Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२१८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नदी-पुरां पृथ्वी करामलकवद् ददृशुः । आकाशे मार्गस्थव्यन्तरदेवैर्भक्त्या पूज्यमानः, भक्तैर्कोतिषिकदेवैः प्रदीयमानार्थ्यः, शक्ति सम्पच्चमत्कृतैर्विद्याधरैर्वर्ण्यमानोऽनुकूलेन पवनेन सुहृदेवाऽऽलिड्ग्यमानो महीस्पृशां पटच्छायादर्शिताम्रच्छायासौख्य आकाशस्थोऽप्यनेकशो मार्गचैत्यानि वन्दमानः, पटस्थोऽपि पटस्थेभ्यो धर्मदेशनां कुर्वाणो वर्षिर्महापुरीं नाम पुरीं प्राप । धनकणयुतायां तस्यां नगर्यां सदा सुभिक्षमासीत् ।
__तत्र प्रायेण श्रावको लोक आसीत्, राजा तु बुद्धभक्त आसीत् । तस्यां पुरि जैना बौद्धाश्च परस्परं स्पर्धमाना देवपूजादि चक्रुः । जैनास्तु बौद्धानजैषुः, जैनास्तत्र पुरे यद्यत् पुष्पादिपूजोपकरणं ददृशुस्तत्तदधिकमूल्यं दत्त्वाऽक्रीणन् । तेन बौद्धाः पुष्पादि ग्रहीतुं नाऽशकन् । ततश्च बुद्धमन्दिरेषु पूजाऽल्पीयसी बभूव । ततो लज्जितास्ते बुद्धभक्ता राजानं विज्ञप्य जैनानां सर्वं पुष्पादि निवारयामासुः । ततोऽर्हद्भक्ताः सर्वेषु पुष्पापणेषु बहुमूल्यदानेनाऽपि पुष्पवृन्तान्यपि न प्रापुः ।
ततः पर्युषणापर्वण्युपस्थिते रुदन्तो दीनास्या आर्हता वर्षिमुपतस्थुः । ते श्रावका नेत्रजलैर्महीतलं सिञ्चन्तो वज्रस्वामिनं नत्वा
खेदगद्गदया वाण्या विज्ञपयाञ्चक्रु:-"हे भगवन् ! अर्हच्चैत्येषु प्रतिदिनं पूजादि द्रष्टुमशक्तैबौद्धैर्दुरात्मभिर्भूतैरिव पराभूताः स्मः, बौद्धलोकेन विज्ञप्तो बौद्धो राजाऽस्माकं पुष्पाणि ददतः सर्वान् मालाकारन् न्यवारयत् । हे नाथ ! वयमगस्तिपुष्पाण्यपि न प्राप्नुमः । द्रव्यवन्तोऽपि वयं किं कुर्म: ? राजाज्ञामुल्लङ्घयितुं कः शक्नोति । हहा ! जिनबिम्बानि ग्रामयक्षवत् तुलसीबर्बरीपूजापात्रतां गच्छन्ति, अस्माकं जीवितेनाऽलम् । एते छलेनाऽऽर्हत्सु नाऽरोपयन्त्विति
परिशिष्टपर्व - द्वादशः सर्गः
२१९ शङ्कितैबौद्धैरस्माकं केशवासार्थमपि पुष्पं निषिद्धम् । किं चाऽङ्गुलीरनिशं गणयतामस्माकं दिनश्रेष्ठं पर्युषणापर्वदिनमागच्छत् । अस्मिन् पर्वण्यागतेऽपि वयं यतिवज्जिनानां पूजां पुष्पसम्पत्त्यभावाद् भावेन करिष्यामः । हे स्वामिन् ! त्वयि सत्यपि दुर्बुद्धिभिबौद्धैः पराभूय पराभूय जीवन्मृता इव कृताः स्मः । हे भगवन् ! अभिभूतस्याऽस्य जिनप्रवचनस्य प्रभावनां कृत्वाऽस्मान् सञ्जीवयितुमर्हसि" । ततो भगवान् वज्रस्वामी- "हे श्राद्धा यूयं समाश्वसित, युष्माकं सुतेजसेऽहं यतिष्ये", इत्युक्त्वा गरुड इवाऽऽकाश उत्पपात ।
अथ स्वामी निमेषमात्रेण माहेश्वरीं पुरीं जगाम । एकस्मिन् विस्मयकारक उपवनेऽवातारीत् । तदुद्यानं हुताशननाम्नो देवस्याऽऽसीत् । तत्र य उपवनपालः स धनगिरेः श्रेष्ठिनो मित्रमासीत् । स तडिताख्य आरामिकः प्रभातेऽकस्माद् मेघवृष्टिवदागतं श्रीवनस्वामिनं दृष्ट्वा हर्षेण सद्योऽवादीत्-"तिथिषु धन्येयं तिथिर्यस्यां त्वं ममाऽतिथिरभूः । अहमधुना स्वं धन्यं मन्ये, यतस्त्वयाऽहं स्मृतोऽस्मि । त्वयाऽहं भाग्येन सुस्वप्नवच्चित्ताद् न दूरीकृतः, यस्मात् त्वं ममाऽतिथिरागाः । तव किमातिथ्यं करोमि ?"
ततो वज्रस्वाम्युवाच-“हे उद्यानपालक ! मम पुष्पैः प्रयोजनमस्ति" । तानि त्वं दातुमर्हसि । ततो मालाकार उवाच"भगवन् ! पुष्पग्रहणेन मामनुगृहाण, यतोऽत्र विंशतिः पुष्पलक्षाणां प्रतिदिनं भवति । भगवानादिशत्- "हे उद्यानरक्षक ! तहि पुष्पाणि प्रगुणीकुरु, यावदितो गत्वाऽऽगच्छामः" । एवमुक्त्वा वायुरिवोत्पत्य गगनेन वज्रमुनिः क्षुद्रहिमवगिरि ययौ । सरिद्-वन-गज-किन्नरगह्वरशिखरादिशोभितं तं हिमगिरि स व्योमस्थोऽन्यः सूर्य इवा

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128