________________
१०८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः श्रीसुधर्मस्वामिना श्रीजम्बूस्वामी गणाधिपोऽस्थापि । तीव्र तपस्तप्यमानो जम्बूस्वाम्यपि केवलं लब्ध्वा सद्यो भव्यभविकान् प्रतिबोधयामास । श्रीमहावीरस्वामिमोक्षदिनादपि चतुःषष्टिवर्षाणि व्यतीत्य जम्बूस्वामी कात्यायनगोत्रं श्रीप्रभवं स्वपदे संस्थाप्य कर्मनिर्जरयाऽव्ययपदमाप ॥ ४ ॥ इति परिशिष्टपर्वणि जम्बूस्वामिनो निर्वाणवर्णनात्मकः
चतुर्थः सर्गः ॥४॥
पञ्चमः सर्गः
श्रीशय्यम्भवसूरिवृतान्तः ततः कात्यायनगोत्रोत्पन्नः श्रीप्रभवस्वामी तीर्थप्रभावनां कुर्वन् पृथिवीतलं पवित्रीचकार । एकदा निशीथे आवश्यकक्रियाश्रान्तायां सुप्तायां शिष्यपर्षदि योगनिद्रास्थः श्रीप्रभवस्वाम्येवं चिन्तयामास"अर्हद्धर्मकमलदिवाकरो मे गणधरः को भावी, य: समस्य भवसागरे पोतसम: स्यात्" । एतच्चिन्ताक्रान्तः स स्वे गणे सो चेष्टज्ञेयालोकप्रदीपकमुपयोगं चकार । स ज्ञानसूर्येण प्रसारिणा सूर्यतेजसेवाऽव्युच्छित्तिकरं तादृशं नरं कमपि न ददर्श । तादृग्नरार्थी स परेषामपि दर्शने उपयोगं ददौ । यतः पङ्कादपि कमलमुपादेयं भवति । ततो राजगृहनगरे यज्ञं कुर्वाणमासन्नभव्यं वत्सगोत्रजं शय्यम्भवनामकं ब्राह्मणं ददर्श । अनवस्थितैः श्रमणैरन्यत्राऽपि विहरणीयमिति प्रभवस्वामी तत्रैव नगरे पुरवरे जगाम ।
तत्र द्वौ मुनी आदिशत्-"यज्ञशालायां गम्यतां, तत्र युवां भिक्षार्थिनौ धर्मलाभाशिष वदतम् । तत्र भिक्षादानेच्छावादिभिर्यज्ञवाटद्विजादिभिः प्रस्थाप्यमानाभ्यामपि युवाभ्यामीदृशं वक्तव्यम्"अहो कष्टम्-अहो कष्टं, तत्त्वं विज्ञायते न हि । अहो कष्टमहो कष्टं, तत्त्वं विज्ञायते न हि"
अथ वन्दनमालाङ्कद्वारमुत्तम्भितध्वजं द्वारदेशमुक्ताचामनाहावमिन्धनव्यापृतमाणवं यूपस्तम्भबद्धच्छागं वेदीमध्यप्रदीप्तवह्निकं