Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
नेपालमार्गस्थं भद्रबाहुं पूर्वधरं ज्ञात्वा तमाह्वातुं द्वौ मुनी प्रैषीत् । तौ मुनी तत्र गत्वा कृताञ्जली इत्यूचतुः - "हे महाराजा: ! युष्मान् सङ्घस्तत्राऽऽगमनहेतवे समादिशति" ।
१७८
सोऽप्युवाच - "हे मुनी ! मया यस्माद् महाप्राणं ध्यानमारब्धमस्ति तद् द्वादशभिर्वर्षैः साध्यमित्यहं नाऽऽगमिष्यामि । महाप्राणे निष्पन्नेऽन्यस्मिन् कार्ये कस्मिश्चिदागते सति मुहूर्तमात्रेण सूत्राऽर्थाभ्यां सम्पूर्णानि पूर्वाणि गुण्यन्ते । अथ तौ मुनी ततो निवृत्य गत्वा भद्रबाहूक्तं सङ्घायोचतुः । सङ्घोऽप्यन्यौ द्वौ मुनी आहूया - ऽऽदिशत् - " हे मुनी ! युवाभ्यां तत्र गत्वाऽऽचार्यो वाच्यः- “यः श्रीसङ्घस्य शासनं न करोति तस्य को दण्डो भवेदिति" । यदा स 'सङ्घबाह्यः स कर्तव्य' इति वदेत् तदा 'त्वं तद्दण्डयोग्योऽसी'- ति उच्चैः स वाच्यः" |
ताभ्यां मुनिभ्यां गत्वा तथैव निवेदित आचार्य उवाच"भगवान् सङ्घो मैवं कार्षीत् किन्तु अदः करोतु, श्रीसङ्घो मयि प्रसादं कृत्वा मेधाविनः शिष्यान् मम समीपं प्रेषयतु । तेभ्योऽहं सप्त वाचना: प्रदास्यामि । तत्रैकां वाचनां भिक्षाचर्यात आगतोऽहं दास्यामि । तथा तिसृषु कालवेलास्वन्यास्तिस्रो वाचना: प्रदास्यामि । सायाह्नप्रतिक्रमणे सम्पन्नेऽन्यास्तिस्रो वाचना: पुनर्दास्यामि एवं मत्कार्याबाधया सङ्घकार्यं सेत्स्यति । ताभ्यां मुनिभ्यां गत्वा तथोक्ते श्रीसयोऽपि प्रसन्नः स्थूलभद्रादिसाधुपञ्चशतीं तत्र प्रेषयामास ।
सूरिस्तान् मुनीन् प्रति प्रतिज्ञाता वाचना वाचयामास । मुनयोऽल्पा वाचना भवन्तीति तत उद्विज्य स्वस्थानं प्रापुः । स्थूलभद्रस्तु तत्रैव तस्थौ । महामतिः स श्रीभद्रबाहुपादपार्श्वे
परिशिष्टपर्व नवमः सर्गः
१७९
ऽष्टभिर्वर्षैरष्टपूर्वी भृशमपाठीत् । त्वमुद्विग्नः किम् ? इति सूरिणोक्तः स उवाच-“हे भगवन् ! अहं नोद्विजे, किन्तु मम कृते वाचना अल्पा एव भवन्ति” । ततः सूरिरुवाच - " मम ध्यानं सम्पन्नप्रायमस्ति तदन्ते तुभ्यं त्वदिच्छया वाचना: प्रदास्यामि" । ततः स्थूलभद्र उवाच - "हे भगवन् ! ममाऽधीतशेषं सम्प्रति कियदस्ति ?” ततः सूरिरुवाच"सागरबिन्दूपमिता सङ्ख्या वर्तते " । ततो महाप्राणे ध्याने पूर्णे महामुनिः स्थूलभद्रो द्विवस्तूनानि दश पूर्वाणि यावत् समापयामास ।
अथ श्रीभद्रबाहुर्विहारक्रमयोगेन पाटलीपुत्रनगरमागत्य बाह्योद्यानमाश्रयत् । तत्र तस्य यक्षादयोऽपि भगिन्यः साध्व्यः स्थूलभद्रं वन्दितुं समाययुः । ताः श्रीभद्रबाहुं गुरुं वन्दित्वा पप्रच्छुः - "हे प्रभो ! सम्प्रति स्थूलभद्रः क्व वर्तते ?" स लघुदेवकुलेऽधुनाऽस्तीति ताः प्रत्युवाच । ततस्तास्तमभिचेलुः ।
स्थूलभद्रस्ताः समागच्छन्तीर्दृष्ट्वाऽऽश्चर्यदर्शनाय सिंहरूपं विचकार । ता: सिंहरूपं दृष्ट्वा भीता सत्यो गुरुवर्यं श्रीभद्रबाहुमजिज्ञपन्- "हे भगवन् ! सिंहो ज्येष्ठार्थं जग्रास, सोऽद्याऽपि तत्र तिष्ठति । आचार्योऽप्युपयोगात् तद्वृत्तं ज्ञात्वाऽऽदिदेश - "यूयं गच्छत, तं वन्दध्वं तत्र युष्माकं स ज्येष्ठार्यो वर्तते, सिंहो नाऽस्ति" । ततस्ताः पुनस्तत्र ययुस्तत्र स्वरूपस्थं तं दृष्ट्वाऽवन्दन्त ।
ज्येष्ठा च स्थूलभद्रं प्रति स्वकथामुवाच - " श्रीयकोऽस्माभिः सह दीक्षामग्रहीत्, किन्त्वसौ क्षुधित एकभक्तमपि कर्तुं न शक्नोति । समयोक्तोऽद्य पर्युषणायां पौरुषीं प्रत्याख्याहि", स प्रत्याख्यातवान् । पुनर्मया पूर्णेऽवधौ निर्दिष्टः, पूर्वाद्धं प्रत्याख्याहीदं पर्वा - ऽतिदुर्लभम्, इयान् कालश्चैत्यवन्दनादि परिपाट्याऽपि सुखं व्यत्येष्यति तथैवाऽसौ प्रत्यपादि ।

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128