Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - द्वादशः सर्गः
२०७
२०६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सुहृदो जृम्भका देवाः सत्त्वं परीक्षितुं तत्र वणिग्रूपाणि तदुचितावासांश्च विचक्रुः ।
ते देवा मेघे विरतप्राये तानाचार्यान् लघुवन्दनपुरस्सरं भिक्षार्थं न्यमन्त्रयन् । आचार्यवर्या वृष्टिं निवृत्तामिव ज्ञात्वा भिक्षामानेतुं विनयोज्ज्वलं वज्रमादिशन्, वज्रोऽप्यावश्यकी क्रियां विधाय द्वितीयमुनिना सार्धं मार्गे ईर्याशुद्धि चिन्तयन् भिक्षार्थं निर्ययौ । वज्रस्त्रसरेणुतुल्यानपि जलबिन्दून् पततो दृष्ट्वाऽप्कायविराधनाद् भीत: शीघ्रं न्यवर्तत । देवास्त्रसरेणुमात्रामपि तां जलवृष्टिं निरुध्य वृष्टिर्नास्तीतिभाषिणो वज्रमुनि पुनराह्वयन् ।
वज्रमुनिस्तदनुरोधेन वृष्टौ निवृत्तायामचलद् भक्त-पानादिशोभितं च देवावासं ययौ । तेषु देवेषु ससम्भ्रमेषु भक्त-पानादि दित्सुषु सत्सु वज्रमुनिर्द्रव्य-क्षेत्र-कालभावैरुपयोगं ददौ । असम्भवि कूष्माण्डकादिकं द्रव्यं कुतो राद्धम् ? यत इदमुज्जयिनीक्षेत्रं स्वभावादेव कठोरमस्ति । प्रथमवर्षास्वस्य द्रव्यस्य कथाऽपि का ? दातारोऽप्यनिमेषनेत्रा अभूमिस्पृक्पादा इति देवपिण्डोऽयं नियतं वर्ततेऽतोऽयं साधूनां न कल्पते, तस्मादगृहीतपिण्डोऽप्यहं गुरुसमीपं गच्छामि" । इति हेतोर्वज्रस्वामी देवभिक्षामगृहीत्वैव तदावासाद् निववृते ।
__ अथ देवा विस्मिताः प्रत्यक्षीभूयोचुः-“हे वज्रस्वामिन् ! वयं जृम्भका देवास्तव पूवभवसुहृदः स्मः, वयं त्वां द्रष्टुमिहाऽऽगताः स्मः । त्वमस्माकमद्याऽपि मित्रमसि । अथ तुष्टा देवा वज्रस्वामिने विहितमायाया निष्क्रयमिव वैक्रियलब्ध्याख्यां विद्यां ददुः । अन्यदा ज्येष्ठे मासि बहिर्भूमौ विहरन्तं वज्रस्वामिनं देवा नैगमीभूय
घृतपूरैय॑मन्त्रयन् । वज्रस्तदावासे गत्वा पूर्ववद् देवपिण्डं ज्ञात्वा नाऽग्रहीत्, यतः स उपयोगज्ञाताऽऽसीत् । अथ पुनस्तुष्टदेवा: पूर्वमित्राय वज्रायाऽऽकाशगामिनी विद्यां दत्त्वा स्वस्थानं जम्मुः ।
ततो गच्छमध्ये विहरतो वज्रस्य पदानुसारिलब्ध्याऽऽत्तैकादशाङ्गयपि सुस्थिराऽभूत् । भगवान् मेधाविशिरोमणिर्वज्रो यद्यत्पूर्वगताद्यप्यधीयमानं शुश्राव तत्तदग्रहीत् । यदा स्थविरा वज्रं प्रति पठेति जगदुस्तदा स निद्रालुरिव किञ्चिद्गुणगुणशब्दं चकार । स स्थविराज्ञाभङ्गभीरुः स्वशक्तिमप्रकाशयन्नव्यक्तं किञ्चिदुद्गिरन्नन्यान् पठतः शुश्राव ।
अन्येधुर्मध्याह्ने साधवो भिक्षार्थं जग्मुः । त आचार्यमिश्रा अपि बहिर्भूमौ निर्ययुः, तदा वज्र एकाकी वसतिरक्षकस्तस्थौ । स साधूनां मण्डलवत् वेष्टिकाः संनिवेशयामास । स तासां शिष्याणां मध्य आचार्य इवोपविश्य वर्षामेघशब्दो वाचनां दातुमारभत । पुनरागच्छन् गुरुरेकादशानामप्यङ्गानां पूर्वगतस्य च वाचनां दूरतोऽशृणोत् । वसतिद्वारमागत आचार्यो गहगहशब्दं श्रुत्वा साधवः कि शीघ्रमागता ? इत्यचिन्तयत् । अस्मदागमनं पालयन्तोऽमी महर्षयो भिक्षां गृहीत्वा समागताः स्वाध्यायं कुर्वन्ति ।
आचार्याश्च क्षणं स्थित्वा चाऽज्ञासिषुर्यत्-"एष शब्दो वाचनां ददतो वज्रबालमुनेरस्ति । असौ पूर्वगतस्यैकादशाङ्गया अपि वाचनां यस्माद्धेतोर्ददाति तस्माद् वयं विस्मयामहे किमसौ गर्भस्थोऽध्यगीष्ट ? अतोऽयं स्थविरैरध्याप्यमानोऽलसायते वा बाल्यात् पाठालस, इति ज्ञात्वा तत्पठनकाले वयमशिक्षयाम । असावस्मदाकर्णनाशङ्की लज्जितो न भवतु इति बुद्ध्या शिष्यगुणैर्हर्षपुलकिताङ्गस्ततोऽपससार ।

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128