Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - एकादशः सर्गः
१९०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः आरात्रिकं ज्वलच्छिखं दीप्यमानौषधीसमूहशैलशृङ्गविडम्बकं श्राद्धैश्चक्रे।
अथ तैः परमार्हतैः श्रीमन्तमर्हन्तं वन्दित्वा रथ्यैरिवाऽग्रतोभूय रथः स्वयमाचकृषे । नागरीभिरारब्धसहल्लीसकरासकश्चतुर्विधातोद्यवादाभिरामप्रेक्षणीयकः, परितः श्राविकाजनगीयमानबहुमङ्गलः, प्रत्यढें प्रतिमन्दिरं विविधपूजां गृह्णन्, विविधैः कुङ्कमजलैरभिषिक्ताग्रभूतलो रथ: शनैः शनैः सम्प्रतिराजस्य गृहद्वारमाजगाम ।
अथ सम्प्रतिराजोऽपि रथपूजनार्थमुत्सुकः पनसफलवत् सर्वाङ्गोत्पन्नकण्टक आजगाम । नवीनानन्दसरोहंसो राजा रथाभिरूढां जिनप्रतिमामष्टविधपूजयाऽपूजयत् । तदैव च सर्वान् सामन्तानाहूयसम्यक्त्वं ग्राहयित्वैवमादिशत्-“हे सामन्ताः ! यूयं यदिमां स्वामिनं मन्यध्वे तहि सुविहितश्रमणानामुपासका भवत । हे सामन्ताः ! युष्मद्दत्तैर्द्रव्यैरपि मे किमपि प्रयोजनं नाऽस्ति । एवं कृते सति मम प्रियं भवति । स एवमादिश्य सामन्तान् स्वस्वदेशे व्यसर्जयत् । ते गत्वा स्वामिभक्त्या श्रमणानुपासत । रथयात्रां प्रावर्तयन्, तथा तत्राऽनुगमनं रथाग्रे पुष्पवर्षणं चैत्यपूजां च ते व्यधुः । इत्यादि श्रावकाचारं ते सर्वे तथा चक्रुस्तथा प्रान्तदेशा अपि साधुविहारयोग्या बभूवुः।
अन्यदा निशीथे सम्प्रतिनृपश्चिन्तयामास-"अहमनार्येष्वपि देशेषु साधूनां विहारं प्रवर्तयामि" | तस्मादनार्यान् राजाऽऽदिदेश"अस्मत्पुरुषा यथा यथा मार्गयन्ति तथा तथा मम करं दद्ध्वम्" । ततो राजाऽनार्येषु साधुवेषिणो नरान् प्रेषयामास । सम्प्रत्याज्ञया तेऽनार्यानेवं भृशमन्वशिषन्-"अहो ! एभिरेभिर्द्विचत्वारिंशता दोषै
रहितं वस्त्र-पानादिकमस्मभ्यं दातव्यम्, इदमिदमध्येतव्यं च । ततो युष्मासु सम्प्रतिराजः सन्तुष्टो भविष्यति, अन्यथा कोपिष्यति" । ततः सम्प्रतिनृपस्य तुष्ट्यर्थमुत्सुकास्ते तत्पुरुषादिष्टं दिने दिनेऽकार्युः । एवमनार्येषु साधुयोग्याचारदक्षेषु कृतेषु सत्सु सम्प्रतिनृपो गुरुं विज्ञपयामास-“हे भगवन् ! एते श्रमणा आर्यदेशेष्विवाऽनार्यदेशेषु कुतो न विहरन्ति ?"
तत: सूरय ऊचु:-"राजन् ! ज्ञान-दर्शन-चारित्राण्यनार्यदेशेषु न प्रसरन्ति" । राजोवाच-"भगवन् ! साम्प्रतमनार्येष्वपि श्रमणान् प्रेष्य तेषामाचारकुशलतां जानीध्वम् । एवं राज्ञोऽत्याग्रहवशादाचार्य: कांश्चित् साधून् अन्ध-द्रमिलादिषु देशेषु विहर्तुमाज्ञापयामास । अनार्यास्तान् साधून् दृष्ट्वा सम्प्रतिनृपस्येमे पुरुषा इति ज्ञात्वा पूर्वशिक्षया तेभ्यो मुनिकल्प्यं भक्त-पानादिकं ददुः । साधवोऽनार्येष्वपि निरवद्यं श्रावकत्वं दृष्ट्वा विस्मिताः सन्त: स्वगुरवे पुनरूचुः । ___ एवं सम्प्रतिनृपो बुद्धिगर्भया स्वशक्त्याऽनार्यानपि देशान् साधुविहारयोग्यानकरोत् । राजा बीभत्सं स्वपूर्वजन्मरङ्कत्वं स्मरन् चतुर्वपि पुरद्वारेषु महासत्राणि कारयामास । अयं निजोऽयं पर इत्यपेक्षाविवर्जितं सर्वे भोजनार्थिनस्तत्राऽनिवारितं भोजनं लेभिरे । बुभुक्षुषु भुक्तवस्तु यदन्नाद्यवशिष्टमभूत् तत् पाचका विभज्याऽग्रहीषुः । राज्ञा कोऽवशिष्टान्नादि गृह्णातीति पृष्टा: पाचका ऊचुः-राजन् ! वयं गृह्णीमः" ।
राजा तानादिशत्-"यदन्नमवशिष्यते तदकृताकारिताथिभ्यः साधुभ्यो युष्माभिर्देयम् । अहं युष्मभ्यं द्रव्यं दास्यामि, तेन यूयं

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128