Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
२१४
mnnnnnnnnnnnnnn
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एतावताऽप्यहं धन्योऽस्मि, यद् मया वज्रमुनिर्दृष्टः, किं पुनस्तन्मुखादार्हतं धर्ममश्रौषम् ? हे राज्य: ! तब्यमपि वर्षि द्रष्टुमर्हथ शीघ्रं गच्छत, यत ऋषयो वायुवदेकत्र न तिष्ठन्ति" । राज्य ऊचुः-वयं स्वयमपि तं वन्दितुमिच्छामः, यदत्र तवाऽऽज्ञाभूत् तत्तृषितैनंदी प्राप्ता" । ततो राजाज्ञया राज्यो याप्ययानाधिरूढा वज्रस्वामिपादालङ्कृतं बाह्योद्यानवरं जग्मुः।
रुक्मिण्यपि जनोक्तिभिर्वज्रस्वामिनमागतं श्रुत्वा तमेवाऽऽत्मानं योगिनीव चिन्तयन्ती तस्थौ । द्वितीयदिने रुक्मिणी स्वपितरमुवाच-“हे पितः ! यमहं सदा वुवूर्षामि स वज्रस्वामी समागतोऽत्र वर्तते । हे तात ! तन्मां वज्रकुमाराय देहि, अन्यथा मम मरणं शरणम् । इयं मे वाणी शिलालेखेव निश्चलाऽस्ति । यदाभिजात्यसहचरी लज्जां विहायैवं वदामि, तत्राऽयं हेतुर्वज्रोऽयं मम पुण्यैरागतः । प्रायेणाऽयं नेह स्थास्नुः, यद्यद्यैव गच्छति कि ज्ञायते ? कदा पुनरुड्डीनपक्षिवदागच्छति ? हे पितस्तस्मादलं विलम्बेन, वज्राय शीघ्रं देहि चिरकौमारदीनां मां पश्यन् किं न परितप्यसे?
धनोऽप्येवमाग्रहात् सद्यो विवाहयोग्यवस्त्रालङ्कारभूषितां कृत्वा तां रुक्मिणीं वज्रसमीपमनैषीत् । वरयितुर्यथा प्रलोभनं स्यादिति जातधीर्धन: कन्यया सहाऽनेकशः कोटीर्धनानामनैषीत् । तद्दिनाद् गतदिने वजे देशनां कुर्वति सति भक्तिमान् नागरलोकः परस्परमिदमुवाच-"अहो ! वज्रस्य कीदृशं सुस्वरत्वं यदीयदेशनां श्रुत्वाऽऽनन्दमग्नानां जनानां मोक्षावस्थेव जायते । सर्वगुणरत्नसागरस्य श्रीवज्रस्वामिनो यदि गुणानुरूपं रूपं चेद् भवेत् तर्हि किमुच्येत ?
परिशिष्टपर्व - द्वादशः सर्गः यत: नगरप्रवेशे पुरक्षोभशङ्कयाऽऽत्मनो रूपं स्वशक्त्या वज्रर्षिणा संक्षिप्तमेव कृतमासीत्" ।
भगवान् वज्रस्वामी च विपुलेन ज्ञानबलेन तेषां मनोगतं भावं ज्ञात्वा द्वितीयदिनेऽनेकलब्धिना लक्ष्म्यासनतुल्यं सहस्रदलकमलं व्यकरोत् । स्वाभाविकमद्भुतं रूपं कृत्वा तत्कमलोपरि राजहंस इवोपाविशच्च । जनो जितदेवकुमारकं वज्रस्वामिरूपं दृष्ट्वा सङ्गीताभ्यासं कुर्वन्निव शिरांसि कम्पयामास तथोवाच-"वज्रस्वामिनः स्वाभाविक रूपमदो वर्तते, गुणानां रूपस्य चाऽद्य तुल्य: समागमोऽजनि । अहं लोकस्य प्रार्थनीयो मा भूवमिति शङ्कया ह्यस्तनं रूपं पुनः स्वशक्त्या चकार खलु ।
_ विस्मयस्मेरमना राजाऽप्येवमुवाच-"वज्रमुनिः खलु यथेष्टरूपकरणलब्धिर्वर्तते" । वज्रस्वामिनस्तद्रूपं पश्यन् धनश्रेष्ठ्यपि तत्स्वयंवरे साग्रहां स्वपुत्रीं वर्णयामास । स्वार्थं प्रार्थयितुकामस्य धनस्य हृदि अत्युत्ताने जलमिव वज्रस्वामिदेशनार्थो न तस्थौ ।
धनश्रेष्ठी देशनान्ते कृताञ्जलिर्वज्रमुवाच-“हे मानद ! मयि प्रसादं कृत्वेमां मत्पुत्रीं परिणय । क्व भवान् देवस्वरूपः, क्वेयं मानुषकोटिका मत्कन्या, तथाऽपि त्वमेनां स्वीकुरु । यतो महत्सु जनेष्वभ्यर्थना वृथा न भवति । हे वज्रस्वामिन् ! विवाहानन्तरं हस्तमोचनावसरेऽसङ्ख्याता द्रव्यकोटीस्तुभ्यमहं दास्याम्यत इदं भवतु ।
दयापरो वज्रस्वामी तमज्ञं विज्ञायोवाच-"तव द्रव्यकोटीभिरलं, तव कन्यया चाऽलं, यतः स्त्रियो हि विषयास्ते पुनर्विषतुल्या, आपातमात्रमधुराः, परिणामे परमदारुणा भवन्ति । विषया

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128