________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
पतिव्रतानामुचितमस्ति" । ततः कन्याजनका जम्बूपितरमूचुः‘“साम्प्रतं विवाहायोद्यता भवन्तु, प्रथमं वचनं प्रमाणम्” । ततस्तैः श्रेष्ठिभि: सह ऋषभदत्तेन सह नैमित्तिकमुखात् तद्दिनात् सप्तमदिवसे विवाहमुहूर्तं निश्चिक्ये । ते महेभ्याः सोदरा भ्रातर इव मिलित्वा विशालं विवाहमण्डपं रचयामासुः । तन्मण्डपोपरि विचित्रवर्णवस्त्रैरुल्लोचो गगनतलादाकृष्टसन्ध्यामेघखण्डैरिवाऽभूत् । तत्र सर्वत उच्चूलीकृतानि स्फुरन्ति मुक्तामाल्यानि चन्द्रेण स्वकिरणसर्वस्वं न्यासीकृतमिव प्रतिभान्ति स्म । स मण्डपः पवनान्दोलितपल्ल वैरतितारैस्तोरणैर्वराह्वानेङ्गितमिव विपञ्चयन्नशुभत् । पुनश्च मण्डपः परितः स्वस्तिकन्यस्तमौक्तिकैर्मङ्गलतरूणामुद्भवायोप्तबीजस्तोम इव व्यराजत् ।
४२
अथ जम्बूकुमारः शुभमुहूर्ते वर्णकेऽक्षेपि । कुसुम्भरक्त वस्त्रधारी स उदयकालिक सूर्य इव रेजे । वर्णके क्षिप्तास्ताः कन्या अप्यसूर्यम्पश्या राजमहिष्य इव बहिर्नाऽचरन् । अथ शुभे क्षणे स कुमारस्ताः कुमार्यश्च स्वस्वस्थानस्थिता विधिवद् मङ्गलस्नानमकार्यन्त । कृतस्नानस्य जम्बूकुमारस्य क्षरज्जलाः केशा आसन्न - लोचभयादश्रु मुञ्चन्त इव रेजुः ।
ततो गन्धकार्यः स्त्रिय उत्तंसलीलां कुर्वता कर्पूरागरुधूपेन जम्बूकुमारकेशानध्यवासयन् । गन्धकार्या तस्य कुमारस्य मूर्द्धनि पुष्पमाल्यगर्भितो जात्याश्वकन्धराकुटिलो धम्मिल्लो बबन्धे । जम्बूकुमारो मुखकमलप्रान्तविश्रान्तमरालयुगलशोभे तारे मौक्तिककुण्डले दधार । आनाभिलम्बितं फेनबुबुदावलिसन्निभं मुक्ताहारं परिदधे । चन्दनविलिप्ताङ्गः सर्वाङ्गामुक्तमौक्तिकस्तारावलिभिः पूर्णचन्द्र इव
परिशिष्टपर्व द्वितीयः सर्गः
भृशं चकाश । ऋषभनन्दनो देवदूष्ये इवाऽदूष्ये दशासहिते धवलवसने विवाहमङ्गलार्थं परिदधौ । ततः स जात्याश्वमध्यारोहत् । मायूरच्छत्रधारी स्वसदृशवयोवेषानुचरैः परिकरितो, नीरङ्गीवृतमुखो गीयमानबहुमङ्गलो वधूटीभ्यामुभयत उत्तार्यमाणलवणो जम्बूकुमारो वाद्यमानमङ्गलातोद्यः पठन्मङ्गलपाठको विवाहमण्डपद्वारं शीघ्रं ययौ ।
४३
तत्र सुवासिनी साक्षात् तनुमतः कामदेवस्येव जम्बूकुमारस्य दध्यादिमङ्गलद्रव्यैरर्घं ददौ । कुमारो द्वारि न्यस्तं वह्निगर्भितं शरावसम्पुटं भङ्क्त्वा कल्याणसम्पद्गृहं मातृगृहं जगाम । ततः सोऽष्टाभिः कुमारीभिः सह तत्रोपविश्य कौतुकोद्वाहमङ्गलमङ्गीचकार । ततश्च शुभलग्नसमये चतुरिकाऽन्तरे गत्वा पित्रोर्विनयेच्छुर्जम्बूकुमारस्ताः कुमारिकाः परिणिनाय ।
ततो धारिणी तारामेलकके प्रसन्ना, कौतुकेषु ससम्भ्रमा, मङ्गलावर्ते सन्तुष्टा, मधुपर्के स्मितमुखी, यौतके सावधाना, अञ्चमोक्षणे चतुरा, प्रणामे सबाष्पनयना, क्रोडस्थापनेऽत्यन्तप्रमुदिता सती तनयविवाहकल्याणसुखमिति लेभे । यतः स्त्रियोऽपत्ये विवाहिते हृष्यन्ति ।
विवाहानन्तरं वरस्य वधूनां च तावद् यौतकमभूत् येन सौवर्णः पर्वतो भवेत् । ततः समाजसहचारिणा मङ्गलदीपेन, धवलमङ्गलं मधुरं गायन्तीभि: कुलाङ्गनाभि:, पुरतो मधुरस्वरपूर्वकं वाद्यमानैर्मङ्गलतूर्यैर्गीत-नृत्य-वादित्ररमणीयेन प्रवर्तमानेन सङ्गीतकेन च हृष्टज्येष्ठ-कनिष्ठपार्श्वगामिबन्धुभिश्च सह स परिणीतवधूभिः परिवृतो निजागारं प्रविवेश ।