________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
प्रत्यावृतन् । भवदेवो नवोढां हृदि ध्यायन् केवलं भ्रातृभक्त्यैव सशल्यां प्रव्रज्यां पर्यपालयत् । ततो भवदत्तर्षिर्बहुना कालेन व्यतीतेनाऽनशनं कृत्वा विपन्नः सौधर्मे देवोऽभूत् ।
२४
ततो भवदेवश्चैवं दध्यौ मम नागिला प्रेयसी, तस्या अहमपि प्रेयान्, अहो ! द्वयोविरहोऽभूत् । एतावद्दिनपर्यन्तं भ्रात्रनुरोधेन व्रतमहमपालयम् । तस्मिन् दिवं गते किं मम आयासहेतुना व्रतेन ? यथा नागिलाविरहेणाऽहं दुःखी न तथा दुष्करेणाऽपि व्रतकष्टेन ? कथमहो सा भविष्यति ? आलानबद्धा हस्तिनीव, हिमयुता कमलिनीव, मरुगता मरालीव, ग्रीष्मतापयुता लतेव यूथभ्रष्टा हरिणीव, पाशबद्धा सारिकेव दैन्ययुता सा लोकानुकम्प्यैव भवेदिति मन्ये । यद्यहं जीवन्तीं तां प्राप्स्यामि तदाऽद्याऽपि मुनिव्रतं विहाय गृहस्थतातृप्तो, दीर्घनयनया तया सह रंस्ये । एवं चिन्तातन्तुभिरूर्णनाभ इव स्वं बध्न स्थविरर्षीननापृच्छ्यैव भवदेवो विनिर्जगाम । स भवदेवः शीघ्रमेव सुग्रामं ग्रामं जगाम ।
तत्र ग्रामाद् बहिः संवृतद्वारबाह्यगृहसमीपे तस्थौ । तावता तत्रैकया ब्राह्मण्या सह नागिला गन्धमालाधराऽऽगता, सा 'असौ कोऽपि मुनिरभ्यगादिति तमवन्दत । ततो भवदेवस्तां पप्रच्छ- "हे भद्रे ! अस्मिन् पुरे आर्यवान् राष्ट्रकूटस्तस्य रेवतीनाम्नी पत्नी च सम्प्रति जीवति न वा ?" सा प्रत्युवाच - "नो मृतौ तयोर्मरणस्य भूयान् कालो व्यतीयाय" । पुनरपि भवदेवस्तामप्राक्षीत् भद्रे ! आर्यवत्पुत्रेण भवदेवेन नवोढा प्रिया या त्यक्ता सा विद्यते न
वा ?"
सा व्यचिन्तयत्- " अयं भवदेव एवाऽस्ति । प्रायोऽग्रजाद् व्रतं गृहीतवान् अथवा निष्पापमिहाऽऽगतमेतं वार्तयामि । एवं
परिशिष्टपर्व प्रथमः सर्गः
२५
विचिन्त्योवाच-"भगवन् ! त्वमेवाऽऽर्य - रेवतीपुत्रो भवदेवोऽसि । हे तपोधन ! किमर्थमागतोऽसि ?” भवदेवोऽवदत्-"साधु त्वयाहमुपलक्षितोऽस्मि । स एवाऽहं नागिलाप्राणेश्वरो भवदेवोऽस्मि । तदाऽहं ज्येष्ठभ्रात्र नुरोधेनाऽनिच्छन्नपि दुष्करं व्रतमग्रहीषम् । अग्रजे मृते साम्प्रतमहं निरङ्कुशो नागिला कथमभूदिति तद्दिदृक्षयाऽत्राऽऽगमम्" ।
ततो नागिला व्यचिन्तयत्- " चिराद् दृष्टां परावृत्तवयोगुणां मामसौ न प्रत्यभिजानाति । तस्मादेनमात्मानं परिचाययामि । इति विमृश्य नागिलोवाच - " या नवोढा त्वयाऽत्याजि सा नागिला - ऽहमेवाऽस्ति । स्वर्गापवर्गफलदायकं रत्नत्रयं विहाय वराटिकामात्रसदृशीं मां मा गृहाण । अत्यन्तघोरनरकपातसाक्षिणां कामास्त्राणां विषयाणां लक्ष्यो मा भूः । हितैषिणा भ्रात्रा छलेनाऽपि त्वं व्रतं ग्राहितोऽसि । मयि पापतनौ रतस्तमप्यनाप्तं मा मन्यस्व । तत्समीपे मयि रागकृतं पापं समालोचय" । एवं नागिला यावद् भवदेवं भृशमन्वशासत् तावत् तया ब्राह्मण्या भुक्तपायसो बालकस्तत्राऽऽगमत्, अवोचच्च– “मातः ! यन्मयाऽमृततुल्यं पायसं भुक्तं तदहं वमिष्यामि, अधो भाजनं धारय । यतोऽहमन्यत्र निमन्त्रितस्तत्र दक्षिणां लप्स्ये । अवान्तपायसोऽहं भोक्तुं न शक्ष्यामि दक्षिणामादायाऽऽगतोऽहं पुनः पायसं भोक्ष्ये । स्वयं वान्तं स्वयं भोक्ष्ये । तत्र स्वोच्छिष्टभोजने का लज्जा ?
ब्राह्मण्युवाच - " वान्ताशी त्वं निन्दितो भविष्यसि । तस्माद् हे पुत्र ! अनेन निन्द्यकर्मणाऽलम्" । तदा भवदेवोऽप्यवदत्-"हे बाल ! वान्ताशी त्वं कुक्कुरादपि निकृष्टो भविष्यसि " । तदा नागिलोवाच - "ऋषे ! यद्येवं जानीषे, वदसि च तदा मां त्वमुद्वम्य