Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - त्रयोदशः सर्गः
२३५
२३४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___ तदा दुर्भिक्षदोषात् सकलं भूमण्डलं धान्यविना जलैविना मत्स्या इव दुःखसङ्कलीबभूव । धर्मप्रधाना सा निजबन्धूनेवमुवाच"अद्य यावदमी वयं सुखं जीविता: स्मः, धान्यक्रयणं विना वयं कियच्चिरं दुःखं जीविता स्मः । तस्माद् वरं सविषमन्नं भुक्त्वा समाहिताः स्मृतपञ्चनमस्काराः कृतानशनवृत्तयः दुःखगेहदेहं सद्यस्त्यजामः । बन्धव इत्थमूचुः-"साम्प्रतमेवं हन्त भवतु, यतो गच्छतोऽस्य शरीरस्याऽदः प्राप्तकालं फलम्"।
अथ लक्षमूल्यमन्नं पक्त्वा सा यावद् विषं तत्र नाऽक्षिपत्, तावत् तज्जीवप्रद इव वज्रसेनमुनिराययौ । साऽपि तं मुनिं दृष्ट्वा हृष्टैवं व्यचिन्तयत्-"चित्तं वित्तं पात्रं चेति त्रयं भाग्येन पूर्णं जातम्" । तस्मादद्य पात्राय दत्त्वा स्वजन्मेदं सफलीकरोमि, यत ईदृक्पात्रस्य सङ्गमो दैवयोगेन कदाचिद् भवति । ___अथ सा प्रसन्ना सती प्रफुल्लनयना तस्मै मुनये भिक्षां ददौ, लक्षमूल्यस्य पाकस्य वृत्तान्तं च निवेदयामास । वज्रसेनोऽपि जगाद-“हे भद्रे ! त्वमेवं मा स्म कार्षीः, यतः प्रातरेव सुभिक्षं भविष्यति, अत्र सन्देहो नाऽस्ति । सा पप्रच्छ-"एतद्भवता स्वयमज्ञायि, अथवाऽन्यस्मात् ?
अथ स मेघगजितोर्जितया वाचाऽदो जगाद-"अहं श्रीवज्रस्वामिनोक्तोऽस्मि-"यदा त्वं लक्षपाकौदनाद् भिक्षां प्राप्नुयास्तदा तत्प्रात: सुभिक्षं भवितेति" । एवं श्रवणामृतं श्रुत्वा सा श्राविका तद्दिनं क्षणमात्रमिव लीलया सुदुभिक्षं यापयामास । अथ प्रभाते प्रभाजालैः सूर्यस्य मण्डलमिव धान्यैः पूर्णं नौकासमुदायं दूरादागच्छत् ।
ततो जनः सा च सद्यः प्रासीदत् । श्रीवज्रसेनोऽपि कञ्चन समयं तत्रैव तस्थौ । ततो जिनदत्तः स्वकलत्रवरपुत्रसहितोऽर्हन्तं
पूजयामास । जिनार्चायां याचकेभ्यो धनं च ददौ । अन्यदिने ते शान्तचित्ता महोत्सवेन श्रीवज्रसेनमुनेः पार्वे लोकद्वयहितं व्रतं ललुः ।
__ एवं श्रीवज्रस्वामिनो वंश: शाखा-प्रशाखाभिर्वटवृक्ष इव शिष्य-प्रशिष्यादिभिर्विस्तरन् दिङ्मण्डलं व्यापत् । साधुपत्र: सुपर्वयुक्तो मुक्तावासनिबन्धनं श्रीवज्रमुनिवंशः कस्य मनोरञ्जको नाऽऽसीत् । ये केचिद् वंशा दृष्टा, ये वा श्रुतास्तेषु सर्वेषु वंशेष्वग्रं तनुत्वं मूलं च स्थूलतामभजत् । दशपूर्विणो मुनिराजस्य श्रीवज्रसूरेरसौ वंशः कोऽपि नव्यो य आदौ स्वल्पतरोऽपि पश्चादतितरां ववृधे ।
इति परिशिष्टपर्वणि आर्यरक्षितव्रतादान-पूर्वाधिगमवजस्वामिस्वर्गगमन-तद्वंशविस्तारवर्णनात्मकः
त्रयोदशः सर्गः ॥१३ ॥ जम्बूमुनिप्रभृतिवज्रगणाधिनाथपर्यन्तसाधुजनचित्रचरित्रपुष्पैः । स्रग्दामगुम्फितमिदं परिशिष्टपर्व शिष्टात्मनां लुठतु कण्ठतटावनीषु ॥ १ ॥
इति कलिकालसर्वशश्रीहेमचन्द्राचार्यविरचित
स्थविरावलीस्वरूप-परिशिष्टपर्वण: तपोगच्छाधिपति-शासनसम्राट्-बालब्रह्मचारि-श्रीकदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्नश्रीविजययशोभद्रसूरीश्वरशिष्यरल
श्रीविजयशुभङ्करसूरीश्वरकृते गद्यात्मकसारोद्धारे समाप्तं जम्बूमुनिप्रभृति-आर्यरक्षितमुनिपर्यन्त
मुनिचरितप्रतिबद्धं परिशिष्टपर्व ॥

Page Navigation
1 ... 122 123 124 125 126 127 128