Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१८०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___पुनः समयेऽभिहितोऽसौ तथैवोक्त:-"इदानीं तिष्ठ अपार्द्धमिति स तथैव चकार । अधुना रात्रिनिकटाऽस्ति सा सुप्तस्य तव सुखं व्यतिगमिष्यति, तस्मात् त्वमभक्तार्थं प्रत्याख्याहीत्युक्त: स तथा चकार ततो निशीथे सम्प्राप्तेऽसौ देव-गुरून् स्मरन् प्रवर्धमानक्षुत्पिपासाभ्यां पीडितो मृत्वा स्वर्गं ययौ । ऋषिघातो मयाऽकारीति विषीदन्ती प्रायश्चित्तार्थं श्रमणसवस्य समीपमागता । सवोऽपीदमुवाच-"त्वया शुद्धभावनयेदमकारि, तस्मात् ते किञ्चिदपि प्रायश्चित्तं न कर्तव्यमस्ति" ।
ततोऽहमित्यवोचम्-"यदि जिनः साक्षाद् वक्ति ततो मे मन:समाधिर्जायते, अन्यथा न । अथ सकलसड्योऽस्मिन् विषये कायोत्सर्गमदात् । ततः शासनदेव्याऽऽगत्योक्तं-"कार्यं ब्रूत, अहं किं करोमि ?" सङ्घोऽप्येवमुवाच-"इमां जिनपार्वं नय" । साऽऽख्यत्-"निर्विघ्नगत्यर्थं कायोत्सर्ग कृत्वा तिष्ठत", इति सङ्घ तत् स्वीकृतवति सति सा मां जिनपार्श्वमनैषीत् । ततो मया भगवान् सीमन्धरः स्वामी वन्दितः ।
ततो जिनो-"भरतादागता निर्दोषेयमस्ति" इत्यवदत् । ततोऽहं छिन्नसंशया सती शासनदेव्या निजावासमानीता । ततः श्रीमान् सीमन्धरस्वामी प्रसन्नः सन् मन्मुखेन श्रीसङ्घाय चत्वार्यध्ययनान्युपायनं प्रेषयामास । तान्यध्ययनानि नाम्ना-"भावना, विमुक्तिः, रतिकल्पं विचित्रचर्या" इति प्रसिद्धानि जिनागमे सन्ति । तानि मयैकया वाचनया धृतानि । उद्गीतानि च तथाख्यानपूर्वकं सङ्घाय । तत्राऽऽद्ये द्वे अध्ययने आचाराङ्गस्य द्वे चूले स्तः । अथ सङ्घनाऽन्ये द्वे अध्ययने दशवैकालिकस्य चूले योजिते", इत्युक्त्वा स्थूलभद्रानुज्ञाता: स्वाश्रयं ता जग्मुः ।
परिशिष्टपर्व - नवमः सर्गः
१८१ ___अयं स्थूलभद्रोऽपि वाचनार्थं गुरुमुपजगाम । गुरुस्तस्मै वाचनां न ददौ । त्वमयोग्योऽसीत्यादिशत् । एष दीक्षादिनादारभ्य स्वापराधान् व्यचिन्तयत् । स चिन्तयित्वाऽपराधं न स्मरामीति गुरुं प्रत्युवाच । पापं कृत्वा न मन्यसे पापं शान्तमिति गुरुरुवाच ।
ततः स्थूलभद्रः सिंहरूपविकरणपापं स्मृत्वा गुरुचरणकमलयोः पपात । अहमेवं पुनर्न करिष्यामीति प्रतिज्ञायेदं मम क्षम्यतामिति गुरुं प्रत्युवाच । पुनर्न करिष्यसि, यदिदं पुनरकार्षीस्तेन वाचनां तुभ्यं न दास्यामीति गुरवोऽवोचन् । तत: स्थूलभद्रो गुरुं सर्वसङ्घनाऽमानयत् । यतः कुपितानां महतां प्रसादने महान्त एव समर्था भवन्ति । ___ अथ सूरिः सङ्घ बभाषे-“यथाऽधुनाऽयं सिंह विचकार तथाऽन्येऽप्यल्पपराक्रमा अतः परं विकरिष्यन्ति । अवशिष्टानि पूर्वाणि मत्पार्श्व एव सन्तु, अन्यशिक्षाकृतेऽपि हि अस्याऽयं दोषदण्डोऽस्तु" । स सङ्घनाऽऽग्रहात् प्रार्थित उपयोगतोऽज्ञासीत्, यत्-"मत्त: शेषपूर्वाणामुच्छेदो न भावीति" । हे स्थूलभद्र ! त्वयाऽन्यस्मै शेषपूर्वाणि न देयानीत्यभिग्राह्य भगवानाचार्यः स्थूलभद्रमवाचयत् ।
अथ महामुनिः स्थूलभद्रः सर्वपूर्वधरो बभूव । तं श्रीभद्रबाहुराचार्यपदे प्रतिष्ठापयामास । श्रीमहावीरनिर्वाणात् सप्तत्युत्तरवर्षशते व्यतीते सति भद्रबाहुस्वाम्यपि समाधिना स्वर्गं ययौ ।
ततः सर्वश्रुतस्कन्धनिधानकोश: श्रीस्थूलभद्रो नीलकमलानां चन्द्र इव जनानां प्रबोधं जनयन् भुवि विजहार ॥ ९ ॥
इति परिशिष्टपर्वणि अशोकश्रीकुणालादिजन्मादिश्रीभद्रबाहुस्वर्गगमनान्तवर्णनात्मकः नवमः सर्गः॥९॥

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128