Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - अष्टमः सर्गः
१६३ mnamansamannnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn
१६२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो भ्रमंश्चाणक्यः सायंकाले खगो नीडमिवैकं ग्रामं प्राप । तदा भिक्षार्थे तत्र ग्रामे प्रविष्टः स परिभ्रमन् कस्याश्चिद्दीनाया: वृद्धायाः गृहे ययौ । तदा बालकानामुष्णा रब्बा परिवेषिताऽभूत् । तत्रैको बालकोऽतिबुभुक्षित: करं मध्ये चिक्षेप ।
ततः स्थविरा दग्धाङ्गुलिकं रुदन्तं बालमुवाच-“हे बालक ! चाणक्य इव त्वं किञ्चिदपि न जानासि" | चाणक्यस्तद्वचः श्रुत्वा तद्गृहे प्रविश्य वृद्धां पप्रच्छ-"अस्मिन् बालके कोऽयं चाणक्यदृष्टान्तस्त्वया दत्तः ?" स्थविरोवाच-"आदौ बहिर्देशमसाधयंश्चाणक्योऽल्पमतिर्नन्दपुरं रुन्धन् वैफल्यं प्राप, तथाऽयं बाल: शनैः पार्श्वेष्वभुञ्जानो मध्य एव हस्तं क्षिपन्नुष्णरब्बयाऽङ्गुलिषु दग्धोऽभूत् ।
ततश्चाणक्यः-"अहो ! अस्याः स्त्रिया अपि बुद्धिमत्ता" इति चिन्तयन् हिमवत्कूटं नाम नगरं ययौ । तत्र चाणक्यः पर्वताख्येन राज्ञा सह तत्सहायताकाम्यया मैत्री चकार । अन्यदोवाच च-"हे पर्वतराज ! नन्दराजमुन्मूल्य तद्राज्यं संविभज्याऽऽवां भ्रातराविव गृह्णीव । तत: पर्वतराजस्तद्वचनं स्वीचकार । चाणक्ययुतः स हि केसरीव सन्नद्धोऽभूत् । अथ चाणक्य-चन्द्रगुप्त-पर्वता नन्ददेशं साधयितुं बहिरुपचक्रमिरे । तैरेकं नगरं रुद्धमपि भक्तुं नाऽशकि। चाणक्यो भिक्षुवेषेण भिषार्थं तत्र प्राविशत् । तत्र त्रिदण्डी चाणक्यः पुरमध्ये परिभ्रमन्ननादिकाः सकलाः सप्त मातृदेवता अपश्यत् ।
ततश्चाणक्योऽचिन्तयत्-"इमाः सकला देवता इदं नगरं नूनं रक्षन्ति । अत एतत्पुरं न भज्यते । इमा मातरः कथमुत्थापनीया इति
चाणक्यो यावच्चिन्तयामास तावत् पुररोधनपीडितै गरिकैरपृच्छयत-"हे भगवन्! एतन्नगरं कदा रोधरहितं भविष्यति ? इति ब्रूहि, प्रायो भवादृशाः सर्वं खलु जानन्ति ।
चाणक्य उवाच-"यावदिमा मातर इह सन्ति तावदस्य पुरस्य रोधमुक्तिः कुतः स्यात् ?" ततः पौरा मातृमण्डलं शीघ्रमुत्पाटयामासुः । आर्तस्तथा विशेषतो धूर्तवश्यश्च किं न कुरुते ? तदा चाणक्यदत्तसङ्केतौ चन्द्रगुप्त-पर्वतौ पलायिषाताम् । ते नागराश्चाऽत्यन्तं जहषुः । सागरवेलेव दुर्धरौ तौ पुनः परावृत्त्याऽचिन्तितौ तत्र पुरे प्रविविशतुः ।।
ततश्चाणक्यसहायौ महारथौ तौ द्वावपि तत्पुरं भक्त्वा नन्दनृपदेशं साधयामासतुः । चाणक्यबुद्ध्या महापराक्रमौ तौ सेनाभिः पाटलीपुत्रनगरं परितोऽरुधताम् । नन्दराज: पुण्यक्षयेण क्षीणकोशः क्षीणबलः क्षीणबुद्धिः क्षीणपराक्रमोऽभूत् । यतो यावत् पुण्यं तिष्ठति तावदेवर्द्धयः सन्ति । अनन्तरं चाणक्यसमीपे नासिकागतप्राणो नन्दो जीवितं याचितवान् । कस्य जीवनं न प्रेयः ।
पुनश्चाणक्योऽज्ञापयत्, त्वम् एकेन रथेन निर्याहि, तत्र च स्वेष्टं वस्तु संस्थापयेः । यत एकेन रथेन गच्छतस्ते कोऽपि नोपद्रोता, न च ब्राह्मण इव हन्यसे, अतः समाश्वसिहि, मा भैषीः । तदा नन्दराड् द्वे भार्ये, कन्यामेकां यथाशक्ति वसूनि च रथमारोप्य नगराद् निरगमत् । तदा रथस्था नन्ददुहिता आयान्तं चन्द्रगुप्तं दृष्ट्वा शीघ्रोत्पन्नानुरागा देवीव निनिमेषनेत्राऽभवत् । नन्दनन्दिनी हावभावैश्चन्द्रगुप्तस्य सम्भोगस्वीकृतिं च प्रादादिव ।
नन्दः तां प्राह-हे वत्से ! स्वैरं स्वयंवरा भव । कन्यानां स्वयंवरः प्रशस्यते । हे आयुष्यमति ! तुभ्यं स्वस्ति, रथादुत्तर, मां

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128