SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १९६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदा भद्रा पुत्रमरणशोकवह्निकरालिता सती शान्तिसुधानदी प्रव्रज्यां ग्रहीतुमैच्छत् । अथ गृहं गत्वैकां गर्भिणी स्नुषां त्यक्त्वाऽन्यस्नुषाभिः सह परिव्रज्यां जग्राह । कालक्रमेण गुर्वी प्रसूतपुत्रेणाऽवन्तिसुकुमालस्य चिताभूमितले विशालं देवमन्दिरं व्यरचयत् । अवन्तिभूषणं तद्देवकुलमद्याऽपि महाकालाभिधानेन लोकेऽतिप्रसिद्धमस्ति । भगवानार्यसुहस्त्यपि समये गच्छं प्रधानशिष्याय समाऽनशनं कृत्वा देहं त्यक्त्वा देवलोकं ययौ ॥ ११ ॥ इति परिशिष्टपर्वणि सम्प्रतिराजचरित्रादिसुहस्तिस्वर्गगमनान्तवर्णनात्मकः एकादशः सर्गः ॥११॥ द्वादशः सर्गः धनगिरिवृत्तान्तः अथ सुहस्त्याचार्यवंशे क्रमात् प्रवचनाधारो वज्रस्वामी बभूव । तस्य कथा विस्तार्यते तथाहि अस्मिन्नेव जम्बूद्वीपे दक्षिणभरता लङ्कार ऋद्धिभिः स्वर्गोपमोऽवन्तिनामा देशोऽस्ति । तत्र तुम्बवननाम सन्निवेशमस्ति । तच्च लक्ष्मीनिवासस्थानमिव देवानां हर्षदमस्ति । तत्र लक्ष्मीदेवीपुत्र इव पर्वतीकृतधनराशिर्धनगिरिनामा श्रेष्ठिपुत्रो बभूव । तारुण्यभूषितदेहस्याऽपि तस्य प्रशमद्वारपालरक्षिते हृदि कामो न प्राविशत् । नीतौ धर्मादर्थो भवतीति पठ्यते, परन्तु स पात्रेभ्योऽर्थं नियोजयन्नादपि धर्मं चकार । सोऽर्हद्धर्मतत्परो ब्रह्मचर्यपरिणाम स्वर्गा-ऽपवर्गफलं जानन् कन्यां परिणेतुं नैच्छत् । तद्विवाहोत्सवकाक्षिणौ तस्य पितरौ धनगिरिकृते कन्यां यत्र यत्र कुले प्रार्थयामासतुस्तत्र तत्र धनगिरिर्गत्वा स्वयमकथयत्-"अहं प्रव्रजिष्यामि" कथयतो मम दोषः कोऽपि नाऽस्ति । इतश्च धनपालश्रेष्ठिन: सुनन्दानाम्नी कन्योवाच-"मां धनगिरये ददातु, स मे वरो भवतु । धनपालश्रेष्ठ्यपि स्वयंवरतत्परां सुनन्दां दीक्षां जिघृक्षवेऽपि धनगिरये ददौ । सुनन्दाया
SR No.009897
Book TitleTrishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Original Sutra AuthorN/A
AuthorShubhankarsuri, Dharmkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages128
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy