Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - अष्टमः सर्गः
१६९
१६८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः आवाभ्यां कुक्षिभरणाय प्रयोक्तव्यः । पुनः पूर्णकुक्षी निश्चिन्तौ गुरुपादानुपास्वहे"।
अथ तौ द्वौ मिलित्वा अदृश्यीभूय तस्मिन्नेव दिने भोजनावसरे चन्द्रगुप्तस्य निकटं जग्मतुः । अदृश्यमानौ तौ मुनी चन्द्रगुप्तपात्रे प्राणप्रियौ बन्धू इव बुभुजाते । एवं प्रतिदिनं भुञ्जानाभ्यां ताभ्यां राजोनोदरत्वेन जितेन्द्रियस्तपस्वीवोदस्थात् । शनैः शनैस्ताभ्यां हृतभोजनश्चन्द्रगुप्तः कृष्णपक्षचन्द्र इव क्षीणो बभूव । तथाऽपि स निजामतृप्ति कमपि नाऽवोचत् । मदवान् हस्तीव नित्यं क्षुत्पीडितोऽप्यस्थात् ।
एकदा सुधीश्चाणक्य एकान्ते तमपृच्छत्-“हे वत्स ! क्षयरोगेणेव किं प्रत्यहं क्षीयमाणस्त्वमसि ? चन्द्रगुप्त उवाच-"मम न्यूनं न परिवेष्यते, किन्तु कोऽपि प्रेत इव मम भोजनमाच्छिनत्ति । मां पूर्णाहारभोजनं तटस्थिता आर्या जानन्ति । अहमर्द्धमपि न भुजे । अत: किञ्चिदप्यहं न जाने । चाणक्य उवाच-"अद्याऽपि त्वं किमेवं मुग्धधीरसि? यदतत्त्वज्ञेन मुमुक्षुणेवाऽऽत्मा चिरं खेदितः, भवत्विदानीमपि त्वं युक्तमाख्यातवान् । तव भोजनलुण्टाकमहं शीघ्रं ग्रहीष्यामि"।
इत्युक्त्वा चाणक्यः प्रातःसमये चन्द्रगुप्तभोजनस्थानभूतले कोमलादपि कोमलं लोष्टचूर्णं न्यक्षिपत् । भोक्तुमुपविष्टे चन्द्रगुप्तनृपे भोक्तुमागतयोस्तयोरदृश्यमानयोस्तत्र सचूर्णे भूतले पदचिह्नानि जातानि । चाणक्यो राज्ञि भुक्तोत्थिते तत्र तयोश्चरणपङ्क्ति दृष्ट्वा मनस्यचिन्तयत्-"कोऽपि भून्यस्तपादः सिद्धाञ्जनो नरोऽदृश्यीभूय स्थालाल्लीलया भोजनं प्रत्यहं हरति" । इति चाणक्यो द्वितीयदिने
भोजनालये भोजनसमये गाढं धूममकारयत् । पूर्ववच्चन्द्रगुप्तेन सहैकत्र स्थाले भुञ्जानयोस्तयोः प्रसरता धूमसमूहेन नेत्राण्यबाष्पायन्त । ततस्तयोरदृश्यीकरणं सर्वं नेत्राञ्जनं बाष्पजलैरतिशीघ्रं पङ्कवद् दूरीबभूव ।
ततस्तौ नेत्राञ्जनरहितौ तत्र भाजने भुञ्जानौ कोपाद् भृकुटिकारिणा नृपलोकेनाऽदर्शिषाताम् । तयोर्यक्कारकृद्वचः कोऽपि चाणक्यभिया नोवाच । परन्तु चाणक्यः प्रवचनोड्डाहभीरुरिदमुवाच-"युवामृषिरूपेण पितरौ परमेश्वरावस्मासु प्रसादं कृत्वा स्वस्थानाय गच्छतम्" । __तयोर्गतयो राजा सविषादमिदमुवाच-"अहमनयोरुच्छिष्टभोजनेन दूषितोऽस्मि" । ततश्चाणक्य उवाच-"राजन् ! स धन्योऽस्ति यो विरक्ताय भिक्षां ददाति । त्वं त्वेकस्थालातिथीभूतमुनिकोऽसि तहि किमुच्यते?" चन्द्रगुप्तमेवं संबोध्याऽऽचार्यपार्श्व गत्वा क्षुल्लान्यायं प्रदर्शयन्नुपालम्भं ददौ ।
आचार्य उवाच-"अनयोः क्षुल्लयोः को दोषः ? यद् भवादृशाः सयपुरुषाः स्वकुक्षिम्भरय: सन्ति" । चाणक्योऽपि तमाचार्य मिथ्यादुष्कृतपूर्वकं वन्दित्वोवाच-"त्वयाऽहं प्रमादी साधु शिक्षितोऽस्मि, अद्याऽरभ्य प्रत्यहं यद्भक्त-पानोपकरणादिकं साधूपकारकं तन्मम गृहे ग्रहीतव्यम्" । इत्यभिग्रहमादाय दृढनिश्चयश्चाणक्यस्तदादि निजगार्हस्थ्यं सफलीकुर्वन् तं पालयामास ।
अथ तस्य पितेव हित: स चाणक्यः पाषण्डिमतभावितं मिथ्यादृष्टिं चन्द्रगुप्तमनुशासितुमारेभे-"यतोऽमी पापा असंयताः

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128