Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 101
________________ परिशिष्टपर्व - एकादशः सर्गः १८९ नृणां परलोके स्वर्गोऽपवर्गो वा भवेत् । इह लोके पुनः हस्तिघोटक-कोशादय उत्तरोत्तराः सम्पदः स्युः । १८८ त्रिषष्टिालाकापुरुषचरितम्-गद्यात्मकसारोद्धारः साधव ऊचुः-"गुरवः खलु जानन्ति, वयं गुरुपराधीना किञ्चिदपि दातुं न शक्नुमः" । __ततः स रङ्कः साधूनां पश्चादेव वसति जगाम । तत्र दीनात्माऽस्मान् दृष्ट्वा भोजनमयाचत । साधव ऊचु:-"भगवन् ! अनेन दीनमूर्तिना मार्गे वयमुच्चैर्भोजनं याचिताः । उपयोगपरायणैरस्माभिरेवं ज्ञातं यदयं रङ्को भवान्तरे प्रवचनाधारो भावी । तत: स रङ्कोऽस्माभिः सप्रेम कथित:-"यदि परिव्रज्यां गृह्णासि तदा भोजनं लभसे"। रकोऽपि चिन्तयामास-"अहमग्रेऽपि सर्वकष्टमयोऽभूवं, तस्माच्छ्रेय इष्टभोजनलाभकरं व्रतजं कष्टम्" । ततः परिव्रज्यां स्वीकृतवन्तं रक्षं तदैव प्रव्राज्येष्टं मोदकादि यथारुच्यभोजयम् । स स्वादुमाहारं स्वादं स्वाद तथा बुभुजे यथा श्वासपवनस्याऽपि मार्गो दुःसञ्चरोऽभूत् । स तद्दिनस्यैव रात्रौ तेनाऽतिपुष्कलेनाऽऽहारेण रुद्धश्वासो विपन्नः, यतः प्राणिनः श्वासजीवा भवन्ति । स रङ्कसाधुर्मध्यस्थभावेन स्थितो मृत्वाऽवन्तिराजस्य कुणालस्य पुत्रस्त्वमुदपद्यथाः" । राजा पुन: सुहस्तिनं विज्ञपयामास-“हे भगवन् ! अहं त्वत्प्रसादेनेमां पदवी प्राप्तोऽस्मि । यदि त्वयाऽहं प्रवाजितो न स्यां तदाऽस्पृष्टजिनधर्मस्य मे का गति: स्यात् ? तस्मादादिश, किमहं करोमि, पूर्वजन्मोपकारिणां युष्माकमहमनृणो न भवामि । अस्मिन्नपि जन्मनि पूर्वजन्मनीव यूयं मे गुरवः सन्ति । अतो धर्मपुत्रं मां कर्तव्यशिक्षयाऽनृगृह्णीत । कृपालुरार्यसुहस्ती भगवान् नृपमादिशत्"राजन् ! इह परत्र च कल्याणाय जिनधर्म स्वीकुरु, अर्हद्धर्मवतां अथ राजा सुहस्त्याज्ञया तदग्रेऽभ्यग्रहीत्-"अर्हन् देवः, साधुर्गुरुः, अर्हतो वचनं प्रमाणम्" । सम्प्रतिस्तत्प्रभृति अणुव्रतगुणव्रत-शिक्षाव्रतपवित्रित: प्रधानश्रावको बभूव । अवन्ध्यश्रीः स त्रिसन्ध्यमपि जिनमानर्च । साधर्मिकेषु बन्धुष्विव वात्सल्यं चकार । जीवदयातरङ्गितमनाः स सुधीरवदानरतो दीनेभ्योऽभ्यधिकं दानं ददौ । आवैताढ्यं प्रतापी निर्विकारधीः स त्रिखण्डं भरतक्षेत्रं जिनमन्दिरभूषितं चकार । अन्यस्मिन् वर्षेऽवन्त्यामेव वसतां सुहस्त्याचार्यपादानां सतां चैत्ययात्रोत्सवं सङ्घश्चकार । भगवान् सुहस्त्याचार्यः सङ्घसहितश्चैत्ययात्रायां मण्डपं नित्यमलञ्चकार । स सम्प्रतिराजः कृताञ्जलिः सुहस्तिस्वामिनः शिष्यपरमाणुरिवाऽग्रे नित्यमुपविवेश । सङ्घो यात्रोत्सवावसाने रथयात्रां प्रारेभे । यतो यात्रोत्सवो रथयात्रया सम्पूर्णो भवति । अथ स्वर्ण-माणिक्यद्युतिद्योतितदिङ्मुखो रथो दिवाकररथ इव रथशालातो निःससार । विधिज्ञैः श्रावकै रथस्थाया अर्हत्प्रतिमाया महद्धिभिः स्नात्रपूजादि प्रारेभे । अर्हत: स्नात्रे सति स्नात्रजलं रथात् पूर्वं जन्मकल्याणके सुमेरुशिखरादिव निपपात । वक्त्राहितवस्त्रैः श्राद्धैः सुगन्धिभिर्द्रव्यैः प्रतिमाया विलेपनं स्वामिविज्ञीप्सुभिरिव चक्रे । अर्हतः प्रतिमा मालती-कमलादिमालाभिः पूजिता सती शारदमेधैर्वृता इन्दुकलेवाऽभात् ? पुनरर्हतः प्रतिमा दह्यमानागरूत्थाभिधूमराजिभिरावृता नीलवस्त्रैः पूजितेव शुशुभे । जिनपूजाया

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128