Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
स्थापितो गृहीतसङ्केत इव रोदनाद् व्यरमत् । ततस्तावृषी गुर्वाज्ञापालकौ सुनन्दागृहाद् गृहीतशिशू पुनर्गुरुपार्श्वमाजग्मतुः । ततो गुरुर्महासारस्य तस्य पुत्ररत्नस्य भारेण नमद्भुजं धनगिरिमवलोक्यो - वाच - " त्वं भिक्षाभारेणाऽऽयासित इव वर्तसे, तं ममाऽर्पय, तव भुजो विश्राम्यतु" ।
२००
साधुः श्रीपात्रं तं बालकं कान्त्या सुरकुमारमिव गुरो: समर्पयामास । तेजसामधिपमिव तेजोभिः प्रकाशमानं तं शिशुमाचार्यो हस्ताभ्यां स्वयं जग्राह । सिंहगिरेर्गुरोर्भूपीठं तस्य शिशोरतिभारेण जलं जिघृक्षोरञ्जलिरिवाऽनमत् । तद्भारभङ्गुरहस्तो गुरुः सविस्मय उवाच–“अहो पुरुषरूपधरमिदं वज्रं धर्तुमहं न शक्नोमि, अयं पुरुषो महापुण्यः प्रवचनाधारो भावी यत्नेन रक्षणीयोऽयं यतो रत्नं प्रायेणाऽपायप्रियं भवति" । इति गुरुः पालनाय साध्वीनां पार्श्वे समर्पयामास । तस्य वज्रसारस्य 'वज्र' इति नाम चकार ।
अथाऽऽर्यिका भक्ते शय्यातरकुले गत्वा तं बालं स्वात्मानमिव पालयितुं कथयित्वा ददौ । कुमारभरणनिपुणाः शय्यातर्योऽपि तं बालकं प्रीत्या स्वस्वपुत्राधिकं पश्यन्त्यः पालयाञ्चक्रुः । तासां सौभाग्यनिधनभूः स शिशुः क्रोडात् कोडं कमलात् कमलं हंस इव सञ्चचार । चित्तोल्लासपुरस्सरं तं बालमुल्लापयन्त्यश्च ता हर्षवातुलतां प्रापुः । परस्परं स्पर्धमाना इव च वज्रं सच्चक्रुः ।
बालोऽपि वज्रः संयमाद् वृद्ध इव तासां दुःखजनकं किञ्चिदपि बालचापल्यं नाऽकर्षीत् । प्राणरक्षणार्थं प्रासुकं बुभुजे, यतः स जातिस्मरणसञ्जातविवेक आसीत् । यदा च नीहारादि चिकीर्षाञ्चकार तदा बालधारिषु सदा स्पष्टां चेष्टां चकार । समानं
परिशिष्टपर्व द्वादशः सर्गः
प्रीतिगुणं दर्शयन् वज्रः सर्वेषां शय्यातरकुमाराणां जन्मभूरिवाऽभूत् । ज्ञानोपकरणपाट्याद्यादानेन च स वज्रः प्रतिवासरं बालक्रीडनेनाssयिकाः प्रीणयामास ।
सुनन्दाऽपि शीलवन्तं सुरूपं वज्रमवलोक्य मत्पुत्र इति वादिनी शय्यातरेभ्यो ययाचे । ते “तवाऽस्य बालस्य मातृपुत्रसम्बन्धं वयं न जानीमः किन्त्वसौ गुरूणां न्यासो विद्यत" इत्यूचुः । एवमुक्त्वा शय्यातरास्तस्यै पुत्रं न समर्पयामासुः । सा परधनमिव दूरस्थैव वज्रमपश्यत् । सा महतोपरोधेन तेषामेव गृहे तं पुत्रं दुग्धपानादिना धात्रीव लालयामास ।
***
२०१
इतोऽपि चाचलपुरविषयलक्ष्मीविभूषणे कन्या पूर्णा चेति द्वे नद्यौ प्रसिद्धसंज्ञे स्तः, तयोर्नद्योर्मध्ये केऽपि तापसा न्यवात्सुः तेषां मध्ये एकस्तापसः पादलेपज्ञोऽभवत् । स पादलेपं कृत्वा पादुके परिधाय जलेऽपि स्थल इव पादौ न्यस्य सञ्चचार । एवं च स नित्यं पादुकारूढो जलमार्गेण नगरे जने विस्मयं जनयन् गतागतं चकार । स तापसः श्रावकान् प्रत्येवं प्रजहास - " युष्माकं दर्शनेऽस्माकमिव कस्याऽपि कोऽपि प्रभावो नाऽस्ति" ।
अथैकदा योगसिद्धो महातपा वज्रमातुलः शमिताचार्यस्तत्र विहारक्रमयोगेनाऽऽ जगाम । तत आर्हतास्तस्मा आचार्यवर्याय तापसकृतं महान्तं स्वदर्शनोपहासं कथयामासुः । तदाकर्ण्य श्रुतज्ञाने स्फुरत्यपि मतिबलेन ज्ञात्वा स आचार्य उवाच - "अस्य तपस्विनस्तापसस्य न काऽपि तपः शक्तिः, किन्तु स केनाऽपि प्रयोगेण युष्मान् सर्वान् प्रतारयति । यथा कौतुकावहमकालपुष्पादि दर्श्यते

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128