Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 108
________________ परिशिष्टपर्व - द्वादशः सर्गः २०३ २०२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तथैतदपि विज्ञानमस्ति, किन्त्वीदृशी तप:शक्तिर्नाऽस्ति । उपदेशमात्रसिद्धे युष्मादृशामपि साध्ये विज्ञाने विस्मयं कृत्वा तापसान् मा श्रद्धत्त । यदि युष्माकं विश्वासो नाऽस्ति तर्हि स तापस आहूयताम् । गृहागतस्य पादौ प्रक्षालनीयौ पादुके अपि प्रक्षाल्ये" । ततः श्रावका मायां कृत्वा तापसं निमन्त्रयामासुः । स तापस एकस्य श्रावकस्य गृहे जनैः परिवृतः समाययौ । तदा सकुटुम्बोऽपि श्रावको भक्तिनाटकं दर्शयन् गृहद्वारमुपागतं तं तापसमुवाच-"हे भगवन् ! भवतः पादावहं प्रक्षालयामि, यतो ये त्वत्पादौ क्षालयन्ति ते आत्मानं क्षालयन्ति । तस्मादस्माननुकम्प्य त्वमेव निस्तारयितुमर्हसि, यतो महात्मानो भक्तिशालिनां भक्तिं न स्खलयन्ति" । अथ स श्रावकोऽनिच्छतोऽपि तस्य तापसस्योष्णजलेन पादौ पादुके च प्राक्षालयत् । स श्रावकस्तस्य तापसस्य पाद-पादुकाशौचं तथा चकार यथा लेपलेशोऽपि नीचेऽनुराग इव न तस्थौ । स श्रावकशिरोमणिर्महत्या सामग्या तं तापसमभोजयत्, यतो मिथ्यादृष्टयोऽपि कार्यवशात् पूजनीया भवन्ति । तेन लेपदूरीकरणेन दुर्मनायितस्तापसो भोजनास्वादं विगोपागमशङ्कया नाऽज्ञासीत् । जलस्तम्भकुतूहलदिदृक्षुलोकैर्वृतः कृतभोजन: स तापस: पुनरपि नदीतीरं ययौ । अल्पबुद्धिः स कोऽपि लेपाश्रयः स्यादिति मिथ्यासाहसं कृत्वा जले प्रविवेश । ___ तत: स तापसकुमारः कमण्डलुरिव बुडबुडशब्दं कुर्वन् नदीजलेऽब्रूडत्" । अनेन मायाविना वयं कियच्चिरं मोहिताः स्म:इति मिथ्यादृष्टीनामपि तदा मनो मलिनीबभूव । तदा जने दत्तताले तुमुलकारिणि च सति श्रुतस्कन्धपारङ्गता आचार्या अपि तत्र समाजग्मुः। ततः स्वस्य दर्शनस्य प्रभावनां चिकीर्षव आचार्या नदीमध्ये योगविशेष न्यक्षिपन् । महात्मनां धुर्य आचार्यवों हे पुत्र ! त्वमेहि यथा वयं तव परतटे यामः" इत्युवाच । ततस्तस्या नद्यास्तटद्वये मिलिते सपरिवार आचार्यः परतीरभूमिं जगाम । ततः सर्वे तापसा आचार्यदर्शितं तमतिशयं दृष्ट्वा वैराग्यं प्रापुः । तथा सर्वो जनस्तद्भक्तो बभूव । अथ मथितमिथ्यात्वाः सर्वे तापसा आर्यशमिताचार्यस्य पार्वे प्रवव्रजुः । ते ब्रह्मद्वीपवास्तव्यतया तदन्वये ब्रह्मद्वीपिकनामान आगमोदिताः श्रमणा अजायन्त । इतश्च तत्रस्थो वज्रो यदा त्रिवर्षोऽभूत् तदा तत्र धनगिर्यादयः साधव आगमन् । “यदा धनगिरिरागमिष्यति तदा स्वं पुत्रमहं ग्रहीष्यामि" इति चिन्तयन्ती सुनन्दा तेषु समागतेषु मुमुदे । सुनन्दाऽपि महर्षिभ्य: स्वपुत्रं ययाचे, ते पुनर्न ददुः, प्रत्युतेदृशं प्रत्यूचुः-“हे मुग्धे ! अयं बालकस्त्वयाऽस्मभ्यमयाचितोऽदायि । तदा दत्तं वान्तान्नमिव कः पुनर्ग्रहीतुं काङ्क्षति ? दत्तेषु वस्तुषु विक्रीतेष्विव स्वामित्वमगच्छति । अतस्त्वं सुतं दत्त्वा न याचस्व, यतस्त्वयाऽयं बालः पराधीनीकृतः" । उभयोः पक्षयोरेवमुच्चैर्विवदमानयोर्लोक एवमवादीत्-"अमुं विवादं राजा निश्चेष्यति" । ___ तत: सुनन्दा लोकयुता राजसभायां जगाम । ते श्रमणा अपि सङ्ग्रेन सह ययुः । तत्र सुनन्दा राज्ञो वामभागेनोपविवेश । श्रीमान् सर्वः सङ्घो राज्ञो दक्षिणपार्वे न्यसीदत् । अपरेऽपि यथास्थानमस्थुः । राजा द्वयोर्वचनं परिभाव्य जगाद-"अयं बालो येनाऽऽहूतो यस्य पार्वे समायाति तस्याऽसौ भवतु" । तं निर्णयमुभावपि पक्षौ स्वीच

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128