Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - एकादशः सर्गः
१८७
१८६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः युष्माकमपि कोऽपि किं गुरुर्विराजते ? यतो विश्ववन्दनीयैर्युष्माभिरागतोऽयं वन्द्यते" । तत: सुहस्ती प्रोवाच-“हे श्रेष्ठिन् ! एते महाशया मम गुरवः सन्ति । सदा त्याज्यभक्त-पानादिभिक्षां गृह्णन्ति, यत एत ईदृशभिक्षां भुजते, अन्यथोपवासं कुर्वन्ति । एषां नाम सुगृहीतं, चरणरेणुरपि वन्दनीयोऽस्ति" । भगवान् श्रीसुहस्त्याचार्य एवं महागिरिं स्तुत्वा सर्वांस्तान् प्रतिबोध्य पुनरेव स्वस्थानं ययौ ।
दृढभक्तिः श्रेष्ठ्यपि विशेषतः स्वजनानुवाच-"यदा भिक्षार्थमागतमीदृशं मुनि यूयं पश्यथ तदा त्यज्यमानं भक्त-पानादिकं तस्मै दर्शयित्वा देयं, तत् तद्गृहीतं युष्माकं महाफलं स्यात्" । वसुभूतेस्तद्वचनं तदीयस्वजनैः स्वीकृतम् । महागिरिद्वितीयदिने भिक्षार्थं तेषामेव गृहमगात् । ततस्ते श्रेष्ठिबन्धवो महागिरिमायान्तं दृष्ट्वा तस्मै कल्पमानं दातुमिच्छतस्तथैव कर्तुमारभन्त । महागिरिरुपयोगेन तदशुद्धं ज्ञात्वोचे-त्वया महत्यनेषणाऽकारि, यतस्ते त्वदुपदेशेन मह्यं भिक्षामसज्जयन्" । सुहस्त्याचार्योऽप्यहं पुनरेवं न करिष्यामीति वदन् पादाग्रे लुठन् श्रीमहागिरि क्षमयामास ।
इतश्च सम्प्रतिनामा राजोज्जयिनी नगरी जगाम, यतो राजानः कदाऽपि क्वचित् स्वभूभौ तिष्ठन्ति । अन्यदा महागिरिसुहस्तिनौ जीवन्तस्वामिप्रतिमारथयात्रां द्रष्टुमवन्त्यामाजग्मतुः । तौ सपरिच्छदौ पृथक् पृथगुपाश्रये तस्थतुः, यतस्तयोर्गच्छो विपुलोऽतः एकत्र समावेशो भवितुं नाऽशकत् ? भक्तानां पौराणां मनोमयूरजलदः जीवन्तस्वामिरथः सोत्सवं निःससार । ताभ्यामाचार्यवर्याभ्यां सर्वेण श्रीसङ्घन चाऽनुगम्यमानः स रथो नगर्यामस्खलन् पर्यटति स्म ।
अथ रथे राजकुलद्वारं गते सति राजा सुहस्तिनं गवाक्षस्थितः सन् दूराद् ददर्श, एवं दध्यौ च-अयं मुनिवरो मन्मनःकुमुदचन्द्रः क्वाऽपि दृष्ट इवाऽऽभाति, किन्त्विदं न स्मरामि" । राजैवं विचारयन् मूर्च्छितौ निपपात, तदा 'आः किमेतदिति वदन् परिच्छदोऽधावत् । राजा व्यजनैर्वीज्यमानश्चन्दनैः सिच्यमानो जातिस्मरणं प्राप्योदतिष्ठत् । स जातिस्मरणेन सुहस्तिनं पूर्वजन्मगुरुं ज्ञात्वा तदैवाऽन्यत्प्रयोजनं त्यक्त्वा वन्दितुमगमत् । स आर्यसुहस्तिनं सपञ्चाङ्ग वन्दित्वा जिनधर्मस्य कीदृशं फलमिति पप्रच्छ ।
भगवान् सुहस्ती प्रत्युवाच-"जिनधर्मफलं मोक्षः स्वर्गश्च" । "सामायिकस्य किं फल"मिति राज्ञा पुनः पृष्टेऽव्यक्तस्य सामायिकस्य राज्यादिकं फलमस्त्येवं सुहस्तिनाऽऽचार्येणोक्ते प्रतीतो राजा विश्वाससूचिकां नखाच्छोटनिकां मुहुः कृत्वा "एतदेवं नाऽत्र संशय" इत्युवाच । प्रणम्य पुनः पप्रच्छ च- "यूयं मामुपलक्षयध्वेऽथवा न" । आचार्योऽप्युपयोगेन पूर्वभववृत्तं ज्ञात्वोवाच-“हे राजन् ! अहं त्वां सम्यगुपलक्षये । त्वं पूर्वजन्मकथां शृणु; तथाहि
हे राजन् ! वयं पुरा महागिर्याचार्यैस्सह विहरन्तो गच्छेन सह कौशाम्ब्यामागच्छाम । तत्र वसतेः संकीर्णतयाऽऽवां पृथक् पृथगवस्थितौ, यत आवयोः परिवारो महानासीत् । तत्राऽतिदुर्भिक्षमभूत्, तथाऽपि लोकोऽस्मासु भक्तिमान् भक्तादिकं विशेषतो दातुमारेभे ।
अन्येयुः साधव एकस्य श्रेष्ठिनो गृहे प्रविविशुः । तेषां साधूनां पृष्ठत एको दरिद्रोऽपि प्राविशत् । तत्र ते साधवो मोदकादिभिभिक्षां तस्य पश्यत एव लेभिरे । गृहीतभिक्षाणां साधूनां वसति प्रतिगच्छतां पश्चाद् गच्छन् स दीनोऽब्रवीत्-"मम भोजनं दीयता"मिति ते

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128