Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
प्रशस्तिः
२३७ nanamnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn
॥ प्रशस्तिः
॥
श्रीमतस्तीर्थनाथस्य महावीरस्य सद्यशाः । श्रीसुधर्मागणधरः शिष्योऽभूत्तत्वदृग्वरः ॥ १ ॥ अद्याऽपि यद्गीर्गीर्वाणसरिद्धारा विलक्षणा । स्वाचामाद् यत्सुधास्वादं समुक्ति ददते नृणाम् ॥ २ ॥ अद्भुतोऽस्य जगच्चन्द्रो जातः पट्टक्रमाम्बरे । यत्कैरवतपोगच्छः प्राकाशि प्रतिभांशुभिः ॥ ३ ॥ तत्पट्टसन्ततौ हीरः सूरिरत्नेषु हीरकः । जातोऽकब्बरभूपं यो बोधयामास सत्पथम् ॥ ४ ॥ गुरु-शिष्यौ सेन-देवौ तत्पट्टेऽभवतां क्रमात् । प्रतिवादिविजेतारौ कीर्तिव्याप्तदिगन्तरौ ॥ ५ ॥ तदन्तेवासिवंशेऽभूत् श्रीनेमिः सूरिशेखरः । कदम्बादिमहातीर्थोद्धारख्याताभिधो भुवि ॥ ६ ॥ तदीयपट्टालङ्कारो गुणगौरः प्रतापवान् । श्रीविज्ञानो ज्ञानवृद्धो भूरिभव्यप्रबोधकः ॥ ७ ॥ तस्य पट्टधरो जात: कस्तूरः सूरिपुङ्गवः । समृद्ध्यै प्राकृतस्य स्वप्रतिभाया नियोजकः ॥ ८ ॥
तस्य शिष्यो यशोभद्रः पंन्यासपदभूषितः । धर्मव्याख्यासुधास्यन्दैर्जनतानन्दन: सुधीः ॥ ९ ॥ तस्याऽन्तेवासितालाभसद्भाग्योदययोगवान् । शुभकरोऽहं विदुषामाराधनकृतार्थधीः ॥ १० ॥ हेमचन्द्राचार्यवर्यनिर्मिते सारवत्तरे । परिशिष्टपर्वग्रन्थे पद्यबन्धेऽल्पमेधसाम् ॥ ११ ।। दर्श दर्शं गतिं मन्दां तस्य चाऽत्युपयोगिताम् । सौकर्यार्थं गद्यबन्धैरन्ववादिषमादरात् ॥ १२ ॥ युग्मम् तदेतस्याऽनुवादस्य गुरवे करुणाब्धये । येन प्राप्तं शुभं ज्ञानं तस्मायस्तु समर्पणम् ॥ १३ ॥ गूर्जरे वेजलपुरे सुश्रावकगणान्विते । जिनचैत्याञ्चिते ग्रामे निवसन् श्रमणाश्रये ॥ १४ ॥ वस्वाकाशवियन्नेत्रे वैक्रमे वत्सरे शुचौ । अजसैवैतकं ग्रन्थं पूर्णतामहमानयम् ॥ १५ ॥ युग्मम् यदीममुपयोक्ष्यन्ति श्रद्धावन्तः सदाग्रहात् । स्युश्चेदुपकृतास्ते च श्रमं मन्ये फलोज्ज्वलम् ॥ १६ ॥

Page Navigation
1 ... 123 124 125 126 127 128