Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः लभते; यद्यहं यं जेष्यामि तत्पादेकं दीनारं ग्रहीष्यामि; इयं मे वाक् शिलारेखावद् निश्चलाऽस्ति" ।
ततश्चाणक्यो जनैः सह दिवानिशं रन्तुं प्रारेभे, कूटपाशकैस्तान् जिगाय च । तथैष धनोपार्जनोपायः सविलम्बः स्वल्पोऽपीत्यन्यमुपायं कर्तुं सर्वान् पौरानाह्वयत् । ततस्तान् भोजयित्वा वरवारुणीमपाययत् । पानगोष्ठ्यामतिबहुलानुच्चतालानवादयच्च । तथा धनोपार्जनदक्षः स हसन-नर्तन-गानादिप्रमत्तचेष्टितमभिनयन्नुवाच-"मम धातुरक्ते द्वे वस्त्रे, त्रिदण्डं स्वर्णकुण्डिका, वशवर्ती राजा च वर्तते, तस्माद् यूयं झुम्बरी वादयत"।
ततश्च कौलिकैझुम्बरीवाद्ये वादिते सति परो मत्तो नागरो हस्तमुत्थाप्योवाच-"योजनसहस्रयाने हस्तिनो यानि पदानि तानि प्रत्येकं सुवर्णसहस्रेणाऽहं पूजयामि" । प्राग्वद् वादितायां झुम्बर्यामन्यो नागरिक उवाच-"तिलानामाढक उप्त उत्पन्ने भृशं फलिते यावन्तस्तिला भवन्ति, तावन्ति मम गृहे स्वर्णसहस्राणि सन्ति, तेषां सङ्ख्या नाऽस्ति । पूर्ववद् वादितायां झुम्बर्यामन्य उवाच-"अहं बहुतरेण जलपूरेण प्रवहन्त्या गिरिनद्याः पयोवेगमेकदिनोत्पन्नेन गोनवनीतेन पालि कृत्वा निरुणध्मि ।
पूर्ववद् वादितझुम्बर्यामन्योऽवदत्-"अहं जात्यनवाश्वबालानामेकदिनोत्पन्नानां समुत्पाटितैः स्कन्धकेशैः पाटलीपुत्रनगरं समन्तत: तरुं तन्तुभिलूंतेव वेष्टयामि" । प्राग्वद् वादितझुम्बर्यामन्य उवाच-"मम गृह एकः शालिभिन्नभिन्नशालिबीजोत्पादकः, अन्यो गर्दभिकाशालिः स पुनर्लन: लूनः पुनः पुनः फलतीत्येतद् रत्नद्वयं मम वर्तते ।
परिशिष्टपर्व - अष्टमः सर्गः
१६७ प्राग्वद् वादितझुम्बर्यामन्यो मदमत्त आह स्म-"मम गृहे सहस्रसङ्ख्यकं द्रव्यमस्ति, अहमनृणोऽस्मि, सुगन्धिश्चाऽस्मि श्रेष्ठ चन्दनलिप्ताङ्गः, मम स्त्री सदाऽधीनाऽस्ति, मम तुल्य: सुखी कोऽपि नाऽस्ति, प्राग्वद् वादितझुम्बयाँ मतिज्ञानमहासमुद्रश्चाणक्य एवं सर्वेषां धनिनां धनमज्ञासीत् । एकयोजनगामिहस्तिपदप्रमितिसुवर्णं तथैकतिलोत्पन्नतिलप्रमिता: स्वर्णसहस्रकाः, प्रतिमासं चैकदिननवनीतभवं घृतम्, एकस्मिन् दिने जाता जात्यकिशोराः, कोष्ठागाराणां भरणप्रमाणा: शालयोऽपि तैः पौरैश्चाणक्याय ददिरे । यतश्चाणक्यस्तेषां मर्मज्ञोऽभूत् । चाणक्यस्तेन धनेन चन्द्रगुप्तं समर्थं चकार यतो राज्ञां धीनिधिः सचिव: कामधेनुर्भवति ।
इतश्च तस्मिन् कराले द्वादशाब्दके दुष्काले चन्द्रगुप्तपुरे सुस्थितनामाऽऽचार्योऽवसत् । अन्नदौलभ्येनाऽनिर्वाहात् स्वगणं सोऽन्यत्र देशे प्राहिणोत्, स तु स्वयं तत्रैव तस्थौ । द्वौ क्षुल्लको [मुनी] पुनः परावृत्य तत्रैवाऽऽजग्मतुः । आचार्यैः किमागताविति पृष्टौ तावुचतु:-"गुरुपादानां वियोगं सोढुमावां न शक्नुवः । तस्माद् व: पार्वे नौ मरण-जीवने शुभे"। आचार्य उवाच-"अत्र युवाभ्यां साधु न कृतं, यतो मुग्धत्वाद् युवामगाधक्लेशसमुद्रे पतिष्यथ:"। इत्युक्त्वा गुरुणाऽनुज्ञातौ तौ भक्त्या गुरुं शुश्रूषमाणौ तच्चरणकमलमिलिन्दौ तत्रैवाऽस्थाताम् ।
ततो दुर्भिक्षप्रभावादल्पलब्धया भिक्षया गुरून् सारयित्वा तौ स्वयं भुञ्जानावत्यसीदताम् । अपूर्यमाणाहारौ बुभुक्षया क्षीयमाणौ तौ मुनी रहसि परस्परं मन्त्रयामासतु:-"गुरुणा गीतार्थमुनीन् प्रति प्रकाश्यमानमदृश्यत्वकारकं दिव्यमञ्जनमश्रौष्व । तस्मादयं प्रयोग

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128