Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 07
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
परिशिष्टपर्व - अष्टमः सर्गः
१५७ mmannmannmannanamannamannannnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
चाणक्य-चन्द्रगुप्तयोवृत्तान्तः इतश्च गोल्लदेशे चणकनामनि ग्रामे चणी नाम ब्राह्मणो बभूव । तद्भार्या च चणेश्वरी । चणी जन्मप्रभृति कुशल श्रावकोऽभूत् । तद्गृहे ज्ञानिनो जैनमुनयो न्यवात्सुः ।
अन्यदा चणेश्वर्या उद्गतदन्तः पुत्रोऽजनि । तं पुत्रं चणी तेभ्यो मुनिभ्यो नमोऽकारयत् । चणी तं जातदन्तं जातं सुतं मुनिभ्योऽकथयत् । ज्ञानिमुनयोऽप्येष बालको राजा भावीत्युवाच । चणी मत्पुत्रो राज्यारम्भेण नरकभाङ् मा भूदिति तस्य पीडामगणयन् दन्तानघर्षयत्, स तदपि मुनिभ्योऽकथयत् । मुनयोऽप्येवं बभाषिरे"एष दन्तघर्षणाद् राजानं स्वाज्ञावशंवदं करिष्यति" । चणी तस्य 'चाणक्य इति नाम चकार । चाणक्योऽपि सर्वविद्यापारङ्गतः श्रावको बभूव । स श्रमणोपासकत्वेन सदा सन्तोषधन एकस्य कुलीनस्य ब्राह्मणस्य कन्यां पर्यणैषीत् ।।
अन्येधुश्चाणक्यस्य पत्नी मातृगृहं ययौ । तत्र तदा तद्भ्रातुविवाहोत्सवोऽभूत् । तस्मिन् महोत्सवे तस्या अन्या भगिन्य आययुः । ता वस्त्रा-ऽलङ्कारवत्यो महाधनिकस्वामिका आसन् । ताः सर्वा अद्भुतवाहनाः दासीभिः समन्विता: शोभनच्छवाडम्बरा माल्यभूषितमौलिका आगता आसन् । ताः सर्वा दिव्याङ्गरागिण्यस्ताम्बूलकरा: श्रियो देव्या वैक्रिया मूर्तय इवाऽऽसन् । चाणक्यस्त्री तु दिने रात्रौ चैकस्थूलवस्त्रा, विशुद्धशुद्धकाष्ठहारालङ्कारा, जीर्णकञ्चुका, जीर्णकौसुम्भोत्तरीया, ताम्बूलरहितमुखी, वपुर्मलैकसञ्जाताङ्गरागा, त्रपुकुण्डला, कर्मणा कर्कशकरी, सदा मलिनकेशी ताभिर्धनिक परिणीताभिर्भगिनीभिरुपाहस्यत । विवाहोत्सवं द्रष्टुमागतः सर्वोऽपि
जनस्तामुपजहास । सा तु लज्जमाना कोणप्रविष्टा विवाहोत्सवमपि न ददर्श ।
अथ सा विषण्णवदना साजनैरश्रुभिर्भूमि तिलकयन्ती चाणक्यगृहे गता । चाणक्योऽपि तां प्रात:कैरविणीमिव म्लानमुखीं दृष्ट्वा तदुःखदुःखी मधुराक्षरमुवाच-“हे प्रिये ! तव कि मत्कृतोऽपराधोऽथवा प्रतिवेश्मिकृतोऽपराधो यद् वा पितृगृहकृतोऽपराधो यदेवं विषीदसि ?" यद्यपि साऽपमानदुःखिता कथयितुमसमर्थाऽऽसीत् । तथाऽपि पत्याग्रहवशात् तदुवाच। विज्ञातस्त्रीदुःखहेतुचाणक्योऽपि द्रव्यमुपार्जयितुं निरपायमुपायं व्यचिन्तयत् । पाटलीपुत्रनगरे नन्दराजो ब्राह्मणानां विशिष्टां दक्षिणां ददाति । ततोऽहं तत्र तदर्थं यामि, इति निश्चित्य स तत्राऽगमत् ।
तत्र राजसद्मन्यग्रे दत्तेष्वासनेषु प्रथमासने स उपाविशत् । चाणक्येन तदासनमाक्रान्तं यस्मिन्नासने राजैव प्रत्यहं सदोपविशन्नासीत् । यतस्तद् भद्रासनमासीत् । तदा नन्दनृपेण सहाऽऽगतो नन्दराजपुत्र उवाच-एष ब्राह्मणो राज्ञः प्रभावमाक्रम्योपविवेश । ततो राज्ञ एकया दास्या सामपूर्वकमूचे-“हे द्विज ! अस्मिन् द्वितीयासने त्वमुपविश" । स "मम कमण्डलुरत्र स्थास्यति" इत्युक्त्वा तत्र कमण्डलुं न्यधात् । एवं दण्डेन तृतीयं, जपमालया चतुर्थम्, उपवीतेन पञ्चमं चाऽसनमुत्थाप्यमानः स रुरोध । ततो दास्युवाचअयं विशेषो धृष्ट आद्यमासनं न मुञ्चति, अन्यान्यासनानि स रुणद्धि, तत् किमेतेन धृष्टेन वातुलेन ब्राह्मणेन ? इति सा चाणक्यं पादेनाऽऽहत्योत्थापयामास ।
चाणक्यस्तत्क्षणाद् दण्डस्पृष्ट उरग इव रुष्टः पश्यतः सर्वलोकस्य समक्षमिमां प्रतिज्ञां प्रकार-"अहं सकोश-भूत्यं

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128