Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
नवमः सर्गः अशोकश्री-कुणाल- सम्प्रतीनां वृत्तान्तः
अथ सम्भाव्यं चाणक्यद्रव्यं लिप्सुः सुबन्धुर्बिन्दुसाराच्चाणक्यगृहे वासं ययाचे । राज्ञाऽऽदिष्टः सुबन्धुश्चाणक्यगृहे प्रविष्टस्तालकशतैस्तालितां तां पेटिकां ददर्श अचिन्तयच्च‘“चाणक्यस्याऽत्र पेटायां सर्वस्वं विद्यते, अन्यथा तालकशतेनेदृशी नियन्त्रणा न स्यात् । ततः सुबन्धुः पेटायास्तानि तालकानि कारागृहाकृष्टबन्दी चरणशृङ्खला इवाऽत्रोटयत् । ततः पेटामध्ये तं समुद्गं दृष्ट्वा मनसि चिन्तयामास - "नूनं रत्नकोशोऽयं यस्य रक्षेदृशी वर्तते, स तमपि समुद्गं नालिकेरमिव स्फोटयामास । ततः समुद्गमध्ये लोकोत्तरमहागन्धान् स ददर्श । स गन्धलुब्धो भ्रमर इव सुगन्धीन् गन्धानघ्रात् । विस्मितः शिर उच्चैर्व्यधूनयच्च ।
अथ स तत्राऽक्षराङ्कितं भूर्जमपश्यत् । एतद्रव्यबीजकं स्यादिति स स्वयं वाचयामास । तद्भूर्जपत्रे वक्ष्यमाणविषयो लिखित आसीत्, यथा-“य इमान् गन्धानाघ्राय मुनिचर्यया न तिष्ठेत् स सद्यो यमस्याऽतिथिर्भविष्यति” । एतान्यक्षराणि वाचयित्वा सुबन्धुरतीव व्यषीदत् । अयं चाणक्यस्य प्रयोगोऽन्यथा न भावीति निश्चिक्ये । तथाऽपि सुबन्धुर्भूर्जप्रोक्तार्थविश्वासाय तान् गन्धानाम्राप्य कमपि दिव्याहारमभोजयत् । आघ्रातगन्धे पुरुषे शीघ्रं मृते सति तत्र
परिशिष्टपर्व नवमः सर्गः
१७५
सुबन्धुर्मुनिरिव विषयास्वादं मनसाऽपि नैच्छत् । अभव्य इवाऽविरतो जीविताशया नटितो बन्धुहीनः सुबन्धुर्भुवं व्यहार्षीत् ।
बिन्दुसारस्य पुत्रोऽशोकश्रीनामा बिन्दुसारे मृते पृथ्वीशासको बभूव । अशोकस्याऽपि कुणालनामा पुत्रोऽजनि राजा कुमार भुक्तावज्जयिनीं पुरीं ददौ । स कुणाल उज्जयिन्यां स्थितो राजनियुक्तैः शिशुपालकैः जीवितवत् स पाल्यमानोऽष्टवर्षतोऽधिको बभूव । बालधारका अष्टवर्षाधिको बालो जात इति राज्ञे कथयामासुः । राजाऽपि हृष्टो दध्यावयं कुमारोऽध्यनयोग्यो जात इति । ततो राजा कुमाराय 'प्राकृतं सुखबोधायेति कुमारो अधीयउ' एवं लेखेऽलिखत् । कुमारस्य सपत्नी माता तत्रोपविष्टेमं लेख राजपार्श्वादुपादायाऽवाचयत् । मम पुत्रस्यैव राज्यं स्यात्, न कुणालस्येति अन्यमनस्के राज्ञीदृशं कूटं चकार । सा निष्ठीवनार्दीकृतया नयनाञ्जनशलाकया नेत्रात् कज्जलमाकृष्याऽकारे बिन्दुं ददौ । तेन 'कुमारो अंधीयउ' इत्यक्षरं जातम् ।
अशोकोऽपि प्रमादेन तत्पत्रमवाचितमेव मुद्रयामासोज्जयिन्यां प्राहिणोच्च । पितृनामाङ्कितं तं मुद्रालङ्कृतं लेखं कुमारो हस्ताभ्यामग्रहीत् । मूर्ध्नि च न्यधात् । ततो लेखकात् तं लेखं वाचयामास । लेखको वाचयित्वा विषण्णस्तूष्णीको बभूव । ततश्च कुमारो लेखक उदश्रुनेत्रे लेखार्थं वक्तुमशक्ते लेखकहस्ताल्लेख स्वयमग्रहीत् । दर्शनोत्प्रेक्षणैर्वर्णानपि वाचयितुं शक्तः कुणाल : स्वयं तं लेखं वाचयामास । 'अंधीयउ' इत्यक्षराण्यवलोक्य चिन्तयामास च - "मौर्यवंशे गुर्वाज्ञालयकः कोऽपि नाऽस्ति यद्यहमेव प्रथमं राजाज्ञां लोप्स्यामि तदाऽन्येषामपि तदाज्ञालोपमार्गो मत्कृत एव भविष्यति" ।

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128