनिरे, यत एकगुरुदीक्षिते सुगुणे गणो मोदते । २०९ आचार्याश्चिन्तयामासुरेतावद्भिर्दिनैर्वज्रोऽस्मत्परिवारस्य ज्ञातगुणः खलु भावी । अथ यद्यदस्याऽनधीतं तत्तद् वज्रं पाठयामः, यतो निर्मलैर्गुणैः शिष्य उपेत्य पाठनीयतां याति । आचार्या एवं चिन्तयित्वा कथितदिने समाययुः । तत्पादान् मुनयो वज्रेण सह ववन्दिरे । ततो गुरवोऽपृच्छन्- किं युष्माकं स्वाध्यायनिर्वाहो भवति ? साधव ऊचु:- "देव- गुरुप्रसादादिति, सर्वे शिष्या आचार्यान् पुनर्वन्दित्वा विज्ञापयामासुः अस्माकं वाचनाचार्यो भवदादेशेन वज्रोऽभूत् । अस्माभिरज्ञाततद्गुणैर्वज्रश्चिरमवाज्ञायि, इदानीं बालोऽयं भवत्पादा इवाऽस्माकं सन्तोषप्रदोऽस्ति । बालोऽपि गुरुगुणयुत एव गच्छस्य गुरुरस्तु । कुन्दकलिकामात्रोऽपि प्रदीपो गृहं प्रकाशयत्येव । आचार्या ऊचु:- " हे तपोधनाः । किन्त्वसौ बालकोऽपि विद्यावृद्धोऽस्तीति नाऽवमन्तव्यः । वयं ग्राममगमाम, युष्मभ्यमयं बालोऽप्याचार्यत्वेन समर्पितः । अत एव यूयमस्येदृशान् गुणान् जानीथ, अन्यथा वाचनाचार्यपदवीमयं नाऽर्हति यतोऽयं गुर्वदत्तं श्रुतं कर्णश्रुत्या जग्राह; हे संयताः ! अस्य संक्षेपानुष्ठानरूपोत्सारकल्पः कर्तव्यः, तत एष आचार्यपदवीयोग्यो भवेत्" । तत उदारधीर्गुरुः प्रागपठितं श्रुतमर्थयुतं वज्रं शीघ्रमध्यापयामास । साक्षिमात्रीकृतगुरुर्वज्रो गुरुपाठितं श्रुतं दर्पण: प्रतिबिम्बमिव सर्वमनायासेन जग्राह । तदा वज्रस्तथा श्रुतज्ञोऽभूत् यथा तस्य Page #112 -------------------------------------------------------------------------- ________________ २१० परिशिष्टपर्व - द्वादशः सर्गः २११ mmmmmmmmmmmmmmmmmmmmmmmmm त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः गुरोरपि दुर्भेदचिरसन्देहलोष्टमुद्गरीबभूव । गुरोर्हदि दृष्टिवादोऽपि यावन्मात्रोऽभूत् तावन्तं वज्रो जलचुलुकलीलया जग्राह । अन्यदा सपरिच्छदास्त आचार्या ग्रामाद् ग्रामं पुरात् पुरं विहरन्तो दशपुरं नाम पुरं जग्मुः । तदोज्जयिनीनगर्यां सम्पूर्णदशपूर्वभृदाचार्योऽभूत् । अथ तस्माद् दशपूर्व्यपि ग्राह्याऽस्ति । किन्तु येषामेकादशाङ्गीपाठोऽपि भृशं कष्टायते ते शिष्या दशपूर्वग्रहणे कथं शक्नुवन्तु । अथवा वज्रोऽस्त्येवाऽनया चिन्तयाऽलं, यतः स पदानुसारिलब्ध्या दृष्टप्रत्ययोऽस्ति, इति गुरुर्वज्रमादिशत्-“हे वत्स ! त्वमुज्जयिनी गच्छ, तत्र भद्रगुप्तगुरुमुखाद् दशपूर्वी पठ। अल्पमेधसः सर्वे, न समाः, अतोऽत्र न समर्थाः सन्ति । अत्राऽहमपि कुण्ठधीर्भवामि, त्वं दश पूर्वाणि पठित्वा मदाज्ञया शीघ्रमत्राऽऽगच्छ । सौम्यशासनदेवतास्तव सन्निहिताः सन्तु । हे वत्स ! यथा कूपाज्जलमुपवनसालेषु प्रसरति तथा दशपूर्वी त्वन्मुखाद् महर्षिषु प्रसरतु । एवं सिंहगिरिर्वज्रमवन्तीं गन्तुं स्थविरकल्पतयर्षिद्वयेन सहाऽऽदिशत् । वज्रः सिंहगिरेगुरोराज्ञां शेषामिव मूर्जाऽऽदाय भद्रगुप्तपादपूतामुज्जयिनी पुरीं क्यौ । वज्र उज्जयिनी पुरीं प्राप्ते भद्रगुप्ताचार्यः शुभे क्षणे स्वप्नं ददर्श यत्-"मम करात् क्षीरपूर्णपात्रमादाय कश्चिदागन्तुकोऽपिबत् स परमां तृप्तिं प्रापे"ति । गुरुः प्रभाते तं स्वप्नं शिष्येभ्य उवाच । तेऽपि यथाप्रज्ञं विविधमर्थं विचारयामासुः । गुरुरुवाच-"यूयं न जानीथ, कोऽप्यतिथिरागमिष्यति सुधीः सोऽर्थसहितं सर्वं श्रुतमस्मत्तः ग्रहीष्यति" । वज्रोऽपि नगरीद्वारे रात्रिमतिवाह्य प्रातःकाले भद्रगुप्ताचार्यवर्यप्रतिश्रयं ययौ । गुरुर्दूरतो वज्रं दृष्ट्वा समुद्रश्चन्द्रमिव परमया मुदोल्लासं परं प्राप । आचार्योऽप्यचिन्तयत्-"अहो ! मम सौभाग्येनाऽस्य सन्निधिरभूत्, किमेनमहमालिङ्गामि ? किं वाऽङ्कमारोपयामि ?" महामुनिर्भद्रगुप्तः प्रसिद्धानुरूपां वज्रस्याऽऽकृति परिभाव्य वज्रोऽयमिति निश्चिकाय । अथ भद्रगुप्तो वन्दनाभिमुखं परिषस्वजे, यतो बलीयस्युत्कण्ठा विनयं न प्रतीक्षते । वज्रमुखपद्मे स्वनयने भ्रमरीकुर्वन् भद्रगुप्ताचार्यो वज्रमके समारोप्योवाच-"तव सुखविहारः कच्चित् ? हितं वाऽङ्गमनामयं कच्चित् ? तव तपो निर्विघ्नं कच्चित् ? तव गुरुः कुशली कच्चित् ? अथवा त्वं किञ्चित् कार्यमुद्दिश्य विहारक्रमत इहाऽऽगतोऽसि ? हे वज्रमुने ! इत्यस्मान् कथय प्रमोदय च" । वज्रः कृताञ्जलिर्भद्रगुप्तर्षि वन्दित्वा मुखकमलन्यस्तमुखवस्त्रिक उवाच-“हे महर्षयः ! पूज्यपादैर्यद्यत् सुखविहारादिकमपृच्छ्यत तत्तद् देवानां गुरूणां च प्रसादात् तथैवाऽस्ति । हे भगवन् ! अहं गुर्वादेशेन दश पूर्वाणि पठितुं त्वामागम, तन्मां वाचनाप्रदानेनाऽनुगृहाण" । ततो भद्रगुप्तस्तं दशपूर्वीमपाठयत् । अथ वज्रो गुरोरजनितक्लेशः सन् दशपूर्वी पपाठ । यत्राऽध्येतुमारब्धं तत्रैवाऽनुज्ञाऽपि ग्राह्येति सिंहगिरेः सकाशे गन्तुं वज्रश्चिन्तयामास । भद्रगुप्तं पृष्ट्वा वज्रः पुनरधीतदशपूर्वो गृहीतजलो मेघ इव दशपुरं जगाम । तदा सिंहगिरिर्गुरुर्दशपूर्वसमुद्रागस्तिमभ्यागतं वज्रमुनि पूर्वमन्वज्ञापयत् । वज्रस्य पूर्वानुज्ञायां जृम्भकदेवा दिव्यपुष्पवृष्टिभिरद्भुतं महिमानं चक्रुः । ततः सिंहगिर्याचार्यो गणं वज्रमुनेरर्पयित्वाऽन्न-पानादिकं प्रत्याख्याय कालं कृत्वा देवो बभूव । Page #113 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भगवान् वज्रस्वाम्यपि पञ्चशतसङ्ख्यमुनिवृत्तो भव्यजनकुमुदचन्द्रो भुवं व्यहार्षीत् । महामुनिर्वज्रस्वामी विहारेण भुवं पुनानो यत्र यत्र जगाम तत्र तत्रेयं ख्यातिरभूत्- "अहो ! अस्य शीलमुज्ज्वलमस्ति, अहो ! अस्य श्रुतं लोकोत्तरमस्ति, अहो ! अस्य सौभाग्यं निर्मलस्ति, अहो ! अस्य लावण्यमद्भुतमस्ति" । *** २१२ इतश्च पाटलीपुत्रे महाधनो गुणगण श्रेष्ठो भुवि प्रख्यातो धनो नाम श्रेष्ठी बभूव । तस्य रूपवती रुक्मिणीनाम्नी कन्या रूपान्तरधारिणी रुक्मिणीव बभूव । तस्य श्रेष्ठिनो यानशालायां महामुनेः श्रीवज्रस्य विमलाशयाः साध्व्यो न्यवसन् । ता व्रतिन्यो वज्रस्य गुणानकीर्तयन्, यतो गुरूणां गुणकीर्तनं स्वाध्यायावश्यकतुल्यं भवति । तत्र रुक्मिणी वज्रमुनेस्तां तां सौभाग्यकथां श्रुत्वा वज्रमेव भर्तारमिच्छन्ती सैवं प्रत्यज्ञासीत् - "यदि मम भर्ता वज्रः स्यात् तदाऽहं भोगान् भोक्ष्ये, अन्यथा भोगैरलम्" । पतिं विना भोगैः किम् ?” तस्या वरयितारो ये केचिदुपतस्थिरे, सा तान् सर्वान् मुखपरावर्तननाटकेन प्रत्यषेधत् । प्रव्रजितास्तामूचुः - " हे रुक्मणि यदि त्वं वीतरागं प्रव्रजितं वज्रं वरीतुमिच्छसि तदा त्वं मुग्धाऽसि । रुक्मिण्युवाच - "हे साध्व्यः ! यदि वज्रः प्रव्रजितस्तदाऽहमपि प्रव्रजिष्यामि, तस्य या गतिर्ममाऽपि सैव गतिर्भविष्यति” । इतश्च धर्मदेशनाजलजलधरो भगवान् वज्रमुनिः पाटलीपुत्रनगरं विहारेण ययौ । तदा पाटलीपुत्रराज आयान्तं वज्रमुनिं श्रुत्वा तत्कालं सपरिवारो महीयस्यद्धयऽभिययौ । राजेतश्चेतश्च वज्रर्षेवृन्दीभूतांस्तप:श्रिया शोभमानान् महामुनीनागच्छतोऽपश्यत् । तान् परिशिष्टपर्व द्वादशः सर्गः दृष्ट्वा च व्यचिन्तयत्-"सर्वेऽमी कान्तिमन्तः सर्वेऽपि सुन्दराकाराः, सर्वेऽपि विकसन्मुखाः सर्वेऽपि प्रियंवदाः सर्वेऽपि करुणारससागराः सर्वेऽपि समताशालिनः सर्वेऽपि निर्ममाः, तदेतेषु को नाम वज्रस्वामी इत्यहं न जानामि चेत् तर्हि किं करोमि ? स एव भगवान् गच्छस्य नायकत्वात् प्रथमतो वन्दनीयः " । २१३ राजा क्षणं स्थित्वा महर्षीन् पप्रच्छ- "हे महर्षयः । भवन्तः कथयन्तु किं वज्रस्वाम्ययम् ? वा किमेषः ? किमसौ वा विराजते ?" मुनय ऊचु:- "हे राजन् ! वयं तु वज्रस्य शिष्याः स्मः त्वमस्मासु तं मा चिन्तय ? क्व सूर्यः क्व च खद्योता, एवं सर्वेषु मुनिसमाजेषु पृच्छन् राजा गणस्य पश्चात् स्थितं मोहगिरिवज्रं वज्रं ददर्श । अथ राजा किरीटरत्नकिरणजालैस्तत्पादौ स्नपयन्निव वज्राचार्यभट्टाकरं ववन्दे । अथ वज्राचार्यः सपरिवारो वृक्षच्छायाप्रतिश्रयमाश्रित्योद्याने समवससार । राजाऽपि निषद्यायामुपविष्टस्य वज्रमुनेश्चरणयुगलं सुगन्धिना यक्षकर्दमेनाऽचर्चयत् । ततो भगवान् वज्रस्वामी सुधामाधुरीमधरयन्त्या वाचा मोहध्वान्तध्वंसैकदीपिकां देशनामकरोत् । क्षीरास्रवलब्धिमतः श्रीवज्रस्वामिनस्तया धर्मदेशनया राजाऽपहृतचित्तो देशनावसाने वज्रमुनिं नत्वा स्वगृहं गत्वा राज्ञीरकथयत्-"हे सुभ्रुवः ! अहमद्य बाह्योद्याने स्थितं धर्मदेशनाक्षीरसमुद्रं वज्रस्वामिनं ववन्द । तं वन्दित्वा तस्य धर्मं श्रुत्वा च मम शरीरं नयनयुगलं श्रवणयुग्मं च कृतार्थतां प्रापुः । हे सुलोचना: ! इदमेव दिनं सुदिनं मन्ये, यस्मिन् वज्रमुनेर्ज्ञानसूर्यस्य दर्शनमभूत् । Page #114 -------------------------------------------------------------------------- ________________ २१४ mnnnnnnnnnnnnnn त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एतावताऽप्यहं धन्योऽस्मि, यद् मया वज्रमुनिर्दृष्टः, किं पुनस्तन्मुखादार्हतं धर्ममश्रौषम् ? हे राज्य: ! तब्यमपि वर्षि द्रष्टुमर्हथ शीघ्रं गच्छत, यत ऋषयो वायुवदेकत्र न तिष्ठन्ति" । राज्य ऊचुः-वयं स्वयमपि तं वन्दितुमिच्छामः, यदत्र तवाऽऽज्ञाभूत् तत्तृषितैनंदी प्राप्ता" । ततो राजाज्ञया राज्यो याप्ययानाधिरूढा वज्रस्वामिपादालङ्कृतं बाह्योद्यानवरं जग्मुः। रुक्मिण्यपि जनोक्तिभिर्वज्रस्वामिनमागतं श्रुत्वा तमेवाऽऽत्मानं योगिनीव चिन्तयन्ती तस्थौ । द्वितीयदिने रुक्मिणी स्वपितरमुवाच-“हे पितः ! यमहं सदा वुवूर्षामि स वज्रस्वामी समागतोऽत्र वर्तते । हे तात ! तन्मां वज्रकुमाराय देहि, अन्यथा मम मरणं शरणम् । इयं मे वाणी शिलालेखेव निश्चलाऽस्ति । यदाभिजात्यसहचरी लज्जां विहायैवं वदामि, तत्राऽयं हेतुर्वज्रोऽयं मम पुण्यैरागतः । प्रायेणाऽयं नेह स्थास्नुः, यद्यद्यैव गच्छति कि ज्ञायते ? कदा पुनरुड्डीनपक्षिवदागच्छति ? हे पितस्तस्मादलं विलम्बेन, वज्राय शीघ्रं देहि चिरकौमारदीनां मां पश्यन् किं न परितप्यसे? धनोऽप्येवमाग्रहात् सद्यो विवाहयोग्यवस्त्रालङ्कारभूषितां कृत्वा तां रुक्मिणीं वज्रसमीपमनैषीत् । वरयितुर्यथा प्रलोभनं स्यादिति जातधीर्धन: कन्यया सहाऽनेकशः कोटीर्धनानामनैषीत् । तद्दिनाद् गतदिने वजे देशनां कुर्वति सति भक्तिमान् नागरलोकः परस्परमिदमुवाच-"अहो ! वज्रस्य कीदृशं सुस्वरत्वं यदीयदेशनां श्रुत्वाऽऽनन्दमग्नानां जनानां मोक्षावस्थेव जायते । सर्वगुणरत्नसागरस्य श्रीवज्रस्वामिनो यदि गुणानुरूपं रूपं चेद् भवेत् तर्हि किमुच्येत ? परिशिष्टपर्व - द्वादशः सर्गः यत: नगरप्रवेशे पुरक्षोभशङ्कयाऽऽत्मनो रूपं स्वशक्त्या वज्रर्षिणा संक्षिप्तमेव कृतमासीत्" । भगवान् वज्रस्वामी च विपुलेन ज्ञानबलेन तेषां मनोगतं भावं ज्ञात्वा द्वितीयदिनेऽनेकलब्धिना लक्ष्म्यासनतुल्यं सहस्रदलकमलं व्यकरोत् । स्वाभाविकमद्भुतं रूपं कृत्वा तत्कमलोपरि राजहंस इवोपाविशच्च । जनो जितदेवकुमारकं वज्रस्वामिरूपं दृष्ट्वा सङ्गीताभ्यासं कुर्वन्निव शिरांसि कम्पयामास तथोवाच-"वज्रस्वामिनः स्वाभाविक रूपमदो वर्तते, गुणानां रूपस्य चाऽद्य तुल्य: समागमोऽजनि । अहं लोकस्य प्रार्थनीयो मा भूवमिति शङ्कया ह्यस्तनं रूपं पुनः स्वशक्त्या चकार खलु । _ विस्मयस्मेरमना राजाऽप्येवमुवाच-"वज्रमुनिः खलु यथेष्टरूपकरणलब्धिर्वर्तते" । वज्रस्वामिनस्तद्रूपं पश्यन् धनश्रेष्ठ्यपि तत्स्वयंवरे साग्रहां स्वपुत्रीं वर्णयामास । स्वार्थं प्रार्थयितुकामस्य धनस्य हृदि अत्युत्ताने जलमिव वज्रस्वामिदेशनार्थो न तस्थौ । धनश्रेष्ठी देशनान्ते कृताञ्जलिर्वज्रमुवाच-“हे मानद ! मयि प्रसादं कृत्वेमां मत्पुत्रीं परिणय । क्व भवान् देवस्वरूपः, क्वेयं मानुषकोटिका मत्कन्या, तथाऽपि त्वमेनां स्वीकुरु । यतो महत्सु जनेष्वभ्यर्थना वृथा न भवति । हे वज्रस्वामिन् ! विवाहानन्तरं हस्तमोचनावसरेऽसङ्ख्याता द्रव्यकोटीस्तुभ्यमहं दास्याम्यत इदं भवतु । दयापरो वज्रस्वामी तमज्ञं विज्ञायोवाच-"तव द्रव्यकोटीभिरलं, तव कन्यया चाऽलं, यतः स्त्रियो हि विषयास्ते पुनर्विषतुल्या, आपातमात्रमधुराः, परिणामे परमदारुणा भवन्ति । विषया Page #115 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व- द्वादशः सर्गः २१७ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विचार्यमाणा विषादपि विशिष्टा भवन्ति । विषं तु भुक्तवतोऽनाय, विषयास्तु स्मृताः सन्तोऽपि प्राणिनां जन्मान्तरेऽऽप्यनर्थाय जायते । अहं परिणामदुःखदान् विषयान् ज्ञात्वाऽमून् कथं स्वीकरोमि ? यतो निर्धनोऽपि 'अयं चौर' इति ज्ञात्वा तं त्यजत्येव यदि महानुभावा त्वत्कन्या मय्यनुरागिण्यस्ति, तर्हि मया स्वीकृतां प्रव्रज्यामसावपि गृह्णातु । कुलीनाऽसौ यदि मनसाऽपि मामेवैच्छत्, तदा परलोककल्याणेच्छयैवं कर्तुमुचितम् । अथवा ममाऽऽज्ञयाऽपि स्वविवेकपूर्वकं मोक्षार्पणलग्निकां प्रव्रज्यामेषा गृह्णातु । त्वत्कन्या बिभीतकवृक्षच्छायामिवाऽनर्थप्रदायिनी विषयासक्ति मा कार्षीत् । तस्या हितमिदं वदामि" । तदा पूर्वोक्ताभिर्भगवतो वज्रस्वामिन: कुशलोक्तिभिः प्रतिबुद्धाऽल्पकर्मा रुक्मिणी प्रवव्राज" | "अयमेव धर्मः श्रेयान्, यत्रेदृशी निर्लोभता"। एवं विचार्य बहवो जनाः प्रतिबोधं प्रापुः । तया रुक्मिण्या श्रीवज्रस्वामिपार्थात् प्रव्रज्याऽग्राहि । मुनिवरोऽपि तस्मात् स्थानाद् विजहार । *** __ अन्यदा भगवतः सङ्घस्योपचिकीर्षुर्जन्मसंसिद्धपदानुसारिलब्धिर्भगवान् वज्रस्वामी महापरिज्ञाध्ययनादाचाराङ्गान्तरस्थामा काशगामिनी विद्यामुद्धृत्य कथयामास । अनया विद्यया मम जम्बूद्वीपादामानुषोत्तरं भ्रमणे शक्तिरस्ति । ममेयं विद्या रक्षणीया । कस्यचिद् न दातव्या । यतोऽतः परमन्ये जना अल्पर्द्धयोऽल्पसत्त्वाश्च भविष्यन्ति । ___ अन्यदा महामुनिः श्रीवज्रस्वामी पूर्वदिग्भागात् सूर्यो मकरसङ्क्रान्तौ दक्षिणत इवोत्तरदिशं जगाम । तदा तत्राऽतिभीषणं दुभिक्षं प्रावर्त्तत । जनो भोजनेन श्रद्धया च विकलोऽभूत् । गृहिणामन्नाभावादल्पभोजनकरणेन यतीनामिव नित्यमूनोदरता बभूव । धनिका अपि गृहस्थाः सत्रशाला: शिश्रियुः । पृथ्वी सर्वत्रैव निरन्तरं रलरोलाकुला बभूव । दीनाश्चत्वरे विक्रीयमाणानि दधिभाण्डानि स्फोटं स्फोटं तद्दधीनि कुक्कुरा इवाऽलिहन् । पुना रङ्का अस्थिचर्मावशेषाङ्गाः सुस्पष्टस्नायुमण्डला भयङ्कराः प्रेता इव सर्वत्र सञ्चेरुः । अनगारेषु भिक्षार्थमागतेषु श्रावका अप्यन्नतृष्णया भिक्षादोषानदर्शयन् । शून्येषु परितो निर्धूमगृहेषु ग्रामेषु पादसञ्चारा मार्गा अपि सञ्चारायोग्या बभूवुः । ततो दुष्कालपीडितः सर्वः सङ्घो दीनो वज्राचार्य विज्ञपयामास-"भगवन् ! त्वमस्मानस्माद् दुःखात् कथमप्युद्धारय, सङ्घप्रयोजने विद्योपयोगोऽपि न दुष्यति" । ततो भगवान् वज्रस्वामी गरीयस्या विद्याशक्त्या चक्रभृच्चर्मरत्नवद् विपुलं पटं विचकार । तत्र च तेन निर्दिष्टः सर्वः सङ्घो नौकायां सार्थवाह इवाऽधिरुरोह" । तथा कृते सति स पटो भगवता वज्रमुनिना प्रयुक्त्या विद्याशक्त्या पवनोत्क्षिप्ततूलवदाकाशे समुड्डिडये । तदा दत्तनामा वज्रमहामुनेः शय्यातरः सहचारिग्रहणार्थं गतस्तत्राऽऽययौ । स सङ्घन सहितं स्वर्गयायिनं वज्रस्वामिनं दृष्ट्वा केशाञ्छीघ्रमुत्पाट्योवाच-"हे भगवन् ! अहं पुरा वः शय्यातरोऽभवम्, अधुना साधर्मिकोऽप्यस्मि, मां किं न निस्तारयसि ?" ततो वज्रस्वामी शय्यातरस्योपालम्भगर्भितवचः श्रुत्वा लूनकेशं तं दृष्ट्वा-"ये साधर्मिकवात्सल्ये स्वाध्याये चरणेऽपि वा तीर्थप्रभावनायां वोद्युक्तास्तान् मुनिस्तारये"दित्यागमार्थं स्मृत्वा सोऽपि पटेऽध्यरोपि । विद्यापटोपविष्टा गच्छन्तस्ते सर्वे सपर्वत Page #116 -------------------------------------------------------------------------- ________________ २१८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नदी-पुरां पृथ्वी करामलकवद् ददृशुः । आकाशे मार्गस्थव्यन्तरदेवैर्भक्त्या पूज्यमानः, भक्तैर्कोतिषिकदेवैः प्रदीयमानार्थ्यः, शक्ति सम्पच्चमत्कृतैर्विद्याधरैर्वर्ण्यमानोऽनुकूलेन पवनेन सुहृदेवाऽऽलिड्ग्यमानो महीस्पृशां पटच्छायादर्शिताम्रच्छायासौख्य आकाशस्थोऽप्यनेकशो मार्गचैत्यानि वन्दमानः, पटस्थोऽपि पटस्थेभ्यो धर्मदेशनां कुर्वाणो वर्षिर्महापुरीं नाम पुरीं प्राप । धनकणयुतायां तस्यां नगर्यां सदा सुभिक्षमासीत् । __तत्र प्रायेण श्रावको लोक आसीत्, राजा तु बुद्धभक्त आसीत् । तस्यां पुरि जैना बौद्धाश्च परस्परं स्पर्धमाना देवपूजादि चक्रुः । जैनास्तु बौद्धानजैषुः, जैनास्तत्र पुरे यद्यत् पुष्पादिपूजोपकरणं ददृशुस्तत्तदधिकमूल्यं दत्त्वाऽक्रीणन् । तेन बौद्धाः पुष्पादि ग्रहीतुं नाऽशकन् । ततश्च बुद्धमन्दिरेषु पूजाऽल्पीयसी बभूव । ततो लज्जितास्ते बुद्धभक्ता राजानं विज्ञप्य जैनानां सर्वं पुष्पादि निवारयामासुः । ततोऽर्हद्भक्ताः सर्वेषु पुष्पापणेषु बहुमूल्यदानेनाऽपि पुष्पवृन्तान्यपि न प्रापुः । ततः पर्युषणापर्वण्युपस्थिते रुदन्तो दीनास्या आर्हता वर्षिमुपतस्थुः । ते श्रावका नेत्रजलैर्महीतलं सिञ्चन्तो वज्रस्वामिनं नत्वा खेदगद्गदया वाण्या विज्ञपयाञ्चक्रु:-"हे भगवन् ! अर्हच्चैत्येषु प्रतिदिनं पूजादि द्रष्टुमशक्तैबौद्धैर्दुरात्मभिर्भूतैरिव पराभूताः स्मः, बौद्धलोकेन विज्ञप्तो बौद्धो राजाऽस्माकं पुष्पाणि ददतः सर्वान् मालाकारन् न्यवारयत् । हे नाथ ! वयमगस्तिपुष्पाण्यपि न प्राप्नुमः । द्रव्यवन्तोऽपि वयं किं कुर्म: ? राजाज्ञामुल्लङ्घयितुं कः शक्नोति । हहा ! जिनबिम्बानि ग्रामयक्षवत् तुलसीबर्बरीपूजापात्रतां गच्छन्ति, अस्माकं जीवितेनाऽलम् । एते छलेनाऽऽर्हत्सु नाऽरोपयन्त्विति परिशिष्टपर्व - द्वादशः सर्गः २१९ शङ्कितैबौद्धैरस्माकं केशवासार्थमपि पुष्पं निषिद्धम् । किं चाऽङ्गुलीरनिशं गणयतामस्माकं दिनश्रेष्ठं पर्युषणापर्वदिनमागच्छत् । अस्मिन् पर्वण्यागतेऽपि वयं यतिवज्जिनानां पूजां पुष्पसम्पत्त्यभावाद् भावेन करिष्यामः । हे स्वामिन् ! त्वयि सत्यपि दुर्बुद्धिभिबौद्धैः पराभूय पराभूय जीवन्मृता इव कृताः स्मः । हे भगवन् ! अभिभूतस्याऽस्य जिनप्रवचनस्य प्रभावनां कृत्वाऽस्मान् सञ्जीवयितुमर्हसि" । ततो भगवान् वज्रस्वामी- "हे श्राद्धा यूयं समाश्वसित, युष्माकं सुतेजसेऽहं यतिष्ये", इत्युक्त्वा गरुड इवाऽऽकाश उत्पपात । अथ स्वामी निमेषमात्रेण माहेश्वरीं पुरीं जगाम । एकस्मिन् विस्मयकारक उपवनेऽवातारीत् । तदुद्यानं हुताशननाम्नो देवस्याऽऽसीत् । तत्र य उपवनपालः स धनगिरेः श्रेष्ठिनो मित्रमासीत् । स तडिताख्य आरामिकः प्रभातेऽकस्माद् मेघवृष्टिवदागतं श्रीवनस्वामिनं दृष्ट्वा हर्षेण सद्योऽवादीत्-"तिथिषु धन्येयं तिथिर्यस्यां त्वं ममाऽतिथिरभूः । अहमधुना स्वं धन्यं मन्ये, यतस्त्वयाऽहं स्मृतोऽस्मि । त्वयाऽहं भाग्येन सुस्वप्नवच्चित्ताद् न दूरीकृतः, यस्मात् त्वं ममाऽतिथिरागाः । तव किमातिथ्यं करोमि ?" ततो वज्रस्वाम्युवाच-“हे उद्यानपालक ! मम पुष्पैः प्रयोजनमस्ति" । तानि त्वं दातुमर्हसि । ततो मालाकार उवाच"भगवन् ! पुष्पग्रहणेन मामनुगृहाण, यतोऽत्र विंशतिः पुष्पलक्षाणां प्रतिदिनं भवति । भगवानादिशत्- "हे उद्यानरक्षक ! तहि पुष्पाणि प्रगुणीकुरु, यावदितो गत्वाऽऽगच्छामः" । एवमुक्त्वा वायुरिवोत्पत्य गगनेन वज्रमुनिः क्षुद्रहिमवगिरि ययौ । सरिद्-वन-गज-किन्नरगह्वरशिखरादिशोभितं तं हिमगिरि स व्योमस्थोऽन्यः सूर्य इवा Page #117 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - द्वादशः सर्गः २२१ एवं वदतां तेषां विमानैर्गन्धर्वनगरशोभां दर्शयन् वज्रमुनिरहन्मन्दिरं ययौ । मषीधौतमुखैरिव बौद्धैः पुनरूचे-अहो ! अर्हद्दर्शन इयं दैवी प्रभावनाऽभूत्, अस्माभिरन्यथा चिन्तितमिदमन्यथोपस्थितम् । दृष्टिः प्रसारिताऽप्यस्थात् तथाऽप्यञ्जनं पवनेन नीतम् । ततो देवैः पर्युषणापर्वणि अर्हन्मन्दिरे महीयान् महिमाऽकारि, यो मानां गोचरो न भवितुमर्हति । ततो राजा जृम्भकदेवकृतां भगवतोऽर्हत: प्रभावनां दृष्ट्वा प्रजाभिः सह परमार्हतो बभूव ।। १२ ॥ इति परिशिष्टपर्वणि वज्रस्वामिप्रभाववर्णनात्मकः द्वादशः सर्गः ॥१२॥ २२० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पश्यत् । विद्याधरकुमारैर्वन्द्यमानचरणः स सिद्धायतनस्थाः शाश्वताहत्प्रतिमा ववन्दे। __ अथ स आकाशमार्गेण श्रीदेवीमन्दिरमनोहरं कमलाकर देवतागारप्रगायद्देवीजनं पाहूदं जगाम । तदा देवपूजार्थमेकं कमलमवचित्य देवतामन्दिरं गच्छन्त्या श्रीदेव्या वज्रर्षिरदृश्यत । श्रीदेवी दृष्टमानं तं मुनिवरं रक्तमुकुटप्रभाजलैस्तच्चरणौ स्नपयन्तीव ववन्दे । धर्मलाभाशिषं दत्त्वोपविष्टं तं मुनि श्रीदेवी बद्धाञ्जलिरुवाच"आज्ञापय किं करोमि ? भगवान् वज्र उवाच-"तवेदमेवाऽऽदिष्टम् । हे लक्ष्मि ! करकमलस्थमिदं कमलं ममाऽर्प्यताम्" । स्वामिन् ! किमेतदादिष्टम् ! इन्द्रोपवनजानि पुष्पाण्यप्यानेतुं शक्ताऽस्मि" इत्युक्त्वा सा तस्मै पद्ममार्पयत् । लक्ष्या वन्दितो वज्रमुनिः शीघ्र तेनैव पथा हुताशनवनं जगाम । अथ विद्याशक्त्या विविद्धिभिः शोभमानं पालकस्याऽनुजन्मेव विमानं विचकार । तन्मध्ये श्रीदेव्यर्पितकमलं स्थापयामास । तस्य पार्श्वे विंशतिं पुष्पलक्षाणि निदधौ । तदा वज्रस्वामी जृम्भकदेवानस्मरत्-"ते इन्द्रमिव वज्रमुनि तत्क्षणादुपतस्थिरे । धनगिरिसुतो मुनिच्छत्रस्येवाऽम्बुजस्याऽध उपविश्याऽऽकाशगमनाय विमानवरमादिदेश । तस्मिन् विमाने चलिते जृम्भका देवा अपि विमानारूढा गीतवाद्यादिपूर्वकं चेलुः । विमानस्थैर्वैमानिकैविमानस्थो वज्रः परिवेष्टितो भूत्वा बौद्धदूषितां महापुरीं नाम पुरीं प्राप । तत्पुरीवास्तव्या बौद्धा आकाशे विमानानि दृष्ट्वोत्प्लवितुमुद्यता इवोत्पश्या एवमूचुः-"अहो ! देवाः सप्रभावं बौद्धदर्शनं दृष्ट्वा बुद्ध पूजयितुमागच्छन्ति, श्रीबुद्धाय नमो नमोऽस्तु । Page #118 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - त्रयोदशः सर्गः २२३ mnnnnnnnnnnnnnine त्रयोदशः सर्गः आर्यरक्षितवृत्तान्तः इतश्च दशपुरनामपुरे ओद्रायणनामा राजाऽजनि । सोमदेवनामा विप्रोऽभूत् । तस्य स्त्री रुद्रसोमानाम्नी परमाहती धर्मद्रुमबीजैर्दयादिभिर्गुणैरलङ्कृता बभूव । तयोरार्यरक्षित-फल्गुरक्षितनामानौ नीतिमन्तौ द्वौ पुत्रावभूताम् । तत्राऽऽर्यरक्षितो मौजीबन्धनादप्यनन्तरं पितुरेव सकाशे स यद् विवेद तत् पपाठ । ततोऽधिकाधिकमध्येतुकामः पितरावनुज्ञाप्याऽऽर्यरक्षित: पाटलीपुत्रनगरं ययौ । विशिष्टधीः स तत्राऽङ्गानि चतुरो वेदान् मीमांसा-न्यायविस्तरं पुराणं धर्मशास्त्रं चाऽपाठीत् । चतुर्दशाऽपि विद्यास्थानानि स्वनामवत् कण्ठस्थानि कृत्वा पुनर्दशपुरं नाम निजं पुरं समाययौ । चतुर्वेदोऽयं पूज्य: समागत इति राज्ञा हस्तिस्कन्धेऽधिरोह्य नगरे प्रावेश्यत । लोका अपि नानोपायनपाणयः तमभ्यगुः, यतो यो राजभिः पूज्यते स कस्य पूज्यो न भवति ? आर्यरक्षित उपदामिव कुटुम्बे नवमानन्दं प्रयच्छन् गृहस्य बाह्यशालायां न्यवात्सीत् । तं ब्रह्मचर्यधनवन्तं राज्ञः पूज्यमानं दृष्ट्वा तद्वन्धवः स्वगोत्रं पवित्रममन्यन्त । तद्गृहद्वारे स्वजनैश्चिरेष्टाया आगमिष्यन्त्या लक्ष्म्या लीलादोलातुल्यं सुन्दरं तोरणं बबन्धे । तदीयगृहे स्त्रियस्तगृहाख्यानप्रशस्तिवर्णसमान् कल्याणकारकान् स्वस्तिकान् लिलिखुः । बाह्य शालास्थितोऽप्यार्यरक्षितोऽल्पैरेव दिनैर्बहुतरैरागच्छद्भिरुपायनैर्लक्ष्मीवानभूत् । अन्यदा विमलमतिरार्यरक्षितश्चिन्तयामास-"अहो ! ममेदृशः प्रमादो यदहमद्याऽपि मातरं नाऽभिवादये । स्त्रीणां पुत्रा बाह्याः प्राणा भवन्ति; यतः पुत्रस्य प्रवासजं दुःखं स्त्रीणां दुःसहं भवति । मत्प्रवासेन मन्माता कथं भविष्यति ? या निद्रायामपि नित्यं मम नामाक्षरवाग्मिनी भवति; अहो ! मन्मातुरिदमेव धीरत्वं विचित्रं यद् मां सा मद्धितकाम्यया देशान्तरे प्रेषीत् । तस्माद् गुणोपार्जनानिमित्तं स्ववित्तं दर्शयन्नुत्कण्ठाजलनदी स्वमातरमहमानन्दयामि" । इति ध्यात्वाऽऽर्यरक्षितः सद्यो दिव्ये वस्त्रे परिधाय कश्मीरजाङ्गरागेण विलिप्तदेहकान्तिः सुगन्धिपुष्पमाल्यगर्भिताबद्धकेशः कण्ठ-हस्तपादविन्यस्तस्वर्णालङ्कारः कर्पूरखण्डयुतताम्बूलसुन्दरमुखः श्वेतच्छत्रशोभमानशीर्षः सन् स्वगृहं जगाम । विनयी स प्रथमं गलावलम्बिकाञ्चनमेखलालिङ्गितभूतलः सन् मातृचरणौ ववन्दे । “हे पुत्र ! दीर्घायुरक्षयोऽपि त्वं भूयाः; तव स्वागतमस्तु" इत्युक्त्वा सा प्रातिवेश्मिकीवदन्यद् नोवाच । स मातुः प्रेमभरोचितसंलापरूपं प्रसादं पूर्ववदपश्यन्नुवाच-"अहमधीतसर्वविद्यस्त्वच्चरणान् द्रष्टुमागमं; भक्तिमर्यादासागरं मां त्वं कि नाऽऽलपसि ? राजा राजगुरोरिव मम पूजां करोति, पुत्रस्य मे महिमानं दृष्ट्वा त्वं किं न हृष्यसि ? ततो रुद्रसोमा तन्माता जगाद-हे पुत्र ! तव विद्योपार्जनेन किम् ? यद्धिसोपदेशकं नरकप्रदमेतच्छास्त्रं त्वयाऽधीतम् । नरकपाताभिमुखं कुक्षिसम्भवं त्वां दृष्ट्वा कथं प्रसीदामि? अपि तु कर्दमे गौरिव खेदे मग्ना विषीदामि । यदि त्वं मयि भक्तोऽसि, यदि Page #119 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - त्रयोदशः सर्गः २२५ wwmanoranAmAnanamannanAnnnnnnnnnnnnnnnnnnnnnnnnn २२४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वं मां हितां मन्यसे, तर्हि स्वर्गा-ऽपवर्गयोः कारणं दृष्टिवादं पठ" । इत्यार्यरक्षितो व्यचिन्तयत्-मयेदं किमधीतम् ? यन्मम मातुः प्रमोदाय न जायते । तदुद्भवेन धनेनाऽपि किम् ?" एवं विचार्याऽऽर्यधीरार्यरक्षितो मातरमवोचत्-“हे मातरहं दृष्टिवादं पठिष्यामि, तद्गुरुं त्वं कथय" । रुद्रसोमाऽवदत्-“हे वत्स ! त्वं श्रमणोपासको भव, दृष्टिवादस्य गुरवः श्रमणा एव सन्ति, अन्ये न सन्ति" । दृष्टिवादो हि दर्शनविचार इति सुन्दरमस्य नामाऽपि हृद्यार्यरक्षितः श्रद्दधौ उवाच च-"मातुरादेशः प्रमाणम्" । ते गुरवः क्व दर्शनीयाः ? यथाऽहं तत्पार्श्वे दृष्टिवादं पठामि । रुद्रसोमाऽपि पुत्रविनयोच्छसिता सती प्रसन्ना स्वाञ्चलं भ्रमयन्ती तमुवाच-“हे पुत्र ! त्वया पुत्रेणाऽहमधुना न लज्जे यद् मदाज्ञां कर्तुं मन्मनोरथमकार्षीः । हे आर्यरक्षित तोसलिपुत्रनामान आचार्या इतो ममैवेक्षुवाटे स्वीकृतावासाः सन्ति, तच्चरणकमलोपासनहंसो भव । हे पुत्र ! ते त्वां दृष्टिवादं पाठयिष्यन्ति" । आर्यरक्षित एवं प्रातः करिष्यामीत्युक्त्वा दृष्टिवादनाम स्मरन् रात्रावपि न शिश्ये । प्रात:काले मातरं पृष्ट्वाऽऽर्यरक्षितागस्तिर्दृष्टिवादसमुद्रं गण्डूषलीलया प्रज्ञया पातुं स्वगृहाच्चचाल । इत आर्यरक्षितस्य पितृमित्रं महाद्विजः पुरसमीपे ग्रामे पितेवाऽत्यन्तवत्सल आसीत् ? स दध्यौ-"मया ह्य आर्यरक्षितो न व्यलोकि, तदद्याऽप्यायुष्मन्तं तं मित्रपुत्रं पश्यामि" । इति विमृश्य स ब्राह्मणः सकलान् नवेक्षुदण्डान् तत्खण्डमेकं च गृहीत्वाऽऽर्यरक्षितगृहं ययौ । एष श्रेष्ठं सोमदेवपुत्रं गृहाद् निर्गच्छन्तं ददर्श । परं च विभातत्वात् तं नाऽलक्षयत् । स आर्यरक्षितमुच्चैः पप्रच्छ "को नाम त्वमसि ?" तत आर्यरक्षित उवाच-"अहमेष आर्यरक्षितनामाऽस्मि" । द्विज उवाच-“हे भ्रातृपुत्र ! ह्यस्तने दिने कुटुम्बकृत्यकरणप्रमादाद् मया त्वं न दृष्टोऽसि । एकेनाऽपि व्यतीतेन दिनेनाऽहं दिनशतं व्यतीतं मन्ये, यत्र हृदयकुमुदचन्द्रं त्वां नाऽहमपश्यम्" । इति स ब्राह्मण आर्यरक्षितं प्रेम्णाऽऽलिड्ग्योवाच-“हे वत्स ! मया त्वदर्थमेत इक्षव आनीयन्त" । सोमपुत्र उवाच-“हे तात ! इथून् मन्मातुस्त्वं दद्याः, यतः सम्प्रत्यहं शरीरचिन्तार्थं बाह्यभूमि गच्छामि । त्वं मम मातरं प्रतीदं कथयेर्यदार्यरक्षितो मामिक्षुहस्तमपश्यदधुना" । आर्यरक्षितेनेत्युक्तो ब्राह्मणस्तथाऽकरोत् । चतुराऽऽर्यरक्षितमातैवं दध्यौ-"मम पुत्रस्येदं श्रेष्ठतरं शकुनमभूत्, अतः सुधी: सोऽवश्यं नव पूर्वाणि खण्डं च ग्रहीष्यति"। सोमपुत्रो मार्गे गच्छन्निति दध्यौ-अहं दृष्टिवादस्य नव पूर्वाण्यध्ययनानि वा दशमं खण्डं च पठिष्यामि" । स्थिरबुद्धिरार्यरक्षित इक्षुगृहद्वारे गत्वा व्यचारयत्-"अहमपरिज्ञातोऽन्तः कथं प्रविशामि? यतो राज्ञामिव गुरूणां सन्निधाने परिचितोऽपि यतस्ततो नोपगच्छेत्, अहं तु परिचितोऽपि नाऽस्मि । तस्मादहमत्रैव क्षणं स्थित्वा प्रातर्वन्दनार्थमागतश्रावकैः सह वसतिमध्ये प्रविशामि" । इत्यार्यरक्षितो द्वारेऽपि द्वारपाल इव तस्थौ । यतो विदुषां रभसाऽऽरम्भे विवेकोऽर्गलायते । स साधूनां मालवकौशिकीप्रभृतिरागवता स्वाध्यायेनाऽपि मृग इव लीनतां प्राप । ततः प्रभाते ढड्डरनामा श्रमणोपासको हर्षेण विकसितनेत्रो महर्षीन् वन्दितुं तत्राऽऽगात् । स नैषेधिकीं त्रिः कुर्वन् प्रतिश्रयं Page #120 -------------------------------------------------------------------------- ________________ २२६ परिशिष्टपर्व - त्रयोदशः सर्गः २२७ स्वशिशौ प्रसादं कुर्वद्भिर्विहारक्रमजं कष्टं स्वीकृत्याऽन्यत्र गम्यताम् । यतोऽत्र स्थितं मां राजा पुरजनोऽपि गाढानुरागेण प्रव्रज्यां त्याजयेदपि" । तदनुरोधेनाऽऽचार्या अपि सपरिवारा अन्यत्र विजहुः । सोऽप्यग्रे स्थितो दासवच्चचाल । तदा श्रीवर्धमानस्य तीर्थेऽनगारिणां शिष्यचौर्यव्यवहारः प्रथमोऽयं प्रावर्तत् । तदाऽऽचार्या आर्यरक्षितं भट्ट पर्यव्राजयन् । सोऽचिरादेव साक्षीकृतगुरुर्गीतार्थो बभूव । स तीव्र तपस्तप्यमानो दुःसहान् परीषहान् सहमान एकादशाऽप्यङ्गानि मातृकावत् पपाठ । तेषामाचार्यमिश्राणां यावान् दृष्टिवादः परिस्फुट आसीत् तावन्तमार्यरक्षितो जग्राह । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्राविशत् । अथ ऐ-पथिकीमुच्चस्तरस्वरं प्रत्यक्रामत् । ततः स आचार्यान् साधूश्चं यथाविधि वन्दित्वाऽग्र आसनं प्रतिलिख्योपाविशत् । अथ धीमानार्यरक्षितस्तेन सह प्रतिश्रयं प्रविश्य तस्माच्छ्रतं वन्दनैर्यापथिक्यादि धारयामास । आर्यरक्षितस्तद्दर्शितविधि पठनपुरस्सरमभिनयन्नाचार्यपादान् साधूंश्च ववन्दे । आर्यरक्षितो ढड्डरश्रावकं तु नाऽवन्दत । सुधीरपि स विनाऽऽम्नायं कियद् विज्ञातुं शक्नुयात् ? आचार्या अवन्दितढड्डरं निषण्णं सोमपुत्रं व्यज्ञासिषुर्यत् कोऽपि प्रायो नवीन: श्रावकोऽस्ति । शरज्जलनिर्मलाशया आचार्या धर्मलाभाशिषं दत्वा तं पप्रच्छु:-"तव कुतो धर्मागमः" । रुद्रसोमानन्दनो यथातथमेवोवाचअस्माच्छ्रमणोपासकात् प्राप्तधर्मोऽस्मि, अन्यस्माद् न" । साधवोऽप्येवमूचुः-हे भगवन् ! रुद्रसोमायाः पुत्रोऽयमार्यरक्षितो वेदाब्धिपारगो विद्वानस्ति । राज्ञाऽयं चतुर्दशविद्यास्थानोपाध्यायो हस्तिस्कन्धाधिरूढोऽस्मिन्नगरे प्रवेशितोऽस्मि, शरीरिणां भावपरिणाम: किं नवो न भवेत् ? तत: स कृताञ्जलिराचार्यान् विज्ञपयामास-"हे भगवन् ! त्वं दृष्टिवादाध्यापनेन मामनुगृहाण । अहं विवेकशून्यो दुरात्मोन्मत्त इव हिंसोपदेशकं नरकावहं सर्व पठितवान्" । आचार्या अपि तं शान्तं योग्यं ज्ञात्वैवमूचुः- "यदि त्वं दृष्टिवादं पिपठिषसि तर्हि परिव्रज, किं च हे ब्राह्मण ! प्रवज्यायां गृहीतायां सत्यामन्यदपि क्रमेण दृष्टिवादं च त्वामहमध्यापयिष्यामि" । सोऽप्युवाच-“हे भगवन् ! त_दानीमपि परिव्रज्यां मे देहि यतो ममैषा न दुष्करा, किन्तु मन्मनोरथकामधुगस्ति । किन्तु अथाऽऽर्यरक्षितो वृद्धजनोक्त्यैवमश्रौषीत्, यद् वज्रर्षेदृष्टिवादोऽधुना भूयान् परिस्फुटोऽस्ति । तदा वज्रमुनिः महापुर्या नगर्यां समवसृत आसीत्, इति सोमपुत्रोऽपि मुनिस्तत्र गन्तुं प्रतस्थे । उज्जयिनीमध्ये भद्रगुप्ताचार्याणां प्रतिश्रयं जगाम च । आचार्या गुणवन्तं तपोराशि पूर्वावस्थाकुतीथिकं तमुपलक्ष्य मुदाऽऽलिलिङ्गः, ऊचुश्च-“हे वत्स ! त्वं धन्यः कृतार्थः सुधीश्चाऽसि, यतो यस्त्वं ब्राह्मणतां त्यक्त्वा श्रावकतां स्वीचकर्थ । हे अनघ ! अहमद्य क्षीणशेषायु:कर्मा त्वां प्रार्थये, अहमनशनं कर्तुकामोऽस्मीति, त्वमत्र मम निर्यामको भव" । तथेति स्वीकृतवन्तं रौद्रसोमेयं मुनि भद्रगुप्ताचार्यो विहितानशनोऽपि समुपदिदेश-“हे वत्स ! त्वं वज्रस्वामिना सहकप्रतिश्रये न निवसेः, किन्त्वन्यत्र स्थित्वा पठेः, यतो यः सोप Page #121 -------------------------------------------------------------------------- ________________ त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः क्रमायुष्को वज्रेण सहैकामपि रात्रिं वसेत् सोऽवश्यं तमनुम्रियते, अत्र न सन्देहोऽस्ति । आर्यरक्षित एवं करिष्यामीत्यङ्गीकृत्य तेषां निर्यामणां विधाय वज्रस्वामिभूषितां नगरीं ययौ । आर्यरक्षितस्तां रात्रिं नगर्या बहिरेव तस्थौ । २२८ वज्रस्वामी रात्र्यवसानेऽमुं स्वप्नं ददर्श यदद्य पयसा पूर्णोऽ स्मत्पतद्ग्रहः केनाऽप्यागन्तुना भूर्यपायि किञ्चिन्मात्रं चाऽस्थात् । प्रातःकाले वज्रस्वामी महर्षीणामग्रे स्वप्नार्थं प्राकाशयत्- "कोऽपि बहुश्रुतग्राही ममाऽतिथिरागमिष्यति, स सुधीरस्मत्तो बहु पूर्वश्रुतं ग्रहीष्यति, पूर्वश्रुतावशेषं तु मत्पार्श्वेऽपि स्थास्यती" ति । आर्यरक्षितमुनिर्वज्रमुनिसमीपमाययौ तं गुरुं च द्वादशावर्तवन्दनेनाऽवन्दत । वज्रर्षिस्तमपृच्छत् - " त्वं कुत आगम: ?" स चोवाच - "तोसलिपुत्राचार्याणां पादमूलादिहाऽऽगमम्" । वज्रस्वाम्यपृच्छत्-“किं त्वं नाम्नाऽऽर्यरक्षितोऽसि ?" स पुनर्वन्दनपूर्वकमेवमित्युवाच । वज्रस्वाम्यपि तं प्रसन्नं ज्ञात्वोवाच- "तव स्वागतमस्तु" त्वं कस्मिन् प्रतिश्रये न्यवात्सीः ?" बहिरावासितोऽस्मीति तेनोक्ते स्वामीदमुवाच - "हे महात्मन् ! त्वं न जानासि किम् ? बहिस्थः कथं पठिष्यसि ?" सोमपुत्र उवाच - "हे स्वामिन् ! भिन्ने प्रतिश्रय आर्यभद्रगुप्तनिदेशादुदतरम्" । वज्रर्षिरुपयोगेनेदं ज्ञात्वोवाच" एतदुचितं, ते स्थविरा: पूज्या अन्यथा न वदन्ति" । अथ वज्रर्षिः पृथगावासस्थितमार्यरक्षितं प्रतिदिनं पूर्वाणि पाठयितुमारेभे । अपूर्वप्रतिभः सोमपुत्रो मुनिरल्पकालेनैवाऽनायासेन नव पूर्वाणि पपाठ । गुरुर्दशमं पूर्वं पठितुं प्रवृत्तमार्यरक्षितं दशम परिशिष्टपर्व त्रयोदशः सर्गः २२९ पूर्वयमकानि पठेत्यादिदेश । तत आर्यरक्षितर्षिर्दशमपूर्वस्य बहूनि विषमाणि यमकानि पठितुमारेभे । इतश्च पितरावार्यरक्षितं सन्दिदिशतु :- " किमद्याऽपि नाऽऽगच्छसि ? किमस्मान् व्यस्मार्षीः ?” त्वमस्माकमुद्योतं करिष्यसीति वयमाशास्महि, तवाऽनागमने सर्वं तमोमयं पश्यामः” । तयोरेवं सन्देशवचनैराहूयमानोऽप्यार्यरक्षितोऽध्ययनासक्तो न पराववृते, तावत् तमाह्वातुमनोभ्यां ताभ्यां परमप्रियस्तदनुजः फल्गुरक्षित: बोधयित्वा प्रैषि । स च द्रुतं गत्वा तमार्यरक्षितं नत्वा च जगाद - "त्वमेवं कठिनोऽभूः, यत्कुटुम्बकेऽनुत्कण्ठितोऽसि । यद्यपि त्वया वैराग्यकुठारेण प्रेमबन्धनं छिन्नं, तथाऽपि तव कल्याणनिमित्तं कारुण्यमस्ति । सम्प्रति बन्धुवर्गः शोकपङ्कनिमग्नोऽस्ति; तस्मात्तत्राऽऽगत्य तमुद्धर्तुं तवोचितम् । तेनाऽनुजेनेत्युक्त आर्यरक्षितस्तत्र गन्तुं श्रीवज्रस्वामिनं स्वच्छेन मनसा नत्वाऽपृच्छत् । ततस्तेन पठेत्युक्तः स पुनरधीयानः फल्गुरक्षितेन किं ते विस्मृतोऽस्मीत्यजल्प्यत । बान्धवाश्च परिव्रज्यामनोरथरथारूढास्त्वां सारथिनं विना कुत्राऽपि न प्रवर्तन्ते, तस्मात् त्वमागच्छ, स्वगोत्रिणां जगत्पूजनीयां प्रव्रज्यां देहि । श्रेयस्यपि सकर्णोऽपि त्वमद्याऽपि किं प्रमाद्यसि ? अथाऽऽर्यरक्षित उवाच-" यदीदं सत्यमस्ति तर्हि हे वत्स ! त्वं तावत् प्राणिहितं व्रतं गृहाण । ततस्तेनैवमुक्तः स श्रद्धानिधतचित्त उवाच-“हे भगवन् ! मह्यं व्रतं देहि, यतः को मूढः पीयूषपानात् पराङ्मुखः स्यात् ?” अथाऽऽर्यरक्षितः प्रसन्नः सन्नमृतवर्षिण्या वाण्या दीक्षया शिक्षयाऽपि च तमनुजमन्वग्रहीत् । Page #122 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - त्रयोदशः सर्गः २३१ धर्म श्रोतुमिच्छां ज्ञात्वा मेघगम्भीरया गिरा देशनामकार्षीत् । विस्मिता: सन्तस्ते राजादयो जना: श्रवणपुटपीतदेशनातिविमलजलैर्मनोमलं तत्कालं क्षालयाञ्चक्रुः । अथ राजाऽऽर्यरक्षितपार्वे सम्यक्त्वं जग्राह । तत: सपौरस्तं नत्वा स्वगृहं ययौ । रुद्रसोमाऽपि सोमेन बहुभिर्बन्धुभिश्च सह संसारनारकावासविरक्ता सती व्रतमग्रहीत् । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अन्यदा फल्गुरक्षितेन गन्तुमुक्त आर्यरक्षितोऽधीताशेषयमकः पुनर्गुरुं व्यजिज्ञपत् । गुरुणा प्राग्वद् निवारितः स खेदादित्यचिन्तयत्-"हा ! स्वजनापन-गुर्वाज्ञासङ्कटेऽहं पतितोऽस्मि" । पुनरधीयानः प्राग्वद् यमकेन पराजित आर्यरक्षितः कृताञ्जलिपुटो गुरून् नत्वोवाच-"दशमस्याऽस्य पूर्वस्य मया कियदधीतं कियच्चाऽवशिष्टमिति हे प्रभो ! त्वं सप्रसादं कथय" । स्मितविकसिताधरो गुरुरेवमुवाच- "हे वत्स ! त्वया बिन्दुमात्रमधीतम् । इदानीं समुद्रतुल्यमवशिष्टमस्ति" । इति गुरुवचनमाकाऽऽर्यरक्षितो जगाद-"हे प्रभो ! अहमध्येतुं परिश्रान्तोऽतः परमध्येतुं न समर्थोऽस्मि" । शेषमपि श्रुतं त्वमचिरेणाऽप्यागमयसि; हे धीमन् ! त्वं धीरोऽप्यनवसरे किं विषीदसि ? करुणापरायणेन तेन गुरुणैवमाश्वासित आर्यरक्षितो भग्नोत्साहोऽपि भक्तिभाक् पुनरध्येतुं प्रावृतत् । ___आर्यरक्षितोऽन्येधुर्मूर्तिमद्वन्धुवाचिकं फल्गुरक्षितं दर्शयन् गन्तुमुत्कण्ठितो वज्रस्वामिनं पुनर्जगाद । ___ तदा "हन्त ! अयमुत्साह्यमानोऽपि कथं गन्तुमना अस्ति ?" एवं विचिन्तयन् वज्रस्वाम्युपयोगमकरोत् । अथ स इत्यमन्यत"इतो गृहं गतोऽयं पुनर्नाऽऽगमिष्यत्येव, ममाऽऽयुरल्पमस्ति, दशमं पूर्वं मय्येव स्थास्यति । तेनाऽऽर्यरक्षितो गमनायाऽनुज्ञातः सन् फल्गुरक्षितसहितो दशपुरं नाम पुरं शीघ्रं ययौ । सपौरो राजा तत्राऽऽगतं तं ज्ञात्वा तथा रुद्रसोमायुतः सोमश्च भक्त्या वन्दितुमागमत् । ते प्रहर्षाश्रुजलपूर्णनयनास्तं मुनि मूर्त धर्ममिव प्रणम्य यथास्थानमुपविविशुः । कारुण्यसागरः सोऽपि तेषां इतश्च क्षोणितले क्रमाद् विहरन् वज्रस्वामी संयमक्रमचारी दक्षिणापथं ययौ । आनन्दमहाकन्दकन्दलप्ररोहमेघं तं दृष्ट्वा दाक्षिणात्यो लोको मयूर इवाऽहष्यत् । तत्रत्या जनास्तद्वीक्षणानन्दनिमग्ना एवं जगदुः, तथाहि-वस्तुतत्त्वानि प्रकाशयन्नयं मुनिः किं सूर्योऽस्ति ? अथवा किं चकोरचक्षुः प्रीणयंश्चन्द्रमा अस्ति ? अथवा किमस्मत्कर्मप्रभवाद् दत्तदर्शनो धर्मोऽस्ति ?" इति । अन्येधुर्वज्रस्वामिनो भृशं श्लेष्मबाधाऽभूत् । ततः कञ्चन साधुं शुण्ठी समानेतुमादिशत् । स्वच्छमनसा साधुनाऽऽनीय दत्ता किन्तु भोजनान्ते स्वाध्यायध्यानासक्तचित्ततया तां विसस्मार । शुण्ठी भोजनान्तरमेनां भोक्ष्य इति स कर्णे स्थापयामास । तत: प्रदोषे तस्य प्रतिक्रमणकर्मणि मुखवस्त्रिकया कायं प्रत्यपेक्षयत: कर्णस्था शुण्ठी पपात । खाट्कृत्य पतितां तां वज्रः सस्मार | "हा हा धिग्धिक ममाऽयं प्रमाद" इति स्वं निनिन्द च । प्रमादे संयमः कथञ्चन निष्कलङ्को न स्यात्, तं विना मानुषं जन्म जीवितं च निरर्थकं स्यात् । ततो वज्रस्वामी दध्यौ-"वयं शरीरं त्यजामः" । तदा समन्ताद् द्वादशाब्दकं दुर्भिक्षमभूत् । “यस्मिन् दिने त्वं Page #123 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - त्रयोदशः सर्गः २३३ २३२ .. त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लक्षमूल्यौदनाद् भिक्षां प्राप्नुयाः, तदुत्तरदिनप्रात:काले सुभिक्षं जानीयाः, एवमादि वनसेनमुनि स्वशिष्यं समादिश्य स अन्यत्र विहर्तुमुवाच । ततो मुनिश्रेष्ठो वज्रसेनोऽपि ग्रामा-ऽऽकर-पुरवनवतीं वसुमती विहर्तुं प्रववृते । पुनः श्रीवज्रस्वामिपार्श्ववर्तिनो व्रतिनो गृहे गृहे भ्राम्यन्तोऽपि भिक्षां क्वचिदपि न लेभिरे । भिक्षां विना ते क्षुधाक्षामकुक्षयो निरन्नजीवनाः प्रतिदिनं गुरुभिर्दत्तं विद्यापिण्डं बुभुजिरे । युष्माभिरयं विद्यापिण्डो द्वादश वर्षाणि भोक्तव्यः । ततो यदि संयमबाधा नाऽस्ति, तदा तमाहृत्याऽहं युष्मभ्यं ददामि, अन्यथाऽन्नेन सह वयं शरीरं त्यजामः" । गुरुभिरित्युक्ता धर्ममतयो यतयो जगदुः"पोषणमिमं पिण्डं धिक् । पोष्यमिदं शरीरं च धिक्" । हे प्रभो ! त्वं प्रसीद, वयं पिण्डं शरीरं चेति द्वितयं त्यजामः" । अथ भुवनसूर्यो वज्रमुनिः शिष्यानादाय लोकान्तरं प्रकाशयितुं वेगवान् गिरिं प्रति चचाल । तत्रैकः क्षुल्लको वार्यमाणोऽपि यदा न तस्थौ तदा गुरुस्तं कस्मिंश्चिद् ग्रामे प्रतार्य गिरिं समारोहत् । गुरोर्मनसि प्रीत्यभावो मा भूदिति विचिन्तयन् क्षुल्लको भक्तं देहं च त्यक्त्वा गिरेरधस्तादस्थात् । मध्याह्नसूर्यप्रचण्डोष्णकिरणतप्ते शिलातले नवनीतपिण्डवत् तत्क्षणादेव विलीनोऽभूत् । शुभध्याननिष्ठः स शक्तिशाली योगीव शरीरं त्यक्त्वा देवमन्दिरमध्ये तन्वन्तरं परिजग्राह । तस्मिन् देववनितासङ्गसुखासक्ते सति प्रहृष्टा देवास्तस्य शरीरं शीघ्रं पूजयामासुः । ___ अवतरतो देवान् दृष्ट्वा यतयः श्रीवज्रस्वामिनमवोचन्-"हे प्रभो ! सर्वर्द्धय एते देवा अत्र किमवतरन्ति ?" सोऽप्युवाच"क्षुल्लक इदानीं निजसाध्यमसाधयत् । ततस्तस्य महिमानं देवाः प्रकुर्वन्ति । ततस्ते मुनयो दध्युः-"यदि बालेनाऽप्यमुना स्वकार्यमसाधि तदा वयं वृद्धाः किं न स्वकार्यं साधयाम: ? अथ संवेगिनश्चारित्र-ज्ञानयोगिनः साधूंस्तत्र मिथ्यादृष्टिदेवता श्रावकीभूयैवमुवाच-"हे भगवन्तो ! भवतामद्य पारणं, तत्राऽस्माकं शर्कराचूर्णमोदकं पानं च प्रसद्य गृह्णीत" । एतस्या अयमवग्रहः प्रीतिहेतुर्नेति वयमन्यत्र गच्छाम इति ध्यात्वा ते साधव आसन्नमन्यगिरि जग्मुः । साधवस्तत्रत्यदेवतां मनसि निधाय कायोत्सर्ग चक्रुः । ततो देवता समागत्य तान् साधून् नत्वेत्युवाच"अस्माकमुपरि युष्माकमयमनुग्रहोऽस्ति, यतो यूयमिहाऽऽगमत । मरुषु कदाऽपि कल्पवृक्षो न जायते । एवं देवतावाचा प्रसन्नाः सत्कर्माणस्ते साधवः श्रीवज्रस्वामिना सह कृतानशनकर्माण: स्वर्ग ययुः । अथेन्द्र इति ज्ञात्वा रथेन तं गिरिमुपेत्य वज्रस्वाम्यादिमुनीनां शरीराणि हर्षेण पूजयामासुः । तत इन्द्रः सरथो भक्त्या स्वदेहमिव वृक्षादीनुच्चैर्नमयंस्तं गिरिं प्रदक्षिणीचकार । तस्मिन् पर्वते शक्रनमितास्ते वृक्षा अद्याऽपि विनम्रा एव यतो वर्तन्ते, तस्मात् तस्य रथावर्त इति नाम पृथिव्यामजनि । दुष्कर्मपर्वतवज्र श्रीवज्रस्वामिनि स्वर्गं गते सति दशमं पूर्वं चतुर्थं संहननं च विच्छिन्नमभूत् । इतश्च श्रीवज्रर्षेः शिष्यः श्रीवज्रसेन: परिभ्रमन्नपारलक्ष्मीयुतं सोपारनामकं नगरं जगाम । तत्र यथार्थनामा जितशत्रुनृप आसीत् । तस्य सकलगुणधारिणी धारिणीनाम्नी प्रियाऽऽसीत् । तत्र जिनदत्तनामा धनी श्रावक आसीत् । तस्य शिवस्येव दयितेश्वरी नाम्नी भुवि विख्याताऽऽसीत् । सा चन्द्रधवलं तच्छीलमशीलयत्, यत्तस्याः पृथिव्याश्च विभूषणं बभूव । Page #124 -------------------------------------------------------------------------- ________________ परिशिष्टपर्व - त्रयोदशः सर्गः २३५ २३४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___ तदा दुर्भिक्षदोषात् सकलं भूमण्डलं धान्यविना जलैविना मत्स्या इव दुःखसङ्कलीबभूव । धर्मप्रधाना सा निजबन्धूनेवमुवाच"अद्य यावदमी वयं सुखं जीविता: स्मः, धान्यक्रयणं विना वयं कियच्चिरं दुःखं जीविता स्मः । तस्माद् वरं सविषमन्नं भुक्त्वा समाहिताः स्मृतपञ्चनमस्काराः कृतानशनवृत्तयः दुःखगेहदेहं सद्यस्त्यजामः । बन्धव इत्थमूचुः-"साम्प्रतमेवं हन्त भवतु, यतो गच्छतोऽस्य शरीरस्याऽदः प्राप्तकालं फलम्"। अथ लक्षमूल्यमन्नं पक्त्वा सा यावद् विषं तत्र नाऽक्षिपत्, तावत् तज्जीवप्रद इव वज्रसेनमुनिराययौ । साऽपि तं मुनिं दृष्ट्वा हृष्टैवं व्यचिन्तयत्-"चित्तं वित्तं पात्रं चेति त्रयं भाग्येन पूर्णं जातम्" । तस्मादद्य पात्राय दत्त्वा स्वजन्मेदं सफलीकरोमि, यत ईदृक्पात्रस्य सङ्गमो दैवयोगेन कदाचिद् भवति । ___अथ सा प्रसन्ना सती प्रफुल्लनयना तस्मै मुनये भिक्षां ददौ, लक्षमूल्यस्य पाकस्य वृत्तान्तं च निवेदयामास । वज्रसेनोऽपि जगाद-“हे भद्रे ! त्वमेवं मा स्म कार्षीः, यतः प्रातरेव सुभिक्षं भविष्यति, अत्र सन्देहो नाऽस्ति । सा पप्रच्छ-"एतद्भवता स्वयमज्ञायि, अथवाऽन्यस्मात् ? अथ स मेघगजितोर्जितया वाचाऽदो जगाद-"अहं श्रीवज्रस्वामिनोक्तोऽस्मि-"यदा त्वं लक्षपाकौदनाद् भिक्षां प्राप्नुयास्तदा तत्प्रात: सुभिक्षं भवितेति" । एवं श्रवणामृतं श्रुत्वा सा श्राविका तद्दिनं क्षणमात्रमिव लीलया सुदुभिक्षं यापयामास । अथ प्रभाते प्रभाजालैः सूर्यस्य मण्डलमिव धान्यैः पूर्णं नौकासमुदायं दूरादागच्छत् । ततो जनः सा च सद्यः प्रासीदत् । श्रीवज्रसेनोऽपि कञ्चन समयं तत्रैव तस्थौ । ततो जिनदत्तः स्वकलत्रवरपुत्रसहितोऽर्हन्तं पूजयामास । जिनार्चायां याचकेभ्यो धनं च ददौ । अन्यदिने ते शान्तचित्ता महोत्सवेन श्रीवज्रसेनमुनेः पार्वे लोकद्वयहितं व्रतं ललुः । __ एवं श्रीवज्रस्वामिनो वंश: शाखा-प्रशाखाभिर्वटवृक्ष इव शिष्य-प्रशिष्यादिभिर्विस्तरन् दिङ्मण्डलं व्यापत् । साधुपत्र: सुपर्वयुक्तो मुक्तावासनिबन्धनं श्रीवज्रमुनिवंशः कस्य मनोरञ्जको नाऽऽसीत् । ये केचिद् वंशा दृष्टा, ये वा श्रुतास्तेषु सर्वेषु वंशेष्वग्रं तनुत्वं मूलं च स्थूलतामभजत् । दशपूर्विणो मुनिराजस्य श्रीवज्रसूरेरसौ वंशः कोऽपि नव्यो य आदौ स्वल्पतरोऽपि पश्चादतितरां ववृधे । इति परिशिष्टपर्वणि आर्यरक्षितव्रतादान-पूर्वाधिगमवजस्वामिस्वर्गगमन-तद्वंशविस्तारवर्णनात्मकः त्रयोदशः सर्गः ॥१३ ॥ जम्बूमुनिप्रभृतिवज्रगणाधिनाथपर्यन्तसाधुजनचित्रचरित्रपुष्पैः । स्रग्दामगुम्फितमिदं परिशिष्टपर्व शिष्टात्मनां लुठतु कण्ठतटावनीषु ॥ १ ॥ इति कलिकालसर्वशश्रीहेमचन्द्राचार्यविरचित स्थविरावलीस्वरूप-परिशिष्टपर्वण: तपोगच्छाधिपति-शासनसम्राट्-बालब्रह्मचारि-श्रीकदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्नश्रीविजययशोभद्रसूरीश्वरशिष्यरल श्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे समाप्तं जम्बूमुनिप्रभृति-आर्यरक्षितमुनिपर्यन्त मुनिचरितप्रतिबद्धं परिशिष्टपर्व ॥ Page #125 -------------------------------------------------------------------------- ________________ प्रशस्तिः २३७ nanamnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn ॥ प्रशस्तिः ॥ श्रीमतस्तीर्थनाथस्य महावीरस्य सद्यशाः । श्रीसुधर्मागणधरः शिष्योऽभूत्तत्वदृग्वरः ॥ १ ॥ अद्याऽपि यद्गीर्गीर्वाणसरिद्धारा विलक्षणा । स्वाचामाद् यत्सुधास्वादं समुक्ति ददते नृणाम् ॥ २ ॥ अद्भुतोऽस्य जगच्चन्द्रो जातः पट्टक्रमाम्बरे । यत्कैरवतपोगच्छः प्राकाशि प्रतिभांशुभिः ॥ ३ ॥ तत्पट्टसन्ततौ हीरः सूरिरत्नेषु हीरकः । जातोऽकब्बरभूपं यो बोधयामास सत्पथम् ॥ ४ ॥ गुरु-शिष्यौ सेन-देवौ तत्पट्टेऽभवतां क्रमात् । प्रतिवादिविजेतारौ कीर्तिव्याप्तदिगन्तरौ ॥ ५ ॥ तदन्तेवासिवंशेऽभूत् श्रीनेमिः सूरिशेखरः । कदम्बादिमहातीर्थोद्धारख्याताभिधो भुवि ॥ ६ ॥ तदीयपट्टालङ्कारो गुणगौरः प्रतापवान् । श्रीविज्ञानो ज्ञानवृद्धो भूरिभव्यप्रबोधकः ॥ ७ ॥ तस्य पट्टधरो जात: कस्तूरः सूरिपुङ्गवः । समृद्ध्यै प्राकृतस्य स्वप्रतिभाया नियोजकः ॥ ८ ॥ तस्य शिष्यो यशोभद्रः पंन्यासपदभूषितः । धर्मव्याख्यासुधास्यन्दैर्जनतानन्दन: सुधीः ॥ ९ ॥ तस्याऽन्तेवासितालाभसद्भाग्योदययोगवान् । शुभकरोऽहं विदुषामाराधनकृतार्थधीः ॥ १० ॥ हेमचन्द्राचार्यवर्यनिर्मिते सारवत्तरे । परिशिष्टपर्वग्रन्थे पद्यबन्धेऽल्पमेधसाम् ॥ ११ ।। दर्श दर्शं गतिं मन्दां तस्य चाऽत्युपयोगिताम् । सौकर्यार्थं गद्यबन्धैरन्ववादिषमादरात् ॥ १२ ॥ युग्मम् तदेतस्याऽनुवादस्य गुरवे करुणाब्धये । येन प्राप्तं शुभं ज्ञानं तस्मायस्तु समर्पणम् ॥ १३ ॥ गूर्जरे वेजलपुरे सुश्रावकगणान्विते । जिनचैत्याञ्चिते ग्रामे निवसन् श्रमणाश्रये ॥ १४ ॥ वस्वाकाशवियन्नेत्रे वैक्रमे वत्सरे शुचौ । अजसैवैतकं ग्रन्थं पूर्णतामहमानयम् ॥ १५ ॥ युग्मम् यदीममुपयोक्ष्यन्ति श्रद्धावन्तः सदाग्रहात् । स्युश्चेदुपकृतास्ते च श्रमं मन्ये फलोज्ज्वलम् ॥ १६ ॥ Page #126 -------------------------------------------------------------------------- ________________ गोष्ठम् कुण्डोनी मरीचिः प्राकारः हर्म्यम् सुधा सुव्रता पुरन्दरः प्लवमानः पनसफलम् कुञ्जरः जिघृक्षुः પ્રથમ: સર્વાં: स्तनन्धयः सन्नद्धः उर्वरा वापिका गवाक्षासीनः નાપઃ कठिनशब्दार्थः परिशिष्टपर्व ગાય રાખવાનો વાડો કુંડા જેવા આઉવાળી ગાય કિરણ કોટ, વાડ મહેલ અમૃત સુખે દોહી શકાય ઇન્દ્ર દોડતો, કૂદકા મારતો ફણસનું ફળ હાથી ગ્રહણ કરવાની ઈચ્છાવાળો ધાવણો બાળક તૈયાર રસયુક્ત વાવ ઝરુખામાં બેઠેલ સમૂહ पङ्केरुहः पलितम् पलाशपत्रम् प्रपा इगुदफलम् वल्कलम् नीवारः रसवती मरालः નિવેશ: बिल्वफलम् व्याधः द्रविणम् अवक्रयः उटजः उर्णापिण्डः कङ्कतः आतोद्यानि मुरजध्वनि: કમળ સફેદવાળ નવી કુંપળના પાંદડાં પરબ ઈંગોરિયા ઝાડનું ફળ ઝાડની છાલનો પોશાક સામાન્ય ઘાસ રસોઈ હંસ હુકમ, આદેશ બીલીના ઝાડનું ફળ શિકારી ધન મૂલ્ય, ભાડું ઝૂંપડી ઊનનો જથ્થો માથું ઓળવાની કાંસકી વાજિંત્રો મૃદંગનો અવાજ कठिनशब्दार्थः મુ: महः करेणुः दिदृक्षा यानम् मृगार्भकः मिलिन्दः कवोष्ण: कनिष्ठः पाथेयम् सत्यङ्कारः आलानम् सारिका ऊर्णनाभः વાન: शोणितम् अनड्वाही परिकरित आकर्ण्य નૌકઃ सकाश: आचाम्लम् पात्रकेसरिका હથોડો મહોત્સવ હાથણી જોવાની ઈચ્છા કરોળિયો વાદિષ્ઠામાત્રમ્ કોડીતુલ્ય कचूर्णम् વાહન મુખણું मृद्वीका ભમરો चोलक: થોડા ગરમ સ્પર્શવાળું | મુનિનઃ નાનો સાચું, ખરું હાથીને બાંધવાનો સ્તંભ મેના ઊલટી, વમેલ લોહી, રુધિર ગાય વીંટળાયેલ સાંભળીને માળો પાસેથી આયંબિલ પૂંજણી द्वितीयः सर्गः सलिलम् रहः वाह्याली मातुलिङ्गी दाडिमी નિર્મળી નામના ઝાડનું ચૂર્ણ कण्डूषकल्पा निस्यन्दनमाना स्यन्दनम् चतुरिका प्रभञ्जनः न्यासीकृतः अल्लोच: વર્ણન: धम्मिल्लः वधूटी शरावसम्पुट : उद्वाहः कम् કૂળમોક્ષળમ્ खात्रखननम् प्राघूर्णकः यामिकः सर्षपः वनवारण: कान्दिशीक: પાણી એકાન્ત અશ્વની ક્રીડાભૂમિ બીજોરાનું ઝાડ દાડમનું ઝાડ દ્રાક્ષ ચોળી મોટી ફાંદવાળો કોગળા તુલ્ય નીકળતી થ ચોરી ભારે પવન २३९ NA થાપણરૂપે મૂકેલ ચંદરવો હરતાલ ચોટલો, અંબોડો જુવાન સ્ત્રી બે કોડિયા વિવાહ, લગ્ન પહેરામણી હાથનું ઘરેણું છોડવું ખાતર પાડવું અતિથિ પહેરગીર સરસવ હાથી નાસી જવું Page #127 -------------------------------------------------------------------------- ________________ २४० शुण्डतुषार: अवटतटः दन्तक्रकचः तोमरानना सलिलधानी कीकसम् सूकरी ऊर्मिका औरमपुत्रः प्रवर्तिनी પિતૃવ્ય: पितामहः अवकरः पुंश्चली लुब्धकः भल्लूकः कूर्च: गुज्जहार: कङ्गुकोद्रक वार्द्धकम् गुडमण्डकः गोधूमः शल्लकी कर्णिकार: क्षामकुक्षिः त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः હાથીની સૂંઢમાંથી | અસ્થિમત્રા નીકળતા બિંદુઓ जम्बूकः કૂવાનો કાંઠો नकुलः દાંતરૂપી કરવત શાપવા ભાલા જેવા મુખવાળી करण्डकः પાણી રાખવાનું ભાજન હાડકું કુંડળ, રી વીંટી ઓરમાનપુત્ર સાધ્વી કાકા દાદા કચરો વ્યભિચારી સ્ત્રી શિકારી રીંછ દાઢી ચણોઠીનો હાર એક જાતના ધાન્યના કોદરા वृद्धत्व ગોળનો માંડવો ઘઉં શેઢાઈ - એક વૃક્ષ કરેણનું ઝાડ દુર્બલ પેટવાળો चुलुकम् તા: गोमायुः कञ्चुकः વ रिरंसुः अरित्रदण्डम् ન उपायनम् प्रवहणम् મા! મગરમચ્છ वायसः કાગડો प्रेक्षणीयकम् નાટક ખોબો નોઇ: मषी स्नुषा दारुफलकम् हस्तिपकः उदञ्चिता घोटक: હાડકાનો થેલો શિયાળ નોળિયો હિંસક પશુ, વાઘ કરંડિયો कुहकाराव: अधमर्णः મગરમચ્છ ભગ વહાણ તળાવ શિયાળ હરકોઈ વસ્ત્ર સ્તન રમવાની ઈચ્છાવાળો વહાણ ચલાવવા માટે હલેસા મારવાનો દંડ ઢેકું, પત્થર મેષ વ લાકડાનું પાટિયું મહાવત ઊંચે ગયેલી ઘોડો માયાવી અવાજ દેવાદાર कठिनशब्दार्थः कुलपांसिनी કુચિત ગ્રી નાોનિજા ચપટી વગાડવી आधोरण: शरस्तम्बः મહાવત ઘાસ વિશેષનો સમૂહ ગ્રીવા, ડોક ચંડાલ રૂની વાટ 111111 111111 111 111 तृतीयः सर्गः પૂતળી નદીનો મધ્યનો તટ દ્વીપ ચાટવા અને ચૂસવા યોગ્ય પંખો, વીંઝણો રાસ-ગરબા નપુંસક દીઠું યુરોસિન સેવક ભાથું અધિત્ત્વી વાપ: દોરી ઉપર ચઢાવેલ બાળવાળો પાથરણું કોળું આવેદીા શિકારી રમત મોજડી ઘુવડ મડદું परिखा अलाबुफलम् सृणि: दन्तुरा વેધર: वन्दारु: ખાઈ તુંબડાનું ફળ चतुर्थः सर्गः 5Ekkt[}} in! અંકુશ મોટા દાંતવાળી છડીદાર વંદન કરવાના સ્વભાવવાળો पञ्चमः सर्गः સભા હણવાની ઈચ્છાવાળો યજ્ઞ માટેનો સ્તંભ 8: સર્વાં: બાજપક્ષી વાટ ગુલાબના ફુલનું બીજ દાઢી, હડપચી ઠીકરું વિશાળ નગરનો દરવાજો २४१ કાતર સપ્તમઃ સર્વાં: ગુફા, દર ગર્ભવતી શ્રેણિ, પંક્તિ ધોબી Page #128 -------------------------------------------------------------------------- ________________ 242 mammunnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnellinsunnnnnnnninnnnnnnnnnnnnnnnnina त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रातिवेश्मिकः पाशी एकादशः सर्गः लाङ्ग्लम् पूंछी आरात्रिकः पेट तुन्दम् भारती महासत्रम् દાનશાળા अष्टमः सर्गः कान्दविका जवनिका हो प्रत्ययः વિશ્વાસ द्वादशः सर्गः और्ध्वदेहिकम् भरेखानी भाटकः ભાડુઆત મરણતિથિએ અપાતું उपहास: મશ્કરી પિંડદાન क्रीडनकम् રમકડું सादी ઘોડે સવાર ગઈ કાલ परिष्वङ्गः ભેટવું परेयुः चलनी ઘાઘરી नुपूरम् પગનાં ઝાંઝર उदायुधम् શસ્ત્ર ઊંચા કરવા घृतपूरः ઘેબર तुन्दपरिमार्जम् माणसु वेष्टिका वीटीयो (मोशी) करम्बकः કરંબો कुन्दकलिका भोगना आनी रब्बा રાબડી કળી परिवेषणम् પીરસવું बिभीतकवृक्षः पार्नु आड आरुरुक्षुः ચડવાની ઈચ્છાવાળો उपालम्भः 640 समुद्क: ડાભડો आरामिकः ઉદ્યાનપાલક લાખ नवमः सर्गः त्रयोदशः सर्गः लिप्सुः वानी छापामो | उपदा ભેટનું वर्धापिका વધામણા આપનારી इक्षुवाट: શેરડીનું ખેતર दशमः सर्गः गण्डूषः प्रतिश्रयः ઉપાશ્રય वाग्मी વાચાળ, બોલવામાં प्रदोषः રાત્રિનો પ્રથમ પ્રહર जतु કોગળો કુશળ