Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
आर्यमिश्रा ऊचुः - "हे बालक ! त्वं सुकुमारोऽसि, यतो लोहचणकाः सुखदा, वह्नयोऽपि सुस्पर्शाः परं च जिनप्रणीतमतीचारवर्जितं तपो दुष्करमस्ति" । भद्रापुत्रोऽप्युवाच - "अहमतिशयितं प्रव्रज्योत्कण्ठितोऽस्मि । सामाचारीं चिरतरं पालयितुं न शक्नोमि, तस्मादादावेवाऽनशनपुरस्सरं सत्त्वमालम्ब्य परिव्रज्यां ग्रहीष्यामि । इदं कष्टमल्पं खलु” । गुरुरुवाच "हे महाभाग ! यदि त्वं परिव्रज्यां जिघृक्षसि तह कर्मणि स्वबन्धूननुज्ञापय" । ततः स गृहं गत्वा कृताञ्जलिर्निजान् बन्धून् पप्रच्छ, परं च ते नाऽऽज्ञापयन् ।
१९४
ततो भद्रासुतः स्वयं केशांस्तत्रैवोदखनत् गृहपराङ्मुखः स साधुलिङ्गं च जग्राह । अथ स्वशरीरेऽपि निर्ममस्तादृग्रूपः स सुहस्त्याचार्यपार्श्वं जगाम । सुहस्त्यपि स्वयमेव गृहीतसाधुलिङ्गो मा भूदिति प्रव्रज्याविधिमुच्चरंस्तं परिव्राजयामास । चिरकालं तप:कष्टनिर्जरां कर्तुमसमर्थः स गुरून् पृष्ट्वाऽनशनं चिकीर्षुरन्यत्र ययौ । गच्छन् च सः सुकुमालपदद्वयाद् निःसरच्छोणितबिन्दुभिः पृथ्वीं सेन्द्रगोपामिव चकार । स स्थाने स्थाने चिताभस्म धूसरीकृतधरातलं यमस्य क्रीडास्थानमिव श्मशानं ययौ । स समाहितः पञ्चपरमेष्ठिनमस्कारं स्मरन्ननशनेन कन्थारिकाकुडङ्गस्य मध्येऽतिष्ठत् । शोणितस्रावयुतानि तस्य पदानि लिहाना काऽपि सबाला जम्बुकी तस्मिन् प्रदेशे समाजगाम ।
अथ सशिशुर्जम्बुकी महता तत्पादप्रक्षरच्छोणितपङ्कगन्धेन कन्थारिकावनमध्ये प्राविशत् । शोधयन्ती च सा रात्रेः प्रथमप्रहरे तत्पादं शोणितपिच्छलं प्राप । यमसोदरेव तं भोक्तुमारेभे, सा चटच्चटिति चर्म त्रटनटिति मांसं धगद्धगिति मेदः कटक्कटित्यस्थि
परिशिष्टपर्व एकादशः सर्गः
भक्षयन्ती तस्यैकं पादं निरशेषयत् । अपरं पादं च जम्बुकीशिशवश्चखादुः । तथाऽपि स नाऽकम्पत, प्रत्युत सात्त्विकः स तां पादभोक्त्रीं जम्बुकीं पादसंवाहिकामिवाऽमन्यत । एवं सा रात्रिद्वितीयप्रहरे तस्योरू अखादत् । स जीवोऽयं सम्यक् तृप्यत्विति दयां चकार । सा जम्बुकी रात्रितृतीययामे तस्य तुन्दं चखाद । स व्यचारयत्" एषा तुन्दं न मथति, किन्तु मम कर्म" । रात्रेश्चतुर्थे प्रहरे स महासत्त्व मृत्वा नलिनीगुल्मे विमाने महर्द्धिर्देवो बभूव ।
१९५
अथ सुरगणोऽयं महासत्त्वो महानुभावो वन्दनीयोऽस्तीति तच्छरीरस्य तदा महिमानं चकार । अवन्तिसुकुमालमपश्यन्त्यस्तद्भार्याः सुहस्तिनं पप्रच्छु:- "हे भगवन् ! अस्मत्पतिः कथमभूत् तदाख्याहि” । तदा सुहस्त्यप्युपयोगेन तस्य तथाभूतं ज्ञात्वा ताभ्यो मधुरवाचोवाच । अथ ता गृहं गत्वा भद्रायाः पार्श्वे सर्वं तं वृत्तान्तमूचुः ।
अथ सा भद्रा तन्माता रात्र्यतिगमे कन्थारीवनयुक्ते श्मशाने ययौ । सा नैऋत्यां दिश्याकृष्टं पुत्रशरीरं दृष्ट्वा बाष्पच्छलतो जलदानोद्यतेव रुरोद । स्नुषाभिः सहिता रुदती भद्रा विललाप" किमस्मानिव प्राणानपि किं तत्यजिथ ? हे वत्स ! प्रव्रजितोऽपि त्वमेकस्मिन्नपि दिने विहारेण मम गृहाङ्गणं किं न भूषयामासिथ ? अतः परं का कल्याणी रात्रिर्भविष्यति या त्वां स्वप्ने दर्शयित्वाऽस्मान् सञ्जीवयिष्यति । यदि व्रतेच्छया निर्मोहीभूयाऽस्मानत्यजस्तत्किं गुरुष्वपि निर्मोहोऽभूः, यत्तेऽपि त्वया त्यक्ताः " । भद्रैवं बहुतरं विलप्य रुदती शिप्रानदीतीरे तस्य समयोचितमौर्ध्वदेहिकं कर्म चकार । तस्य स्त्रियोऽपि विलापं शिप्रानद्यां क्लिन्नवस्त्राः शङ्ङ्खोद्धरणं चक्रिरे ।

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128