Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
भगवान् वज्रस्वाम्यपि पञ्चशतसङ्ख्यमुनिवृत्तो भव्यजनकुमुदचन्द्रो भुवं व्यहार्षीत् । महामुनिर्वज्रस्वामी विहारेण भुवं पुनानो यत्र यत्र जगाम तत्र तत्रेयं ख्यातिरभूत्- "अहो ! अस्य शीलमुज्ज्वलमस्ति, अहो ! अस्य श्रुतं लोकोत्तरमस्ति, अहो ! अस्य सौभाग्यं निर्मलस्ति, अहो ! अस्य लावण्यमद्भुतमस्ति" ।
***
२१२
इतश्च पाटलीपुत्रे महाधनो गुणगण श्रेष्ठो भुवि प्रख्यातो धनो नाम श्रेष्ठी बभूव । तस्य रूपवती रुक्मिणीनाम्नी कन्या रूपान्तरधारिणी रुक्मिणीव बभूव । तस्य श्रेष्ठिनो यानशालायां महामुनेः श्रीवज्रस्य विमलाशयाः साध्व्यो न्यवसन् । ता व्रतिन्यो वज्रस्य गुणानकीर्तयन्, यतो गुरूणां गुणकीर्तनं स्वाध्यायावश्यकतुल्यं भवति ।
तत्र रुक्मिणी वज्रमुनेस्तां तां सौभाग्यकथां श्रुत्वा वज्रमेव भर्तारमिच्छन्ती सैवं प्रत्यज्ञासीत् - "यदि मम भर्ता वज्रः स्यात् तदाऽहं भोगान् भोक्ष्ये, अन्यथा भोगैरलम्" । पतिं विना भोगैः किम् ?” तस्या वरयितारो ये केचिदुपतस्थिरे, सा तान् सर्वान् मुखपरावर्तननाटकेन प्रत्यषेधत् । प्रव्रजितास्तामूचुः - " हे रुक्मणि यदि त्वं वीतरागं प्रव्रजितं वज्रं वरीतुमिच्छसि तदा त्वं मुग्धाऽसि । रुक्मिण्युवाच - "हे साध्व्यः ! यदि वज्रः प्रव्रजितस्तदाऽहमपि प्रव्रजिष्यामि, तस्य या गतिर्ममाऽपि सैव गतिर्भविष्यति” ।
इतश्च धर्मदेशनाजलजलधरो भगवान् वज्रमुनिः पाटलीपुत्रनगरं विहारेण ययौ । तदा पाटलीपुत्रराज आयान्तं वज्रमुनिं श्रुत्वा तत्कालं सपरिवारो महीयस्यद्धयऽभिययौ । राजेतश्चेतश्च वज्रर्षेवृन्दीभूतांस्तप:श्रिया शोभमानान् महामुनीनागच्छतोऽपश्यत् । तान्
परिशिष्टपर्व द्वादशः सर्गः
दृष्ट्वा च व्यचिन्तयत्-"सर्वेऽमी कान्तिमन्तः सर्वेऽपि सुन्दराकाराः, सर्वेऽपि विकसन्मुखाः सर्वेऽपि प्रियंवदाः सर्वेऽपि करुणारससागराः सर्वेऽपि समताशालिनः सर्वेऽपि निर्ममाः, तदेतेषु को नाम वज्रस्वामी इत्यहं न जानामि चेत् तर्हि किं करोमि ? स एव भगवान् गच्छस्य नायकत्वात् प्रथमतो वन्दनीयः " ।
२१३
राजा क्षणं स्थित्वा महर्षीन् पप्रच्छ- "हे महर्षयः । भवन्तः कथयन्तु किं वज्रस्वाम्ययम् ? वा किमेषः ? किमसौ वा विराजते ?" मुनय ऊचु:- "हे राजन् ! वयं तु वज्रस्य शिष्याः स्मः त्वमस्मासु तं मा चिन्तय ? क्व सूर्यः क्व च खद्योता, एवं सर्वेषु मुनिसमाजेषु पृच्छन् राजा गणस्य पश्चात् स्थितं मोहगिरिवज्रं वज्रं ददर्श । अथ राजा किरीटरत्नकिरणजालैस्तत्पादौ स्नपयन्निव वज्राचार्यभट्टाकरं ववन्दे ।
अथ वज्राचार्यः सपरिवारो वृक्षच्छायाप्रतिश्रयमाश्रित्योद्याने समवससार । राजाऽपि निषद्यायामुपविष्टस्य वज्रमुनेश्चरणयुगलं सुगन्धिना यक्षकर्दमेनाऽचर्चयत् । ततो भगवान् वज्रस्वामी सुधामाधुरीमधरयन्त्या वाचा मोहध्वान्तध्वंसैकदीपिकां देशनामकरोत् ।
क्षीरास्रवलब्धिमतः श्रीवज्रस्वामिनस्तया धर्मदेशनया राजाऽपहृतचित्तो देशनावसाने वज्रमुनिं नत्वा स्वगृहं गत्वा राज्ञीरकथयत्-"हे सुभ्रुवः ! अहमद्य बाह्योद्याने स्थितं धर्मदेशनाक्षीरसमुद्रं वज्रस्वामिनं ववन्द । तं वन्दित्वा तस्य धर्मं श्रुत्वा च मम शरीरं नयनयुगलं श्रवणयुग्मं च कृतार्थतां प्रापुः । हे सुलोचना: ! इदमेव दिनं सुदिनं मन्ये, यस्मिन् वज्रमुनेर्ज्ञानसूर्यस्य दर्शनमभूत् ।

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128