Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - त्रयोदशः सर्गः
२२३
mnnnnnnnnnnnnnine
त्रयोदशः सर्गः
आर्यरक्षितवृत्तान्तः इतश्च दशपुरनामपुरे ओद्रायणनामा राजाऽजनि । सोमदेवनामा विप्रोऽभूत् । तस्य स्त्री रुद्रसोमानाम्नी परमाहती धर्मद्रुमबीजैर्दयादिभिर्गुणैरलङ्कृता बभूव । तयोरार्यरक्षित-फल्गुरक्षितनामानौ नीतिमन्तौ द्वौ पुत्रावभूताम् । तत्राऽऽर्यरक्षितो मौजीबन्धनादप्यनन्तरं पितुरेव सकाशे स यद् विवेद तत् पपाठ । ततोऽधिकाधिकमध्येतुकामः पितरावनुज्ञाप्याऽऽर्यरक्षित: पाटलीपुत्रनगरं ययौ । विशिष्टधीः स तत्राऽङ्गानि चतुरो वेदान् मीमांसा-न्यायविस्तरं पुराणं धर्मशास्त्रं चाऽपाठीत् । चतुर्दशाऽपि विद्यास्थानानि स्वनामवत् कण्ठस्थानि कृत्वा पुनर्दशपुरं नाम निजं पुरं समाययौ ।
चतुर्वेदोऽयं पूज्य: समागत इति राज्ञा हस्तिस्कन्धेऽधिरोह्य नगरे प्रावेश्यत । लोका अपि नानोपायनपाणयः तमभ्यगुः, यतो यो राजभिः पूज्यते स कस्य पूज्यो न भवति ? आर्यरक्षित उपदामिव कुटुम्बे नवमानन्दं प्रयच्छन् गृहस्य बाह्यशालायां न्यवात्सीत् । तं ब्रह्मचर्यधनवन्तं राज्ञः पूज्यमानं दृष्ट्वा तद्वन्धवः स्वगोत्रं पवित्रममन्यन्त । तद्गृहद्वारे स्वजनैश्चिरेष्टाया आगमिष्यन्त्या लक्ष्म्या लीलादोलातुल्यं सुन्दरं तोरणं बबन्धे । तदीयगृहे स्त्रियस्तगृहाख्यानप्रशस्तिवर्णसमान् कल्याणकारकान् स्वस्तिकान् लिलिखुः । बाह्य
शालास्थितोऽप्यार्यरक्षितोऽल्पैरेव दिनैर्बहुतरैरागच्छद्भिरुपायनैर्लक्ष्मीवानभूत् ।
अन्यदा विमलमतिरार्यरक्षितश्चिन्तयामास-"अहो ! ममेदृशः प्रमादो यदहमद्याऽपि मातरं नाऽभिवादये । स्त्रीणां पुत्रा बाह्याः प्राणा भवन्ति; यतः पुत्रस्य प्रवासजं दुःखं स्त्रीणां दुःसहं भवति । मत्प्रवासेन मन्माता कथं भविष्यति ? या निद्रायामपि नित्यं मम नामाक्षरवाग्मिनी भवति; अहो ! मन्मातुरिदमेव धीरत्वं विचित्रं यद् मां सा मद्धितकाम्यया देशान्तरे प्रेषीत् । तस्माद् गुणोपार्जनानिमित्तं स्ववित्तं दर्शयन्नुत्कण्ठाजलनदी स्वमातरमहमानन्दयामि" । इति ध्यात्वाऽऽर्यरक्षितः सद्यो दिव्ये वस्त्रे परिधाय कश्मीरजाङ्गरागेण विलिप्तदेहकान्तिः सुगन्धिपुष्पमाल्यगर्भिताबद्धकेशः कण्ठ-हस्तपादविन्यस्तस्वर्णालङ्कारः कर्पूरखण्डयुतताम्बूलसुन्दरमुखः श्वेतच्छत्रशोभमानशीर्षः सन् स्वगृहं जगाम ।
विनयी स प्रथमं गलावलम्बिकाञ्चनमेखलालिङ्गितभूतलः सन् मातृचरणौ ववन्दे । “हे पुत्र ! दीर्घायुरक्षयोऽपि त्वं भूयाः; तव स्वागतमस्तु" इत्युक्त्वा सा प्रातिवेश्मिकीवदन्यद् नोवाच । स मातुः प्रेमभरोचितसंलापरूपं प्रसादं पूर्ववदपश्यन्नुवाच-"अहमधीतसर्वविद्यस्त्वच्चरणान् द्रष्टुमागमं; भक्तिमर्यादासागरं मां त्वं कि नाऽऽलपसि ? राजा राजगुरोरिव मम पूजां करोति, पुत्रस्य मे महिमानं दृष्ट्वा त्वं किं न हृष्यसि ?
ततो रुद्रसोमा तन्माता जगाद-हे पुत्र ! तव विद्योपार्जनेन किम् ? यद्धिसोपदेशकं नरकप्रदमेतच्छास्त्रं त्वयाऽधीतम् । नरकपाताभिमुखं कुक्षिसम्भवं त्वां दृष्ट्वा कथं प्रसीदामि? अपि तु कर्दमे गौरिव खेदे मग्ना विषीदामि । यदि त्वं मयि भक्तोऽसि, यदि

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128