Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 95
________________ १७६ परिशिष्टपर्व- नवमः सर्गः १७७ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततश्च साहसनिधिौर्यवंशसागरचन्द्रः कुणालस्तप्तशलाकया स्वयमेव नेत्रे आजीत् । ततोऽशोकश्रीमहासाहसकारकं तं ज्ञात्वा धिक् कूटलेखकोऽस्मीति स्वं निनिन्द, अचिन्तयच्च-"दुर्दैवाधिष्ठितो हताशयोऽहमस्मि, यतो मे प्रमादलिखितेन कुमारोऽन्धोऽभूत् । अयं बालोऽद्य राज्यं वा मण्डलित्वं नाऽर्हति । यस्य भक्तिर्मयीदृशी तस्येदृशमापतितम् । असौ यौवराज्यं भुक्त्वा राजा भविष्यति, इति मे मनोरथेनाऽधुनाऽलम् । अथ अशोकश्रीः कुणालाय महद्धिकं ग्रामं तत्सापत्नकुमाराय चोज्जयिनी ददौ । परेद्यवि तं ग्रामं भुञ्जानस्य कुणालस्य शरच्छ्रीनाम्न्यां स्त्रियां सम्पूर्णलक्षणः पुत्रोऽभूत् । कुमारो वर्धापिकाभ्यो दासीभ्यः पारितोषिकं दत्त्वा पुत्रजन्मप्रयुक्तं महोत्सवं चकार । लब्ब्या मातुर्मनोरथं वृथैवाऽद्य करोमीति राज्यं लिप्सुः स पाटलीपुत्रनगरं जगाम । तत: स तत्र पुरे गीतविनोदेन स्वेच्छया परिभ्रमन् गान्धर्वेण शास्त्रेण साक्षात् तुम्बुरुरिव पुरजनस्याऽतिप्रियो बभूव । पाटलीपुत्रनगरे यत्र यत्र सोऽगायत् तत्र तत्र पौरा हरिणा इव गीताकृष्टा बभूवुः। पृथिवीपतिर्गान्धर्वेणाऽद्भुतं तं श्रुत्वा सोऽन्ध इति तमाहूय जवनिकान्तरितं कृत्वा गातुमादिदेश । स यथास्थानं मन्द्रमध्यतारैः षड्जादिभिः स्वरै रागं पोषयन्नीदृशं पद्यप्रबन्धमगायत-"चन्द्रगुप्तप्रपौत्रो बिन्दुसारपौत्रोऽशोकश्रीपुत्र एष सुतोऽन्धीभूतः काकिणी मार्गति" । राजाऽन्धेन पद्यप्रबन्धं गीयमानं श्रुत्वाऽपृच्छत्- "हे गायन ! त्वं कोऽसि ?" इति ब्रूहि स उवाच-“हे राजन् ! अहं तवैव कुणालनामा पुत्रोऽस्मि, त्वदाज्ञालेखं दृष्ट्वा यः स्वयमन्धोऽभूत्" । ततो राजा जवनिकां वेगेनाऽपसार्य दृष्ट्वा स्वपुत्रमुपलक्ष्य बाहुभ्यामालिलिङ्ग । स राजोवाच च-“हे वत्स ! अहं त्वयि संतुष्टोऽस्मि, तुभ्यमहं किं ददामि ?" कुमारोऽप्युवाच-“हे राजन् ! अहं काकिणी याचे" । किमेतद् याचितमिति राज्ञि वदति सति मन्त्रिण ऊचु:-"राजपुत्राणां काकिणी राज्यं भण्यते" । राजोवाच"हे वत्स ! त्वं राज्येन किं करिष्यसि ? दैवापहृतनेत्रस्य ते तद्राज्यमन्याधीनं स्यात्" । कुमारोऽपि विज्ञापयामास-“हे पितः ! मम पुत्रो भाग्येन जात: स राज्येऽभिषिच्यताम्" । अशोकनृपः पप्रच्छ-"कदा ते पुत्रोऽजनि" । कुणालोऽपि कृताञ्जलिः सन् प्रोवाच-"राजन् ! सम्प्रत्येव मे पुत्रोऽजनि" । अशोकश्रीस्तदैव तं शिशुमनाययत्; तस्य नाम कृतोत्सवः स सम्प्रतिरिति चकार । अमोघवागशोकश्रीस्तं बालकं स्तनन्धयमपि दशदिनानन्तरं स्वकीयराज्येऽस्थापयत् । आजन्म परमार्हतः सम्प्रतिकुमारो वयसा विक्रमेण लक्ष्म्या च ववृधे । स क्रमेण सदक्षिणं भरतार्द्ध साधयामास । प्रचण्डशासन: स इन्द्रतुल्यो बभूव । * ** इत: कालरात्रिवत् कराले तस्मिन् दुष्काले साधुसड्यो निर्वाहार्थं समुद्रतटं ययौ । तदा साधूनामावृत्तिहीनं शास्त्रं विस्मृतमभूत्; यतो धीमतामपि विनाऽभ्यासेनाऽधीतं नश्यति । अथ सड्यः सर्वो दुष्कालव्यतिगमे पाटलिपुत्रेऽमिलत् । यस्य तदङ्गाध्ययनोदेशादि बभूव स तदाददे । ततस्तदा श्रीसय एकादशाऽङ्गान्यमेलयत् । दृष्टिवादनिमित्तं च किञ्चिद् विचिन्तयन् तस्थौ । तत: सयो

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128