Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१९२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
निर्वाहं करिष्यथ । यतो द्रव्यवान् जनः केष्वपि कार्येषु न सीदति" । ते तद्दिनादारभ्य राजादेशादवशिष्टान्न पानादि तादृशेभ्यः साधुभ्यो ददुः । तेऽपि शुद्धं दृष्ट्वा स्वीचक्रुः ।
अथ श्रमणोपासको राजा कान्दविकांस्तथा तैल-घृतदधिविक्रेतॄन् वस्त्रविक्रयकानप्यादिशत् - "साधूनां यत्किञ्चिदुपकारकं भवति तदवश्यं देयं, युष्मभ्यं तन्मूल्यं दास्यामि, यूयमन्यथा न शङ्कध्वम् । ते हृष्टास्तथा कर्तुमारभन्त यतो वणिजां पण्ये विक्रीयमाणे सति महानुत्सवो भवति । आर्यसुहस्ती तद्दोषयुक्तं जानन्नपि प्रबलेन शिष्यानुरागेण लिप्तचित्तः सेहे ।
इत आर्यमहागिरिः सुहस्तिनमुवाच - "त्वमनेषणीयं राजान्नं जानन्नपि किं गृह्णासि ?" सुहस्त्युवाच - "हे भगवन् ! यथा राजा तथा प्रजाः, राजानुवर्तनपराः पौरा इदं ददति" । ततो महागिरिर्मायेयमिति कुपित उवाच - "पापं शान्तं खलु । अतः परं विसम्भोगः किलाऽऽवयोः स्यात्, यतः सामाचारीसमानैः साधुभिः सङ्गतं साधु भवति, सामाचारीविभिन्नस्य तवाऽतः परं मार्गो भिन्नो जातः” । भक्तः सुहस्त्यपि बाल इव भिया कम्पमान आर्यमहागिरिपादान् वन्दित्वा कृताञ्जलिरुवाच - "हे भगवन् ! अहमप्यपराध्यस्मि, मम मिथ्या पापमस्तु । अयमपराधः क्षम्यतामहं पुनरीदृशं न करिष्ये' ।
अथ महागिरिरुवाच - "तव को नाम दोषः ? अथवा पुरा श्रीवीरस्वामिना ह्येतदुक्तं - " मम शिष्यसन्ताने स्थूलभद्रमुनेः परं साधूनां सामाचारी लुप्तप्रकर्षा भविष्यति । स्थूलभद्रमुनेः पश्चादावां तीर्थप्रवर्तक अभूव । त्वया तदिदं स्वामिवचनं सत्यापितम् ।
अथ आर्यमहागिरिरसम्भोगिकल्पं स्थापयित्वा श्रीजीवन्तस्वामिप्रतिमां वन्दित्वाऽवन्त्या निर्जगाम । पूर्वं श्रीमतो महावीरस्य
परिशिष्टपर्व एकादशः सर्गः
१९३
समवसरणे दशार्णभद्रसम्बोधसमये शक्रे समागते यानि गजेन्द्रस्याऽग्रपदानि जातानि तत्र तीर्थ आर्यमहागिरिर्गत्वा तस्थौ । महागिरिस्तस्मिन् गजेन्द्रपदाख्ये महातीर्थेऽनशनेन शरीरं त्यक्त्वा स्वर्गं ययौ । सम्प्रतिराजाऽपि श्रावकव्रतं पालयन् पूर्णायुः सुरत्वं प्राप, क्रमेण स सिद्धिं गमिष्यति ।
अथाऽर्यसुहस्त्यन्यत्र विहृत्य पुनः श्रीजीवन्तस्वामिप्रतिमां वन्दितुमुज्जयिनीं समाययौ । बाह्योद्याने समवससार च । स पुरमध्ये वसतिं याचितुं द्वौ मुनी प्रैषीत् । तौ तु भद्राख्यायाः श्रेष्ठिन्या गृहं जग्मतुः । साऽपि तौ नत्वाऽपृच्छत्-"युवां किमादिशथः" । तावूचतु:-"आवामार्यसुहस्तिनः शिष्यौ स्वः, हे कल्याणि ! तदाज्ञयाऽऽवां निवासं प्रार्थयावहे " । ततः सा विशालां वाजिशालां वसतिमर्पयामास । ततश्च सपरीवारः सुहस्त्याचार्यस्तामलञ्चकार ।
als at als
अन्यदा प्रदोषसमय आचार्यैर्वरं नलिनीगुल्माख्यमध्ययनमावर्तितुमारेभे । तदा देवतुल्यो भद्रापुत्रोऽवन्तिसुकुमालः सप्तभूमिप्रासादे विराजमान आसीत् । स्वर्गाङ्गनासदृशीभिर्द्वात्रिंशत्स्त्रीभिः क्रीडन् स कर्णरसायने तस्मिन्नध्ययने कर्णं ददौ । सम्यक् श्रोतुं च प्रासादादुत्तीर्य शीघ्रं वसतिद्वारमाययौ । मयेदं कुत्राऽनुभूतमिति चिन्तयन् स सञ्जातजातिस्मरण आचार्यसमीपमाययौ, उवाच च-हे भगवन् ! अहं भद्रायाः सुतोऽस्मि, प्रागहं नलिनीगुल्मविमाने देवोऽभवम् । मया नलिनीगुल्मं विमानं जातिस्मृत्या स्मृतम् । अद्य पुनरहं तत्रैव गन्तुं परिविव्रजिषामि । तस्मात् तं विमानं प्रार्थयमानं मां परिव्राजय" ।

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128