Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 87
________________ परिशिष्टपर्व - अष्टमः सर्गः १६१ १६० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नन्दोऽपि चन्द्रगुप्तं ग्रहीतुं वरसादिन आदिशत् । 'यतो राजानो राज्यकाक्षिणं न सहन्ते' । जितशत्रौ नन्दे पुनर्नगरं प्राप्ते सति नागराः स्वस्वसम्पदनुरूपमुत्सवं चक्रुः । तेषां सादिनामेक: सादी चपलेनाऽश्वेनाऽतिनिकटे देशे गच्छतश्चन्द्रगुप्तस्य प्राप्तः । प्रत्युत्पन्नबुद्धिश्चाणक्योऽपि तं सादिनं दूराद् दृष्ट्वा चन्द्रगुप्तायैवमादिशत्,-"पद्मिनीषण्डमण्डितस्याऽस्य सरसो जले क्रीडायामिव मज्जोन्मज्जेश्च मद्वचनेन । अथ धीरश्चन्द्रगुप्तोऽपि साधितजलस्तम्भनविद्य इवाऽगाधेऽपि जले ममज्ज । चाणक्यः स्वयं तु सरस्तटे सुस्थिरासनो निर्ममो योगीव समाधिनाटनं कृत्वाऽस्थात् । अथ पृथ्व्यातोद्यकोणाघातसदृशपादपातशालिना वायुवेगेनाऽश्वेन स नन्दसादी समागमत् । स चाणक्यं पप्रच्छ-“हे भदन्त । त्वयाऽद्य किं कोऽपि नूतनतरयौवनः पुरुषो दृष्टः ? चाणक्यः समाधिभङ्गभीरुत्वाभिनयेनाऽङ्गुलिचेष्ट्या हुं कुर्वं. स्तस्य जलमदर्शयत् । स सादी चन्द्रगुप्तं जलादाक्रष्टुं शीघ्रं जले मतुं नर्तकी चलनीमिव परिहितवस्त्रादिकं मोक्तुमारेभे । अथ चाणक्यस्तस्यैव खड्गं गृहीत्वा निर्दयो जलदेव्या बलीकर्तुमिव तन्मस्तकं चिच्छेद । "आगच्छ वत्स ! आगच्छ वत्स !" इति चाणक्येनोक्ते क्षणाच्चन्द्रगुप्तश्चन्द्रसागराद् इव सरोवराद् निर्ययौ । चाणक्यश्चन्द्रगुप्तं तस्मिन्नश्वे समारोप्योवाच-"यदाऽहं सादिने त्वामाख्यं तदा त्वया किं चिन्तितम् ? चन्द्रगुप्त उवाच-"हे आर्य ! तदा मयैतच्चिन्तितम्-"इदमेव श्रेय आर्यों जानाति न त्वहम्" । चाणक्योऽचिन्तयत्-"अवश्यमयं सर्वदाऽधीनोऽस्ति, अयं यन्तुर्मे भद्रगज इव व्यभिचारी न भवति । गच्छतोस्तयोः पृष्टे यमदूत इवोद्भटोऽन्यो नन्दसादी वायुवेगेनाऽश्वेन पुनराययौ । चाणक्येन तमायान्तं दृष्ट्वा पुनरुक्तश्चन्द्रगुप्तः सरोमध्ये हंस इव निममज्ज । चाणक्यो जलतटस्थं रजकमुवाच-"राजा रजकेभ्यो रुषितः, यदि त्वं न मुमूर्षसि तदा नश्य" । रजकोऽपि तमश्ववारमुदायुधं दूराद् दृष्ट्वा सत्यमेवेति निश्चित्य जीवितप्रियत्वात् पलायिष्ट । वस्त्रक्षालनेऽपि कृतश्रमश्चाणक्यस्तद्वस्त्राणि स्वयं वृहतीक्षालनैः शोधयितुमारेभे । तमायान्तं पूर्ववत् पृच्छन्तं सादिनं कुशाग्रबुद्धिचाणक्यस्तथैव जघान । चाणक्य-चन्द्रगुप्तौ तस्मात् स्थानात् प्रजग्मतुः । गच्छंश्चन्द्रगुप्तो बुभुक्षया क्षामकुक्षिश्चिखिदे । चाणक्यश्चन्द्रगुप्तं ग्रामाद् बहिर्मुक्त्वा ग्रामाभिमुखं भक्तमानेतुं चचाल । यतो ग्रामं विना भक्तं न लभ्यते । स चाणक्यो ग्रामाद् निर्गच्छन्तं तत्कालकृतभोजनं मन्दमन्दपदं तुन्दपरिमार्ज भट्टमपश्यत् । तं स पप्रच्छ तत्र ब्राह्मणस्य पालिर्लगति न वा ? भट्टोऽप्युवाच-"लभत्येव यतो मम सम्प्रति लग्ना" । पुनश्चाणक्यस्तं पप्रच्छ-“हे भट्ट ! त्वया किं भुक्तम् ?" स उवाच-"सरसदना कृतशालिकरम्बकं भुक्तम्"। चाणक्योऽचिन्तयत्-"ग्रामे भक्तार्थं भ्रमता मम विलम्बः स्यात्, तत्कथं मां विना चन्द्रगुप्तो भविष्यति ? एकाकी चन्द्रगुप्तो दुर्वारविक्रमैनन्दसादिभिः श्वभिः सूकर इव ग्रहीष्यते । यदि चन्द्रगुप्तकुमारो नन्दसादिभिर्गृह्येत मम तदा मनोरथः स्वप्नराज्यतुल्यो भवेत् । तस्मादस्य भट्टस्योदरात् करम्बकमाकृष्य चन्द्रगुप्ताय ददामि । तस्य प्राणा यथा तथा रक्षणीयाः सन्ति" । इति विचिन्त्य चाणक्यस्तस्य भट्टस्योदरं विदारयामास । चाणक्योऽपि पात्रादिव भट्टोदरात् करम्बं सद्यः स्वयमाकृष्य चन्द्रगुप्तमभोजयत् ।

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128