Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - द्वादशः सर्गः
२२१ एवं वदतां तेषां विमानैर्गन्धर्वनगरशोभां दर्शयन् वज्रमुनिरहन्मन्दिरं ययौ । मषीधौतमुखैरिव बौद्धैः पुनरूचे-अहो ! अर्हद्दर्शन इयं दैवी प्रभावनाऽभूत्, अस्माभिरन्यथा चिन्तितमिदमन्यथोपस्थितम् । दृष्टिः प्रसारिताऽप्यस्थात् तथाऽप्यञ्जनं पवनेन नीतम् । ततो देवैः पर्युषणापर्वणि अर्हन्मन्दिरे महीयान् महिमाऽकारि, यो मानां गोचरो न भवितुमर्हति । ततो राजा जृम्भकदेवकृतां भगवतोऽर्हत: प्रभावनां दृष्ट्वा प्रजाभिः सह परमार्हतो बभूव ।। १२ ॥ इति परिशिष्टपर्वणि वज्रस्वामिप्रभाववर्णनात्मकः
द्वादशः सर्गः ॥१२॥
२२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पश्यत् । विद्याधरकुमारैर्वन्द्यमानचरणः स सिद्धायतनस्थाः शाश्वताहत्प्रतिमा ववन्दे।
__ अथ स आकाशमार्गेण श्रीदेवीमन्दिरमनोहरं कमलाकर देवतागारप्रगायद्देवीजनं पाहूदं जगाम । तदा देवपूजार्थमेकं कमलमवचित्य देवतामन्दिरं गच्छन्त्या श्रीदेव्या वज्रर्षिरदृश्यत । श्रीदेवी दृष्टमानं तं मुनिवरं रक्तमुकुटप्रभाजलैस्तच्चरणौ स्नपयन्तीव ववन्दे । धर्मलाभाशिषं दत्त्वोपविष्टं तं मुनि श्रीदेवी बद्धाञ्जलिरुवाच"आज्ञापय किं करोमि ? भगवान् वज्र उवाच-"तवेदमेवाऽऽदिष्टम् । हे लक्ष्मि ! करकमलस्थमिदं कमलं ममाऽर्प्यताम्" । स्वामिन् ! किमेतदादिष्टम् ! इन्द्रोपवनजानि पुष्पाण्यप्यानेतुं शक्ताऽस्मि" इत्युक्त्वा सा तस्मै पद्ममार्पयत् । लक्ष्या वन्दितो वज्रमुनिः शीघ्र तेनैव पथा हुताशनवनं जगाम ।
अथ विद्याशक्त्या विविद्धिभिः शोभमानं पालकस्याऽनुजन्मेव विमानं विचकार । तन्मध्ये श्रीदेव्यर्पितकमलं स्थापयामास । तस्य पार्श्वे विंशतिं पुष्पलक्षाणि निदधौ । तदा वज्रस्वामी जृम्भकदेवानस्मरत्-"ते इन्द्रमिव वज्रमुनि तत्क्षणादुपतस्थिरे । धनगिरिसुतो मुनिच्छत्रस्येवाऽम्बुजस्याऽध उपविश्याऽऽकाशगमनाय विमानवरमादिदेश । तस्मिन् विमाने चलिते जृम्भका देवा अपि विमानारूढा गीतवाद्यादिपूर्वकं चेलुः ।
विमानस्थैर्वैमानिकैविमानस्थो वज्रः परिवेष्टितो भूत्वा बौद्धदूषितां महापुरीं नाम पुरीं प्राप । तत्पुरीवास्तव्या बौद्धा आकाशे विमानानि दृष्ट्वोत्प्लवितुमुद्यता इवोत्पश्या एवमूचुः-"अहो ! देवाः सप्रभावं बौद्धदर्शनं दृष्ट्वा बुद्ध पूजयितुमागच्छन्ति, श्रीबुद्धाय नमो नमोऽस्तु ।

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128