Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२१०
परिशिष्टपर्व - द्वादशः सर्गः
२११
mmmmmmmmmmmmmmmmmmmmmmmmm
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः गुरोरपि दुर्भेदचिरसन्देहलोष्टमुद्गरीबभूव । गुरोर्हदि दृष्टिवादोऽपि यावन्मात्रोऽभूत् तावन्तं वज्रो जलचुलुकलीलया जग्राह ।
अन्यदा सपरिच्छदास्त आचार्या ग्रामाद् ग्रामं पुरात् पुरं विहरन्तो दशपुरं नाम पुरं जग्मुः । तदोज्जयिनीनगर्यां सम्पूर्णदशपूर्वभृदाचार्योऽभूत् । अथ तस्माद् दशपूर्व्यपि ग्राह्याऽस्ति । किन्तु येषामेकादशाङ्गीपाठोऽपि भृशं कष्टायते ते शिष्या दशपूर्वग्रहणे कथं शक्नुवन्तु । अथवा वज्रोऽस्त्येवाऽनया चिन्तयाऽलं, यतः स पदानुसारिलब्ध्या दृष्टप्रत्ययोऽस्ति, इति गुरुर्वज्रमादिशत्-“हे वत्स ! त्वमुज्जयिनी गच्छ, तत्र भद्रगुप्तगुरुमुखाद् दशपूर्वी पठ। अल्पमेधसः सर्वे, न समाः, अतोऽत्र न समर्थाः सन्ति । अत्राऽहमपि कुण्ठधीर्भवामि, त्वं दश पूर्वाणि पठित्वा मदाज्ञया शीघ्रमत्राऽऽगच्छ । सौम्यशासनदेवतास्तव सन्निहिताः सन्तु । हे वत्स ! यथा कूपाज्जलमुपवनसालेषु प्रसरति तथा दशपूर्वी त्वन्मुखाद् महर्षिषु प्रसरतु । एवं सिंहगिरिर्वज्रमवन्तीं गन्तुं स्थविरकल्पतयर्षिद्वयेन सहाऽऽदिशत् ।
वज्रः सिंहगिरेगुरोराज्ञां शेषामिव मूर्जाऽऽदाय भद्रगुप्तपादपूतामुज्जयिनी पुरीं क्यौ । वज्र उज्जयिनी पुरीं प्राप्ते भद्रगुप्ताचार्यः शुभे क्षणे स्वप्नं ददर्श यत्-"मम करात् क्षीरपूर्णपात्रमादाय कश्चिदागन्तुकोऽपिबत् स परमां तृप्तिं प्रापे"ति । गुरुः प्रभाते तं स्वप्नं शिष्येभ्य उवाच । तेऽपि यथाप्रज्ञं विविधमर्थं विचारयामासुः । गुरुरुवाच-"यूयं न जानीथ, कोऽप्यतिथिरागमिष्यति सुधीः सोऽर्थसहितं सर्वं श्रुतमस्मत्तः ग्रहीष्यति" ।
वज्रोऽपि नगरीद्वारे रात्रिमतिवाह्य प्रातःकाले भद्रगुप्ताचार्यवर्यप्रतिश्रयं ययौ । गुरुर्दूरतो वज्रं दृष्ट्वा समुद्रश्चन्द्रमिव परमया
मुदोल्लासं परं प्राप । आचार्योऽप्यचिन्तयत्-"अहो ! मम सौभाग्येनाऽस्य सन्निधिरभूत्, किमेनमहमालिङ्गामि ? किं वाऽङ्कमारोपयामि ?" महामुनिर्भद्रगुप्तः प्रसिद्धानुरूपां वज्रस्याऽऽकृति परिभाव्य वज्रोऽयमिति निश्चिकाय ।
अथ भद्रगुप्तो वन्दनाभिमुखं परिषस्वजे, यतो बलीयस्युत्कण्ठा विनयं न प्रतीक्षते । वज्रमुखपद्मे स्वनयने भ्रमरीकुर्वन् भद्रगुप्ताचार्यो वज्रमके समारोप्योवाच-"तव सुखविहारः कच्चित् ? हितं वाऽङ्गमनामयं कच्चित् ? तव तपो निर्विघ्नं कच्चित् ? तव गुरुः कुशली कच्चित् ? अथवा त्वं किञ्चित् कार्यमुद्दिश्य विहारक्रमत इहाऽऽगतोऽसि ? हे वज्रमुने ! इत्यस्मान् कथय प्रमोदय च" । वज्रः कृताञ्जलिर्भद्रगुप्तर्षि वन्दित्वा मुखकमलन्यस्तमुखवस्त्रिक उवाच-“हे महर्षयः ! पूज्यपादैर्यद्यत् सुखविहारादिकमपृच्छ्यत तत्तद् देवानां गुरूणां च प्रसादात् तथैवाऽस्ति । हे भगवन् ! अहं गुर्वादेशेन दश पूर्वाणि पठितुं त्वामागम, तन्मां वाचनाप्रदानेनाऽनुगृहाण" । ततो भद्रगुप्तस्तं दशपूर्वीमपाठयत् ।
अथ वज्रो गुरोरजनितक्लेशः सन् दशपूर्वी पपाठ । यत्राऽध्येतुमारब्धं तत्रैवाऽनुज्ञाऽपि ग्राह्येति सिंहगिरेः सकाशे गन्तुं वज्रश्चिन्तयामास । भद्रगुप्तं पृष्ट्वा वज्रः पुनरधीतदशपूर्वो गृहीतजलो मेघ इव दशपुरं जगाम । तदा सिंहगिरिर्गुरुर्दशपूर्वसमुद्रागस्तिमभ्यागतं वज्रमुनि पूर्वमन्वज्ञापयत् । वज्रस्य पूर्वानुज्ञायां जृम्भकदेवा दिव्यपुष्पवृष्टिभिरद्भुतं महिमानं चक्रुः । ततः सिंहगिर्याचार्यो गणं वज्रमुनेरर्पयित्वाऽन्न-पानादिकं प्रत्याख्याय कालं कृत्वा देवो बभूव ।

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128