Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
यतः कुलीनानामयं क्रमोऽस्ति । विश्वासघातकस्याऽस्य चाणक्यस्य त्वं विश्वासं मा कार्षीः । एष दुरात्मा तव मातुरुदरं खलु व्यदारयत्" । तदैव स बिन्दुसारो धात्रीराहूय तत् पप्रच्छ । ताभिरपि तथैव कथिते स चाणक्यायाऽकुप्यत् ।
१७२
चाणक्यो राजानं कुपितं दृष्ट्वा स्वयमचिन्तयत्- " कृतघ्नेन सुबन्धुना मयि राजाऽन्यथाऽकारि । अयं मयैव प्राक् सचिवपदे न्यवेशि । तन्मम प्रत्युपकाराय, अस्य कुलोचितं युक्तम् । तस्मादासन्नमृत्योर्मे राज्यचिन्तया किम् ? तथाऽप्यहं प्रतिचिकी: स्वबुद्धि प्रयोक्ष्ये । मद्बुद्धिपिशाचिकाग्रस्तः सोऽपि राज्यं मा अश्नुताम् " । इति तस्याऽपकारेण समयोचितं करिष्ये" ।
अथ स उग्रबुद्धिः समुद्गके योगमन्त्राद्यैर्वरगन्धान् संयोज्य लिखिताक्षर भूर्जेन सह प्राक्षिपत् । स सुधीः समुद्गकं जतुना विलिप्य पेटायां निदधौ । तां पेटां तालशतेन तालयामास । तां च गृहसर्वस्वमिव गृहमध्ये संस्थाप्य दीना - ऽनाथपात्रेभ्यो धनं ददौ । ततो नगरसमीपशुष्कगोमयराशिशिरसि समुपविश्य निर्जरोद्यतोऽनशनं चकार ।
ततो बिन्दुसारो यथाविषान्नमृतमातृसमाचारं धात्रीमुखात् ज्ञात्वा पश्चात्तापं कुर्वाणस्तत्राऽऽजगाम । चाणक्यं क्षमयित्वोवाच“हे आर्य ! त्वं मे राज्यं पुनर्वर्तय, अहं तवाऽऽज्ञाकरोऽस्मि" । चाणक्य उवाच- हे राजन् ! अधुनाऽनया प्रार्थनयाऽलम् । अहं शरीरेऽपि निःस्पृहोऽस्मि । त्वया किं मे ?
ततो बिन्दुसारः प्रतिज्ञाया मर्यादाया अचलन्तं सागरमिव चाणक्यं ज्ञात्वा स्वगृहं ययौ । बिन्दुसारो गतमात्रः सुबन्धुमन्त्रिणेऽकुप्यत् ।
परिशिष्टपर्व अष्टमः सर्गः
सुबन्धुरपि शीतार्त इव कम्पमान उवाच - "हे राजन् ! मया सम्यगविज्ञाय चाणक्यो दूषितः । अहं गत्वाऽद्य चाणक्यं क्षमयामि यावत् तावत् तं प्रसीद" । इति सुबन्धुर्गत्वा तं कपटेन क्षमयामास । अचिन्तयच्चाऽयं पुनर्नगरं न गच्छतु । सोऽनेन कुविकल्पेन राजानं विज्ञपयामास -“चाणक्यमहं तदपकारी पूजयिष्यामि " । राज्ञाऽनुज्ञातः सुबन्धुश्चाणक्यस्याऽनशनस्थस्य पूजां कर्तुमारेभे । सुबन्धुरापातसुन्दरां पूजां कृत्वाऽन्यैरलक्षितः करीषमध्ये धूपाग्नि चिक्षेप | पवनविस्तारितेन धूपवह्निना शीघ्रं प्रोद्यज्ज्वाले करीषस्थले सति चाणक्योऽकम्पो दारुवद् दह्यमानस्तत्र पञ्चत्वं प्राप्य देवोऽजनि ॥ ८ ॥
इति परिशिष्टपर्वणि शकटालमरणादि
बिन्दुसारजन्मराज्यान्तर्वर्णनात्मकः अष्टमः सर्गः ॥ ८ ॥
非龍
१७३

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128