________________
॥ अर्हम ||
॥ श्रीनेमि - विज्ञान- कस्तूर- यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥
त्रिषष्टिशलाकापुरुषचरितम्
गद्यात्मकसारोद्धारः
परिशिष्टपर्व
प्रथमः सर्गः
वन्दे महावीरजिनं वरेण्यं स्वर्गापवर्गद्रुमराजकन्दम् । सुरासुरैः पूजितपादपद्मं वचोऽमृतांशूद्भूतहृत्तमस्कम् ॥ १ ॥ यद् हैमचन्द्रं परिशिष्टपर्व श्रीनेमिविज्ञानपदाब्जभृङ्गः । शुभङ्करोऽहं विदधे तदेव गद्यानुबद्धं सुखबोधहेतोः ॥ २ ॥ अस्यैव जम्बूद्वीपस्य दक्षिणे भरतार्द्ध भूमिमुखमण्डनं मगधनामा देशोऽस्ति । तस्मिन् मगधदेशे गोष्ठा ग्रामसदृशाः, ग्रामाश्च पुरसदृशाः, पुराणि चाऽद्भुतलक्ष्म्या खेचरनगरसदृशानि तत्र कृषीवलैरेकवारमुप्तानि धान्यानि पुनः पुनर्दूर्वावत् प्ररोहन्ति, प्रजास्तु सुषमाकालभवा इव नीरोगा निर्भयाः सन्तुष्टा दीर्घायुषस्तत्र वसन्ति । गावस्तत्र सदा प्रसवशालिन्यः कुण्डोध्न्यः सुव्रता अहर्निशं कामधेनव इव कामदोह्याः। भूमिश्च सर्वत्रोर्वरैव । समये मेघो वर्षति । तस्मिन् धर्मैकगेहे मगधदेशे सर्वो लोको धर्मकर्मपरायणः ।