Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 123
________________ परिशिष्टपर्व - त्रयोदशः सर्गः २३३ २३२ .. त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लक्षमूल्यौदनाद् भिक्षां प्राप्नुयाः, तदुत्तरदिनप्रात:काले सुभिक्षं जानीयाः, एवमादि वनसेनमुनि स्वशिष्यं समादिश्य स अन्यत्र विहर्तुमुवाच । ततो मुनिश्रेष्ठो वज्रसेनोऽपि ग्रामा-ऽऽकर-पुरवनवतीं वसुमती विहर्तुं प्रववृते । पुनः श्रीवज्रस्वामिपार्श्ववर्तिनो व्रतिनो गृहे गृहे भ्राम्यन्तोऽपि भिक्षां क्वचिदपि न लेभिरे । भिक्षां विना ते क्षुधाक्षामकुक्षयो निरन्नजीवनाः प्रतिदिनं गुरुभिर्दत्तं विद्यापिण्डं बुभुजिरे । युष्माभिरयं विद्यापिण्डो द्वादश वर्षाणि भोक्तव्यः । ततो यदि संयमबाधा नाऽस्ति, तदा तमाहृत्याऽहं युष्मभ्यं ददामि, अन्यथाऽन्नेन सह वयं शरीरं त्यजामः" । गुरुभिरित्युक्ता धर्ममतयो यतयो जगदुः"पोषणमिमं पिण्डं धिक् । पोष्यमिदं शरीरं च धिक्" । हे प्रभो ! त्वं प्रसीद, वयं पिण्डं शरीरं चेति द्वितयं त्यजामः" । अथ भुवनसूर्यो वज्रमुनिः शिष्यानादाय लोकान्तरं प्रकाशयितुं वेगवान् गिरिं प्रति चचाल । तत्रैकः क्षुल्लको वार्यमाणोऽपि यदा न तस्थौ तदा गुरुस्तं कस्मिंश्चिद् ग्रामे प्रतार्य गिरिं समारोहत् । गुरोर्मनसि प्रीत्यभावो मा भूदिति विचिन्तयन् क्षुल्लको भक्तं देहं च त्यक्त्वा गिरेरधस्तादस्थात् । मध्याह्नसूर्यप्रचण्डोष्णकिरणतप्ते शिलातले नवनीतपिण्डवत् तत्क्षणादेव विलीनोऽभूत् । शुभध्याननिष्ठः स शक्तिशाली योगीव शरीरं त्यक्त्वा देवमन्दिरमध्ये तन्वन्तरं परिजग्राह । तस्मिन् देववनितासङ्गसुखासक्ते सति प्रहृष्टा देवास्तस्य शरीरं शीघ्रं पूजयामासुः । ___ अवतरतो देवान् दृष्ट्वा यतयः श्रीवज्रस्वामिनमवोचन्-"हे प्रभो ! सर्वर्द्धय एते देवा अत्र किमवतरन्ति ?" सोऽप्युवाच"क्षुल्लक इदानीं निजसाध्यमसाधयत् । ततस्तस्य महिमानं देवाः प्रकुर्वन्ति । ततस्ते मुनयो दध्युः-"यदि बालेनाऽप्यमुना स्वकार्यमसाधि तदा वयं वृद्धाः किं न स्वकार्यं साधयाम: ? अथ संवेगिनश्चारित्र-ज्ञानयोगिनः साधूंस्तत्र मिथ्यादृष्टिदेवता श्रावकीभूयैवमुवाच-"हे भगवन्तो ! भवतामद्य पारणं, तत्राऽस्माकं शर्कराचूर्णमोदकं पानं च प्रसद्य गृह्णीत" । एतस्या अयमवग्रहः प्रीतिहेतुर्नेति वयमन्यत्र गच्छाम इति ध्यात्वा ते साधव आसन्नमन्यगिरि जग्मुः । साधवस्तत्रत्यदेवतां मनसि निधाय कायोत्सर्ग चक्रुः । ततो देवता समागत्य तान् साधून् नत्वेत्युवाच"अस्माकमुपरि युष्माकमयमनुग्रहोऽस्ति, यतो यूयमिहाऽऽगमत । मरुषु कदाऽपि कल्पवृक्षो न जायते । एवं देवतावाचा प्रसन्नाः सत्कर्माणस्ते साधवः श्रीवज्रस्वामिना सह कृतानशनकर्माण: स्वर्ग ययुः । अथेन्द्र इति ज्ञात्वा रथेन तं गिरिमुपेत्य वज्रस्वाम्यादिमुनीनां शरीराणि हर्षेण पूजयामासुः । तत इन्द्रः सरथो भक्त्या स्वदेहमिव वृक्षादीनुच्चैर्नमयंस्तं गिरिं प्रदक्षिणीचकार । तस्मिन् पर्वते शक्रनमितास्ते वृक्षा अद्याऽपि विनम्रा एव यतो वर्तन्ते, तस्मात् तस्य रथावर्त इति नाम पृथिव्यामजनि । दुष्कर्मपर्वतवज्र श्रीवज्रस्वामिनि स्वर्गं गते सति दशमं पूर्वं चतुर्थं संहननं च विच्छिन्नमभूत् । इतश्च श्रीवज्रर्षेः शिष्यः श्रीवज्रसेन: परिभ्रमन्नपारलक्ष्मीयुतं सोपारनामकं नगरं जगाम । तत्र यथार्थनामा जितशत्रुनृप आसीत् । तस्य सकलगुणधारिणी धारिणीनाम्नी प्रियाऽऽसीत् । तत्र जिनदत्तनामा धनी श्रावक आसीत् । तस्य शिवस्येव दयितेश्वरी नाम्नी भुवि विख्याताऽऽसीत् । सा चन्द्रधवलं तच्छीलमशीलयत्, यत्तस्याः पृथिव्याश्च विभूषणं बभूव ।

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128