Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१९८ Annannnnnnnnnnnnnnnnnnnnnnnnnnnnnnn
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः आर्यशमितनामा भ्राता सिंहगिरिसूरिपादपावें प्रागेव परिव्रज्यामग्रहीत् । अन्यदा ब्रह्मबुद्धिरपि धनगिरि ऋतुस्नातां सुनन्दामुपबुभुजे, यतो भोगफलं कर्माऽन्यथा न भवति ।
इतश्च गौतमस्वामिनाऽष्टापदगिरौ प्ररूपितं पुण्डरीकाध्ययनं येन वैश्रमणसामानिकदेवेनाऽवधारितं स एव देवस्तदा सुनन्दोदरे स्वर्गात् प्रच्युत्याऽवातरत् । विमलमतिर्धनगिरिस्तां गर्भवतीं ज्ञात्वा"एष ते गर्भोऽनुपमो भविता, अहं प्रव्रजामि, त्वया सह ममाऽनभिमत एव सम्बन्धोऽभवत्, अतः परं परिव्रज्यैव ममाऽतिप्रिया, तव पुनः कल्याणं भूयात्" । इत्युक्त्वा भाटकगृहीतकुटीरमिव तां विहाय सिंहगिरिगुरुपायें परिव्रज्यामग्रहीत् । अथ स द्वाविंशति परिषहान् सहमानः स्वदेहेऽपि निरीहोऽतिदुस्तपं तपश्चकार; स स्थैर्या-ऽऽर्जवविनयादिशिष्यगुणयुतो गुरुपार्थात् कूपाज्जलमिव शास्त्रतत्त्वं जग्राह ।
ततः सुनन्दाऽपि नवमास्यां व्यतीतायां सत्यां जनानन्दं पुत्रं सरसी कमलमिव जनयामास । सूतिकागारे प्रतिजागरणार्थमागताः सुनन्दायाः प्रियाः स्त्रियस्तं बालमिदमूचुः-“हे जात ! यदि तव पितोत्कण्ठितः सन् न प्राव्रजिष्यत् तदा जातकर्मोत्सवोऽतिमहानभविष्यत् खलु । स्त्रीजने सत्यपि पति विना गृहं न शोभते, यथा बह्वीभिस्ताराभिश्चन्द्रं विनाऽऽकाशमण्डलं न राजते" ।
स बालोऽपि ज्ञानावरणलाघवात् संज्ञावांस्तासां संलापं समाहितः शुश्राव, अचिन्तयच्च-"मम पिता परिव्रज्यां जग्राह" । एवं चिन्तयन्नेव स बालो जातिस्मरणं प्राप । सजातजातिस्मरणः स बाल: संसारस्य नि:सारतां जानन् क्षीरकण्ठोऽपि पितृमार्गे पथिकतामैच्छत् । मम माता कथमुद्विज्य मां त्यक्ष्यतीति विचिन्त्य
परिशिष्टपर्व - द्वादशः सर्गः मातृक्रोडस्थोऽपि रात्रिन्दिवं महातारस्वरेण रुरोद । रागमधुरगानैः क्रीडनकदर्शनैर्वस्त्रदोलान्दोलनाभिश्चाटुवचनैः क्रोडनृत्यलीलाभिमुखातोद्यवादनैः शिरश्चुम्बनेनाऽपि च स रोदनाद् न विशश्राम । एवं रुदतस्तस्य षण्मासी व्यतिगता । सुनन्दाऽपि तेन पुत्रेण वैराग्यमाप ।
अन्यदा धनगिर्यार्यशमितादिशिष्ययुतः सिंहगिरिस्तस्याः सुनन्दायाः पुरे समायात् । ततो धनगिर्यार्यशमितौ स्थितं सिंहगिरि गुरुं नत्वा विज्ञापयामासतुः-“हे भगवन् ! अस्मिन् संनिवेशने आवयोः स्वजनाः सन्ति, तद्भवतां नियोगेन तान् वन्दयितुं प्रेरयावः" । तयोरेवं पृच्छतोस्तत्त्वविदां वरः सिंहगिरिः शुभसूचकं शकुनं दृष्ट्वोवाच । अद्य युवयोमहाल्लाभो भावी, अद्य युवां मुनी सचित्तमचित्तं वा प्राप्नुयातं तन्ममाऽऽज्ञया गृह्णीयातम्" ।
अथ तौ श्रमणौ सुनन्दागृहं जग्मतुः । अन्यस्त्रीभिस्तद्वारि समायातौ तौ मुनी सुनन्दाया निवेदितौ । सर्वाः स्त्रिय ऊचुः-"हे सुनन्दे ! त्वयाऽयं पुत्रो धनगिरेः समर्पणीयः, 'एष क्व नेष्यति' इति दृश्यताम्" । दुःखिता सा सुनन्दाऽपि तं स्तनन्धयं बालं गृहीत्वा तेन पुत्रेण निर्वेदिता धनगिरि प्रत्युवाच-“हे भगवन् ! एतावत्कालपर्यन्तमयं बालक आत्मवद् मया रक्षितः, अनेनाऽहं तु नटिताऽस्मि, अयं दिवानिशमुच्चै रोदिति । यद्यपि त्वं प्रव्रजितोऽसि तथाऽप्येनं स्वपुत्रं गृहाण । मामिवैनं सम्प्रति न त्यज" । वदतां वरो धनगिरिरपि स्मित्वोवाच-“हे कल्याणि ! अहं तव पुत्र रक्षिष्यामि परन्तु त्वं पश्चात्तापं प्राप्स्यसि, एवं सर्वथा न कुरु, यदि करोषि तहि विचार्य साक्षिणां समक्षं कुरु । पुनस्त्वमिमं बालकं न प्राप्स्यसि" ।
तत: सुनन्दा साक्षिणः कृत्वा सविषादं धनगिरये पुत्रं समर्पयामास । सोऽपि तं जग्राह । स बालको धनगिरिणा पात्रबन्धे

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128