Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 98
________________ परिशिष्टपर्व - दशमः सर्गः १८३ दशमः सर्गः स्थूलभद्र-धनदेवयोवृत्तान्तः अथाऽन्यदा स्थूलभद्राचार्यः श्रावस्त्यां नगर्यां ययौ । ऋषिभिरावृत: स बाह्योद्याने समवससार । तस्मिन्नुद्याने श्रावस्तीस्थः सर्वो लोकस्तं विवन्दिषुर्हर्षोत्साहयुत आययौ । तदा जगन्मङ्गलकरो भगवान् स्थूलभद्रोऽपि सुधासारमधुरां धर्मदेशनां चकार । तत्रत्यं धनदेवनामानं स्वसुहृदमनागतं विज्ञायैवं दध्यौ-"मम प्रियमित्रं धनदेवोऽत्र नाऽस्ति, अन्यथा सर्वः पौरो लोक आगमत्, स पुन: स्नेह्यपि नाऽऽगमत् । स देशान्तरं गतो ग्लानो वा भवेदिति स्वयं तद्गृहं यामि । स विशेषतोऽनुकम्पनीयो वर्तते" । इति निश्चित्य तस्मादुद्यानात् धनदेवस्य गृहेऽभिमुखैर्वन्दारुभिर्वन्धमानचरणकमलः, सहर्ष नागराङ्गनागीयमानतपोगुणः, श्रीमतां भक्तानां छत्रैमण्डपाध:स्थित इव, उद्घाटिकवृन्तकमलवद् विवलत्कन्धरमुखैरग्रगामिभिः श्राद्धजनैर्दृश्यमानमुखकमलः, पदे पदे नगरीमध्यस्थचैत्यानि वन्दमानो जगाम । जङ्गमकल्पवृक्ष इव भगवांस्तत्र प्रविवेश । धनदेवगृहनिवासिन्या धनेश्वर्या स दृष्टः । प्रशस्तबुद्धिर्धनेश्वरी सद्य आसनादुत्थाय भूतलन्यस्तमस्तका स्थूलभद्रमुनिवरं ववन्दे । ततः सा तस्मै श्रेष्ठासनमदापयत् । यतः सतां भक्त्यनुसारेण गुरौ प्रतिपत्तयः सजायन्ते । भगवानपि तदासनं प्रतिलिख्याऽलञ्चकार । अथ स धनेश्वरीं धर्मक्षणनिर्वाहवृत्तान्तेनाऽनुकम्पयामास । ततः प्रतिप्रवासदुःखितां धनेश्वरीं स पप्रच्छ- "हे भावसारे ! किं ते पतिर्धनदेवो न दृश्यते?" ततो धनेश्वरीदमुवाच-“हे भगवन् ! मम पतिर्गृहस्थितं बहिःस्थितं च सर्वं धनं व्ययते स्म । सोऽर्थहीनोऽस्मिन्नेव पुरे तृणादपि लघुरभूत्, यतः शरीरिणामाः सर्वत्र पूज्यन्ते, किन्तु शरीराणि न । स पूर्वपुरुषनिधीनन्वेषयन्नपि न प्राप । यतो भाग्यहीनस्य समीपस्थाऽपि लक्ष्मी-पान्तरस्थेव भवति । स वणिग् व्यापारेण द्रव्योपार्जनेच्छया देशान्तरं जगाम; यतो व्यवसायिनां को विदेशो भवति ?" अथ कृपानिधिः सूरिः श्रुतबलेन तद्गृहे निधिस्थानं ज्ञात्वा तस्यै वक्तुं चिन्तयामास । धर्मोपदेशच्छलेन च हस्तचेष्टयाऽध:स्थितनिधि स्तम्भं तस्यै प्रदर्शयन् प्रोवाच-"अयि ! संसारस्वरूपं पश्य कीदृशं, तव गृहमीदृक्, तच्च भर्तुर्वाणिज्यं तादृशमस्ति" । भगवान् धनेश्वर्या मुहुर्मुहुरेवं कथयित्वाऽऽर्हतं धर्मं प्रभावयन्नन्यत्र विहर्तुं जगाम । ततो धनदेवो लाभोदयकर्महीनो यादृग् गतस्तादृगेव वस्त्रैः पुनरागमत् । धनेश्वरी स्थूलभद्रागमनवृत्तान्तं तमकथयत् । सोऽपि सहर्षं तां पप्रच्छ "भगवान् किमकथयत् ?" साऽप्युवाच"अस्य स्तम्भस्याऽभिमुखहस्ताभिनयपूर्वकं स्थूलभद्रेण धर्मदेशना विहिता । धनदेवोऽपीदं दध्यौ-"ज्ञानसागरस्य तस्याऽभिप्रायरहिता चेष्टा कदाऽपि न भवति-'यत् स्तम्भमुद्दिश्य हस्ताभिनयो मुहुर्विदधे

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128