Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 120
________________ २२६ परिशिष्टपर्व - त्रयोदशः सर्गः २२७ स्वशिशौ प्रसादं कुर्वद्भिर्विहारक्रमजं कष्टं स्वीकृत्याऽन्यत्र गम्यताम् । यतोऽत्र स्थितं मां राजा पुरजनोऽपि गाढानुरागेण प्रव्रज्यां त्याजयेदपि" । तदनुरोधेनाऽऽचार्या अपि सपरिवारा अन्यत्र विजहुः । सोऽप्यग्रे स्थितो दासवच्चचाल । तदा श्रीवर्धमानस्य तीर्थेऽनगारिणां शिष्यचौर्यव्यवहारः प्रथमोऽयं प्रावर्तत् । तदाऽऽचार्या आर्यरक्षितं भट्ट पर्यव्राजयन् । सोऽचिरादेव साक्षीकृतगुरुर्गीतार्थो बभूव । स तीव्र तपस्तप्यमानो दुःसहान् परीषहान् सहमान एकादशाऽप्यङ्गानि मातृकावत् पपाठ । तेषामाचार्यमिश्राणां यावान् दृष्टिवादः परिस्फुट आसीत् तावन्तमार्यरक्षितो जग्राह । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्राविशत् । अथ ऐ-पथिकीमुच्चस्तरस्वरं प्रत्यक्रामत् । ततः स आचार्यान् साधूश्चं यथाविधि वन्दित्वाऽग्र आसनं प्रतिलिख्योपाविशत् । अथ धीमानार्यरक्षितस्तेन सह प्रतिश्रयं प्रविश्य तस्माच्छ्रतं वन्दनैर्यापथिक्यादि धारयामास । आर्यरक्षितस्तद्दर्शितविधि पठनपुरस्सरमभिनयन्नाचार्यपादान् साधूंश्च ववन्दे । आर्यरक्षितो ढड्डरश्रावकं तु नाऽवन्दत । सुधीरपि स विनाऽऽम्नायं कियद् विज्ञातुं शक्नुयात् ? आचार्या अवन्दितढड्डरं निषण्णं सोमपुत्रं व्यज्ञासिषुर्यत् कोऽपि प्रायो नवीन: श्रावकोऽस्ति । शरज्जलनिर्मलाशया आचार्या धर्मलाभाशिषं दत्वा तं पप्रच्छु:-"तव कुतो धर्मागमः" । रुद्रसोमानन्दनो यथातथमेवोवाचअस्माच्छ्रमणोपासकात् प्राप्तधर्मोऽस्मि, अन्यस्माद् न" । साधवोऽप्येवमूचुः-हे भगवन् ! रुद्रसोमायाः पुत्रोऽयमार्यरक्षितो वेदाब्धिपारगो विद्वानस्ति । राज्ञाऽयं चतुर्दशविद्यास्थानोपाध्यायो हस्तिस्कन्धाधिरूढोऽस्मिन्नगरे प्रवेशितोऽस्मि, शरीरिणां भावपरिणाम: किं नवो न भवेत् ? तत: स कृताञ्जलिराचार्यान् विज्ञपयामास-"हे भगवन् ! त्वं दृष्टिवादाध्यापनेन मामनुगृहाण । अहं विवेकशून्यो दुरात्मोन्मत्त इव हिंसोपदेशकं नरकावहं सर्व पठितवान्" । आचार्या अपि तं शान्तं योग्यं ज्ञात्वैवमूचुः- "यदि त्वं दृष्टिवादं पिपठिषसि तर्हि परिव्रज, किं च हे ब्राह्मण ! प्रवज्यायां गृहीतायां सत्यामन्यदपि क्रमेण दृष्टिवादं च त्वामहमध्यापयिष्यामि" । सोऽप्युवाच-“हे भगवन् ! त_दानीमपि परिव्रज्यां मे देहि यतो ममैषा न दुष्करा, किन्तु मन्मनोरथकामधुगस्ति । किन्तु अथाऽऽर्यरक्षितो वृद्धजनोक्त्यैवमश्रौषीत्, यद् वज्रर्षेदृष्टिवादोऽधुना भूयान् परिस्फुटोऽस्ति । तदा वज्रमुनिः महापुर्या नगर्यां समवसृत आसीत्, इति सोमपुत्रोऽपि मुनिस्तत्र गन्तुं प्रतस्थे । उज्जयिनीमध्ये भद्रगुप्ताचार्याणां प्रतिश्रयं जगाम च । आचार्या गुणवन्तं तपोराशि पूर्वावस्थाकुतीथिकं तमुपलक्ष्य मुदाऽऽलिलिङ्गः, ऊचुश्च-“हे वत्स ! त्वं धन्यः कृतार्थः सुधीश्चाऽसि, यतो यस्त्वं ब्राह्मणतां त्यक्त्वा श्रावकतां स्वीचकर्थ । हे अनघ ! अहमद्य क्षीणशेषायु:कर्मा त्वां प्रार्थये, अहमनशनं कर्तुकामोऽस्मीति, त्वमत्र मम निर्यामको भव" । तथेति स्वीकृतवन्तं रौद्रसोमेयं मुनि भद्रगुप्ताचार्यो विहितानशनोऽपि समुपदिदेश-“हे वत्स ! त्वं वज्रस्वामिना सहकप्रतिश्रये न निवसेः, किन्त्वन्यत्र स्थित्वा पठेः, यतो यः सोप

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128