________________
परिशिष्टपर्व - द्वितीयः सर्गः
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmins annnnnnnnnnnnnnn
mnnnnnnnnnnnnnnnnnn
मुखमाकर्षामीति शिलाजतुनि निक्षिप्तौ बाहू लगित्वा तस्थतुः । ततस्तेन क्षिप्तौ पादौ मुखहस्तवद् विलग्नौ । अथ स कीलितपञ्चाङ्ग इव तत्रैव कालधर्ममवाप । पाणिपादाबद्धः सः वानरो यदि मुखमाकर्षेत् तदा मुच्येत शैलजलात्, अत्र न संशयः । यथा जिह्वेन्द्रियमात्रलुब्धो मुग्धो वानरो नष्ट, एवं शैलेयनिभासु नारीषु पञ्चसङ्ख्यैर्हषीकैरपि मज्जन् देही कथं न विनश्येत् ? तथाऽहं तु नाऽस्मि ॥ २ ॥
इति परिशिष्टपर्वणि जम्बूस्वामिविवाहादिशैलेयवानरकथान्तवर्णनात्मको द्वितीयः सर्गः ॥२॥
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रालम्बहिण्डोलकमध्यास्त । एवं बहुबलगर्वादग्रेतनं यूथपं न जानानो निःशङ्कं वानरीभिररंस्त ।
तदा कयाऽपि नखैः कण्डूय्यमानलाङ्कलः, कयाऽपि प्रमृज्यमानसर्वाङ्गरोमराजिः, कयाऽपि कदलीतालवृन्तेन वीज्यमानः, कयाऽपि कमलनालैः क्रियमाणावतंसक उच्चैः शिखरस्थः स जरन् यूथपतिर्दाग् वानरयुवानं तं दृष्ट्वा कोपादधावत् । लाङ्कलं नर्तयन् स वानरयूथपतिस्तं वानरयुवानं रोषेण पाषाणखण्डेन जघान । ततः स वानरेन्द्रयुवाऽपि लोष्टाहत: सिंह इव क्रुद्धो घुरघुरारावं कुर्वस्तं प्रत्यधावत् । मिथः क्रोडीकृतसर्वाङ्गौ तौ दुहृदावपि सुचिराद् मिलितौ सुहृदाविव भूतौ दन्ताग्रैस्त्रटवटेति अङ्गुलीभिश्चटश्चटेति परस्परं युध्यमानौ तौ वपुषि व्यापप्रतुः ।।
तदा परस्परं दन्त-नखक्षतक्षतजशोणितचर्चितौ परिहितरक्त चोलकाविव तौ शुशुभाते । क्षणाद् बन्धं क्षणाद् मोक्षं प्रयुञ्जानौ तावुभौ यथा द्यूतकारौ क्रीडतस्तथा युध्यमानौ तौ रेजतुः । अन्ते वानरयूना मुष्टिप्रहारेण भग्नास्थि: स वृद्धकपिः शीघ्रं शीघ्रमपससार, मन्दं मन्दं च त्वढौकत । ततो युवा वानरस्तं वृद्धवानरमपसरन्तं लोष्टघातेन जघान, तेन वृद्धवानरमस्तकं पुस्फोट । ततः प्रहारपीडितः स वृद्धो यूथपतिर्वानरो दूरोत्पातिमुक्तपक्षिवद् नंष्ट्वा दूरं ययौ ।
ततः प्रहारपीडितस्तृषितः स भ्रमन्नेकस्मिन् गिरौ प्रक्षरच्छिलाजतु ददर्श । स जलबुद्ध्या शिलाजतुनि मुखं न्यधात् । ततस्तन्मुखं भूमेरुत्थितमिव तत्रैव विलग्याऽस्थात् । तेन मन्दमतिना