Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 111
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धार: अथाऽऽचार्या उच्चैःशब्देन नैषेधिकीं चक्रुः । वज्रोऽपि गुरूणां शब्दं श्रुत्वाऽऽसनादुदतिष्ठत्, स्खलितगतिर्गुरुर्यावताऽऽयाति तावता वज्र उपधीन् स्वस्वस्थानेऽस्थापयत् । पुनरभ्येत्य गुरोर्दण्डमग्रहीत् पादौ च ममार्ज, तद्रजोवन्दनेन स्वं भालमुच्चैरवगुण्ठयन् आसनस्थस्य गुरोः प्रासुकजलेन पादौ प्रक्षालयामास, पादोदकं शिरसाऽवन्दत च । २०८ आचार्याश्चिन्तयामासुः- “असौ बालकोऽपि महात्मा श्रुतसमुद्रपारङ्गतो वज्रास्पदीभवन् रक्षणीयः । अस्य बालस्याऽपि प्रभावमजानन्तोऽन्यसाधवो यथाऽवज्ञां न कुर्युस्तथा वयं प्रयतिष्यामहे" । इत्यालोच्याऽऽचार्या रात्रौ शिष्येभ्य ऊचुरिदम् - "वयममुकं ग्रामं यास्यामः अस्माकं स्थितिस्तत्र द्वित्रदिनानि स्यात्" । योगप्रतिपन्नाः साधवो गुरुं विज्ञापयामासुः - "हे भगवन् ! तदाऽस्माकं वाचनाचार्यः को भविष्यति ?” युष्माकं वाचनाचार्यो वज्रो भवितेति गुरुरादिशत् । ते भक्तत्वादविचार्यैव तथा स्वीचक्रुः । अथ ते साधवः प्रातः कृत्यं कायोत्सर्गवाचनाग्रहणादिकं कर्तुं वज्रं निषद्यायामुपावेशयन् । वज्रोऽपि गुर्वाज्ञाऽस्तीति निषद्यायामुपविवेश, साधवस्तस्य गुरोरिव विनयं चक्रुः । अथ वज्रः सर्वेषामपि साधूनामानुपूर्व्या परिस्फुटान् सङ्क्रान्त्या वज्रलेपोपमानालापकान् ददौ । येऽल्पमेधसोऽपि साधवोऽध्येतुमागमंस्ते वज्राद् वाचनामादायाssदाय प्रारेभिरे । वज्रोऽतिजडेष्वप्यमोघवाचनो बभूव । ततः सर्वो गच्छस्तदद्भुतं नवीनं दृष्ट्वा विस्मयं ययौ । साधवः पूर्वमधीतान् सुस्फुटानप्यालापान् संवादार्थं वज्रमपृच्छन् । वज्रोऽपि तथैव तानुवाच । महर्षयो गुरुसंनिधावनेकाभिरपि वाचनाभिर्न यावत् परिशिष्टपर्व द्वादशः सर्गः पेठुस्तावद् वज्रादेकयैव वाचनया पेठुः । ततो विस्मिताः साधवः परस्परमूचुः, यदि गुरुविलम्बते तदा वज्रपार्श्वे श्रुतस्कन्धः शीघ्रं समाप्यते" । मुनयो गुणैर्गुरुभ्योऽप्यधिकं वज्रं मेनिरे, यत एकगुरुदीक्षिते सुगुणे गणो मोदते । २०९ आचार्याश्चिन्तयामासुरेतावद्भिर्दिनैर्वज्रोऽस्मत्परिवारस्य ज्ञातगुणः खलु भावी । अथ यद्यदस्याऽनधीतं तत्तद् वज्रं पाठयामः, यतो निर्मलैर्गुणैः शिष्य उपेत्य पाठनीयतां याति । आचार्या एवं चिन्तयित्वा कथितदिने समाययुः । तत्पादान् मुनयो वज्रेण सह ववन्दिरे । ततो गुरवोऽपृच्छन्- किं युष्माकं स्वाध्यायनिर्वाहो भवति ? साधव ऊचु:- "देव- गुरुप्रसादादिति, सर्वे शिष्या आचार्यान् पुनर्वन्दित्वा विज्ञापयामासुः अस्माकं वाचनाचार्यो भवदादेशेन वज्रोऽभूत् । अस्माभिरज्ञाततद्गुणैर्वज्रश्चिरमवाज्ञायि, इदानीं बालोऽयं भवत्पादा इवाऽस्माकं सन्तोषप्रदोऽस्ति । बालोऽपि गुरुगुणयुत एव गच्छस्य गुरुरस्तु । कुन्दकलिकामात्रोऽपि प्रदीपो गृहं प्रकाशयत्येव । आचार्या ऊचु:- " हे तपोधनाः । किन्त्वसौ बालकोऽपि विद्यावृद्धोऽस्तीति नाऽवमन्तव्यः । वयं ग्राममगमाम, युष्मभ्यमयं बालोऽप्याचार्यत्वेन समर्पितः । अत एव यूयमस्येदृशान् गुणान् जानीथ, अन्यथा वाचनाचार्यपदवीमयं नाऽर्हति यतोऽयं गुर्वदत्तं श्रुतं कर्णश्रुत्या जग्राह; हे संयताः ! अस्य संक्षेपानुष्ठानरूपोत्सारकल्पः कर्तव्यः, तत एष आचार्यपदवीयोग्यो भवेत्" । तत उदारधीर्गुरुः प्रागपठितं श्रुतमर्थयुतं वज्रं शीघ्रमध्यापयामास । साक्षिमात्रीकृतगुरुर्वज्रो गुरुपाठितं श्रुतं दर्पण: प्रतिबिम्बमिव सर्वमनायासेन जग्राह । तदा वज्रस्तथा श्रुतज्ञोऽभूत् यथा तस्य

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128