Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व- द्वादशः सर्गः
२१७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विचार्यमाणा विषादपि विशिष्टा भवन्ति । विषं तु भुक्तवतोऽनाय, विषयास्तु स्मृताः सन्तोऽपि प्राणिनां जन्मान्तरेऽऽप्यनर्थाय जायते । अहं परिणामदुःखदान् विषयान् ज्ञात्वाऽमून् कथं स्वीकरोमि ? यतो निर्धनोऽपि 'अयं चौर' इति ज्ञात्वा तं त्यजत्येव यदि महानुभावा त्वत्कन्या मय्यनुरागिण्यस्ति, तर्हि मया स्वीकृतां प्रव्रज्यामसावपि गृह्णातु । कुलीनाऽसौ यदि मनसाऽपि मामेवैच्छत्, तदा परलोककल्याणेच्छयैवं कर्तुमुचितम् ।
अथवा ममाऽऽज्ञयाऽपि स्वविवेकपूर्वकं मोक्षार्पणलग्निकां प्रव्रज्यामेषा गृह्णातु । त्वत्कन्या बिभीतकवृक्षच्छायामिवाऽनर्थप्रदायिनी विषयासक्ति मा कार्षीत् । तस्या हितमिदं वदामि" । तदा पूर्वोक्ताभिर्भगवतो वज्रस्वामिन: कुशलोक्तिभिः प्रतिबुद्धाऽल्पकर्मा रुक्मिणी प्रवव्राज" | "अयमेव धर्मः श्रेयान्, यत्रेदृशी निर्लोभता"। एवं विचार्य बहवो जनाः प्रतिबोधं प्रापुः । तया रुक्मिण्या श्रीवज्रस्वामिपार्थात् प्रव्रज्याऽग्राहि । मुनिवरोऽपि तस्मात् स्थानाद् विजहार ।
*** __ अन्यदा भगवतः सङ्घस्योपचिकीर्षुर्जन्मसंसिद्धपदानुसारिलब्धिर्भगवान् वज्रस्वामी महापरिज्ञाध्ययनादाचाराङ्गान्तरस्थामा काशगामिनी विद्यामुद्धृत्य कथयामास । अनया विद्यया मम जम्बूद्वीपादामानुषोत्तरं भ्रमणे शक्तिरस्ति । ममेयं विद्या रक्षणीया । कस्यचिद् न दातव्या । यतोऽतः परमन्ये जना अल्पर्द्धयोऽल्पसत्त्वाश्च भविष्यन्ति ।
___ अन्यदा महामुनिः श्रीवज्रस्वामी पूर्वदिग्भागात् सूर्यो मकरसङ्क्रान्तौ दक्षिणत इवोत्तरदिशं जगाम । तदा तत्राऽतिभीषणं दुभिक्षं
प्रावर्त्तत । जनो भोजनेन श्रद्धया च विकलोऽभूत् । गृहिणामन्नाभावादल्पभोजनकरणेन यतीनामिव नित्यमूनोदरता बभूव । धनिका अपि गृहस्थाः सत्रशाला: शिश्रियुः । पृथ्वी सर्वत्रैव निरन्तरं रलरोलाकुला बभूव । दीनाश्चत्वरे विक्रीयमाणानि दधिभाण्डानि स्फोटं स्फोटं तद्दधीनि कुक्कुरा इवाऽलिहन् । पुना रङ्का अस्थिचर्मावशेषाङ्गाः सुस्पष्टस्नायुमण्डला भयङ्कराः प्रेता इव सर्वत्र सञ्चेरुः । अनगारेषु भिक्षार्थमागतेषु श्रावका अप्यन्नतृष्णया भिक्षादोषानदर्शयन् । शून्येषु परितो निर्धूमगृहेषु ग्रामेषु पादसञ्चारा मार्गा अपि सञ्चारायोग्या बभूवुः ।
ततो दुष्कालपीडितः सर्वः सङ्घो दीनो वज्राचार्य विज्ञपयामास-"भगवन् ! त्वमस्मानस्माद् दुःखात् कथमप्युद्धारय, सङ्घप्रयोजने विद्योपयोगोऽपि न दुष्यति" । ततो भगवान् वज्रस्वामी गरीयस्या विद्याशक्त्या चक्रभृच्चर्मरत्नवद् विपुलं पटं विचकार । तत्र च तेन निर्दिष्टः सर्वः सङ्घो नौकायां सार्थवाह इवाऽधिरुरोह" । तथा कृते सति स पटो भगवता वज्रमुनिना प्रयुक्त्या विद्याशक्त्या पवनोत्क्षिप्ततूलवदाकाशे समुड्डिडये । तदा दत्तनामा वज्रमहामुनेः शय्यातरः सहचारिग्रहणार्थं गतस्तत्राऽऽययौ । स सङ्घन सहितं स्वर्गयायिनं वज्रस्वामिनं दृष्ट्वा केशाञ्छीघ्रमुत्पाट्योवाच-"हे भगवन् ! अहं पुरा वः शय्यातरोऽभवम्, अधुना साधर्मिकोऽप्यस्मि, मां किं न निस्तारयसि ?"
ततो वज्रस्वामी शय्यातरस्योपालम्भगर्भितवचः श्रुत्वा लूनकेशं तं दृष्ट्वा-"ये साधर्मिकवात्सल्ये स्वाध्याये चरणेऽपि वा तीर्थप्रभावनायां वोद्युक्तास्तान् मुनिस्तारये"दित्यागमार्थं स्मृत्वा सोऽपि पटेऽध्यरोपि । विद्यापटोपविष्टा गच्छन्तस्ते सर्वे सपर्वत

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128