Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१८४ Anamnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तस्माद् नूनमस्य स्तम्भस्याऽधो निधि: सम्भाव्यते' इति मत्वा स्तम्भमूलं खानयामास । तत्र पुष्कलं तत्पुण्यमिव द्रव्यमाविर्बभूव । तेन धनेन च स कुबेरतुल्योऽभूत् । स्थूलभद्रप्रसादोऽयमिति च न व्यस्मरत् । अन्यदा स वन्दनीयस्योपकारिणो मित्रस्य स्थूलभद्रमुनीश्वरस्य वन्दनाय पाटलीपुत्रनगरं ययौ । तत्र चोपाश्रये गत्वा सपरीवारं महामुनि स्थूलभद्रं ववन्दे । कृताञ्जलिरुवाच च-"हे भगवन् ! त्वत्प्रसादेनाऽहं दारिद्र्यसागरं तीर्णवानस्मि, त्वत्प्रसादस्याऽनृणो न भवामि; त्वं मे गुरुः स्वामी च, तदादिश किं करोमि ?"
त्वमार्हतो भूया इति स्थूलभद्रेणोक्तः "ओम्" इत्युक्त्वा स पुन: स्वस्थानमाजगाम । तेन च महामुनिना द्वौ शिष्यौ दीक्षितौ-एक आर्यमहागिरिनामा, द्वितीयश्चाऽऽर्यसुहस्तिनामा च, यक्षार्यया बाल्यात् पालितावित्यार्योपपदौ जातौ । तौ खड्गधारेव तीव्रमतीचारवर्जितं व्रतं परीषहेभ्यो निर्भीको पालयामासतुः । तौ महाप्रज्ञौ स्थूलभद्रपादकमलसेवाभृङ्गौ साङ्गानि दश पूर्वाण्यधिजगाते । ततः स्थूलभद्राचार्यः शान्तौ दान्तौ लब्धिमन्तावायुष्मन्तौ वाग्मिनी दृढभक्ती च तौ स्वाचार्यपदे न्यस्य कालं कृत्वा देवत्वं प्राप ।। १०॥
इति परिशिष्टपर्वणि आर्यमहागिर्यार्यसुहस्तिदीक्षास्थूलभद्रस्वर्गगमनवर्णनात्मकः दशमः सर्गः ॥१०॥
एकादशः सर्गः आर्यमहागिर्यार्यसुहस्तिनोवृत्तान्तः अथ महागिरि-सुहस्तिनौ भविकान् जनाननुगृह्णन्तौ धर्म दिशन्तौ भुवं विजहूतुः । तत्र जगद्वन्धुर्महागिरिभगवान् कालक्रमेण वाचनाभिरनेकाञ्छिष्यानकार्षीत् । अन्यदा सः स्वगच्छं सुहस्तिने समार्पयत्, स्वयं तु जिनकल्पेन विहर्तुमेकचित्तो बभूव । तदानीं जिनकल्पस्य व्युच्छेदाद् गच्छनिश्रास्थितोऽपि स जिनकल्पोचितया वृत्त्या व्यहार्षीत् । अन्यदा ते महाशया धर्मदेशनाजलं मेघा इव वर्षन्त: पाटलीपुत्रनगरं ययुः । तत्र वसुभूतिनामा श्रेष्ठी श्रीमता सुहस्तिना बोधितः सन् जीवा-ऽजीवादितत्त्वविद् श्रावको बभूव । वसुभूतिरहोरात्रं सुहस्त्युपदिष्टधर्मानुवादेन स्वपरिवारानपि प्रबोधयितुमारभत । वसुभूतिना सादरं प्रबोध्यमाना अपि ते मन्दमतयो धर्माचार्य विना न बुबुधिरे ।
ततो वसुभूतिर्गुरुमुवाच-“हे भगवन् ! मया स्वजना बोधयितुं न पारिता अतस्त्वमेव तान् बोधयितुमर्हसि" इति सुहस्तिस्वामी तान् बोधयितुं वसुभूतिगृहं जगाम । तत्र सुधानदीसमानां धर्मदेशनां प्रारेभे । तदाऽऽर्यमहागिरिस्तत्र भिक्षार्थं प्राविशत् । सुहस्त्याचार्यस्तमभ्युत्थायाऽवन्दत । ततो वसुभूतिश्रेष्ठी जगाद- "हे भगवन्तः

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128